View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

ज्वर कृता कृष्ण स्तॊत्रम्

ज्वर उवाच ।
नमः कृष्णाय हरये विष्णवे प्रभविष्णवे ।
आदिदेवाय देवाय पुराणाय गदाभृते ॥ 1 ॥
नमः सहस्रशिरसे सहस्रचरणाय च ।
सहस्राक्ष नमो नित्यं लोकानामभयङ्कर ॥ 2 ॥
उद्गीथाय नमो देव यज्ञाधिपतये नमः ।
नमस्ते चक्रिणे नित्यमसिहस्ताय ते नमः ॥ 3 ॥
अनन्ताय विरूपाय नमस्ते मधुसूदन ।
नमस्ते देवदेवेश तुभ्यं देव कपर्दिने ॥ 4 ॥
नमस्ते राक्षसघ्नाय नमो राघवरूपिणे ।
ज्ञानज्ञेयाय देवाय नम आद्याय विष्णवे ॥ 5 ॥
नमस्ते नरसिंहाय दैत्यराजविहारिणे ।
नमस्तुभ्यं वराहाय दंष्ट्रोद्धृतवसुन्धर ॥ 6 ॥
त्रिविक्रम नमस्तुभ्यं बलियज्ञविनाशन ।
वासुदेवाय देवाय नमः कंसविनाशन ॥ 7 ॥
नमः सर्वात्मने देव सर्वकर्त्रे नमो नमः ।
प्रासीद देवदेवेश भीतानामभयङ्कर ॥ 8 ॥
नमामि देवदेवेशं वरेण्यमभयप्रदम् ।
विष्णो त्वां सकलेशेश त्वां गदाधरमव्ययम् ॥ 9 ॥
नमस्ते देवदेवेश भीतोऽहं भवनाशन ।
इति स्तुत्वा जगन्नाथं नृत्यन्निव तदा ज्वरः ॥ 10 ॥
पपात पादयोर्विष्णोर्निःश्वसन् भीतभीतवत् ।
प्रासीद विष्णो देवेश पीडितोऽस्मि जनार्दन ॥ 11 ॥

इति हरिवंशान्तर्गतं ज्वरकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।

हरिवंश . अध्याय 111/7 . ।




Browse Related Categories: