View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री दक्षिणामूर्थि अष्टोत्तर शत नाम स्तोत्रम्

ध्यानं
व्याख्यारुद्राक्षमाले कलशसुरभिते बाहुभिर्वामपादं
बिभ्राणो जानुमूर्ध्ना वटतरुनिवृतावस्यधो विद्यमानः ।
सौवर्णे योगपीठे लिपिमयकमले सूपविष्टस्त्रिणेत्रः
क्षीराभश्चंद्रमौलिर्वितरतु नितरां शुद्धबुद्धिं शिवो नः ॥

स्तोत्रं
विद्यारूपी महायोगी शुद्धज्ञानी पिनाकधृत् ।
रत्नालंकृतसर्वांगो रत्नमाली जटाधरः ॥ 1 ॥

गंगाधार्यचलावासी सर्वज्ञानी समाधिधृत् ।
अप्रमेयो योगनिधिस्तारको भक्तवत्सलः ॥ 2 ॥

ब्रह्मरूपी जगद्व्यापी विष्णुमूर्तिः पुरांतकः ।
उक्षवाहश्चर्मवासाः पीतांबरविभूषणः ॥ 3 ॥

मोक्षसिद्धिर्मोक्षदायी दानवारिर्जगत्पतिः ।
विद्याधारी शुक्लतनुः विद्यादायी गणाधिपः ॥ 4 ॥

पापापस्मृतिसंहर्ता शशिमौलिर्महास्वनः ।
सामप्रियः स्वयं साधुः सर्वदेवैर्नमस्कृतः ॥ 5 ॥

हस्तवह्निधरः श्रीमान् मृगधारी च शंकरः ।
यज्ञनाथः क्रतुध्वंसी यज्ञभोक्ता यमांतकः ॥ 6 ॥

भक्तानुग्रहमूर्तिश्च भक्तसेव्यो वृषध्वजः ।
भस्मोद्धूलितसर्वांगोऽप्यक्षमालाधरो महान् ॥ 7 ॥

त्रयीमूर्तिः परं ब्रह्म नागराजैरलंकृतः ।
शांतरूपो महाज्ञानी सर्वलोकविभूषणः ॥ 8 ॥

अर्धनारीश्वरो देवो मुनिसेव्यः सुरोत्तमः ।
व्याख्यानदेवो भगवान् अग्निचंद्रार्कलोचनः ॥ 9 ॥

जगत्स्रष्टा जगद्गोप्ता जगद्ध्वंसी त्रिलोचनः ।
जगद्गुरुर्महादेवो महानंदपरायणः ॥ 10 ॥

जटाधारी महावीरो ज्ञानदेवैरलंकृतः ।
व्योमगंगाजलस्नाता सिद्धसंघसमर्चितः ॥ 11 ॥

तत्त्वमूर्तिर्महायोगी महासारस्वतप्रदः ।
व्योममूर्तिश्च भक्तानामिष्टकामफलप्रदः ॥ 12 ॥

वीरमूर्तिर्विरूपी च तेजोमूर्तिरनामयः ।
वेदवेदांगतत्त्वज्ञश्चतुष्षष्टिकलानिधिः ॥ 13 ॥

भवरोगभयध्वंसी भक्तानामभयप्रदः ।
नीलग्रीवो ललाटाक्षो गजचर्मा च ज्ञानदः ॥ 14 ॥

अरोगी कामदहनस्तपस्वी विष्णुवल्लभः ।
ब्रह्मचारी च संन्यासी गृहस्थाश्रमकारणः ॥ 15 ॥

दांतशमवतां श्रेष्ठः सत्त्वरूपदयानिधिः ।
योगपट्टाभिरामश्च वीणाधारी विचेतनः ॥ 16 ॥

मंत्रप्रज्ञानुगाचारो मुद्रापुस्तकधारकः ।
रागहिक्कादिरोगाणां विनिहंता सुरेश्वरः ॥ 17 ॥

इति श्री दक्षिणामूर्त्यष्टोत्तरशतनाम स्तोत्रम् ॥




Browse Related Categories: