अध्याय 1
वल्ली 3
ऋतं पिबंतौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे।
छायातपौ ब्रह्मविदो वदंति पंचाग्नयो ये च त्रिणाचिकेताः ॥1॥
यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्।
अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥2॥
आत्मानं रथिनं-विँद्धि शरीरं रथमेव तु।
बुद्धिं तु सारथिं-विँद्धि मनः प्रग्रहमेव च ॥3॥
इंद्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्।
आत्मेंद्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥4॥
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा
तस्येंद्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥5॥
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा
तस्येंद्रियाणि वश्यानि सदश्वा इव सारथेः ॥6॥
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥7॥
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः।
स तु तत्पदमाप्नोति यस्माद् भूयो न जायते ॥8॥
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥9॥
इंद्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥10॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥11॥
एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥12॥
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि।
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छांत आत्मनि ॥13॥
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदंति ॥14॥
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगंधवच्च यत्।
अनाद्यनंतं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥15॥
नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम्।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥16॥
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि।
प्रयतः श्राद्धकाले वा तदानंत्याय कल्पते।
तदानंत्याय कल्पत इति ॥17॥