श्रीवेङ्कटाद्रिधामा भूमा भूमाप्रियः कृपासीमा ।
निरवधिकनित्यमहिमा भवतु जयी प्रणतदर्शितप्रेमा ॥ 1 ॥
जय जनता विमलीकृतिसफलीकृतसकलमङ्गलाकार ।
विजयी भव विजयी भव विजयी भव वेङ्कटाचलाधीश ॥ 2 ॥
कमनीयमन्दहसितं कञ्चन कन्दर्पकोटिलावण्यम् ।
पश्येयमञ्जनाद्रौ पुंसां पूर्वतनपुण्यपरिपाकम् ॥ 3 ॥
मरतकमेचकरुचिना मदनाज्ञागन्धिमध्यहृदयेन ।
वृषशैलमौलिसुहृदा महसा केनापि वासितं ज्ञेयम् ॥ 4 ॥
पत्यै नमो वृषाद्रेः करयुगपरिकर्मशङ्खचक्राय ।
इतरकरकमलयुगलीदर्शित-कटिबन्धदानमुद्राय ॥ 5 ॥
साम्राज्यपिशुनमकुटीसुघटललाटात् सुमङ्गला पाङ्गात् ।
स्मितरुचिफुल्लकपोलादपरो न परोऽस्ति वेङ्कटाद्रीशात् ॥ 6 ॥
सर्वाभरणविभूषितदिव्यावयवस्य वेङ्कटाद्रिपतेः ।
पल्लवपुष्पविभूषितकल्पतरोश्चापि का भिदा दृष्टा ॥ 7 ॥
लक्ष्मीललितपदाम्बुजलाक्षारसरञ्जितायतोरस्के ।
श्रीवेङ्कटाद्रिनाथे नाथे मम नित्यमर्पितो भारः ॥ 8 ॥
आर्यावृत्तसमेता सप्तविभक्तिर्वृषाद्रिनाथस्य ।
वादीन्द्रभीकृदाख्यैरार्यै रचिता जयत्वियं सततम् ॥ 9 ॥
इति श्रीवेङ्कटेशविजयार्यासप्तविभक्ति स्तोत्रं सम्पूर्णम् ।