| | English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| | Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
|
कुबेर स्तोत्रम् कुबेरो धनद श्रीदः राजराजो धनेश्वरः । दाक्षिण्यो धर्मनिरतः दयावन्तो धृढव्रतः । धान्यलक्ष्मी समाराध्यो धैर्यलक्ष्मी विराजितः । निधीश्वरो निरालम्बो निधीनां परिपालकः । नवनाग समाराध्यो नवसङ्ख्या प्रवर्तकः । याज्ञिको यजनासक्तः यज्ञभुग्यज्ञरक्षकः । विचित्रवस्त्रवेषाढ्यः वियद्गमन मानसः । विरूपाक्ष प्रियतमो विरागी विश्वतोमुखः । सामदानरतः सौम्यः सर्वबाधानिवारकः । सामगानप्रियः साक्षाद्विभव श्री विराजितः । अव्ययोर्चन सम्प्रीतः अमृतास्वादन प्रियः । उदारबुद्धिरुद्दामवैभवो नरवाहनः । अष्टलक्ष्म्या समायुक्तः अव्यक्तोऽमलविग्रहः । सुलभः सुभगः शुद्धो शङ्कराराधनप्रियः । सर्वागमज्ञो सुमतिः सर्वदेवगणार्चकः । शमादिगुणसम्पन्नः शरण्यो दीनवत्सलः । दान्तः सर्वगुणोपेतः सुरेन्द्रसमवैभवः । प्रातः काले पठेत् स्तोत्रं शुचिर्भूत्वा दिने दिने । इति श्री कुबेर स्तोत्रम् ॥ |