View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री महान्यासम् - 6.2. आत्मरक्षा

(तै. ब्रा. 2.3.11.1 - तै. ब्रा. 2.3.11.4)
ब्रह्मा᳚त्म॒न् वद॑सृजत । तद॑कामयत । समा॒त्मना॑ पद्ये॒येति॑ ।
आत्म॒न्ना-त्म॒न्नित्या-मं॑त्रयत । तस्मै॑ दश॒मग्ं हू॒तः प्रत्य॑शृणोत् ।
स दश॑हूतोऽभवत् । दश॑हूतो ह॒वै नामै॒षः । तं-वाँ ए॒तं दश॑हूत॒ग्ं॒ संत᳚म् ।
दश॑हो॒तेत्या च॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 1

आत्म॒न्ना-त्म॒न्नित्या-मं॑त्रयत । तस्मै॑ सप्त॒मग्ं हू॒तः प्रत्य॑शृणोत् ।
स स॒प्तहू॑तोऽभवत् । स॒प्तहू॑तो ह॒वै नामै॒षः । तं-वाँ ए॒तग्ं स॒प्तहू॑त॒ग्ं॒ संत᳚म् । स॒प्तहो॒तेत्या च॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 2

आत्म॒न्ना-त्म॒न्नित्या-मं॑त्रयत । तस्मै॑ ष॒ष्ठग्ं हू॒तः प्रत्य॑शृणोत् ।
स षड्ढू॑तोऽभवत् । षड्ढू॑तो ह॒वै नामै॒षः । तं-वाँ ए॒तग्ं षड्ढू॑त॒ग्ं॒ संत᳚म् ।
षड्ढो॒तेत्या च॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 3

आत्म॒न्ना-त्म॒न्नित्या-मं॑त्रयत । तस्मै॑ पंच॒मग्ं हू॒तः प्रत्य॑शृणोत् ।
स पंच॑हूतोऽभवत् । पंच॑हूतो ह॒वै नामै॒षः । तं-वाँ ए॒तं पंच॑हूत॒ग्ं॒ संत᳚म् । पंच॑हो॒तेत्या च॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 4

आत्म॒न्ना-त्म॒न्नित्या-मं॑त्रयत । तस्मै॑ चतु॒र्थग्ं हू॒तः प्रत्य॑शृणोत् ।
स चतु॑र्​हूतोऽभवत् । चतु॑र्​हूतो ह॒वै नामै॒षः । तं-वाँ ए॒तं चतु॑र्​हूत॒ग्ं॒
संत᳚म् । चतु॑र्​हो॒तेत्या च॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 5

तम॑ब्रवीत् । त्वं-वैँ मे॒ नेदि॑ष्ठग्ं हू॒तः प्रत्य॑श्रौषीः ।
त्वयै॑ नानाख्या॒तार॒ इति॑ । तस्मा॒न्नुहै॑ना॒ग्ग्॒-श्च॑तु र्​होतार॒ इत्याच॑क्षते ।
तस्मा᳚च्छुश्रू॒षुः पु॒त्राणा॒ग्ं॒ हृद्य॑तमः । नेदि॑ष्ठो॒ हृद्य॑तमः ।
नेदि॑ष्ठो॒ ब्रह्म॑णो भवति । य ए॒वं-वेँद॑ ॥ 6 (आत्मने॒ नमः॑)

------------इति चतुर्थ न्यासः------------
गुह्यादि मस्तकांत षडंगन्यासः चतुर्थः




Browse Related Categories: