View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री बगलामुखी अष्टोत्तर शत नामा स्तोत्रं

नारद उवाच
भगवन् देवदेवेश सृष्टिस्थितिलयेश्वर ।
शतमष्टोत्तरं नाम्नां बगलाया वदाधुना ॥ 1 ॥

श्री भगवानुवाच
शृणु वत्स प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
पीतांबर्या महादेव्याः स्तोत्रं पापप्रणाशनम् ॥ 2 ॥

यस्य प्रपठनात्सद्यो वादी मूकोभवेत् क्षणात् ।
रिपवस्स्तंभनं यांति सत्यं सत्यं वदाम्यहम् ॥ 3 ॥

ॐ अस्य श्रीपीतांबर्यष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिः अनुष्टुप्छंदः श्रीपीतांबरी देवता श्रीपीतांबरी प्रीतये जपे विनियोगः ।

ॐ बगला विष्णुवनिता विष्णुशंकरभामिनी ।
बहुला देवमाता च महाविष्णुप्रसूरपि ॥ 4 ॥

महामत्स्या महाकूर्मा महावाराहरूपिणी ।
नारसिंहप्रिया रम्या वामना पटुरूपिणी ॥ 5 ॥

जामदग्न्यस्वरूपा च रामा रामप्रपूजिता ।
कृष्णा कपर्दिनी कृत्या कलहा च विकारिणी ॥ 6 ॥

बुद्धिरूपा बुद्धभार्या बौद्धपाषंडखंडिनी ।
कल्किरूपा कलिहरा कलिदुर्गतिनाशिनी ॥ 7 ॥

कोटिसूर्यप्रतीकाशा कोटिकंदर्पमोहिनी ।
केवला कठिना काली कला कैवल्यदायिनी ॥ 8 ॥

केशवी केशवाराध्या किशोरी केशवस्तुता ।
रुद्ररूपा रुद्रमूर्ती रुद्राणी रुद्रदेवता ॥ 9 ॥

नक्षत्ररूपा नक्षत्रा नक्षत्रेशप्रपूजिता ।
नक्षत्रेशप्रिया नित्या नक्षत्रपतिवंदिता ॥ 10 ॥

नागिनी नागजननी नागराजप्रवंदिता ।
नागेश्वरी नागकन्या नागरी च नगात्मजा ॥ 11 ॥

नगाधिराजतनया नगराजप्रपूजिता ।
नवीना नीरदा पीता श्यामा सौंदर्यकारिणी ॥ 12 ॥

रक्ता नीला घना शुभ्रा श्वेता सौभाग्यदायिनी ।
सुंदरी सौभगा सौम्या स्वर्णाभा स्वर्गतिप्रदा ॥ 13 ॥

रिपुत्रासकरी रेखा शत्रुसंहारकारिणी ।
भामिनी च तथा माया स्तंभिनी मोहिनी शुभा ॥ 14 ॥

रागद्वेषकरी रात्री रौरवध्वंसकारिणी ।
यक्षिणी सिद्धनिवहा सिद्धेशा सिद्धिरूपिणी ॥ 15 ॥

लंकापतिध्वंसकरी लंकेशरिपुवंदिता ।
लंकानाथकुलहरा महारावणहारिणी ॥ 16 ॥

देवदानवसिद्धौघपूजितापरमेश्वरी ।
पराणुरूपा परमा परतंत्रविनाशिनी ॥ 17 ॥

वरदा वरदाराध्या वरदानपरायणा ।
वरदेशप्रिया वीरा वीरभूषणभूषिता ॥ 18 ॥

वसुदा बहुदा वाणी ब्रह्मरूपा वरानना ।
बलदा पीतवसना पीतभूषणभूषिता ॥ 19 ॥

पीतपुष्पप्रिया पीतहारा पीतस्वरूपिणी ।
इति ते कथितं विप्र नाम्नामष्टोत्तरं शतम् ॥ 20 ॥

यः पठेत्पाठयेद्वापि शृणुयाद्वा समाहितः ।
तस्य शत्रुः क्षयं सद्यो याति नैवात्र संशयः ॥ 21 ॥

प्रभातकाले प्रयतो मनुष्यः
पठेत्सुभक्त्या परिचिंत्य पीताम् ।
ध्रुवं भवेत्तस्य समस्तवृद्धिः
विनाशमायाति च तस्य शत्रुः ॥ 22 ॥

इति श्रीविष्णुयामले नारदविष्णुसंवादे श्रीबगलाष्टोत्तरशतनामस्तोत्रम् ।




Browse Related Categories: