View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

कुबेर स्तोत्रम्

कुबेरो धनद श्रीदः राजराजो धनेश्वरः ।
धनलक्ष्मीप्रियतमो धनाढ्यो धनिकप्रियः ॥ 1 ॥

दाक्षिण्यो धर्मनिरतः दयावंतो धृढव्रतः ।
दिव्य लक्षण संपन्नो दीनार्ति जनरक्षकः ॥ 2 ॥

धान्यलक्ष्मी समाराध्यो धैर्यलक्ष्मी विराजितः ।
दयारूपो धर्मबुद्धिः धर्म संरक्षणोत्सकः ॥ 3 ॥

निधीश्वरो निरालंबो निधीनां परिपालकः ।
नियंता निर्गुणाकारः निष्कामो निरुपद्रवः ॥ 4 ॥

नवनाग समाराध्यो नवसंख्या प्रवर्तकः ।
मान्यश्चैत्ररथाधीशः महागुणगणान्वितः ॥ 5 ॥

याज्ञिको यजनासक्तः यज्ञभुग्यज्ञरक्षकः ।
राजचंद्रो रमाधीशो रंजको राजपूजितः ॥ 6 ॥

विचित्रवस्त्रवेषाढ्यः वियद्गमन मानसः ।
विजयो विमलो वंद्यो वंदारु जनवत्सलः ॥ 7 ॥

विरूपाक्ष प्रियतमो विरागी विश्वतोमुखः ।
सर्वव्याप्तो सदानंदः सर्वशक्ति समन्वितः ॥ 8 ॥

सामदानरतः सौम्यः सर्वबाधानिवारकः ।
सुप्रीतः सुलभः सोमो सर्वकार्यधुरंधरः ॥ 9 ॥

सामगानप्रियः साक्षाद्विभव श्री विराजितः ।
अश्ववाहन संप्रीतो अखिलांड प्रवर्तकः ॥ 10 ॥

अव्ययोर्चन संप्रीतः अमृतास्वादन प्रियः ।
अलकापुरसंवासी अहंकारविवर्जितः ॥ 11 ॥

उदारबुद्धिरुद्दामवैभवो नरवाहनः ।
किन्नरेशो वैश्रवणः कालचक्रप्रवर्तकः ॥ 12 ॥

अष्टलक्ष्म्या समायुक्तः अव्यक्तोऽमलविग्रहः ।
लोकाराध्यो लोकपालो लोकवंद्यो सुलक्षणः ॥ 13 ॥

सुलभः सुभगः शुद्धो शंकराराधनप्रियः ।
शांतः शुद्धगुणोपेतः शाश्वतः शुद्धविग्रहः ॥ 14 ॥

सर्वागमज्ञो सुमतिः सर्वदेवगणार्चकः ।
शंखहस्तधरः श्रीमान् परं ज्योतिः परात्परः ॥ 15 ॥

शमादिगुणसंपन्नः शरण्यो दीनवत्सलः ।
परोपकारी पापघ्नः तरुणादित्यसन्निभः ॥ 16 ॥

दांतः सर्वगुणोपेतः सुरेंद्रसमवैभवः ।
विश्वख्यातो वीतभयः अनंतानंतसौख्यदः ॥ 17 ॥

प्रातः काले पठेत् स्तोत्रं शुचिर्भूत्वा दिने दिने ।
तेन प्राप्नोति पुरुषः श्रियं देवेंद्रसन्निभम् ॥ 18 ॥

इति श्री कुबेर स्तोत्रम् ॥




Browse Related Categories: