पार्वत्युवाच
नमस्तेऽस्तु त्रयीनाथ परमानंदकारक ।
कवचं दक्षिणामूर्तेः कृपया वद मे प्रभो ॥ 1 ॥
ईश्वर उवाच
वक्ष्येऽहं देवदेवेशि दक्षिणामूर्तिरव्ययम् ।
कवचं सर्वपापघ्नं वेदांतज्ञानगोचरम् ॥ 2 ॥
अणिमादि महासिद्धिविधानचतुरं शुभम् ।
वेदशास्त्रपुराणानि कविता तर्क एव च ॥ 3 ॥
बहुधा देवि जायंते कवचस्य प्रभावतः ।
ऋषिर्ब्रह्मा समुद्दिष्टश्छंदोऽनुष्टुबुदाहृतम् ॥ 4 ॥
देवता दक्षिणामूर्तिः परमात्मा सदाशिवः ।
बीजं वेदादिकं चैव स्वाहा शक्तिरुदाहृता ।
सर्वज्ञत्वेऽपि देवेशि विनियोगं प्रचक्षते ॥ 5 ॥
ध्यानम्
अद्वंद्वनेत्रममलेंदुकलावतंसं
हंसावलंबित समान जटाकलापम् ।
आनीलकंठमुपकंठमुनिप्रवीरान्
अध्यापयंतमवलोकय लोकनाथम् ॥
कवचम्
ओम् । शिरो मे दक्षिणामूर्तिरव्यात् फालं महेश्वरः ।
दृशौ पातु महादेवः श्रवणे चंद्रशेखरः ॥ 1 ॥
कपोलौ पातु मे रुद्रो नासां पातु जगद्गुरुः ।
मुखं गौरीपतिः पातु रसनां वेदरूपधृत् ॥ 2 ॥
दशनां त्रिपुरध्वंसी चोष्ठं पन्नगभूषणः ।
अधरं पातु विश्वात्मा हनू पातु जगन्मयः ॥ 3 ॥
चुबुकं देवदेवस्तु पातु कंठं जटाधरः ।
स्कंधौ मे पातु शुद्धात्मा करौ पातु यमांतकः ॥ 4 ॥
कुचाग्रं करमध्यं च नखरान् शंकरः स्वयम् ।
हृन्मे पशुपतिः पातु पार्श्वे परमपूरुषः ॥ 5 ॥
मध्यमं पातु शर्वो मे नाभिं नारायणप्रियः ।
कटिं पातु जगद्भर्ता सक्थिनी च मृडः स्वयम् ॥ 6 ॥
कृत्तिवासाः स्वयं गुह्यामूरू पातु पिनाकधृत् ।
जानुनी त्र्यंबकः पातु जंघे पातु सदाशिवः ॥ 7 ॥
स्मरारिः पातु मे पादौ पातु सर्वांगमीश्वरः ।
इतीदं कवचं देवि परमानंददायकम् ॥ 8 ॥
ज्ञानवागर्थदं वीर्यमणिमादिविभूतिदम् ।
आयुरारोग्यमैश्वर्यमपमृत्युभयापहम् ॥ 9 ॥
प्रातः काले शुचिर्भूत्वा त्रिवारं सर्वदा जपेत् ।
नित्यं पूजासमायुक्तः संवत्सरमतंद्रितः ॥ 10 ॥
जपेत् त्रिसंध्यं यो विद्वान् वेदशास्त्रार्थपारगः ।
गद्यपद्यैस्तथा चापि नाटकाः स्वयमेव हि ।
निर्गच्छंति मुखांभोजात्सत्यमेतन्न संशयः ॥ 11 ॥
इति रुद्रयामले उमामहेश्वरसंवादे श्री दक्षिणामूर्ति कवचम् ॥