अध्याय 2
वल्ली 2
पुरमेकादशद्वारमजस्यावक्रचेतसः।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते। एतद्वै तत् ॥ ॥1॥
हंसः शुचिषद्वसुरांतरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥ ॥2॥
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति।
मध्ये वामनमासीनं-विँश्वे देवा उपासते ॥ ॥3॥
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते। एतद्वै तत् ॥ ॥4॥
न प्राणेन नापानेन मर्त्यो जीवति कश्चन।
इतरेण तु जीवंति यस्मिन्नेतावुपाश्रितौ ॥ ॥5॥
हंत त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्।
यथा च मरणं प्राप्य आत्मा भवति गौतम ॥ ॥6॥
योनिमन्ये प्रपद्यंते शरीरत्वाय देहिनः।
स्थाणुमन्येऽनुसंयंँति यथाकर्म यथाश्रुतम् ॥ ॥7॥
य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः।
तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते।
तस्मिंल्लोँकाः श्रिताः सर्वे तदु नात्येति कश्चन। एतद्वै तत् ॥ ॥8॥
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव।
एकस्तथा सर्वभूतांतरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ॥9॥
वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव।
एकस्तथा सर्वभूतांतरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥ ॥10॥
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बह्यिदोषैः।
एकस्तथा सर्वभूतांतरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ॥11॥
एको वशी सर्वभूतांतरात्मा एकं रूपं बहुधा यः करोति।
तमात्मस्थं-येँऽनुपश्यंति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ ॥12॥
नित्योऽनित्यानां चेतनश्चेतनानामेको बहूनां-योँ विदधाति कामान्।
तमात्मस्थं-येँऽनुपश्यंति धीरास्तेषां शांतिः शाश्वती नेतरेषाम् ॥ ॥13॥
तदेतदिति मन्यंतेऽनिर्देश्यं परमं सुखम्।
कथं नु तद्विजानीयां किमु भाति विभाति वा ॥ ॥14॥
न तत्र सूर्यो भाति न चंद्रतारकं नेमा विद्युतो भांति कुतोऽयमग्निः।
तमेव भांतमनुभाति सर्वं तस्य भासा सर्वमिदं-विँभाति ॥ ॥15॥