View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री लक्ष्मीनृसिंह सहस्रनाम स्तोत्रम्

॥ पूर्वपीठिका ॥

मार्कंडेय उवाच ।
एवं युद्धमभूद्घोरं रौद्रं दैत्यबलैः सह ।
नृसिंहस्यांगसंभूतैर्नारसिंहैरनेकशः ॥ 1 ॥

दैत्यकोटिर्हतास्तत्र केचिद्भीताः पलायिताः ।
तं दृष्ट्वातीव संक्रुद्धो हिरण्यकशिपुः स्वयम् ॥ 2 ॥

भूतपूर्वैरमृत्युर्मे इति ब्रह्मवरोद्धतः ।
ववर्ष शरवर्षेण नारसिंहो भृशं बली ॥ 3 ॥

द्वंद्वयुद्धमभूदुग्रं दिव्यवर्षसहस्रकम् ।
दैत्येंद्रे साहसं दृष्ट्वा देवाश्चेंद्रपुरोगमाः ॥ 4 ॥

श्रेयः कस्य भवेदत्र इति चिंतापरा भवन् ।
तदा क्रुद्धो नृसिंहस्तु दैत्येंद्रप्रहितान्यपि ॥ 5 ॥

विष्णुचक्रं महाचक्रं कालचक्रं तु वैष्णवम् ।
रौद्रं पाशुपतं ब्राह्मं कौबेरं कुलिशासनम् ॥ 6 ॥

आग्नेयं वारुणं सौम्यं मोहनं सौरपार्वतम् ।
भार्गवादि बहून्यस्त्राण्यभक्षयत कोपनः ॥ 7 ॥

संध्याकाले सभाद्वारे स्वांके निक्षिप्य भैरवः ।
ततः खड्गधरं दैत्यं जग्राह नरकेसरी ॥ 8 ॥

हिरण्यकशिपोर्वक्षो विदार्यातीव रोषितः ।
उद्धृत्य चांत्रमालानि नखैर्वज्रसमप्रभैः ॥ 9 ॥

मेने कृतार्थमात्मानं सर्वतः पर्यवैक्षत ।
हर्षिता देवताः सर्वाः पुष्पवृष्टिमवाकिरन् ॥ 10 ॥

देवदुंदुभयो नेदुर्विमलाश्च दिशोऽभवन् ।
नरसिंहमतीवोग्रं विकीर्णवदनं भृशम् ॥ 11 ॥

लेलिहानं च गर्जंतं कालानलसमप्रभम् ।
अतिरौद्रं महाकायं महादंष्ट्रं महारुतम् ॥ 12 ॥

महासिंहं महारूपं दृष्ट्वा संक्षुभितं जगत् ।
सर्वदेवगणैः सार्थं तत्रागत्य पितामहः ॥ 13 ॥

आगंतुकैर्भूतपूर्वैर्वर्तमानैरनुत्तमैः ।
गुणैर्नामसहस्रेण तुष्टाव श्रुतिसम्मतैः ॥ 14 ॥

ॐ नमः श्रीमद्दिव्यलक्ष्मीनृसिंह सहस्रनामस्तोत्रमहामंत्रस्य ब्रह्मा ऋषिः, श्रीलक्ष्मीनृसिंहो देवता, अनुष्टुप्छंदः, श्रीनृसिंहः परमात्मा बीजं, लक्ष्मीर्माया शक्तिः, जीवो बीजं, बुद्धिः शक्तिः, उदानवायुः बीजं, सरस्वती शक्तिः, व्यंजनानि बीजानि, स्वराः शक्तयः, ॐ क्ष्रौं ह्रीं इति बीजानि, ॐ श्रीं
अं आं इति शक्तयः, विकीर्णनखदंष्ट्रायुधायेति कीलकं, अकारादिति बोधकं, श्रीलक्ष्मीनृसिंह प्रसादसिद्ध्यर्थे श्रीलक्ष्मीनृसिंह सहस्रनामस्तोत्र मंत्रजपे विनियोगः ।

न्यासः –
ॐ श्रीलक्ष्मीनृसिंहाय नमः – अंगुष्ठाभ्यां नमः ।
ॐ वज्रनखाय नमः – तर्जनीभ्यां नमः ।
ॐ महारुद्राय नमः – मध्यमाभ्यां नमः ।
ॐ सर्वतोमुखाय नमः – अनामिकाभ्यां नमः ।
ॐ विकटास्याय नमः – कनिष्ठिकाभ्यां नमः ।
ॐ वीराय नमः – करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ।

दिग्बंधः –
ॐ ऐंद्रीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ आग्नेयीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ याम्यां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ नैरृतिं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ वारुणीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ वायवीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ कौबेरीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ ईशानीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ ऊर्ध्वां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ अधस्ताद्दिशं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ॐ अंतरिक्षां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।

अथ ध्यानम् ।
सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्ये स्थितं
योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्वलम् ।
त्र्यक्षं चक्रपिनाकसाभयकरान् बिभ्राणमर्कच्छविं
छत्रीभूतफणींद्रमिंदुधवलं लक्ष्मीनृसिंहं भजे ॥ 1 ॥

उपास्महे नृसिंहाख्यं ब्रह्म वेदांतगोचरम् ।
भूयोलालितसंसारच्छेदहेतुं जगद्गुरुम् ॥ 2 ॥

अथ स्तोत्रम् ।
ब्रह्मोवाच ।
ॐ ह्रीं श्रीं ऐं क्ष्रौम् ॥
ॐ नमो नारसिंहाय वज्रदंष्ट्राय वज्रिणे ।
वज्रदेहाय वज्राय नमो वज्रनखाय च ॥ 1 ॥

वासुदेवाय वंद्याय वरदाय वरात्मने ।
वरदाभयहस्ताय वराय वररूपिणे ॥ 2 ॥

वरेण्याय वरिष्ठाय श्रीवराय नमो नमः ।
प्रह्लादवरदायैव प्रत्यक्षवरदाय च ॥ 3 ॥

परात्परपरेशाय पवित्राय पिनाकिने ।
पावनाय प्रसन्नाय पाशिने पापहारिणे ॥ 4 ॥

पुरुष्टुताय पुण्याय पुरुहूताय ते नमः ।
तत्पुरुषाय तथ्याय पुराणपुरुषाय च ॥ 5 ॥

पुरोधसे पूर्वजाय पुष्कराक्षाय ते नमः ।
पुष्पहासाय हासाय महाहासाय शारंगिणे ॥ 6 ॥

सिंहाय सिंहराजाय जगद्वश्याय ते नमः ।
अट्टहासाय रोषाय जलवासाय ते नमः ॥ 7 ॥

भूतावासाय भासाय श्रीनिवासाय खड्गिने ।
खड्गजिह्वाय सिंहाय खड्गवासाय ते नमः ॥ 8 ॥

नमो मूलाधिवासाय धर्मवासाय धन्विने ।
धनंजयाय धन्याय नमो मृत्युंजयाय च ॥ 9 ॥

शुभंजयाय सूत्राय नमः शत्रुंजयाय च ।
निरंजनाय नीराय निर्गुणाय गुणाय च ॥ 10 ॥

निष्प्रपंचाय निर्वाणप्रदाय निबिडाय च ।
निरालंबाय नीलाय निष्कलाय कलाय च ॥ 11 ॥

निमेषाय निबंधाय निमेषगमनाय च ।
निर्द्वंद्वाय निराशाय निश्चयाय निराय च ॥ 12 ॥

निर्मलाय निबंधाय निर्मोहाय निराकृते ।
नमो नित्याय सत्याय सत्कर्मनिरताय च ॥ 13 ॥

सत्यध्वजाय मुंजाय मुंजकेशाय केशिने ।
हरीशाय च शेषाय गुडाकेशाय वै नमः ॥ 14 ॥

सुकेशायोर्ध्वकेशाय केशिसंहारकाय च ।
जलेशाय स्थलेशाय पद्मेशायोग्ररूपिणे ॥ 15 ॥

कुशेशयाय कूलाय केशवाय नमो नमः ।
सूक्तिकर्णाय सूक्ताय रक्तजिह्वाय रागिणे ॥ 16 ॥

दीप्तरूपाय दीप्ताय प्रदीप्ताय प्रलोभिने ।
प्रच्छिन्नाय प्रबोधाय प्रभवे विभवे नमः ॥ 17 ॥

प्रभंजनाय पांथाय प्रमायाप्रमिताय च ।
प्रकाशाय प्रतापाय प्रज्वलायोज्ज्वलाय च ॥ 18 ॥

ज्वालामालास्वरूपाय ज्वलज्जिह्वाय ज्वालिने ।
महोज्ज्वलाय कालाय कालमूर्तिधराय च ॥ 19 ॥

कालांतकाय कल्पाय कलनाय कृते नमः ।
कालचक्राय शक्राय वषट्चक्राय चक्रिणे ॥ 20 ॥

अक्रूराय कृतांताय विक्रमाय क्रमाय च ।
कृत्तिने कृत्तिवासाय कृतघ्नाय कृतात्मने ॥ 21 ॥

संक्रमाय च क्रुद्धाय क्रांतलोकत्रयाय च ।
अरूपाय स्वरूपाय हरये परमात्मने ॥ 22 ॥

अजयायादिदेवाय अक्षयाय क्षयाय च ।
अघोराय सुघोराय घोरघोरतराय च ॥ 23 ॥

नमोऽस्त्वघोरवीर्याय लसद्घोराय ते नमः ।
घोराध्यक्षाय दक्षाय दक्षिणाऽऽर्याय शंभवे ॥ 24 ॥

अमोघाय गुणौघाय अनघायाऽघहारिणे ।
मेघनादाय नादाय तुभ्यं मेघात्मने नमः ॥ 25 ॥

मेघवाहनरूपाय मेघश्यामाय मालिने ।
व्यालयज्ञोपवीताय व्याघ्रदेहाय वै नमः ॥ 26 ॥

व्याघ्रपादाय च व्याघ्रकर्मिणे व्यापकाय च ।
विकटास्याय वीराय विष्टरश्रवसे नमः ॥ 27 ॥

विकीर्णनखदंष्ट्राय नखदंष्ट्रायुधाय च ।
विष्वक्सेनाय सेनाय विह्वलाय बलाय च ॥ 28 ॥

विरूपाक्षाय वीराय विशेषाक्षाय साक्षिणे ।
वीतशोकाय विस्तीर्णवदनाय नमो नमः ॥ 29 ॥

विधानाय विधेयाय विजयाय जयाय च ।
विबुधाय विभावाय नमो विश्वंभराय च ॥ 30 ॥

वीतरागाय विप्राय विटंकनयनाय च ।
विपुलाय विनीताय विश्वयोने नमो नमः ॥ 31 ॥

विडंबनाय वित्ताय विश्रुताय वियोनये । [चिदंबराय]
विह्वलाय विवादाय नमो व्याहृतये नमः ॥ 32 ॥

विलासाय विकल्पाय महाकल्पाय ते नमः ।
बहुकल्पाय कल्पाय कल्पातीताय शिल्पिने ॥ 33 ॥

कल्पनाय स्वरूपाय फणितल्पाय वै नमः ।
तटित्प्रभाय तार्क्ष्याय तरुणाय तरस्विने ॥ 34 ॥

तपनाय तरक्षाय तापत्रयहराय च ।
तारकाय तमोघ्नाय तत्त्वाय च तपस्विने ॥ 35 ॥

तक्षकाय तनुत्राय तटिने तरलाय च ।
शतरूपाय शांताय शतधाराय ते नमः ॥ 36 ॥

शतपत्रायताक्षाय स्थितये शतमूर्तये ।
शतक्रतुस्वरूपाय शाश्वताय शतात्मने ॥ 37 ॥

नमः सहस्रशिरसे सहस्रवदनाय च ।
सहस्राक्षाय देवाय दिशश्रोत्राय ते नमः ॥ 38 ॥

नमः सहस्रजिह्वाय महाजिह्वाय ते नमः ।
सहस्रनामधेयाय सहस्राक्षिधराय च ॥ 39 ॥

सहस्रबाहवे तुभ्यं सहस्रचरणाय च ।
सहस्रार्कप्रकाशाय सहस्रायुधधारिणे ॥ 40 ॥

नमः स्थूलाय सूक्ष्माय सुसूक्ष्माय नमो नमः ।
सुक्षुण्णाय सुभिक्षाय सुराध्यक्षाय शौरिणे ॥ 41 ॥

धर्माध्यक्षाय धर्माय लोकाध्यक्षाय वै नमः ।
प्रजाध्यक्षाय शिक्षाय विपक्षक्षयमूर्तये ॥ 42 ॥

कालाध्यक्षाय तीक्ष्णाय मूलाध्यक्षाय ते नमः ।
अधोक्षजाय मित्राय सुमित्रवरुणाय च ॥ 43 ॥

शत्रुघ्नाय अविघ्नाय विघ्नकोटिहराय च ।
रक्षोघ्नाय तमोघ्नाय भूतघ्नाय नमो नमः ॥ 44 ॥

भूतपालाय भूताय भूतावासाय भूतिने ।
भूतवेतालघाताय भूताधिपतये नमः ॥ 45 ॥

भूतग्रहविनाशाय भूतसंयमते नमः ।
महाभूताय भृगवे सर्वभूतात्मने नमः ॥ 46 ॥

सर्वारिष्टविनाशाय सर्वसंपत्कराय च ।
सर्वाधाराय शर्वाय सर्वार्तिहरये नमः ॥ 47 ॥

सर्वदुःखप्रशांताय सर्वसौभाग्यदायिने ।
सर्वज्ञायाप्यनंताय सर्वशक्तिधराय च ॥ 48 ॥

सर्वैश्वर्यप्रदात्रे च सर्वकार्यविधायिने ।
सर्वज्वरविनाशाय सर्वरोगापहारिणे ॥ 49 ॥

सर्वाभिचारहंत्रे च सर्वैश्वर्यविधायिने ।
पिंगाक्षायैकशृंगाय द्विशृंगाय मरीचये ॥ 50 ॥

बहुशृंगाय लिंगाय महाशृंगाय ते नमः ।
मांगल्याय मनोज्ञाय मंतव्याय महात्मने ॥ 51 ॥

महादेवाय देवाय मातुलिंगधराय च ।
महामायाप्रसूताय प्रस्तुताय च मायिने ॥ 52 ॥

अनंतानंतरूपाय मायिने जलशायिने ।
महोदराय मंदाय मददाय मदाय च ॥ 53 ॥

मधुकैटभहंत्रे च माधवाय मुरारये ।
महावीर्याय धैर्याय चित्रवीर्याय ते नमः ॥ 54 ॥

चित्रकूर्माय चित्राय नमस्ते चित्रभानवे ।
मायातीताय मायाय महावीराय ते नमः ॥ 55 ॥

महातेजाय बीजाय तेजोधाम्ने च बीजिने ।
तेजोमयनृसिंहाय नमस्ते चित्रभानवे ॥ 56 ॥

महादंष्ट्राय तुष्टाय नमः पुष्टिकराय च ।
शिपिविष्टाय हृष्टाय पुष्टाय परमेष्ठिने ॥ 57 ॥

विशिष्टाय च शिष्टाय गरिष्ठायेष्टदायिने ।
नमो ज्येष्ठाय श्रेष्ठाय तुष्टायामिततेजसे ॥ 58 ॥

अष्टांगन्यस्तरूपाय सर्वदुष्टांतकाय च ।
वैकुंठाय विकुंठाय केशिकंठाय ते नमः ॥ 59 ॥

कंठीरवाय लुंठाय निश्शठाय हठाय च ।
सत्वोद्रिक्ताय रुद्राय ऋग्यजुस्सामगाय च ॥ 60 ॥

ऋतुध्वजाय वज्राय मंत्रराजाय मंत्रिणे ।
त्रिनेत्राय त्रिवर्गाय त्रिधाम्ने च त्रिशूलिने ॥ 61 ॥

त्रिकालज्ञानरूपाय त्रिदेहाय त्रिधात्मने ।
नमस्त्रिमूर्तिविद्याय त्रितत्त्वज्ञानिने नमः ॥ 62 ॥

अक्षोभ्यायानिरुद्धाय अप्रमेयाय भानवे ।
अमृताय अनंताय अमितायामितौजसे ॥ 63 ॥

अपमृत्युविनाशाय अपस्मारविघातिने ।
अन्नदायान्नरूपाय अन्नायान्नभुजे नमः ॥ 64 ॥

नाद्याय निरवद्याय विद्यायाद्भुतकर्मणे ।
सद्योजाताय संघाय वैद्युताय नमो नमः ॥ 65 ॥

अध्वातीताय सत्त्वाय वागतीताय वाग्मिने ।
वागीश्वराय गोपाय गोहिताय गवां पते ॥ 66 ॥

गंधर्वाय गभीराय गर्जितायोर्जिताय च ।
पर्जन्याय प्रबुद्धाय प्रधानपुरुषाय च ॥ 67 ॥

पद्माभाय सुनाभाय पद्मनाभाय मानिने ।
पद्मनेत्राय पद्माय पद्मायाः पतये नमः ॥ 68 ॥

पद्मोदराय पूताय पद्मकल्पोद्भवाय च ।
नमो हृत्पद्मवासाय भूपद्मोद्धरणाय च ॥ 69 ॥

शब्दब्रह्मस्वरूपाय ब्रह्मरूपधराय च ।
ब्रह्मणे ब्रह्मरूपाय पद्मनेत्राय ते नमः ॥ 70 ॥

ब्रह्मदाय ब्राह्मणाय ब्रह्मब्रह्मात्मने नमः ।
सुब्रह्मण्याय देवाय ब्रह्मण्याय त्रिवेदिने ॥ 71 ॥

परब्रह्मस्वरूपाय पंचब्रह्मात्मने नमः ।
नमस्ते ब्रह्मशिरसे तथाऽश्वशिरसे नमः ॥ 72 ॥

अथर्वशिरसे नित्यमशनिप्रमिताय च ।
नमस्ते तीक्ष्णदंष्ट्राय लोलाय ललिताय च ॥ 73 ॥

लावण्याय लवित्राय नमस्ते भासकाय च ।
लक्षणज्ञाय लक्षाय लक्षणाय नमो नमः ॥ 74 ॥

लसद्दीप्ताय लिप्ताय विष्णवे प्रभविष्णवे ।
वृष्णिमूलाय कृष्णाय श्रीमहाविष्णवे नमः ॥ 75 ॥

पश्यामि त्वां महासिंहं हारिणं वनमालिनम् ।
किरीटिनं कुंडलिनं सर्वांगं सर्वतोमुखम् ॥ 76 ॥

सर्वतः पाणिपादोरः सर्वतोऽक्षिशिरोमुखम् ।
सर्वेश्वरं सदातुष्टं समर्थं समरप्रियम् ॥ 77 ॥

बहुयोजनविस्तीर्णं बहुयोजनमायतम् ।
बहुयोजनहस्तांघ्रिं बहुयोजननासिकम् ॥ 78 ॥

महारूपं महावक्त्रं महादंष्ट्रं महाभुजम् ।
महानादं महारौद्रं महाकायं महाबलम् ॥ 79 ॥

आनाभेर्ब्रह्मणो रूपमागलाद्वैष्णवं तथा ।
आशीर्षाद्रुद्रमीशानं तदग्रे सर्वतः शिवम् ॥ 80 ॥

नमोऽस्तु नारायणनारसिंह
नमोऽस्तु नारायणवीरसिंह ।
नमोऽस्तु नारायणक्रूरसिंह
नमोऽस्तु नारायणदिव्यसिंह ॥ 81 ॥

नमोऽस्तु नारायणव्याघ्रसिंह
नमोऽस्तु नारायणपुच्छसिंह ।
नमोऽस्तु नारायणपूर्णसिंह
नमोऽस्तु नारायणरौद्रसिंह ॥ 82 ॥

नमो नमो भीषणभद्रसिंह
नमो नमो विह्वलनेत्रसिंह ।
नमो नमो बृंहितभूतसिंह
नमो नमो निर्मलचित्रसिंह ॥ 83 ॥

नमो नमो निर्जितकालसिंह
नमो नमः कल्पितकल्पसिंह ।
नमो नमो कामदकामसिंह
नमो नमस्ते भुवनैकसिंह ॥ 84 ॥

द्यावापृथिव्योरिदमंतरं हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदं
लोकत्रयं प्रव्यथितं महात्मन् ॥ 85 ॥

अमी हित्वा सुरसंघा विशंति
केचिद्भीताः प्रांजलयो गृणंति ।
स्वस्तीत्युक्त्वा मुनयः सिद्धसंघाः
स्तुवंति त्वां स्तुतिभिः पुष्कलाभिः ॥ 86 ॥

रुद्रादित्यावसवो ये च साध्या
विश्वेदेवा मरुतश्चोष्मपाश्च ।
गंधर्वयक्षासुरसिद्धसंघा
वीक्षंति त्वां विस्मिताश्चैव सर्वे ॥ 87 ॥

लेलिह्यसे ग्रसमानः समंता-
-ल्लोकान् समग्रान्वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपंति विष्णो ॥ 88 ॥

भविष्णुस्त्वं सहिष्णुस्त्वं भ्राजिष्णुर्जिष्णुरेव च ।
पृथिवीमंतरिक्षं त्वं पर्वतारण्यमेव च ॥ 89 ॥

कलाकाष्ठाविलिप्तस्त्वं मुहूर्तप्रहरादिकम् ।
अहोरात्रं त्रिसंध्या च पक्षमासर्तुवत्सराः ॥ 90 ॥

युगादिर्युगभेदस्त्वं संयुगो युगसंधयः ।
नित्यं नैमित्तिकं दैनं महाप्रलयमेव च ॥ 91 ॥

करणं कारणं कर्ता भर्ता हर्ता त्वमीश्वरः ।
सत्कर्ता सत्कृतिर्गोप्ता सच्चिदानंदविग्रहः ॥ 92 ॥

प्राणस्त्वं प्राणिनां प्रत्यगात्मा त्वं सर्वदेहिनाम् ।
सुज्योतिस्त्वं परंज्योतिरात्मज्योतिः सनातनः ॥ 93 ॥

ज्योतिर्लोकस्वरूपस्त्वं ज्ञो ज्योतिर्ज्योतिषां पतिः । [ज्योतिर्ज्ञो]
स्वाहाकारः स्वधाकारो वषट्कारः कृपाकरः ॥ 94 ॥

हंतकारो निराकारो वेगाकारश्च शंकरः ।
अकारादिहकारांत ॐकारो लोककारकः ॥ 95 ॥

एकात्मा त्वमनेकात्मा चतुरात्मा चतुर्भुजः ।
चतुर्मूर्तिश्चतुर्दंष्ट्रश्चतुर्वेदमयोत्तमः ॥ 96 ॥

लोकप्रियो लोकगुरुर्लोकेशो लोकनायकः ।
लोकसाक्षी लोकपतिर्लोकात्मा लोकलोचनः ॥ 97 ॥

लोकाधारो बृहल्लोको लोकालोकमयो विभुः ।
लोककर्ता विश्वकर्ता कृतावर्तः कृतागमः ॥ 98 ॥

अनादिस्त्वमनंतस्त्वमभूतो भूतविग्रहः ।
स्तुतिः स्तुत्यः स्तवप्रीतः स्तोता नेता नियामकः ॥ 99 ॥

त्वं गतिस्त्वं मतिर्मह्यं पिता माता गुरुः सखा ।
सुहृदश्चात्मरूपस्त्वं त्वां विना नास्ति मे गतिः ॥ 100 ॥

नमस्ते मंत्ररूपाय अस्त्ररूपाय ते नमः ।
बहुरूपाय रूपाय पंचरूपधराय च ॥ 101 ॥

भद्ररूपाय रूढाय योगरूपाय योगिने ।
समरूपाय योगाय योगपीठस्थिताय च ॥ 102 ॥

योगगम्याय सौम्याय ध्यानगम्याय ध्यायिने ।
ध्येयगम्याय धाम्ने च धामाधिपतये नमः ॥ 103 ॥

धराधराय धर्माय धारणाभिरताय च ।
नमो धात्रे च संधात्रे विधात्रे च धराय च ॥ 104 ॥

दामोदराय दांताय दानवांतकराय च ।
नमः संसारवैद्याय भेषजाय नमो नमः ॥ 105 ॥

सीरध्वजाय शीताय वातायाप्रमिताय च ।
सारस्वताय संसारनाशनायाक्षमालिने ॥ 106 ॥

असिचर्मधरायैव षट्कर्मनिरताय च ।
विकर्माय सुकर्माय परकर्मविधायिने ॥ 107 ॥

सुशर्मणे मन्मथाय नमो वर्माय वर्मिणे ।
करिचर्मवसानाय करालवदनाय च ॥ 108 ॥

कवये पद्मगर्भाय भूतगर्भ घृणानिधे ।
ब्रह्मगर्भाय गर्भाय बृहद्गर्भाय धूर्जटे ॥ 109 ॥

नमस्ते विश्वगर्भाय श्रीगर्भाय जितारये ।
नमो हिरण्यगर्भाय हिरण्यकवचाय च ॥ 110 ॥

हिरण्यवर्णदेहाय हिरण्याक्षविनाशिने ।
हिरण्यकशिपोर्हंत्रे हिरण्यनयनाय च ॥ 111 ॥

हिरण्यरेतसे तुभ्यं हिरण्यवदनाय च ।
नमो हिरण्यशृंगाय निःशृंगाय च शृंगिणे ॥ 112 ॥

भैरवाय सुकेशाय भीषणायांत्रमालिने ।
चंडाय रुंडमालाय नमो दंडधराय च ॥ 113 ॥

अखंडतत्त्वरूपाय कमंडलुधराय च ।
नमस्ते खंडसिंहाय सत्यसिंहाय ते नमः ॥ 114 ॥

नमस्ते श्वेतसिंहाय पीतसिंहाय ते नमः ।
नीलसिंहाय नीलाय रक्तसिंहाय ते नमः ॥ 115 ॥

नमो हारिद्रसिंहाय धूम्रसिंहाय ते नमः ।
मूलसिंहाय मूलाय बृहत्सिंहाय ते नमः ॥ 116 ॥

पातालस्थितसिंहाय नमः पर्वतवासिने ।
नमो जलस्थसिंहाय अंतरिक्षस्थिताय च ॥ 117 ॥

कालाग्निरुद्रसिंहाय चंडसिंहाय ते नमः ।
अनंतसिंहसिंहाय अनंतगतये नमः ॥ 118 ॥

नमो विचित्रसिंहाय बहुसिंहस्वरूपिणे ।
अभयंकरसिंहाय नरसिंहाय ते नमः ॥ 119 ॥

नमोऽस्तु सिंहराजाय नारसिंहाय ते नमः ।
सप्ताब्धिमेखलायैव सत्यसत्यस्वरूपिणे ॥ 120 ॥

सप्तलोकांतरस्थाय सप्तस्वरमयाय च ।
सप्तार्चीरूपदंष्ट्राय सप्ताश्वरथरूपिणे ॥ 121 ॥

सप्तवायुस्वरूपाय सप्तच्छंदोमयाय च ।
स्वच्छाय स्वच्छरूपाय स्वच्छंदाय च ते नमः ॥ 122 ॥

श्रीवत्साय सुवेषाय श्रुतये श्रुतिमूर्तये ।
शुचिश्रवाय शूराय सुप्रभाय सुधन्विने ॥ 123 ॥

शुभ्राय सुरनाथाय सुप्रभाय शुभाय च ।
सुदर्शनाय सूक्ष्माय निरुक्ताय नमो नमः ॥ 124 ॥

सुप्रभाय स्वभावाय भवाय विभवाय च ।
सुशाखाय विशाखाय सुमुखाय मुखाय च ॥ 125 ॥

सुनखाय सुदंष्ट्राय सुरथाय सुधाय च ।
सांख्याय सुरमुख्याय प्रख्याताय प्रभाय च ॥ 126 ॥

नमः खट्वांगहस्ताय खेटमुद्गरपाणये ।
खगेंद्राय मृगेंद्राय नागेंद्राय दृढाय च ॥ 127 ॥

नागकेयूरहाराय नागेंद्रायाघमर्दिने ।
नदीवासाय नग्नाय नानारूपधराय च ॥ 128 ॥

नागेश्वराय नागाय नमिताय नराय च ।
नागांतकरथायैव नरनारायणाय च ॥ 129 ॥

नमो मत्स्यस्वरूपाय कच्छपाय नमो नमः ।
नमो यज्ञवराहाय नरसिंहाय ते नमः ॥ 130 ॥

विक्रमाक्रांतलोकाय वामनाय महौजसे ।
नमो भार्गवरामाय रावणांतकराय च ॥ 131 ॥

नमस्ते बलरामाय कंसप्रध्वंसकारिणे ।
बुद्धाय बुद्धरूपाय तीक्ष्णरूपाय कल्किने ॥ 132 ॥

आत्रेयायाग्निनेत्राय कपिलाय द्विजाय च ।
क्षेत्राय पशुपालाय पशुवक्त्राय ते नमः ॥ 133 ॥

गृहस्थाय वनस्थाय यतये ब्रह्मचारिणे ।
स्वर्गापवर्गदात्रे च तद्भोक्त्रे च मुमुक्षवे ॥ 134 ॥

शालग्रामनिवासाय क्षीराब्धिशयनाय च ।
श्रीशैलाद्रिनिवासाय शिलावासाय ते नमः ॥ 135 ॥

योगिहृत्पद्मवासाय महाहासाय ते नमः ।
गुहावासाय गुह्याय गुप्ताय गुरवे नमः ॥ 136 ॥

नमो मूलाधिवासाय नीलवस्त्रधराय च ।
पीतवस्त्राय शस्त्राय रक्तवस्त्रधराय च ॥ 137 ॥

रक्तमालाविभूषाय रक्तगंधानुलेपिने ।
धुरंधराय धूर्ताय दुर्धराय धराय च ॥ 138 ॥

दुर्मदाय दुरंताय दुर्धराय नमो नमः ।
दुर्निरीक्ष्याय निष्ठाय दुर्दर्शाय द्रुमाय च ॥ 139 ॥

दुर्भेदाय दुराशाय दुर्लभाय नमो नमः ।
दृप्ताय दृप्तवक्त्राय अदृप्तनयनाय च ॥ 140 ॥

उन्मत्ताय प्रमत्ताय नमो दैत्यारये नमः ।
रसज्ञाय रसेशाय आरक्तरसनाय च ॥ 141 ॥

पथ्याय परितोषाय रथ्याय रसिकाय च ।
ऊर्ध्वकेशोर्ध्वरूपाय नमस्ते चोर्ध्वरेतसे ॥ 142 ॥

ऊर्ध्वसिंहाय सिंहाय नमस्ते चोर्ध्वबाहवे ।
परप्रध्वंसकायैव शंखचक्रधराय च ॥ 143 ॥

गदापद्मधरायैव पंचबाणधराय च ।
कामेश्वराय कामाय कामपालाय कामिने ॥ 144 ॥

नमः कामविहाराय कामरूपधराय च ।
सोमसूर्याग्निनेत्राय सोमपाय नमो नमः ॥ 145 ॥

नमः सोमाय वामाय वामदेवाय ते नमः ।
सामस्वनाय सौम्याय भक्तिगम्याय वै नमः ॥ 146 ॥

कूष्मांडगणनाथाय सर्वश्रेयस्कराय च ।
भीष्माय भीषदायैव भीमविक्रमणाय च ॥ 147 ॥

मृगग्रीवाय जीवाय जितायाजितकारिणे ।
जटिने जामदग्न्याय नमस्ते जातवेदसे ॥ 148 ॥

जपाकुसुमवर्णाय जप्याय जपिताय च ।
जरायुजायांडजाय स्वेदजायोद्भिजाय च ॥ 149 ॥

जनार्दनाय रामाय जाह्नवीजनकाय च ।
जराजन्मादिदूराय प्रद्युम्नाय प्रमोदिने ॥ 150 ॥

जिह्वारौद्राय रुद्राय वीरभद्राय ते नमः ।
चिद्रूपाय समुद्राय कद्रुद्राय प्रचेतसे ॥ 151 ॥

इंद्रियायेंद्रियज्ञाय नमोऽस्त्विंद्रानुजाय च ।
अतींद्रियाय साराय इंदिरापतये नमः ॥ 152 ॥

ईशानाय च ईड्याय ईशिताय इनाय च ।
व्योमात्मने च व्योम्ने च नमस्ते व्योमकेशिने ॥ 153 ॥

व्योमाधाराय च व्योमवक्त्रायासुरघातिने ।
नमस्ते व्योमदंष्ट्राय व्योमवासाय ते नमः ॥ 154 ॥

सुकुमाराय रामाय शुभाचाराय वै नमः ।
विश्वाय विश्वरूपाय नमो विश्वात्मकाय च ॥ 155 ॥

ज्ञानात्मकाय ज्ञानाय विश्वेशाय परात्मने ।
एकात्मने नमस्तुभ्यं नमस्ते द्वादशात्मने ॥ 156 ॥

चतुर्विंशतिरूपाय पंचविंशतिमूर्तये ।
षड्विंशकात्मने नित्यं सप्तविंशतिकात्मने ॥ 157 ॥

धर्मार्थकाममोक्षाय विरक्ताय नमो नमः ।
भावशुद्धाय सिद्धाय साध्याय शरभाय च ॥ 158 ॥

प्रबोधाय सुबोधाय नमो बुद्धिप्रियाय च ।
स्निग्धाय च विदग्धाय मुग्धाय मुनये नमः ॥ 159 ॥

प्रियंवदाय श्रव्याय स्रुक्स्रुवाय श्रिताय च ।
गृहेशाय महेशाय ब्रह्मेशाय नमो नमः ॥ 160 ॥

श्रीधराय सुतीर्थाय हयग्रीवाय ते नमः ।
उग्राय उग्रवेगाय उग्रकर्मरताय च ॥ 161 ॥

उग्रनेत्राय व्यग्राय समग्रगुणशालिने ।
बालग्रहविनाशाय पिशाचग्रहघातिने ॥ 162 ॥

दुष्टग्रहनिहंत्रे च निग्रहानुग्रहाय च ।
वृषध्वजाय वृष्ण्याय वृषाय वृषभाय च ॥ 163 ॥

उग्रश्रवाय शांताय नमः श्रुतिधराय च ।
नमस्ते देवदेवेश नमस्ते मधुसूदन ॥ 164 ॥

नमस्ते पुंडरीकाक्ष नमस्ते दुरितक्षय ।
नमस्ते करुणासिंधो नमस्ते समितिंजय ॥ 165 ॥

नमस्ते नरसिंहाय नमस्ते गरुडध्वज ।
यज्ञनेत्र नमस्तेऽस्तु कालध्वज जयध्वज ॥ 166 ॥

अग्निनेत्र नमस्तेऽस्तु नमस्ते ह्यमरप्रिय ।
महानेत्र नमस्तेऽस्तु नमस्ते भक्तवत्सल ॥ 167 ॥

धर्मनेत्र नमस्तेऽस्तु नमस्ते करुणाकर ।
पुण्यनेत्र नमस्तेऽस्तु नमस्तेऽभीष्टदायक ॥ 168 ॥

नमो नमस्ते जयसिंहरूप
नमो नमस्ते नरसिंहरूप ।
नमो नमस्ते रणसिंहरूप
नमो नमस्ते नरसिंहरूप ॥ 169 ॥

उद्धृत्य गर्वितं दैत्यं निहत्याजौ सुरद्विषम् ।
देवकार्यं महत्कृत्वा गर्जसे स्वात्मतेजसा ॥ 170 ॥

अतिरौद्रमिदं रूपं दुस्सहं दुरतिक्रमम् ।
दृष्ट्वा तु शंकिताः सर्वा देवतास्त्वामुपागताः ॥ 171 ॥

एतान्पश्य महेशानं ब्रह्माणं मां शचीपतिम् ।
दिक्पालान् द्वादशादित्यान् रुद्रानुरगराक्षसान् ॥ 172 ॥

सर्वान् ऋषिगणान् सप्तमातृर्गौरीं सरस्वतीम् ।
लक्ष्मीं नदीश्च तीर्थानि रतिं भूतगणान्यपि ॥ 173 ॥

प्रसीद त्वं महासिंह उग्रभावमिमं त्यज ।
प्रकृतिस्थो भव त्वं हि शांतिभावं च धारय ॥ 174 ॥

इत्युक्त्वा दंडवद्भूमौ पपात स पितामहः ।
प्रसीद त्वं प्रसीद त्वं प्रसीदेति पुनः पुनः ॥ 175 ॥

मार्कंडेय उवाच ।
दृष्ट्वा तु देवताः सर्वाः श्रुत्वा तां ब्रह्मणो गिरम् ।
स्तोत्रेणापि च संहृष्टः सौम्यभावमधारयत् ॥ 176 ॥

अब्रवीन्नारसिंहस्तु वीक्ष्य सर्वान् सुरोत्तमान् ।
संत्रस्तान् भयसंविग्नान् शरणं समुपागतान् ॥ 177 ॥

श्रीनृसिंह उवाच ।
भो भो देववराः सर्वे पितामहपुरोगमाः ।
शृणुध्वं मम वाक्यं च भवंतु विगतज्वराः ॥ 178 ॥

यद्धितं भवतां नूनं तत्करिष्यामि सांप्रतम् ।
एवं नामसहस्रं मे त्रिसंध्यं यः पठेत् शुचिः ॥ 179 ॥

शृणोति वा श्रावयति पूजांते भक्तिसंयुतः ।
सर्वान् कामानवाप्नोति जीवेच्च शरदां शतम् ॥ 180 ॥

यो नामभिर्नृसिंहाद्यैरर्चयेत्क्रमशो मम ।
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ॥ 181 ॥

सर्वपूजासु यत्प्रोक्तं तत्सर्वं लभते भृशम् ।
जातिस्मरत्वं लभते ब्रह्मज्ञानं सनातनम् ॥ 182 ॥

सर्वपापविनिर्मुक्तः तद्विष्णोः परमं पदम् ।
मन्नामकवचं बध्वा विचरेद्विगतज्वरः ॥ 183 ॥

भूतभेतालकूष्मांड पिशाचब्रह्मराक्षसाः ।
शाकिनीडाकिनीज्येष्ठा नीली बालग्रहादिकाः ॥ 184 ॥

दुष्टग्रहाश्च नश्यंति यक्षराक्षसपन्नगाः ।
ये च संध्याग्रहाः सर्वे चांडालग्रहसंज्ञिकाः ॥ 185 ॥

निशाचरग्रहाः सर्वे प्रणश्यंति च दूरतः ।
कुक्षिरोगं च हृद्रोगं शूलापस्मारमेव च ॥ 186 ॥

ऐकाहिकं द्व्याहिकं च चातुर्थिकमथ ज्वरम् ।
आधयो व्याधयः सर्वे रोगा रोगाधिदेवताः ॥ 187 ॥

शीघ्रं नश्यंति ते सर्वे नृसिंहस्मरणात् सुराः ।
राजानो दासतां यांति शत्रवो यांति मित्रताम् ॥ 188 ॥

जलानि स्थलतां यांति वह्नयो यांति शीतताम् ।
विषाण्यप्यमृता यांति नृसिंहस्मरणात्सुराः ॥ 189 ॥

राज्यकामो लभेद्राज्यं धनकामो लभेद्धनम् ।
विद्याकामो लभेद्विद्यां बद्धो मुच्येत बंधनात् ॥ 190 ॥

व्यालव्याघ्रभयं नास्ति चोरसर्पादिकं तथा ।
अनुकूला भवेद्भार्या लोकैश्च प्रतिपूज्यते ॥ 191 ॥

सुपुत्रं धनधान्यं च भवंति विगतज्वराः ।
एतत्सर्वं समाप्नोति नृसिंहस्य प्रसादतः ॥ 192 ॥

जलसंतरणे चैव पर्वतारण्यमेव च ।
वनेऽपि विचिरन्मर्त्यो दुर्गमे विषमे पथि ॥ 193 ॥

बिलप्रवेशने चापि नारसिंहं न विस्मरेत् ।
ब्रह्मघ्नश्च पशुघ्नश्च भ्रूणहा गुरुतल्पगः ॥ 194 ॥

मुच्यते सर्वपापेभ्यः कृतघ्नः स्त्रीविघातकः ।
वेदानां दूषकश्चापि मातापितृविनिंदकः ॥ 195 ॥

असत्यस्तु तेथा यज्ञनिंदको लोकनिंदकः ।
स्मृत्वा सकृन्नृसिंहं तु मुच्यते सर्वकिल्बिषैः ॥ 196 ॥

बहुनात्र किमुक्तेन स्मृत्वा मां शुद्धमानसः ।
यत्र यत्र चरेन्मर्त्यो नृसिंहस्तत्र रक्षति ॥ 197 ॥

गच्छन् तिष्ठन् स्वपन् भुंजन् जाग्रन्नपि हसन्नपि ।
नृसिंहेति नृसिंहेति नृसिंहेति सदा स्मरन् ॥ 198 ॥

पुमान्न लिप्यते पापैर्भुक्तिं मुक्तिं च विंदति ।
नारी सुभगतामेति सौभाग्यं च स्वरूपताम् ॥ 199 ॥

भर्तुः प्रियत्वं लभते न वैधव्यं च विंदति ।
न सपत्नीं च जन्मांते सम्यक् ज्ञानी भवेद्विजः ॥ 200 ॥

भूमिप्रदक्षिणान्मर्त्यो यत्फलं लभते चिरात् ।
तत्फलं लभते नारसिंहमूर्तिप्रदक्षिणात् ॥ 201 ॥

मार्कंडेय उवाच ।
इत्युक्त्वा देवदेवेशो लक्ष्मीमालिंग्य लीलया ।
प्रह्लादस्याभिषेकं तु ब्रह्मणे चोपदिष्टवान् ॥ 202 ॥

श्रीशैलस्य प्रसादे तु लोकानां च हिताय वै ।
स्वरूपं स्थापयामास प्रकृतिस्थोऽभवत्तदा ॥ 203 ॥

ब्रह्मापि दैत्यराजानं प्रह्लादमभ्यषेचयत् ।
दैवतैः सह सुप्रीतो ह्यात्मलोकं ययौ स्वयम् ॥ 204 ॥

हिरण्यकशिपोर्भीत्या प्रपलाय्य शचीपतिः ।
स्वर्गराज्यपरिभ्रष्टो युगानामेकविंशतिम् ॥ 205 ॥

नृसिंहेन हते दैत्ये स्वर्गलोकमवाप सः ।
दिक्पालाश्च सुसंप्राप्तः स्वस्वस्थानमनुत्तमम् ॥ 206 ॥

धर्मे मतिः समस्तानां प्रजानामभवत्तदा ।
एवं नामसहस्रं मे ब्रह्मणा निर्मितं पुरा ॥ 207 ॥

पुत्रानध्यापयामास सनकादीन्महामतिः ।
ऊचुस्ते च ततः सर्वलोकानां हितकाम्यया ॥ 208 ॥

देवता ऋषयः सिद्धा यक्षविद्याधरोरगाः ।
गंधर्वाश्च मनुष्याश्च इहामुत्रफलैषिणः ॥ 209 ॥

यस्य स्तोत्रस्य पाठाद्धि विशुद्धमनसोऽभवन् ।
सनत्कुमारः संप्राप्तो भारद्वाजो महामतिः ॥ 210 ॥

तस्मादांगिरसः प्राप्तस्तस्मात्प्राप्तो महाक्रतुः ।
जग्राह भार्गवस्तस्मादग्निमित्राय सोऽब्रवीत् ॥ 211।

जैगीषव्याय स प्राह सोऽब्रवीच्च्यवनाय च ।
तस्मा उवाच शांडिल्यो गर्गाय प्राह वै मुनिः ॥ 212 ॥

क्रतुंजयाय स प्राह जतुकर्ण्याय संयमी ।
विष्णुवृद्धाय सोऽप्याह सोऽपि बोधायनाय च ॥ 213 ॥

क्रमात्स विष्णवे प्राह स प्राहोद्धामकुक्षये ।
सिंहतेजाश्च तस्माच्च श्रीप्रियाय ददौ च नः ॥ 214 ॥ [सः]

उपदिष्टोऽस्मि तेनाहमिदं नामसहस्रकम् ।
तत्प्रसादादमृत्युर्मे यस्मात्कस्माद्भयं न हि ॥ 215 ॥

मया च कथितं नारसिंहस्तोत्रमिदं तव ।
त्वं हि नित्यं शुचिर्भूत्वा तमाराधय शाश्वतम् ॥ 216 ॥

सर्वभूताश्रयं देवं नृसिंहं भक्तवत्सलम् ।
पूजयित्वा स्तवं जप्त्वा हुत्वा निश्चलमानसः ॥ 217 ॥

प्राप्यसे महतीं सिद्धिं सर्वान् कामान्वरोत्तमान् ।
अयमेव परोधर्मस्त्विदमेव परं तपः ॥ 218 ॥

इदमेव परं ज्ञानमिदमेव महद्व्रतम् ।
अयमेव सदाचारस्त्वयमेव सदा मखः ॥ 219 ॥

इदमेव त्रयो वेदाः सच्छास्त्राण्यागमानि च ।
नृसिंहमंत्रादन्यच्च वैदिकं तु न विद्यते ॥ 220 ॥

यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ।
कथितं ते नृसिंहस्य चरितं पापनाशनम् ॥ 221 ॥

सर्वमंत्रमयं तापत्रयोपशमनं परम् ।
सर्वार्थसाधनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ 222 ॥

इति श्रीनृसिंहपुराणे नृसिंहप्रादुर्भावे श्रीमद्दिव्य लक्ष्मीनृसिंह सहस्रनाम स्तोत्रम् ॥




Browse Related Categories: