View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

श्री वेङ्कटेश्वर शरणागति स्तोत्रम् (सप्तर्षि कृतम्)

शेषाचलं समासाद्य कश्यपाद्या महर्षयः ।
वेङ्कटेशं रमानाथं शरणं प्रापुरञ्जसा ॥ 1 ॥

कलिसन्तारकं मुख्यं स्तोत्रमेतज्जपेन्नरः ।
सप्तर्षिवाक्प्रसादेन विष्णुस्तस्मै प्रसीदति ॥ 2 ॥

कश्यप उवाच –
कादिह्रीमन्तविद्यायाः प्राप्यैव परदेवता ।
कलौ श्रीवेङ्कटेशाख्या तामहं शरणं भजे ॥ 3 ॥

अत्रिरुवाच –
अकारादिक्षकारान्तवर्णैर्यः प्रतिपाद्यते ।
कलौ स वेङ्कटेशाख्यः शरणं मे रमापतिः ॥ 4 ॥

भरद्वाज उवाच –
भगवान् भार्गवीकान्तो भक्ताभीप्सितदायकः ।
भक्तस्य वेङ्कटेशाख्यो भरद्वाजस्य मे गतिः ॥ 5 ॥

विश्वामित्र उवाच –
विराड्विष्णुर्विधाता च विश्वविज्ञानविग्रहः ।
विश्वामित्रस्य शरणं वेङ्कटेशो विभुः सदा ॥ 6 ॥

गौतम उवाच –
गौर्गौरीशप्रियो नित्यं गोविन्दो गोपतिर्विभुः ।
शरणं गौतमस्यास्तु वेङ्कटाद्रिशिरोमणिः ॥ 7 ॥

जमदग्निरुवाच –
जगत्कर्ता जगद्भर्ता जगद्धर्ता जगन्मयः ।
जमदग्नेः प्रपन्नस्य जीवेशो वेङ्कटेश्वरः ॥ 8 ॥

वसिष्ठ उवाच –
वस्तुविज्ञानमात्रं यन्निर्विशेषं सुखं च सत् ।
तद्ब्रह्मैवाहमस्मीति वेङ्कटेशं भजे सदा ॥ 9 ॥

सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः ।
सोऽभयं प्राप्नुयात्सत्यं सर्वत्र विजयी भवेत् ॥ 10 ॥

इति सप्तर्षिभिः कृतं श्री वेङ्कटेश्वर शरणागति स्तोत्रम् ।




Browse Related Categories: