View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

कठोपनिषद् - अध्याय 1, वल्ली 3

अध्याय 1
वल्ली 3

ऋत-म्पिबन्तौ सुकृतस्य लोके गुहा-म्प्रविष्टौ परमे परार्धे।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥ ॥1॥

य-स्सेतुरीजानानामक्षर-म्ब्रह्म यत्परम्‌।
अभय-न्तितीर्​षता-म्पार-न्नाचिकेतं शकेमहि ॥ ॥2॥

आत्मानं रथिनं-विँद्धि शरीरं रथमेव तु।
बुद्धि-न्तु सारथिं-विँद्धि मनः प्रग्रहमेव च ॥ ॥3॥

इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्‌।
आत्मेन्द्रियमनोयुक्त-म्भोक्तेत्याहुर्मनीषिणः ॥ ॥4॥

यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ॥5॥

यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ॥6॥

यस्त्वविज्ञानवान्भवत्यमनस्क-स्सदा-ऽशुचिः।
न स तत्पदमाप्नोति संसार-ञ्चाधिगच्छति ॥ ॥7॥

यस्तु विज्ञानवान्भवति समनस्क-स्सदा शुचिः।
स तु तत्पदमाप्नोति यस्माद् भूयो न जायते ॥ ॥8॥

विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः।
सो-ऽध्वनः पारमाप्नोति तद्विष्णोः परम-म्पदम्‌ ॥ ॥9॥

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च पर-म्मनः।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ ॥10॥

महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
पुरुषान्न पर-ङ्किञ्चित्सा काष्ठा सा परा गतिः ॥ ॥11॥

एष सर्वेषु भूतेषु गूढो-ऽऽत्मा न प्रकाशते।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्​शिभिः ॥ ॥12॥

यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि।
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥ ॥13॥

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।
क्षुरस्य धारा निशिता दुरत्यया दुर्ग-म्पथस्तत्कवयो वदन्ति ॥ ॥14॥

अशब्दमस्पर्​शमरूपमव्यय-न्तथा-ऽरस-न्नित्यमगन्धवच्च यत्‌।
अनाद्यनन्त-म्महतः पर-न्ध्रुव-न्निचाय्य तन्मृत्युमुखात्‌ प्रमुच्यते ॥ ॥15॥

नाचिकेतमुपाख्यान-म्मृत्युप्रोक्तं सनातनम्‌।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ ॥16॥

य इम-म्परम-ङ्गुह्यं श्रावयेद्‌ ब्रह्मसंसदि।
प्रयत-श्श्राद्धकाले वा तदानन्त्याय कल्पते।
तदानन्त्याय कल्पत इति ॥ ॥17॥




Browse Related Categories: