View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री मातंगी अष्टोत्तर शत नामा स्तोत्रं

श्रीभैरव्युवाच
भगवन् श्रोतुमिच्छामि मातंग्याः शतनामकम् ।
यद्गुह्यं सर्वतंत्रेषु केनापि न प्रकाशितम् ॥ 1 ॥

श्रीभैरव उवाच
शृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् ।
नाख्येयं यत्र कुत्रापि पठनीयं परात्परम् ॥ 2 ॥

यस्यैकवारपठनात्सर्वे विघ्ना उपद्रवाः ।
नश्यंति तत्क्षणाद्देवि वह्निना तूलराशिवत् ॥ 3 ॥

प्रसन्ना जायते देवी मातंगी चास्य पाठतः ।
सहस्रनामपठने यत्फलं परिकीर्तितम् ।
तत्कोटिगुणितं देवीनामाष्टशतकं शुभम् ॥ 4 ॥

अस्य श्रीमातंग्यष्टोत्तरशतनामस्तोत्रस्य भगवान्मतंग ऋषिः अनुष्टुप्छंदः श्रीमातंगी देवता श्रीमातंगी प्रीतये जपे विनियोगः ।

महामत्तमातंगिनी सिद्धिरूपा
तथा योगिनी भद्रकाली रमा च ।
भवानी भवप्रीतिदा भूतियुक्ता
भवाराधिता भूतिसंपत्करी च ॥ 1 ॥

धनाधीशमाता धनागारदृष्टि-
-र्धनेशार्चिता धीरवापी वरांगी ।
प्रकृष्टा प्रभारूपिणी कामरूपा
प्रहृष्टा महाकीर्तिदा कर्णनाली ॥ 2 ॥

कराली भगा घोररूपा भगांगी
भगाह्वा भगप्रीतिदा भीमरूपा ।
भवानी महाकौशिकी कोशपूर्णा
किशोरी किशोरप्रिया नंदीहा ॥ 3 ॥

महाकारणाऽकारणा कर्मशीला
कपाली प्रसिद्धा महासिद्धखंडा ।
मकारप्रिया मानरूपा महेशी
मलोल्लासिनी लास्यलीलालयांगी ॥ 4 ॥

क्षमा क्षेमशीला क्षपाकारिणी चा-
-ऽक्षयप्रीतिदा भूतियुक्ता भवानी ।
भवाराधिता भूतिसत्यात्मिका च
प्रभोद्भासिता भानुभास्वत्करा च ॥ 5 ॥

धराधीशमाता धरागारदृष्टि-
-र्धरेशार्चिता धीवरा धीवरांगी ।
प्रकृष्टा प्रभारूपिणी प्राणरूपा
प्रकृष्टस्वरूपा स्वरूपप्रिया च ॥ 6 ॥

चलत्कुंडला कामिनी कांतयुक्ता
कपालाऽचला कालकोद्धारिणी च ।
कदंबप्रिया कोटरी कोटदेहा
क्रमा कीर्तिदा कर्णरूपा च काक्ष्मीः ॥ 7 ॥

क्षमांगी क्षयप्रेमरूपा क्षया च
क्षयाक्षा क्षयाह्वा क्षयप्रांतरा च ।
क्षवत्कामिनी क्षारिणी क्षीरपूर्णा
शिवांगी च शाकंभरी शाकदेहा ॥ 8 ॥

महाशाकयज्ञा फलप्राशका च
शकाह्वाऽशकाह्वा शकाख्या शका च ।
शकाक्षांतरोषा सुरोषा सुरेखा
महाशेषयज्ञोपवीतप्रिया च ॥ 9 ॥

जयंती जया जाग्रती योग्यरूपा
जयांगा जपध्यानसंतुष्टसंज्ञा ।
जयप्राणरूपा जयस्वर्णदेहा
जयज्वालिनी यामिनी याम्यरूपा ॥ 10 ॥

जगन्मातृरूपा जगद्रक्षणा च
स्वधावौषडंता विलंबाऽविलंबा ।
षडंगा महालंबरूपासिहस्ता-
पदाहारिणीहारिणी हारिणी च ॥ 11 ॥

महामंगला मंगलप्रेमकीर्ति-
-र्निशुंभच्छिदा शुंभदर्पापहा च ।
तथाऽऽनंदबीजादिमुक्तिस्वरूपा
तथा चंडमुंडापदा मुख्यचंडा ॥ 12 ॥

प्रचंडाऽप्रचंडा महाचंडवेगा
चलच्चामरा चामरा चंद्रकीर्तिः ।
सुचामीकरा चित्रभूषोज्ज्वलांगी
सुसंगीतगीता च पायादपायात् ॥ 13 ॥

इति ते कथितं देवि नाम्नामष्टोत्तरं शतम् ।
गोप्यं च सर्वतंत्रेषु गोपनीयं च सर्वदा ॥ 14 ॥

एतस्य सतताभ्यासात्साक्षाद्देवो महेश्वरः ।
त्रिसंध्यं च महाभक्त्या पठनीयं सुखोदयम् ॥ 15 ॥

न तस्य दुष्करं किंचिज्जायते स्पर्शतः क्षणात् ।
सुकृतं यत्तदेवाप्तं तस्मादावर्तयेत्सदा ॥ 16 ॥

सदैव सन्निधौ तस्य देवी वसति सादरम् ।
अयोगा ये त एवाग्रे सुयोगाश्च भवंति वै ॥ 17 ॥

त एव मित्रभूताश्च भवंति तत्प्रसादतः ।
विषाणि नोपसर्पंति व्याधयो न स्पृशंति तान् ॥ 18 ॥

लूताविस्फोटकाः सर्वे शमं यांति च तत्क्षणात् ।
जरापलितनिर्मुक्तः कल्पजीवी भवेन्नरः ॥ 19 ॥

अपि किं बहुनोक्तेन सान्निध्यं फलमाप्नुयात् ।
यावन्मया पुरा प्रोक्तं फलं साहस्रनामकम् ।
तत्सर्वं लभते मर्त्यो महामायाप्रसादतः ॥ 20 ॥

इति श्रीरुद्रयामले श्रीमातंगीशतनामस्तोत्रम् ।




Browse Related Categories: