View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

शिवानंद लहरि

कलाभ्यां चूडालंकृत-शशिकलाभ्यां निजतपः-
-फलाभ्यां भक्तेषु प्रकटित-फलाभ्यां भवतु मे ।
शिवाभ्या-मस्तोक-त्रिभुवन-शिवाभ्यां हृदि पुन-
-र्भवाभ्या-मानंद-स्फुरदनुभवाभ्यां नतिरियम् ॥ 1 ॥

गलंती शंभो त्वच्चरित-सरितः किल्बिषरजो
दलंती धीकुल्या-सरणिषु पतंती विजयताम् ।
दिशंती संसार-भ्रमण-परितापोपशमनं
वसंती मच्चेतोह्रदभुवि शिवानंदलहरी ॥ 2 ॥

त्रयीवेद्यं हृद्यं त्रिपुर-हरमाद्यं त्रिनयनं
जटाभारोदारं चलदुरगहारं मृगधरम् ।
महादेवं देवं मयि सदयभावं पशुपतिं
चिदालंबं सांबं शिवमति-विडंबं हृदि भजे ॥ 3 ॥

सहस्रं वर्तंते जगति विबुधाः क्षुद्रफलदा
न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् ।
हरि-ब्रह्मादीना-मपि निकट-भाजामसुलभं
चिरं याचे शंभो शिव तव पदांभोज-भजनम् ॥ 4 ॥

स्मृतौ शास्त्रे वैद्ये शकुन-कविता-गानफणितौ
पुराणे मंत्रे वा स्तुति-नटन-हास्येष्वचतुरः ।
कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥ 5 ॥

घटो वा मृत्पिंडो-ऽप्यणुरपि च धूमोऽग्निरचलः
पटो वा तंतुर्वा परिहरति किं घोरशमनम् ।
वृथा कंठक्षोभं वहसि तरसा तर्कवचसा
पदांभोजं शंभोर्भज परमसौख्यं व्रज सुधीः ॥ 6 ॥

मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ
करौ चाभ्यर्चायां श्रुतिरपि कथा कर्णनविधौ ।
तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे [बुद्धिः नयनयुगलं]
पर-ग्रंथान्कैर्वा परमशिव जाने परमतः ॥ 7 ॥

यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि- [मणिः जले]
-र्जले पैष्टे क्षीरं भवति मृगतृष्णा-सु सलिलम् ।
तथा देवभ्रांत्या भजति भवदन्यं जडजनो
महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ 8 ॥

गभीरे कासारे विशति विजने घोरविपिने
विशाले शैले च भ्रमति कुसुमार्थं जडमतिः ।
समर्प्यैकं चेतः सरसिजमु-मानाथ भवते
सुखे-नावस्थातुं जन इह न जानाति किमहो ॥ 9 ॥

नरत्वं देवत्वं नगवन-मृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् ।
सदा त्वत्पादाब्ज-स्मरण-परमानंदलहरी-
-विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ 10 ॥

वटुर्वा गेही वा यतिरपि जटी वा तदितरो
नरो वा यः कश्चिद्भवतु भव किं तेन भवति ।
यदीयं हृत्पद्मं यदि भवदधीनं पशुपते
तदीयस्त्वं शंभो भवसि भवभारं च वहसि ॥ 11 ॥

गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।
सदा यस्यैवांतः-करणमपि शंभो तव पदे
स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ 12 ॥

असारे संसारे निज-भजनदूरे जडधिया
भ्रमंतं मामंधं परमकृपया पातुमुचितम् ।
मदन्यः को दीनस्तव कृपण-रक्षातिनिपुण- [रक्षातिनिपुणः त्वदन्यः]
-स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ 13 ॥

प्रभुस्त्वं दीनानां खलु परमबंधुः पशुपते
प्रमुख्योऽहं तेषामपि किमुत बंधुत्वमनयोः ।
त्वयैव क्षंतव्याः शिव मदपराधाश्च सकलाः
प्रयत्ना-त्कर्तव्यं मदवनमियं बंधुसरणिः ॥ 14 ॥

उपेक्षा नो चेत्किं न हरसि भवद्ध्यान-विमुखां
दुराशा-भूयिष्ठां विधिलिपि-मशक्तो यदि भवान् ।
शिरस्तद्वैधात्रं ननखलु सुवृत्तं पशुपते
कथं वा निर्यत्नं करनख-मुखेनैव लुलितम् ॥ 15 ॥

विरिंचि-र्दीर्घायु-र्भवतु भवता तत्परशिर- [तत्परशिरः चतुष्कं]
-श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ।
विचारः को वा मां विशद कृपया पाति शिव ते
कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ 16 ॥

फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो
प्रसन्नेऽपि स्वामिन् भवदमल-पादाब्ज-युगलम् ।
कथं पश्येयं मां स्थगयति नमः संभ्रमजुषां
निलिंपानां श्रेणि-र्निज-कनक-माणिक्य-मकुटैः ॥ 17 ॥

त्वमेको लोकानां परमफलदो दिव्यपदवीं
वहंतस्त्वन्मूलां पुनरपि भजंते हरिमुखाः ।
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
कदा वा मद्रक्षां वहसि करुणा-पूरितदृशा ॥ 18 ॥

दुराशा-भूयिष्ठे दुरधिप-गृहद्वार-घटके
दुरंते संसारे दुरितनिलये दुःखजनके ।
मदायासं किं न व्यपनयसि कस्योप-कृतये
वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥ 19 ॥

सदा मोहाटव्यां चरति युवतीनां कुचगिरौ
नटत्याशा-शाखा-स्वटति झटिति स्वैरमभितः ।
कपालिन् भिक्षो मे हृदय-कपिमत्यंत-चपलं
दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥ 20 ॥

धृति-स्तंभाधारां दृढ-गुण-निबद्धां सगमनां
विचित्रां पद्माढ्यां प्रतिदिवस-सन्मार्ग-घटिताम् ।
स्मरारे मच्चेतः-स्फुट-पटकुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो ॥ 21 ॥

प्रलोभाद्यैरर्थाहरण-परतंत्रो धनिगृहे [प्रलोभाद्यैः अर्थाहरण-परतंत्रो]
प्रवेशोद्युक्तः सन् भ्रमति बहुधा तस्करपते ।
इमं चेतश्चोरं कथमिह सहे शंकर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ 22 ॥

करोमि त्वत्पूजां सपदि सुखदो मे भव विभो
विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति ।
पुनश्च त्वां द्रष्टुं दिवि भुवि वहन्पक्षि-मृगता-
-मदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो ॥ 23 ॥

कदा वा कैलासे कनकमणिसौधे सह गणै- [सह गणैः वसन्]
-र्वसन् शंभोरग्रे स्फुट-घटित-मूर्धांजलिपुटः ।
विभो सांब स्वामि-न्परमशिव पाहीति निगद-
-न्विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ॥ 24 ॥

स्तवै-र्ब्रह्मादीनां जयजय-वचोभिर्नियमिनां
गणानां केलीभिर्मदकलमहोक्षस्य ककुदि । [केलीभिः मदकल-महोक्षस्य]
स्थितं नीलग्रीवं त्रिनयन-मुमाश्लिष्ट-वपुषं
कदा त्वां पश्येयं करधृत-मृगं खंड-परशुम् ॥ 25 ॥

कदा वा त्वां दृष्ट्वा गिरिश तव भव्यांघ्रि युगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।
समा श्लिष्या घ्राय स्फुट जलज गंधान् परिमला-
-नलाभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ 26 ॥ [ब्रह्माद्यैः मुद-मनुभविष्यामि]

करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ
गृहस्थे स्वर्भूजा मर सुरभि चिंतामणिगणे ।
शिरःस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे
कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ॥ 27 ॥

सारूप्यं तव पूजने शिव महादेवेति संकीर्तने
सामीप्यं शिवभक्ति-धुर्यजनता-सांगत्य-संभाषणे ॥
सालोक्यं च चराचरात्मकतनुध्याने भवानीपते
सायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम् ॥ 28 ॥

त्वत्पादांबुजमर्चयामि परमं त्वां चिंतयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां
शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ 29 ॥

वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता
गंधे गंधवहात्मताऽन्नपचने बर्हिर्मुखाध्यक्षता ।
पात्रे कांचनगर्भतास्ति मयि चेद्बालेंदुचूडामणे
शुश्रूषां करवाणि ते पशुपते स्वामिंस्त्रिलोकीगुरो ॥ 30 ॥

नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
पश्यन् कुक्षिगतांश्चराचरगणान् बाह्यस्थितान् रक्षितुम् ।
सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं
निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ 31 ॥

ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया
दृष्टः किं च करे धृतः करतले किं पक्वजंबूफलम् ।
जिह्वायां निहितश्च सिद्धघुटिका वा कंठदेशे भृतः
किं ते नीलमणिर्विभूषणमयं शंभो महात्मन् वद ॥ 32 ॥

नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः
पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥ 33 ॥

किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव-
-द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।
भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपंचं लयं
पश्यन्निर्भय एक एव विहरत्यानंदसांद्रो भवान् ॥ 34 ॥

योगक्षेमधुरंधरस्य सकलश्रेयःप्रदोद्योगिनो
दृष्टादृष्टमतोपदेशकृतिनो बाह्यांतरव्यापिनः ।
सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया
शंभो त्वं परमांतरंग इति मे चित्ते स्मराम्यन्वहम् ॥ 35 ॥

भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः
कुंभे सांब तवांघ्रिपल्लवयुगं संस्थाप्य संवित्फलम् ।
सत्वं मंत्रमुदीरयन्निजशरीरागारशुद्धिं वहन्
पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥ 36 ॥

आम्नायांबुधिमादरेण सुमनःसंघाः समुद्यन्मनो [समुद्यन्मनः]
मंथानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः ।
सोमं कल्पतरुं सुपर्वसुरभिं चिंतामणिं धीमतां
नित्यानंदसुधां निरंतररमासौभाग्यमातन्वते ॥ 37 ॥

प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः
सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः ।
चेतः पुष्करलक्षितो भवति चेदानंदपाथोनिधिः
प्रागल्भ्येन विजृंभते सुमनसां वृत्तिस्तदा जायते ॥ 38 ॥

धर्मो मे चतुरंघ्रिकः सुचरितः पापं विनाशं गतं
कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृताः ।
ज्ञानानंदमहौषधिः सुफलिता कैवल्यनाथे सदा
मान्ये मानसपुंडरीकनगरे राजावतंसे स्थिते ॥ 39 ॥

धीयंत्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै- [कविताकुल्योपकुल्याक्रमैः]
-रानीतैश्च सदाशिवस्य चरितांभोराशिदिव्यामृतैः ।
हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते
दुर्भिक्षान्मम सेवकस्य भगवन्विश्वेश भीतिः कुतः ॥ 40 ॥

पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युंजय
स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने ।
जिह्वाचित्तशिरोंघ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो
मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ॥ 41 ॥

गांभीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण- [उद्यद्गुणस्तॊमः]
-स्तोमश्चाप्तबलं घनेंद्रियचयो द्वाराणि देहे स्थितः ।
विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा
दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ 42 ॥

मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्नादिकिरात मामकमनःकांतारसीमांतरे ।
वर्तंते बहुशो मृगा मदजुषो मात्सर्यमोहादय- [ मात्सर्यमोहादयः]
-स्तान्हत्वा मृगयाविनोदरुचिता लाभं च संप्राप्स्यसि ॥ 43 ॥

करलग्नमृगः करींद्रभंगो
घनशार्दूलविखंडनोऽस्तजंतुः ।
गिरिशो विशदाकृतिश्च चेतः-
-कुहरे पंचमुखोऽस्ति मे कुतो भीः ॥ 44 ॥

छंदः शाखिशिखान्वितैर् [शाखिशिखान्वितैरः] द्विजवरैः संसेविते शाश्वते
सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते ।
चेतःपक्षिशिखामणे त्यज वृथा अंचारमन्यैरलं
नित्यं शंकर पादपद्मयुगलीनीडे विहारं कुरु ॥ 45 ॥

आकीर्णे नखराजिकांतिविभवै [नखराजिकांतिविभवैः] रुद्यत्सुधावैभवै-[रुद्यत्सुधावैभवैः]
-राधौतेऽपि च पद्मरागललिते हंसव्रजैराश्रिते ।
नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु
स्थित्वा मानसराजहंस गिरिजानाथांघ्रिसौधांतरे ॥ 46 ॥

शंभुध्यान वसंतसंगिनि हृदारामेऽघजीर्णच्छदाः
स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः ।
दीप्यंते गुणकोरका जपवचःपुष्पाणि सद्वासना
ज्ञानानंद सुधामरंदलहरी संवित्फलाभ्युन्नतिः ॥ 47 ॥

नित्यानंदरसालयं सुरमुनिस्वांतांबुजाताश्रयं
स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासना विष्कृतम् ।
शंभुध्यान सरोवरं व्रज मनोहं सावतंस स्थिरं
किं क्षुद्रा श्रयपल्वल भ्रमण संजातश्रमं प्राप्स्यसि ॥ 48 ॥

आनंदामृत पूरिता हरपदां भोजा लवालोद्यता
स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोप शाखान्विता ।
उच्छैर् मानस कायमान पटलीमाक्रम्य निष्कल्मषा
नित्याभीष्ट फलप्रदा भवतु मे सत्कर्म संवर्धिता ॥ 49 ॥

संध्या रंभ विजृंभितं श्रुतिशिरः स्थानांतराधि ष्ठितं
सप्रेम भ्रमराभिरामं असकृत् सद्वासना शोभितम् ।
भोगींद्रा भरणं समस्तसुमनः पूज्यं गुणाविष्कृतं
सेवे श्रीगिरि मल्लिकार्जुन महालिंगं शिवालिंगितम् ॥ 50 ॥

भृंगीच्छा नटनोत्कटः करमदग्राही स्फुरन् माधवा- [स्फुरन् माधवाव्ह्लादो]
-ह्लादो नादयुतो महासितवपुः पंचेषुणा चादृतः ।
सत्पक्षः सुमनो वनेषु स पुनः साक्षान्मदीये मनो-
-राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥ 51 ॥

कारुण्यामृत वर्षिणं घनविपद्ग्रीष्मच् छिदाकर्मठं
विद्यासस्य फलोदयाय सुमनः संसेव्य मिच्छाकृतिम् ।
नृत्यद् भक्त मयूरमद्रि निलयं चंचज्जटामंडलं
शंभो वांछति नीलकंधर सदा त्वां मे मनश्चातकः ॥ 52 ॥

आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-[नतानुग्राहि]
-नुग्राहि प्रणवोपदे शनिनदैः केकीति यो गीयते ।
श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटंतं मुदा
वेदांतोपवने विहाररसिकं तं नीलकंठं भजे ॥ 53 ॥

संध्या घर्मदिनात्ययो हरिकराघात प्रभूतानक- [प्रभूतानकध्वानो ]
-ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चंचला ।
भक्तानां परितोषबाष्प विततिर् वृष्टिर् मयूरी शिवा
यस्मिन्नुज्ज्वल तांडवं विजयते तं नीलकंठं भजे ॥ 54 ॥

आद्यायामित तेजसे श्रुतिपदैर्वेद्याय साध्याय ते
विद्यानंदमयात्मने त्रिजगतः संरक्षणोद्योगिने ।
ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने
सम्यक्तांडव संभ्रमाय जटिने सेयं नतिः शंभवे ॥ 55 ॥

नित्याय त्रिगुणात्मने पुरजिते कात्यायनी श्रेयसे
सत्यायादि कुटुंबिने मुनिमनः प्रत्यक्ष चिन्मूर्तये ।
मायासृष्ट जगत्त्रयाय सकलाम्नायांतसंचारिणे
सायं तांडव संभ्रमाय जटिने सेयं नतिः शंभवे ॥ 56 ॥

नित्यं स्वोदरपोषणाय सकलानुद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो ।
मज्जन्मांतर पुण्य पाक बलतस्त्वं शर्व सर्वांतर- [सर्वांतरः]
-स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ॥ 57 ॥

एको वारिज बांधवः क्षितिनभो व्याप्तं तमो मंडलं
भित्त्वा लोचन गोचरोऽपि भवति त्वं कोटि सूर्यप्रभः ।
वेद्यः किं न भवस्यहो घनतरं कीदृग्भवेन्मत्तम- [कीदृग्भवेन्मत्तमः]
-स्तत्सर्वं [तत्सर्वं] व्यपनीय मे पशुपते साक्षात्प्रसन्नो भव ॥ 58 ॥

हंसः पद्मवनं समिच्छति यथा नीलांबुदं चातकः
कोकः कोकनदप्रियं प्रतिदिनं चंद्रं चकोरस्तथा ।
चेतो वांछति मामकं पशुपते चिन्मार्गमृग्यं विभो
गौरीनाथ भवत्पदाब्ज युगलं कैवल्य सौख्यप्रदम् ॥ 59 ॥

रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो [तरोर्वृष्टितः]
भीतः स्वस्थगृहं गृहस्थमतिथिर् दीनः प्रभुं धार्मिकम् ।
दीपं संतमसाकुलश्च शिखिनं शीता वृतस्त्वं तथा
चेतः सर्वभयापहं व्रज सुखं शंभोः पदांभोरुहम् ॥ 60 ॥

अंकोलं निज-बीज-संततिरयस्कांतोपलं [संततिः अयस्कांतोपलं] सूचिका
साध्वी नैजविभुं लता क्षितिरुहं सिंधुः सरिद् वल्लभम् ।
प्राप्नोतीह यथा तथा पशुपतेः पादारविंद द्वयं
चेतोवृत्ति रुपेत्य तिष्ठति सदा सा भक्ति रित्युच्यते ॥ 61 ॥

आनंदाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं
वाचा-शंखमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः ।
रुद्राक्षैर् हसितेन देव वपुषो रक्षां भवद्भावना-
-पर्यंके विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥ 62 ॥

मार्गावर्तितपादुका पशुपतेरंगस्य कूर्चायते
गंडूषांबुनिषेचनं पुररिपोर्दिव्याभिषेकायते ।
किंचि-द्भक्षित-मांस-शेषकबलं नव्योपहारायते
भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥ 63 ॥

वक्षस्ताडनमंतकस्य कठिनापस्मारसंमर्दनं
भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसंघर्षणम् ।
कर्मेदं मृदुलस्य तावकपदद्वंद्वस्य किं वोचितं
मच्चेतोमणिपादुकाविहरणं शंभो सदांगीकुरु ॥ 64 ॥

वक्षस्ताडनशंकया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।
दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते
यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ 65 ॥

क्रीडार्थं सृजसि प्रपंचमखिलं क्रीडामृगास्ते जनाः
यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् ।
शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं
तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥ 66 ॥

बहुविधपरितोषबाष्पपूर-
-स्फुटपुलकांकितचारुभोगभूमिम् ।
चिरपदफलकांक्षिसेव्यमानां
परमसदाशिवभावनां प्रपद्ये ॥ 67 ॥

अमितमुदमृतं मुहुर्दुहंतीं
विमलभवत्पदगोष्ठमावसंतीम् ।
सदय पशुपते सुपुण्यपाकां
मम परिपालय भक्तिधेनुमेकाम् ॥ 68 ॥

जडता पशुता कलंकिता
कुटिलचरत्वं च नास्ति मयि देव ।
अस्ति यदि राजमौले
भवदाभरणस्य नास्मि किं पात्रम् ॥ 69 ॥

अरहसि रहसि स्वतंत्रबुद्ध्या
वरिवसितुं सुलभः प्रसन्नमूर्तिः ।
अगणितफलदायकः प्रभुर्मे
जगदधिको हृदि राजशेखरोऽस्ति ॥ 70 ॥

रूढभक्तिगुणकुंचितभावचाप-
5युक्तैः शिवस्मरणबाणगणैरमोघैः ।
5इर्जित्य किल्बिषरिपून्विजयी सुधींद्रः
सानंदमावहति सुस्थिरराजलक्ष्मीम् ॥ 71 ॥

ध्यानांजनेन समवेक्ष्य तमःप्रदेशं
भित्त्वा महाबलिभिरीश्वरनाममंत्रैः ।
दिव्याश्रितं भुजगभूषणमुद्वहंति
ये पादपद्ममिह ते शिव ते कृतार्थाः ॥ 72 ॥

भूदारतामुदवहद्यदपेक्षया श्री-
-भूदार एव किमतः सुमते लभस्व ।
केदारमाकलितमुक्तिमहौषधीनां
पादारविंदभजनं परमेश्वरस्य ॥ 73 ॥

आशापाशक्लेशदुर्वासनादि-
-भेदोद्युक्तैर्दिव्यगंधैरमंदैः ।
आशाशाटीकस्य पादारविंदं
चेतःपेटीं वासितां मे तनोतु ॥ 74 ॥

कल्याणिनं सरसचित्रगतिं सवेगं
सर्वेंगितज्ञमनघं ध्रुवलक्षणाढ्यम् ।
चेतस्तुरंगमधिरुह्य चर स्मरारे
नेतः समस्तजगतां वृषभाधिरूढ ॥ 75 ॥

भक्तिर्महेशपदपुष्करमावसंती
कादंबिनीव कुरुते परितोषवर्षम् ।
संपूरितो भवति यस्य मनस्तटाक-
-स्तज्जन्मसस्यमखिलं सफलं च नान्यत् ॥ 76 ॥

बुद्धिः स्थिरा भवितुमीश्वरपादपद्म-
-सक्ता वधूर्विरहिणीव सदा स्मरंती ।
सद्भावनास्मरणदर्शनकीर्तनादि
सम्मोहितेव शिवमंत्रजपेन विंते ॥ 77 ॥

सदुपचारविधिष्वनुबोधितां
सविनयां सुहृदं समुपाश्रिताम् ।
मम समुद्धर बुद्धिमिमां प्रभो
वरगुणेन नवोढवधूमिव ॥ 78 ॥

नित्यं योगिमनः सरोजदलसंचारक्षमस्त्वत्क्रमः
शंभो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः ।
अत्यंतं मृदुलं त्वदंघ्रियुगलं हा मे मनश्चिंतय-
-त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ 79 ॥

एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म-
-द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः ।
नो चेद्दिव्यगृहांतरेषु सुमनस्तल्पेषु वेद्यादिषु
प्रायः सत्सु शिलातलेषु नटनं शंभो किमर्थं तव ॥ 80 ॥

कंचित्कालमुमामहेश भवतः पादारविंदार्चनैः
कंचिद्ध्यानसमाधिभिश्च नतिभिः कंचित्कथाकर्णनैः ।
कंचित्कंचिदवेक्षणैश्च नुतिभिः कंचिद्दशामीदृशीं
यः प्राप्नोति मुदा त्वदर्पितमना जीवन् स मुक्तः खलु ॥ 81 ॥

बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते
घोणित्वं सखिता मृदंगवहता चेत्यादि रूपं दधौ ।
त्वत्पादे नयनार्पणं च कृतवांस्त्वद्देहभागो हरिः
पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः ॥ 82 ॥

जननमृतियुतानां सेवया देवतानां
न भवति सुखलेशः संशयो नास्ति तत्र ।
अजनिममृतरूपं सांबमीशं भजंते
य इह परमसौख्यं ते हि धन्या लभंते ॥ 83 ॥

शिव तव परिचर्यासन्निधानाय गौर्या
भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ।
सकलभुवनबंधो सच्चिदानंदसिंधो
सदय हृदयगेहे सर्वदा संवस त्वम् ॥ 84 ॥

जलधिमथनदक्षो नैव पातालभेदी
न च वनमृगयायां नैव लुब्धः प्रवीणः ।
अशनकुसुमभूषावस्त्रमुख्यां सपर्यां
कथय कथमहं ते कल्पयानींदुमौले ॥ 85 ॥

पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे
पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् ।
जाने मस्तकमंघ्रिपल्लवमुमाजाने न तेऽहं विभो
न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥ 86 ॥

अशनं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्षः ।
मम दास्यसि किं किमस्ति शंभो
तव पादांबुजभक्तिमेव देहि ॥ 87 ॥

यदा कृतांभोनिधिसेतुबंधनः
करस्थलाधःकृतपर्वताधिपः ।
भवानि ते लंघितपद्मसंभव-
-स्तदा शिवार्चास्तवभावनक्षमः ॥ 88 ॥

नतिभिर्नुतिभिस्त्वमीश पूजा-
-विधिभिर्ध्यानसमाधिभिर्न तुष्टः ।
धनुषा मुसलेन चाश्मभिर्वा
वद ते प्रीतिकरं तथा करोमि ॥ 89 ॥

वचसा चरितं वदामि शंभो-
-रहमुद्योगविधासु तेऽप्रसक्तः ।
मनसाकृतिमीश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि ॥ 90 ॥

आद्याविद्या हृद्गता निर्गतासी-
-द्विद्या हृद्या हृद्गता त्वत्प्रसादात् ।
सेवे नित्यं श्रीकरं त्वत्पदाब्जं
भावे मुक्तेर्भाजनं राजमौले ॥ 91 ॥

दूरीकृतानि दुरितानि दुरक्षराणि
दौर्भाग्यदुःखदुरहंकृतिदुर्वचांसि ।
सारं त्वदीयचरितं नितरां पिबंतं
गौरीश मामिह समुद्धर सत्कटाक्षैः ॥ 92 ॥

सोमकलाधरमौलौ
कोमलघनकंधरे महामहसि ।
स्वामिनि गिरिजानाथे
मामकहृदयं निरंतरं रमताम् ॥ 93 ॥

सा रसना ते नयने
तावेव करौ स एव कृतकृत्यः ।
या ये यौ यो भर्गं
वदतीक्षेते सदार्चतः स्मरति ॥ 94 ॥

अतिमृदुलौ मम चरणा-
-वतिकठिनं ते मनो भवानीश ।
इति विचिकित्सां संत्यज
शिव कथमासीद्गिरौ तथा वेशः ॥ 95 ॥

धैर्यांकुशेन निभृतं
रभसादाकृष्य भक्तिशृंखलया ।
पुरहर चरणालाने
हृदयमदेभं बधान चिद्यंत्रैः ॥ 96 ॥

प्रचरत्यभितः प्रगल्भवृत्त्या
मदवानेष मनः करी गरीयान् ।
रिगृह्य नयेन भक्तिरज्वा
परम स्थाणु पदं दृढं नयामुम् ॥ 97 ॥
सर्वालंकारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां
सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् ।
उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां
कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥ 98 ॥

इदं ते युक्तं वा परमशिव कारुण्यजलधे
गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ।
हरिब्रह्माणौ तौ दिवि भुवि चरंतौ श्रमयुतौ
कथं शंभो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥ 99 ॥

स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिंचादयः
स्तुत्यानां गणनाप्रसंगसमये त्वामग्रगण्यं विदुः ।
माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव-
-द्धूतास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः ॥ 100 ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवानंदलहरी ॥




Browse Related Categories: