View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

1.1 - अग्न्याधेयब्राह्मणं - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - ब्रह्म सन्धत्तं

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके प्रथमः प्रपाठकः - अग्न्याधेयब्राह्मणं

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

ब्रह्म॒ सन्ध॑त्त॒-न्तन्मे॑ जिन्वतम् । क्ष॒त्रग्ं सन्ध॑त्त॒-न्तन्मे॑ जिन्वतम् । इष॒ग्ं॒ सन्ध॑त्त॒-न्ता-म्मे॑ जिन्वतम् । ऊर्ज॒ग्ं॒ सन्ध॑त्त॒-न्ता-म्मे॑ जिन्वतम् । र॒यिग्ं सन्ध॑त्त॒-न्ता-म्मे॑ जिन्वतम् । पुष्टि॒ग्ं॒ सन्ध॑त्त॒-न्ता-म्मे॑ जिन्वतम् । प्र॒जाग्ं सन्ध॑त्त॒-न्ता-म्मे॑ जिन्वतम् । प॒शू-न्थ्सन्ध॑त्त॒-न्तान्मे॑ जिन्वतम् ॥ स्तु॒तो॑-ऽसि॒ जन॑धाः । दे॒वास्त्वा॑ शुक्र॒पाः प्रण॑यन्तु ॥ 1 ॥

सु॒वीराः᳚ प्र॒जाः प्र॑ज॒नय॒-न्परी॑हि । शु॒क्र-श्शु॒क्रशो॑चिषा ॥ स्तु॒तो॑-ऽसि॒ जन॑धाः । दे॒वास्त्वा॑ मन्थि॒पाः प्रण॑यन्तु ॥ सु॒प्र॒जाः प्र॒जाः प्र॑ज॒नय॒-न्परी॑हि । म॒न्थी म॒न्थिशो॑चिषा ॥स॒ज॒ङ्ग्मा॒नौ दि॒व आ पृ॑थि॒व्या-ऽऽयुः॑ । सन्ध॑त्त॒-न्तन्मे॑ जिन्वतम् । प्रा॒णग्ं सन्ध॑त्त॒-न्त-म्मे॑ जिन्वतम् । अ॒पा॒नग्ं सन्ध॑त्त॒-न्त-म्मे॑ जिन्वतम् ॥ 2 ॥

व्या॒नग्ं सन्ध॑त्त॒-न्त-म्मे॑ जिन्वतम् । चक्षु॒-स्सन्ध॑त्त॒-न्तन्मे॑ जिन्वतम् । श्रोत्र॒ग्ं॒ सन्ध॑त्त॒-न्तन्मे॑ जिन्वतम् । मन॒-स्सन्ध॑त्त॒-न्तन्मे॑ जिन्वतम् । वाच॒ग्ं॒ सन्ध॑त्त॒-न्ता-म्मे॑ जिन्वतम् ॥ आयु॑-स्स्थ॒ आयु॑र्मे धत्तम् । आयु॑-र्य॒ज्ञाय॑ धत्तम् । आयु॑-र्य॒ज्ञप॑तये धत्तम् । प्रा॒ण-स्स्थः॑ प्रा॒ण-म्मे॑ धत्तम् । प्रा॒णं-यँ॒ज्ञाय॑ धत्तम् ॥ 3 ॥

प्रा॒णं-यँ॒ज्ञप॑तये धत्तम् । चक्षु॑-स्स्थ॒श्चक्षु॑र्मे धत्तम् । चक्षु॑-र्य॒ज्ञाय॑ धत्तम् । चक्षु॑-र्य॒ज्ञप॑तये धत्तम् । श्रोत्रग्ग्॑ स्थ॒-श्श्रोत्र॑-म्मे धत्तम् । श्रोत्रं॑-यँ॒ज्ञाय॑ धत्तम् । श्रोत्रं॑-यँ॒ज्ञप॑तये धत्तम् । तौ दे॑वौ शुक्रामन्थिनौ ।क॒ल्पय॑त॒-न्दैवी॒र्विशः॑ । क॒ल्पय॑त॒-म्मानु॑षीः ॥ 4 ॥

इष॒-मूर्ज॑म॒स्मासु॑ धत्तम् । प्रा॒णा-न्प॒शुषु॑ । प्र॒जा-म्मयि॑ च॒ यज॑माने च ॥ निर॑स्त॒-श्शण्डः॑ । निर॑स्तो॒ मर्कः॑ ॥ अप॑नुत्तौ॒ शण्डा॒मर्कौ॑ स॒हामुना᳚ ॥ शु॒क्रस्य॑ स॒मिद॑सि । म॒न्थिन॑-स्स॒मिद॑सि ॥ स प्र॑थ॒म-स्सङ्कृ॑ति-र्वि॒श्वक॑र्मा । स प्र॑थ॒मो मि॒त्रो वरु॑णो अ॒ग्निः । स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वान् । तस्मा॒ इन्द्रा॑य सु॒तमाजु॑होमि ॥ 5 ॥
(न॒य॒ - न्त्व॒पा॒नग्ं सन्ध॑त्तं॒ त-म्मे॑ जिन्वतं - प्रा॒णं-यँ॒ज्ञाय॑ धत्तं॒ - मानु॑षी--र् अ॒ग्नि-र्द्वे च॑) (अ. 1)

ब्रह्म॑ क्ष॒त्र-न्तत् । इष॒मूर्जग्ं॑ र॒यि-म्पुष्टि॑-म्प्र॒जा-न्ताम् । प॒शु-न्तान् । सन्ध॑त्त॒-न्तत् । प्रा॒णम॑पा॒नं-व्याँ॒न-न्तम् । चक्षु॒-श्श्रोत्र॒-म्मन॒स्तत् । वाच॒-न्ताम् । इ॒षादि॒पञ्च॑के॒ वाच॒-न्ता-म्मे᳚ । प॒शू-न्थ्सन्ध॑त्त॒-न्तान्मे᳚ । प्रा॒णादि॒त्रित॑ये॒ त-म्मे᳚ । अ॒न्यत्र॒ तन्मे᳚ । )

कृत्ति॑का-स्व॒ग्नि-माद॑धीत । ए॒तद्वा अ॒ग्ने-र्नक्ष॑त्रम् । य-त्कृत्ति॑काः । स्वाया॑मे॒वैन॑-न्दे॒वता॑यामा॒धाय॑ । ब्र॒ह्म॒व॒र्च॒सी भ॑वति ॥ मुखं॒-वाँ ए॒तन्नक्ष॑त्राणाम् । य-त्कृत्ति॑काः । यः कृत्ति॑का-स्व॒ग्नि-मा॑ध॒त्ते । मुख्य॑ ए॒व भ॑वति ॥ अथो॒ खलु॑ ॥ 6 ॥

अ॒ग्नि॒-न॒क्ष॒त्रमित्य-प॑चायन्ति । गृ॒हानःअ॒ दाहु॑को भवति ॥ प्र॒जाप॑ती रोहि॒ण्या-म॒ग्नि-म॑सृजत । त-न्दे॒वा रो॑हि॒ण्या-माद॑धत । ततो॒ वै ते सर्वा॒-न्रोहा॑नरोहन्न् । त-द्रो॑हि॒ण्यै रो॑हिणि॒त्वम् । यो रो॑हि॒ण्या-म॒ग्निमा॑ध॒त्ते । ऋ॒ध्नोत्ये॒व । सर्वा॒-न्रोहा᳚न्-रोहति ॥ दे॒वा वै भ॒द्रा-स्सन्तो॒-ऽग्नि-माधि॑थ्सन्त ॥ 7 ॥

तेषा॒मना॑हितो॒ ऽग्निरासी᳚त् । अथै᳚भ्यो वा॒मं-वँस्वपा᳚क्रामत् । ते पुन॑र्वस्वो॒राद॑धत । ततो॒ वै तान् वा॒मं-वँसू॒पाव॑र्तत । यः पु॒रा भ॒द्र-स्सम्पापी॑या॒-न्थ्स्यात् । स पुन॑र्वस्वो-र॒ग्नि-माद॑धीत । पुन॑रे॒वैनं॑-वाँ॒मं-वँसू॒पाव॑र्तते । भ॒द्रो भ॑वति ॥ यः का॒मये॑त॒ दान॑कामा मे प्र॒जा-स्स्यु॒रिति॑ । स पूर्व॑योः॒ फल्गु॑न्यो-र॒ग्नि-माद॑धीत ॥ 8 ॥

अ॒र्य॒म्णो वा ए॒तन्नक्ष॑त्रम् । यत्पूर्वे॒ फल्गु॑नी । अ॒र्य॒मेति॒ तमा॑हु॒र्यो ददा॑ति । दान॑कामा अस्मै प्र॒जा भ॑वन्ति ॥ यः का॒मये॑त भ॒गी स्या॒मिति॑ । स उत्त॑रयोः॒ फल्गु॑न्यो-र॒ग्निमाद॑धीत । भग॑स्य॒ वा ए॒तन्नक्ष॑त्रम् । यदुत्त॑रे॒ फल्गु॑नी । भ॒ग्ये॑व भ॑वति ॥ का॒ल॒क॒ञ्जा वै नामासु॑रा आसन्न् ॥ 9 ॥

ते सु॑व॒र्गाय॑ लो॒काया॒ग्नि-म॑चिन्वत । पुरु॑ष॒ इष्ट॑का॒-मुपा॑दधा॒त्-पुरु॑ष॒ इष्ट॑काम् । स इन्द्रो᳚ ब्राह्म॒णो ब्रुवा॑ण॒ इष्ट॑का॒मुपा॑धत्त । ए॒षा मे॑ चि॒त्रा नामेति॑ । ते सु॑व॒र्गं-लोँ॒कमाप्रारो॑हन्न् । स इन्द्र॒ इष्ट॑का॒मावृ॑हत् । ते-ऽवा॑कीर्यन्त । ये॑-ऽवाकी᳚र्यन्त । त ऊर्णा॒वभ॑यो-ऽभवन्न् । द्वावुद॑पतताम् ॥ 10 ॥

तौ दि॒व्यौ श्वाना॑वभवताम् । यो भ्रातृ॑व्यवा॒-न्थ्स्यात् । स चि॒त्राया॑-म॒ग्नि-माद॑धीत । अ॒व॒कीर्यै॒व भ्रातृ॑व्यान् । ओजो॒ बल॑मिन्द्रि॒यं-वीँ॒र्य॑मा॒त्मन्-ध॑त्ते ॥ व॒सन्ता᳚ ब्राह्म॒णो᳚ ऽग्निमाद॑धीत । व॒स॒न्तो वै ब्रा᳚ह्म॒णस्य॒र्तुः । स्व ए॒वैन॑-मृ॒तावा॒धाय॑ । ब्र॒ह्म॒व॒र्च॒सी भ॑वति । मुखं॒-वाँ ए॒तदृ॑तू॒नाम् ॥ 11 ॥

य-द्व॑स॒न्तः । यो व॒सन्ता॒-ऽग्निमा॑ध॒त्ते । मुख्य॑ ए॒व भ॑वति । अथो॒ योनि॑मन्तमे॒वैन॒-म्प्रजा॑त॒माध॑त्ते । ग्री॒ष्मे रा॑ज॒न्य॑ आद॑धीत । ग्री॒ष्मो वै रा॑ज॒न्य॑स्य॒र्तुः । स्व ए॒वैन॑मृ॒तावा॒धाय॑ । इ॒न्द्रि॒या॒वी भ॑वति । श॒रदि॒ वैश्य॒ आद॑धीत । श॒रद्वै वैश्य॑स्य॒र्तुः ॥ 12 ॥

स्व ए॒वैन॑मृ॒तावा॒धाय॑ । प॒शु॒मा-न्भ॑वति ॥ न पूर्व॑योः॒ फल्गु॑न्यो-र॒ग्निमाद॑धीत । ए॒षा वै ज॑घ॒न्या॑ रात्रि॑-स्सं​वँथ्स॒रस्य॑ । यत्पूर्वे॒ फल्गु॑नी । पृ॒ष्टि॒त ए॒व सं॑​वँथ्स॒रस्या॒-ग्निमा॒धाय॑ । पापी॑यान्-भवति । उत्त॑रयो॒राद॑धीत । ए॒षा वै प्र॑थ॒मा रात्रि॑-स्सं​वँथ्स॒रस्य॑ । यदुत्त॑रे॒ फल्गु॑नी । मु॒ख॒त ए॒व सं॑​वँथ्स॒रस्या॒-ग्निमा॒धाय॑ । वसी॑या-न्भवति ॥ अथो॒ खलु॑ । य॒दैवैनं॑-यँ॒ज्ञ उ॑प॒नमे᳚त् । अथाद॑धीत । सैवास्यर्धिः॑ ॥ 13 ॥
(खल्वा॑ - धिथ्सन्त॒ - फल्गु॑न्योर॒ग्निमाद॑धीता - सन् - नपतता - मतू॒नां - ँवैश्य॑स्य॒र्तु - रुत्त॑रे॒ फल्गु॑नी॒ षट् च॑) (अ. 2)

उद्ध॑न्ति । यदे॒वास्या॑ अमे॒द्ध्यम् । तदप॑ हन्ति ॥ अ॒पो-ऽवो᳚क्षति॒ शान्त्यै᳚ ॥ सिक॑ता॒ निव॑पति । ए॒तद्वा अ॒ग्ने-र्वै᳚श्वान॒रस्य॑ रू॒पम् । रू॒पेणै॒व वै᳚श्वान॒रमव॑-रुन्धे ॥ ऊषा॒-न्निव॑पति । पुष्टि॒र्वा ए॒षा प्र॒जन॑नम् । यदूषाः᳚ ॥ 14 ॥

पुष्ट्या॑मे॒व प्र॒जन॑ने॒ ऽग्निमाध॑त्ते । अथो॑ स॒ञ्ज्ञान॑ ए॒व । स॒-ञ्ज्ञान॒ग्ग्॒ ह्ये॑त-त्प॑शू॒नाम् । यदूषाः᳚ ॥ द्यावा॑पृथि॒वी स॒हास्ता᳚म् । ते वि॑य॒ती अ॑ब्रूताम् । अस्त्वे॒व नौ॑ स॒ह य॒ज्ञिय॒मिति॑ । यद॒मुष्या॑ य॒ज्ञिय॒मासी᳚त् । तद॒स्या-म॑दधात् । त ऊषा॑ अभवन्न् ॥ 15 ॥

यद॒स्या य॒ज्ञिय॒मासी᳚त् । तद॒मुष्या॑-मदधात् । तद॒दश्च॒न्द्रम॑सि कृ॒ष्णम् । ऊषा᳚न्नि॒वप॑न्न॒दो द्ध्या॑येत् । द्यावा॑पृथि॒व्योरे॒व य॒ज्ञिये॒-ऽग्निमाध॑त्ते ॥ अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत । आ॒खू रू॒प-ङ्कृ॒त्वा । स पृ॑थि॒वी-म्प्रावि॑शत् । स ऊ॒तीः कु॑र्वा॒णः पृ॑थि॒वीमनु॒ सम॑चरत् । तदा॑खुकरी॒ष-म॑भवत् ॥ 16 ॥

यदा॑खुकरी॒षग्ं स॑भां॒रो भव॑ति । यदे॒वास्य॒ तत्र॒ न्य॑क्तम् । तदे॒वाव॑रुन्धे ॥ ऊर्जं॒-वाँ ए॒तग्ं रस॑-म्पृथि॒व्या उ॑प॒दीका॒ उद्दि॑हन्ति । य-द्व॒ल्मीक᳚म् । य-द्व॑ल्मीकव॒पा स॑भां॒रो भव॑ति । ऊर्ज॑मे॒व रस॑-म्पृथि॒व्या अव॑रुन्धे । अथो॒ श्रोत्र॑मे॒व । श्रोत्र॒ग्ग्॒ ह्ये॑त-त्पृ॑थि॒व्याः । य-द्व॒ल्मीकः॑ ॥ 17 ॥

अब॑धिरो भवति । य ए॒वं-वेँद॑ ॥ प्र॒जाप॑तिः प्र॒जा अ॑सृजत । तासा॒मन्न॒-मुपा᳚क्षीयत । ताभ्य॒-स्सूद॒मुप॒ प्राभि॑नत् । ततो॒ वै तासा॒मन्न॒-न्नाक्षी॑यत । यस्य॒ सूद॑-स्सम्भा॒रो भव॑ति । नास्य॑ गृ॒हे-ऽन्न॑-ङ्क्षीयते ॥ आपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सीत् । तेन॑ प्र॒जाप॑तिरश्राम्यत् ॥ 18 ॥

क॒थमि॒दग्ग्​ स्या॒दिति॑ । सो॑-ऽपश्य-त्पुष्करप॒र्ण-न्तिष्ठ॑त् । सो॑-ऽमन्यत । अस्ति॒ वै तत् । यस्मि॑-न्नि॒दमधि॒ तिष्ठ॒तीति॑ । स व॑रा॒हो रू॒प-ङ्कृ॒त्वोप॒न्य॑मज्जत् । स पृ॑थि॒वीम॒ध आ᳚र्च्छत् । तस्या॑ उप॒हत्योद॑मज्जत् । त-त्पु॑ष्करप॒र्णे᳚ ऽप्रथयत् । यदप्र॑थयत् ॥ 19 ॥

त-त्पृ॑थि॒व्यै पृ॑थिवि॒त्वम् । अभू॒द्वा इ॒दमिति॑ । तद्भूम्यै॑ भूमि॒त्वम् । ता-न्दिशो-ऽनु॒ वात॒-स्सम॑वहत् । ताग्ं शर्क॑राभिरदृग्ं हत् । शं-वैँ नो॑-ऽभू॒दिति॑ । तच्छर्क॑राणाग्ं शर्कर॒त्वम् । य-द्व॑रा॒हवि॑हतग्ं सम्भा॒रो भव॑ति । अ॒स्यामे॒वा-छ॑म्बट्कारम॒ग्नि-माध॑त्ते । शर्क॑रा भवन्ति॒ धृत्यै᳚ ॥ 20 ॥

अथो॑ श॒त्वां​यँ॑ ॥ सरे॑ता अ॒ग्निरा॒धेय॒ इत्या॑हुः । आपो॒ वरु॑णस्य॒ पत्न॑य आसन्न् । ता अ॒ग्निर॒भ्य॑द्ध्यायत् । ता-स्सम॑भवत् । तस्य॒ रेतः॒ परा॑-ऽपतत् । तद्धिर॑ण्य-मभवत् । यद्धिर॑ण्य-मु॒पास्य॑ति । सरे॑तसमे॒वाग्नि-माध॑त्ते ॥ पुरु॑ष॒ इन्वै स्वा-द्रेत॑सो बीभथ्सत॒ इत्या॑हुः ॥ 21 ॥

उ॒त्त॒र॒त उपा᳚स्य॒त्य-बी॑भथ्सायै ॥ अति॒ प्रय॑च्छति । आर्ति॑मे॒वाति॒ प्रय॑च्छति ॥ अ॒ग्निर्दे॒वेभ्यो॒ निला॑यत । अश्वो॑ रू॒प-ङ्कृ॒त्वा । सो᳚-ऽश्व॒त्थे सं॑​वँथ्स॒र-म॑तिष्ठत् । तद॑श्व॒त्थस्या᳚-श्वत्थ॒त्वम् । यदाश्व॑त्थ-स्सम्भा॒रो भव॑ति । यदे॒वास्य॒ तत्र॒ न्य॑क्तम् । तदे॒वाव॑-रुन्धे ॥ 22 ॥

दे॒वा वा ऊर्जं॒-व्यँ॑भजन्त । तत॑ उदु॒म्बर॒ उद॑तिष्ठत् । ऊर्ग्वा उ॑दु॒म्बरः॑ । यदौदु॑म्बर-स्सम्भा॒रो भव॑ति । ऊर्ज॑मे॒वाव॑-रुन्धे ॥ तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत् । त-ङ्गा॑य॒त्र्याह॑रत् । तस्य॑ प॒र्णम॑च्छिद्यत । तत्प॒र्णो॑ ऽभवत् । त-त्प॒र्णस्य॑ पर्ण॒त्वम् ॥ 23 ॥

यस्य॑ पर्ण॒मय॑-स्सम्भा॒रो भव॑ति । सो॒म॒पी॒थमे॒वाव॑ रुन्धे ॥ दे॒वा वै ब्रह्म॑न्नवदन्त । त-त्प॒र्ण उपा॑शृणोत् । सु॒श्रवा॒ वै नाम॑ । य-त्प॑र्ण॒मय॑-स्सम्भा॒रो भव॑ति । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑ रुन्धे ॥ प्र॒जाप॑ति-र॒ग्नि-म॑सृजत । सो॑-ऽबिभे॒त्प्र मा॑ धक्ष्य॒तीति॑ । तग्ं श॒म्या॑-ऽशमयत् ॥ 24 ॥

तच्छ॒म्यै॑ शमि॒त्वम् । यच्छ॑मी॒मय॑-स्सम्भा॒रो भव॑ति । शान्त्या॒ अप्र॑दाहाय ॥ अ॒ग्ने-स्सृ॒ष्टस्य॑ य॒तः । विक॑ङ्कत॒-म्भा आ᳚र्च्छत् । य-द्वैक॑ङ्कत-स्सम्भा॒रो भव॑ति । भा ए॒वाव॑रुन्धे ॥ सहृ॑दयो॒ ऽग्निरा॒धेय॒ इत्या॑हुः । म॒रुतो॒-ऽद्भिर॒ग्नि-म॑तमयन्न् । तस्य॑ ता॒न्तस्य॒ हृद॑य॒माच्छि॑न्दन्न् । सा-ऽशनि॑रभवत् । यद॒शनि॑हतस्य वृ॒क्षस्य॑ सम्भा॒रो भव॑ति ।सहृ॑दय-मे॒वाग्नि-माध॑त्ते ॥ 25 ॥
(ऊषा॑ - अभवन् - नभव-द्- व॒ल्मीक्रो᳚ - ऽश्राम्य॒ - दप्र॑थय॒ - द्धृत्यै॑ - बीभथ्सत॒ इत्या॑हु - रुन्धे - पर्ण॒त्व - म॑शमयद - च्छिन्द॒ग्ग्॒ स्त्रीणि॑ च) (अ. 3)

द्वा॒द॒शसु॑ विक्रा॒मेष्व॒ग्निमाद॑धीत । द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒रः । सं॒​वँ॒थ्स॒रा-दे॒वैन॑-मव॒रुद्ध्या-ध॑त्ते ॥ य-द्द्वा॑द॒शसु॑ विक्रा॒मे-ष्वा॒दधी॑त । परि॑मित॒मव॑रुन्धीत । चक्षु॑-र्निमित॒ आद॑धीत । इय॒-द्द्वाद॑श विक्रा॒मा(3) इति॑ । परि॑मित-ञ्चै॒वाप॑रिमित॒-ञ्चाव॑रुन्धे ॥ अनृ॑तं॒-वैँ वा॒चा व॑दति । अनृ॑त॒-म्मन॑सा द्ध्यायति ॥ 26 ॥

चक्षु॒-र्वै स॒त्यम् । अद्रा(3)गित्या॑ह । अद॑र्​श॒मिति॑ । त-थ्स॒त्यम् । यश्चक्षु॑-र्निमिते॒-ऽग्नि-मा॑ध॒त्ते । स॒त्य ए॒वैन॒-माध॑त्ते ॥ तस्मा॒दाहि॑ताग्नि॒र्नानृ॑तं-वँदेत् । नास्य॑ ब्राह्म॒णो-ऽना᳚श्वा-न्गृ॒हे व॑सेत् । स॒त्ये ह्य॑स्या॒ग्निराहि॑तः ॥ आ॒ग्ने॒यी वै रात्रिः॑ ॥ 27 ॥

आ॒ग्ने॒याः प॒शवः॑ । ऐ॒न्द्रमहः॑ । नक्त॒-ङ्गार्​ह॑पत्य॒-माद॑धाति । प॒शूने॒वाव॑-रुन्धे । दिवा॑-ऽऽहव॒नीय᳚म् । इ॒न्द्रि॒यमे॒वा-व॑रुन्धे ॥ अ॒र्धोदि॑ते॒ सूर्य॑ आहव॒नीय॒-माद॑धाति । ए॒तस्मि॒न् वै लो॒के प्र॒जाप॑तिः प्र॒जा अ॑सृजत । प्र॒जा ए॒व त-द्यज॑मान-स्सृजते । अथो॑ भू॒त-ञ्चै॒व भ॑वि॒ष्यच्चा-व॑रुन्धे ॥ 28 ॥

इडा॒ वै मा॑न॒वी य॑ज्ञानूका॒शिन्या॑सीत् । सा-ऽशृ॑णोत् । असु॑रा अ॒ग्निमाद॑धत॒ इति॑ । तद॑गच्छत् । त आ॑हव॒नीय॒मग्र॒ आद॑धत । अथ॒ गार्​ह॑पत्यम् । अथा᳚-न्वाहार्य॒-पच॑नम् । सा ऽब्र॑वीत् । प्र॒तीच्ये॑षा॒ग्॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा परा॑भविष्य॒न्तीति॑ ॥ 29 ॥

यस्यै॒व-म॒ग्निरा॑धी॒यते᳚ । प्र॒तीच्य॑स्य॒ श्रीरे॑ति । भ॒द्रो भू॒त्वा परा॑भवति ॥ सा-ऽशृ॑णोत् । दे॒वा अ॒ग्नि-माद॑धत॒ इति॑ । तद॑गच्छत् । ते᳚-ऽन्वाहार्य॒-पच॑न॒मग्र॒ आद॑धत । अथ॒ गार्​ह॑पत्यम् । अथा॑हव॒नीय᳚म् । सा-ऽब्र॑वीत् ॥ 30 ॥

प्राच्ये॑षा॒ग्॒ श्रीर॑गात् । भ॒द्रा भू॒त्वा सु॑व॒र्गं-लोँ॒कमे᳚ष्यन्ति । प्र॒जा-न्तु न वे᳚थ्स्यन्त॒ इति॑ । यस्यै॒वम॒ग्नि-रा॑धी॒यते᳚ । प्राच्य॑स्य॒ श्रीरे॑ति । भ॒द्रो भू॒त्वा सु॑व॒र्गं-लोँ॒कमे॑ति । प्र॒जा-न्तु न वि॑न्दते ॥ सा-ऽब्र॑वी॒दिडा॒ मनु᳚म् । तथा॒ वा अ॒ह-न्तवा॒ग्नि-माधा᳚स्यामि । यथा॒ प्र प्र॒जया॑ प॒शुभि॑-र्मिथु॒नै-र्ज॑नि॒ष्यसे᳚ ॥ 31 ॥

प्रत्य॒स्मिन् ँलो॒के स्था॒स्यसि॑ । अ॒भि सु॑व॒र्गं-लोँ॒क-ञ्जे॒ष्यसीति॑ । गार्​ह॑पत्य॒मग्र॒ आद॑धात् । गार्​ह॑पत्यं॒-वाँ अनु॑ प्र॒जाः प॒शवः॒ प्रजा॑यन्ते । गार्​ह॑पत्येनै॒वास्मै᳚ प्र॒जा-म्प॒शू-न्प्राज॑नयत् । अथा᳚-न्वाहार्य॒-पच॑नम् । ति॒र्यङ्ङ्॑व॒ वा अ॒यं-लोँ॒कः । अ॒स्मिन्ने॒व तेन॑ लो॒के प्रत्य॑तिष्ठत् । अथा॑हव॒नीय᳚म् । तेनै॒व सु॑व॒र्गं-लोँ॒क-म॒भ्य॑जयत् ॥ 32 ॥

यस्यै॒वम॒ग्नि-रा॑धी॒यते᳚ । प्र प्र॒जया॑ प॒शुभि॑-र्मिथु॒नै-र्जा॑यते । प्रत्य॒स्मिन् ँलो॒के ति॑ष्ठति । अ॒भि सु॑व॒र्गं-लोँ॒क-ञ्ज॑यति ॥ यस्य॒ वा अय॑थादेवतम॒ग्नि-रा॑धी॒यते᳚ । आ दे॒वता᳚भ्यो वृश्च्यते । पापी॑या-न्भवति । यस्य॑ यथा देव॒तम् । न दे॒वता᳚भ्य॒ आवृ॑श्च्यते । वसी॑या-न्भवति ॥ 33 ॥

भृगू॑णा॒-न्त्वा-ऽङ्गि॑रसां-व्रँतपते व्र॒तेना-द॑धा॒मीति॑ भृग्वङ्गि॒रसा॒माद॑द्ध्यात् । आ॒दि॒त्याना᳚-न्त्वा दे॒वानां᳚-व्रँतपते व्र॒तेनाद॑धा॒मीत्य॒न्यासा॒-म्ब्राह्म॑णीना-म्प्र॒जाना᳚म् । वरु॑णस्य त्वा॒ राज्ञो᳚ व्रतपते व्र॒तेनाद॑धा॒मीति॒ राज्ञः॑ । इन्द्र॑स्य त्वेन्द्रि॒येण॑ व्रतपते व्र॒तेनाद॑धा॒मीति॑ राज॒न्य॑स्य । मनो᳚स्त्वा ग्राम॒ण्यो᳚ व्रतपते व्र॒तेनाद॑धा॒मीति॒ वैश्य॑स्य । ऋ॒भू॒णा-न्त्वा॑ दे॒वानां᳚-व्रँतपते व्र॒तेनाद॑धा॒मीति॑ रथका॒रस्य॑ । य॒था॒ दे॒व॒तम॒ग्नि-राधी॑यते । न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते । वसी॑या-न्भवति ॥ 34 ॥
(ध्या॒य॒ति॒ - वै रात्रि॒ - श्चाव॑रुन्धे - भविष्य॒न्तीत्य॑ - ब्रवी - ज्जनि॒ष्यसे॑ - ऽजय॒-द्- वसी॑या-न्भवति॒ - नव॑ च) (अ. 4)

अनुवाकं 5 - तत्र पवमानहबींषि
प्र॒जाप॑ति-र्वा॒च-स्स॒त्य-म॑पश्यत् । तेना॒ग्निमाध॑त्त । तेन॒ वै स आ᳚र्ध्नोत् । भूर्भुव॒-स्सुव॒रित्या॑ह । ए॒तद्वै वा॒च-स्स॒त्यम् । य ए॒तेना॒ग्नि-मा॑ध॒त्ते । ऋ॒द्ध्नोत्ये॒व । अथो॑ स॒त्यप्रा॑शूरे॒व भ॑वति । अथो॒ य ए॒वं-विँ॒द्वान॑भि॒चर॑ति । स्तृ॒णु॒त ए॒वैन᳚म् ॥ 35 ॥

भूरित्या॑ह । प्र॒जा ए॒व त-द्यज॑मान-स्सृजते । भुव॒ इत्या॑ह । अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठति । सुव॒रित्या॑ह । सु॒व॒र्ग ए॒व लो॒के प्रति॑ तिष्ठति ॥ त्रि॒भिर॒क्षरै॒-र्गार्​ह॑पत्य॒-माद॑धाति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑वैनं॑-लोँ॒केषु॒ प्रति॑ष्ठित॒-माध॑त्ते । सर्वैः᳚ प॒ञ्चभि॑-राहव॒नीय᳚म् ॥ 36 ॥

सु॒व॒र्गाय॒ वा ए॒ष लो॒कायाधी॑यते । यदा॑हव॒नीयः॑ । सु॒व॒र्ग ए॒वास्मै॑ लो॒के वा॒च-स्स॒त्यग्ं सर्व॑माप्नोति ॥ त्रि॒भि-र्गार्​ह॑पत्य॒-माद॑धाति । प॒ञ्चभि॑-राहव॒नीय᳚म् । अ॒ष्टौ सम्प॑द्यन्ते । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्रो᳚-ऽग्निः । यावा॑ने॒वाग्निः । तमाध॑त्ते ॥ 37 ॥

प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ता अ॑स्मा-थ्सृ॒ष्टाः परा॑चीरायन्न् । ताभ्यो॒ ज्योति॒-रुद॑गृह्णात् । त-ञ्ज्योतिः॒ पश्य॑न्तीः प्र॒जा अ॒भिस॒माव॑र्तन्त । उ॒परी॑वा॒ग्नि-मुद्गृ॑ह्णीया-दु॒द्धरन्न्॑ । ज्योति॑रे॒व पश्य॑न्तीः प्र॒जा यज॑मान-म॒भि-स॒माव॑र्तन्ते ॥ प्र॒जाप॑ते॒रक्ष्य॑श्वयत् । त-त्परा॑-ऽपतत् । तदश्वो॑-ऽभवत् । तदश्व॑स्या-श्व॒त्वम् ॥ 38 ॥

ए॒ष वै प्र॒जाप॑तिः । यद॒ग्निः । प्रा॒जा॒प॒त्यो-ऽश्वः॑ । यदश्व॑-म्पु॒रस्ता॒न्नय॑ति । स्वमे॒व चक्षुः॒ पश्य॑-न्प्र॒जाप॑ति॒-रनूदे॑ति ॥ व॒ज्री वा ए॒षः । यदश्वः॑ । यदश्व॑-म्पु॒रस्ता॒न्नय॑ति । जा॒ताने॒व भ्रातृ॑व्या॒-न्प्रणु॑दते ॥ पुन॒राव॑र्तयति ॥ 39 ॥

ज॒नि॒ष्यमा॑णाने॒व प्रति॑नुदते ॥ न्या॑हव॒नीयो॒ गार्​ह॑पत्य-मकामयत । नि गार्​ह॑पत्य आहव॒नीय᳚म् । तौ वि॒भाज॒-न्नाश॑क्नोत् । सोश्वः॑ पूर्व॒वाड्-भू॒त्वा । प्राञ्च॒-म्पूर्व॒मुद॑वहत् । त-त्पू᳚र्व॒वाहः॑ पूर्ववा॒ट्-त्वम् । यदश्व॑-म्पु॒रस्ता॒न्नय॑ति । विभ॑क्तिरे॒वैन॑यो॒स्सा । अथो॒ नाना॑वीर्यावे॒वैनौ॑ कुरुते ॥ 40 ॥

यदु॒पर्यु॑परि॒ शिरो॒ हरे᳚त् । प्रा॒णान् विच्छि॑न्द्यात् । अ॒धो॑-ऽध॒-श्शिरो॑ हरति । प्रा॒णाना᳚-ङ्गोपी॒थाय॑ ॥ इय॒त्यग्रे॑ हरति । अथेय॒त्यथेय॑ति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑वैनं॑-लोँ॒केषु॒ प्रति॑ष्ठित॒मा-ध॑त्ते ॥ प्र॒जाप॑ति-र॒ग्नि-म॑सृजत । सो॑-ऽबिभे॒त्प्र मा॑ धक्ष्य॒तीति॑ ॥ 41 ॥

तस्य॑ त्रे॒धा म॑हि॒मानं॒-व्यौँ॑हत् । शान्त्या॒ अप्र॑दाहाय । यत्-त्रे॒धा-ऽग्नि-रा॑धी॒यते᳚ । म॒हि॒मान॑मे॒वास्य॒ त-द्व्यू॑हति । शान्त्या॒ अप्र॑दाहाय ॥ पुन॒राव॑र्तयति । म॒हि॒मान॑मे॒वास्य॒ सन्द॑धाति ॥ प॒शुर्वा ए॒षः । यदश्वः॑ । ए॒ष रु॒द्रः ॥ 42 ॥

यद॒ग्निः । यदश्व॑स्य प॒दे᳚-ऽग्नि-मा॑द॒द्ध्यात् । रु॒द्राय॑ प॒शू-नपि॑दद्ध्यात् । अ॒प॒शु-र्यज॑मान-स्स्यात् । य-न्नाक्र॒मये᳚त् । अन॑वरुद्धा अस्य प॒शव॑-स्स्युः । पा॒र्​श्व॒त आक्र॑मयेत् । यथा ऽऽहि॑तस्या॒ग्ने-रङ्गा॑रा अभ्यव॒वर्ते॑रन्न् । अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति । न रु॒द्रायापि॑दधाति ॥ 43 ॥

त्रीणि॑ ह॒वीग्ंषि॒ निर्व॑पति । वि॒राज॑ ए॒व विक्रा᳚न्तं॒-यँज॑मा॒नो-ऽनु॒ विक्र॑मते ॥ अ॒ग्नये॒ पव॑मानाय । अ॒ग्नये॑ पाव॒काय॑ । अ॒ग्नये॒ शुच॑ये । यद॒ग्नये॒ पव॑मानाय नि॒र्वप॑ति । पु॒नात्ये॒वैन᳚म् । यद॒ग्नये॑ पाव॒काय॑ । पू॒त ए॒वास्मि॑-न्न॒न्नाद्य॑-न्दधाति । यद॒ग्नये॒ शुच॑ये । ब्र॒ह्म॒व॒र्च॒स-मे॒वास्मि॑-न्नु॒परि॑ष्टा-द्दधाति ॥ 44 ॥
(ए॒न॒ - मा॒ह॒व॒नीयं॑ - धत्ते - ऽश्व॒त्वं - ँव॑र्तयति - कुरुत॒ - इति॑ -रु॒द्रो - द॑धाति॒ - यद॒ग्नये॒ शुच॑य॒ एक॑-ञ्च) (अ. 5)

अनुवाकं 6 - पवमानहविर्विस्तारः, हविरन्तराणि, दक्षिणाश्च
दे॒वा॒सु॒रा-स्सं​यँ॑त्ता आसन्न् । ते दे॒वा वि॑ज॒य-मु॑प॒यन्तः॑ । अ॒ग्नौ वा॒मं-वँसु॒ स-न्न्य॑दधत । इ॒दमु॑ नो भविष्यति । यदि॑ नो जे॒ष्यन्तीति॑ । तद॒ग्निर्नो-थ्सह॑मशक्नोत् । तत्-त्रे॒धा विन्य॑दधात् । प॒शुषु॒ तृती॑यम् । अ॒फ्सु तृती॑यम् । आ॒दि॒त्ये तृती॑यम् ॥ 45 ॥

त-द्दे॒वा वि॒जित्य॑ । पुन॒रवा॑रुरुथ्सन्त । ते᳚-ऽग्नये॒ पव॑मानाय पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर॑वपन्न् । प॒शवो॒ वा अ॒ग्निः पव॑मानः । यदे॒व प॒शुष्वासी᳚त् । तत्-तेनावा॑रुन्धत । ते᳚-ऽग्नये॑ पाव॒काय॑ । आपो॒ वा अ॒ग्निः पा॑व॒कः । यदे॒वाफ्स्वासी᳚त् । तत्-तेनावा॑रुन्धत ॥ 46 ॥

ते᳚-ऽग्नये॒ शुच॑ये । अ॒सौ वा आ॑दि॒त्यो᳚-ऽग्नि-श्शुचिः॑ । यदे॒वादि॒त्य आसी᳚त् । तत्-तेनावा॑रुन्धत ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । त॒नुवो॒ वावैता अ॑ग्न्या॒धेय॑स्य । आ॒ग्ने॒यो वा अ॒ष्टाक॑पालो ऽग्न्या॒धेय॒मिति॑ । यत्त-न्नि॒र्वपे᳚त् । नैतानि॑ । यथा॒-ऽऽत्मा स्यात् ॥ 47 ॥

नाङ्गा॑नि । ता॒दृगे॒व तत् । यदे॒तानि॑ नि॒र्वपे᳚त् । न तम् । यथा-ऽङ्गा॑नि॒ स्युः । नात्मा । ता॒दृगे॒व तत् । उ॒भया॑नि स॒हनि॒रुप्या॑णि । य॒ज्ञस्य॑ सात्म॒त्वाय॑ ॥ उ॒भयं॒-वाँ ए॒तस्ये᳚न्द्रि॒यं-वीँ॒र्य॑माप्यते ॥ 48 ॥

यो᳚-ऽग्निमा॑ध॒त्ते । ऐ॒न्द्रा॒ग्न-मेका॑दशकपाल॒- मनु॒ निर्व॑पेत् । आ॒दि॒त्य-ञ्च॒रुम् । इ॒न्द्रा॒ग्नी वै दे॒वाना॒-मया॑तयामानौ । ये ए॒व दे॒वते॒ अया॑तयाम्नी । ताभ्या॑मे॒वास्मा॑ इन्द्रि॒यं-वीँ॒र्य॑मव॑- रुन्धे । आ॒दि॒त्यो भ॑वति । इ॒यं-वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति ॥ धे॒न्वै वा ए॒त-द्रेतः॑ ॥ 49 ॥

यदाज्य᳚म् । अ॒न॒डुह॑स्तण्डु॒लाः । मि॒थु॒नमे॒वाव॑-रुन्धे । घृ॒ते भ॑वति । य॒ज्ञस्यालू᳚क्षान्तत्वाय ॥ च॒त्वार॑ आर्​षे॒याः प्राश्ञ॑न्ति । दि॒शामे॒व ज्योति॑षि जुहोति ॥ प॒शवो॒ वा ए॒तानि॑ ह॒वीग्ंषि॑ । ए॒ष रु॒द्रः । यद॒ग्निः ॥ 50 ॥

यथ्स॒द्य ए॒तानि॑ ह॒वीग्ंषि॑ नि॒र्वपे᳚त् । रु॒द्राय॑ प॒शूनपि॑ दद्ध्यात् । अ॒प॒शु-र्यज॑मान-स्स्यात् । यन्नानु॑नि॒र्वपे᳚त् । अन॑वरुद्धा अस्य प॒शव॑-स्स्युः । द्वा॒द॒शसु॒ रात्री॒ष्वनु॒ निर्व॑पेत् । सं॒​वँ॒थ्स॒र प्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः । सं॒​वँ॒थ्स॒रेणै॒वास्मै॑ रु॒द्रग्ं श॑मयि॒त्वा । प॒शूनव॑ रुन्धे ॥ यदेक॑-मेकमे॒तानि॑ ह॒वीग्ंषि॑ नि॒र्वपे᳚त् ॥ 51 ॥

यथा॒ त्रीण्या॒वप॑नानि पू॒रये᳚त् । ता॒दृक्तत् । न प्र॒जन॑न॒मुच्छिग्ं॑षेत् । एक॑-न्नि॒रुप्य॑ । उत्त॑रे॒ सम॑स्येत् । तृ॒तीय॑मे॒वास्मै॑ लो॒कमुच्छिग्ं॑षति प्र॒जन॑नाय । त-म्प्र॒जया॑ प॒शुभि॒रनु॒ प्रजा॑यते । अथो॑ य॒ज्ञस्यै॒वैषा-ऽभिक्रा᳚न्तिः ॥ र॒थ॒च॒क्र-म्प्रव॑र्तयति । म॒नु॒ष्य॒र॒थेनै॒व दे॑वर॒थ-म्प्र॒त्यव॑रोहति ॥ 52 ॥

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । हो॒त॒व्य॑-मग्निहो॒त्रां(3) नहो॑त॒व्या(3)मिति॑ । य-द्यजु॑षा जुहु॒यात् । अय॑थापूर्व॒माहु॑ती जुहुयात् । यन्न जु॑हु॒यात् । अ॒ग्निः परा॑भवेत् । तू॒ष्णीमे॒व हो॑त॒व्य᳚म् । य॒था॒पू॒र्व-माहु॑ती जु॒होति॑ । नाग्निः परा॑भवति ॥ अ॒ग्नीधे॑ ददाति ॥ 53 ॥

अ॒ग्निमु॑खा-ने॒वर्तू-न्प्री॑णाति । उ॒प॒बर्​ह॑ण-न्ददाति । रू॒पाणा॒मव॑-रुद्ध्यै । अश्व॑-म्ब्र॒ह्मणे᳚ । इ॒न्द्रि॒यमे॒वाव॑-रुन्धे । धे॒नुग्ं होत्रे᳚ । आ॒शिष॑ ए॒वाव॑रुन्धे । अ॒न॒ड्वाह॑-मद्ध्व॒र्यवे᳚ । वह्नि॒र्वा अ॑न॒ड्वान् । वह्नि॑रद्ध्व॒र्युः ॥ 54 ॥

वह्नि॑नै॒व वह्नि॑ य॒ज्ञस्याव॑-रुन्धे । मि॒थु॒नौ गावौ॑ ददाति । मि॒थु॒नस्याव॑-रुद्ध्यै । वासो॑ ददाति । स॒र्व॒ दे॒व॒त्यं॑-वैँ वासः॑ । सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति । आ द्वा॑द॒शभ्यो॑ ददाति । द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒रः । सं॒​वँ॒थ्स॒र ए॒व प्रति॑ तिष्ठति । काम॑मू॒र्ध्व-न्देय᳚म् । अप॑रिमित॒स्याव॑-रुद्ध्यै ॥ 55 ॥
(आ॒दि॒त्ये तृती॑य - म॒फ्स्वासी॒-त्त-त्तेनावा॑रुन्धत॒ - स्या - दा᳚प्यते॒ - रेतो॒ - ऽग्नि - रेक॑मेक मे॒तानि॑ ह॒विग्ंषि॑ नि॒र्वपे᳚त् - प्र॒त्यव॑रोहति - ददात्य - द्ध्व॒र्यु--र् देय॒ मेक॑-ञ्च) (अ. 6)

अनुवाकं 7 - आधानमन्त्राः
घ॒र्म-श्शिर॒स्तद॒यम॒ग्निः । स-म्प्रि॑यः प॒शुभि॑-र्भुवत् । छ॒र्दिस्तो॒काय॒ तन॑याय यच्छ ॥ वातः॑ प्रा॒णस्तद॒यम॒ग्निः । स-म्प्रि॑यः प॒शुभि॑-र्भुवत् । स्व॒दि॒त-न्तो॒काय॒ तन॑याय पि॒तु-म्प॑च ॥ प्राची॒मनु॑ प्र॒दिश॒-म्प्रेहि॑ वि॒द्वान् । अ॒ग्नेर॑ग्ने पु॒रो अ॑ग्नि-र्भवे॒ह । विश्वा॒ आशा॒ दीद्या॑नो॒ विभा॑हि । ऊर्ज॑-न्नो धेहि द्वि॒पदे॒ चतु॑ष्पदे ॥ 56 ॥

अ॒र्कश्चक्षु॒-स्तद॒सौ सूर्य॒स्तद॒यम॒ग्निः । सम्प्रि॑यः प॒शुभि॑-र्भुवत् । य-त्ते॑ शुक्र शु॒क्रं-वँर्च॑-श्शु॒क्रा त॒नूः । शु॒क्र-ञ्ज्योति॒रज॑स्रम् । तेन॑ मे दीदिहि॒ तेन॒ त्वा-ऽऽद॑धे । अ॒ग्निना᳚-ऽग्ने॒ ब्रह्म॑णा ॥ आ॒न॒शे व्या॑नशे॒ सर्व॒मायु॒-र्व्या॑नशे ॥ ये ते॑ अग्ने शि॒वे त॒नुवौ᳚ । वि॒राट् च॑ स्व॒राट् च॑ । ते मा वि॑शता॒-न्ते मा॑ जिन्वताम् ॥ 57 ॥

ये ते॑ अग्ने शि॒वे त॒नुवौ᳚ । स॒म्राट् चा॑भि॒भूश्च॑ । ते मा वि॑शता॒-न्ते मा॑ जिन्वताम् । ये ते॑ अग्ने शि॒वे त॒नुवौ᳚ । वि॒भूश्च॑ परि॒भूश्च॑ । ते मा वि॑शता॒-न्ते मा॑ जिन्वताम् । ये ते॑ अग्ने शि॒वे त॒नुवौ᳚ । प्र॒भ्वी च॒ प्रभू॑तिश्च । ते मा वि॑शता॒-न्ते मा॑ जिन्वताम् । यास्ते॑ अग्ने शि॒वास्त॒नुवः॑ । ताभि॒स्त्वा ऽऽद॑धे ॥ यास्ते॑ अग्ने घो॒रास्त॒नुवः॑ । ताभि॑र॒मु-ङ्ग॑च्छ ॥ 58 ॥
(चतु॑ष्पदे - जिन्वतां - त॒नुव॒ स्त्रीणि॑ च ) (अ. 7)

अनुवाकं 8 - एतद्ब्राह्मणं
इ॒मे वा ए॒ते लो॒का अ॒ग्नयः॑ । ते यदव्या॑वृत्ता आधी॒येरन्न्॑ । शो॒चये॑यु॒-र्यज॑मानम् । घ॒र्म-श्शिर॒ इति॒ गार्​ह॑पत्य॒-माद॑धाति । वातः॑ प्रा॒ण इत्य॑न्वाहार्य॒-पच॑नम् । अ॒र्क-श्चक्षु॒रित्या॑-हव॒नीय᳚म् । तेनै॒वैना॒न् व्याव॑र्तयति । तथा॒ न शो॑चयन्ति॒ यज॑मानम् ॥ र॒थ॒न्त॒र-म॒भिगा॑यते॒ गार्​ह॑पत्य आधी॒यमा॑ने । राथ॑न्तरो॒ वा अ॒यं-लोँ॒कः ॥ 59 ॥

अ॒स्मिन्ने॒वैनं॑-लोँ॒के प्रति॑ष्ठित॒-माध॑त्ते । वा॒म॒दे॒व्य-म॒भिगा॑यत उद्ध्रि॒यमा॑णे । अ॒न्तरि॑क्षं॒-वैँ वा॑मदे॒व्यम् । अ॒न्तरि॑क्ष ए॒वैन॒-म्प्रति॑ष्ठित॒-माध॑त्ते । अथो॒ शान्ति॒-र्वै वा॑मदे॒व्यम् । शा॒न्तमे॒वैन॑-म्पश॒व्य॑मुद्ध॑रते । बृ॒हद॒भिगा॑यत आहव॒नीय॑ आधी॒यमा॑ने । बार्​ह॑तो॒ वा अ॒सौ लो॒कः । अ॒मुष्मि॑न्ने॒वैनं॑-लोँ॒के प्रति॑ष्ठित॒-माध॑त्ते ॥ प्र॒जाप॑ति-र॒ग्नि-म॑सृजत ॥ 60 ॥

सो-ऽश्वो॒ वारो॑ भू॒त्वा परां॑ऐत् । तं-वाँ॑रव॒न्तीये॑नावारयत ।त-द्वा॑रव॒न्तीय॑स्य वारवन्तीय॒त्वम् । श्यै॒तेन॑ श्ये॒ती अ॑कुरुत ।तच्छ्यै॒तस्य॑ श्यैत॒त्वम् । य-द्वा॑रव॒न्तीय॑-मभि॒गाय॑ते । वा॒र॒यि॒त्वैवैन॒-म्प्रति॑ष्ठित॒-माध॑त्ते । श्यै॒तेन॑ श्ये॒ती कु॑रुते ॥ घ॒र्म-श्शिर॒ इति॒ गार्​ह॑पत्य॒-माद॑धाति । सशी॑र्​षाण-मे॒वैन॒-माध॑त्ते ॥ 61 ॥

उपै॑न॒मुत्त॑रो य॒ज्ञो न॑मति ॥ रु॒द्रो वा ए॒षः । यद॒ग्निः । स आ॑धी॒यमा॑न ईश्व॒रो यज॑मानस्य प॒शून् हिग्ंसि॑तोः । स-म्प्रि॑यः प॒शुभि॑-र्भुव॒दित्या॑ह । प॒शुभि॑रे॒वैन॒ग्ं॒ सम्प्रि॑य-ङ्करोति । प॒शू॒ना-महिग्ं॑सायै ॥ छ॒र्दिस्तो॒काय॒ तन॑याय य॒च्छेत्या॑ह ।आ॒शिष॑मे॒वैता-माशा᳚स्ते ॥ वातः॑ प्रा॒ण इत्य॑न्वाहार्य॒-पच॑नम् ॥ 62 ॥

सप्रा॑ण-मे॒वैन॒-माध॑त्ते ॥ स्व॒दि॒त-न्तो॒काय॒ तन॑याय पि॒तु-म्प॒चेत्या॑ह । अन्न॑मे॒वास्मै᳚ स्वदयति ॥ प्राची॒मनु॑ प्र॒दिश॒-म्प्रेहि॑ वि॒द्वानित्या॑ह । विभ॑क्तिरे॒वैन॑यो॒स्सा । अथो॒ नाना॑ वीर्यावे॒वैनौ॑ कुरुते ॥ ऊर्ज॑-न्नो धेहि द्वि॒पदे॒ चतु॑ष्पद॒ इत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ॥ अ॒र्क-श्चक्षु॒रित्या॑-हव॒नीय᳚म् । अ॒र्को वै दे॒वाना॒मन्न᳚म् ॥ 63 ॥

अन्न॑मे॒वाव॑ रुन्धे ॥ तेन॑ मे दीदि॒हीत्या॑ह । समि॑न्ध ए॒वैन᳚म् ॥ आ॒न॒शे व्या॑नश॒ इति॒ त्रिरुदि॑ङ्गयति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑वैनं॑-लोँ॒केषु॒ प्रति॑ष्ठित॒-माध॑त्ते ॥ तत्-तथा॒ न का॒र्य᳚म् । वीङ्गि॑त॒म प्र॑तिष्ठित॒-माद॑धीत । उ॒द्धृत्यै॒-वाधाया॑-भि॒मन्त्रियः॑ । अवी᳚ङ्गित-मे॒वैन॒-म्प्रति॑ष्ठित॒-माध॑त्ते ॥ वि॒राट् च॑ स्व॒राट् च॒ यास्ते॑ अग्ने शि॒वास्त॒नुव॒-स्ताभि॒स्त्वा ऽऽद॑ध॒ इत्या॑ह । ए॒ता वा अ॒ग्ने-श्शि॒वास्त॒नुवः॑ । ताभि॑रे॒वैन॒ग्ं॒ सम॑र्धयति ॥ यास्ते॑ अग्ने घो॒रास्त॒नुव॒ स्ताभि॑र॒मु-ङ्ग॒च्छेति॑ ब्रूया॒द्य-न्द्वि॒ष्यात् । ताभि॑रे॒वैन॒-म्परा॑भावयति ॥ 64 ॥
(लो॒को॑ - ऽसृजतैन॒ - माध॑त्ते - ऽन्वाहार्य॒पच॑नं - दे॒वाना॒मन्न॑ - मेन॒-म्प्रति॑ष्ठित॒माध॑त्ते॒ पञ्च॑ च) (अ. 8)

अनुवाकं 9 - ब्रह्मौदनम्
श॒मी॒ग॒र्भाद॒ग्नि-म्म॑न्थति । ए॒षा वा अ॒ग्ने-र्य॒ज्ञिया॑ त॒नूः । तामे॒वास्मै॑ जनयति ॥ अदि॑तिः पु॒त्रका॑मा । सा॒द्ध्येभ्यो॑ दे॒वेभ्यो᳚ ब्रह्मौद॒न-म॑पचत् । तस्या॑ उ॒च्छेष॑ण-मददुः । त-त्प्राश्ञा᳚त् । सा रेतो॑-ऽधत्त । तस्यै॑ धा॒ता चा᳚र्य॒मा चा॑जायेताम् । सा द्वि॒तीय॑-मपचत् ॥ 65 ॥

तस्या॑ उ॒च्छेष॑ण-मददुः । त-त्प्राश्ञा᳚त् । सा रेतो॑-ऽधत्त । तस्यै॑ मि॒त्रश्च॒ वरु॑णश्चाजायेताम् । सा तृ॒तीय॑-मपचत् । तस्या॑ उ॒च्छेष॑ण-मददुः । त-त्प्राश्ञा᳚त् । सा रेतो॑-ऽधत्त । तस्या॒ अग्ंश॑श्च॒ भग॑श्चाजायेताम् । सा च॑तु॒र्थ-म॑पचत् ॥ 66 ॥

तस्या॑ उ॒च्छेष॑ण-मददुः । त-त्प्राश्ञा᳚त् । सा रेतो॑-ऽधत्त । तस्या॒ इन्द्र॑श्च॒ विव॑स्वाग्​श्चा-जायेताम् । ब्र॒ह्मौ॒द॒न-म्प॑चति । रेत॑ ए॒व त-द्द॑धाति ॥ प्राश्ञ॑न्ति ब्राह्म॒णा ओ॑द॒नम् ॥ यदाज्य॑-मु॒च्छिष्य॑ते । तेन॑ स॒मिधो॒-ऽभ्यज्याद॑धाति । उ॒च्छेष॑णा॒द्वा अदि॑ती॒ रेतो॑-ऽधत्त ॥ 67 ॥

उ॒च्छेष॑णादे॒व त-द्रेतो॑ धत्ते ॥ अस्थि॒ वा ए॒तत् । य-थ्स॒मिधः॑ । ए॒त-द्रेतः॑ । यदाज्य᳚म् । यदाज्ये॑न स॒मिधो॒-ऽभ्यज्या॒दधा॑ति । अस्थ्ये॒व त-द्रेत॑सि दधाति ॥ ति॒स्र आद॑धाति मिथुन॒त्वाय॑ ॥ इय॑ती-र्भवन्ति । प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑ताः ॥ 68 ॥

इय॑ती-र्भवन्ति । य॒ज्ञ॒प॒रुषा॒ सम्मि॑ताः । इय॑ती-र्भवन्ति । ए॒ताव॒द्वै पुरु॑षे वी॒र्य᳚म् । वी॒र्य॑ सम्मिताः ॥ आ॒र्द्रा भ॑वन्ति । आ॒र्द्रमि॑व॒ हि रेत॑-स्सि॒च्यते᳚ ॥ चित्रि॑यस्याश्व॒त्थस्याद॑धाति । चि॒त्रमे॒व भ॑वति ॥ घृ॒तव॑तीभि॒-राद॑धाति ॥ 69 ॥

ए॒तद्वा अ॒ग्नेः प्रि॒य-न्धाम॑ । य-द्घृ॒तम् । प्रि॒येणै॒वैन॒-न्धाम्ना॒ सम॑र्धयति । अथो॒ तेज॑सा ॥ गा॒य॒त्रीभि॑-र्ब्राह्म॒णस्याद॑द्ध्यात् । गा॒य॒त्रछ॑न्दा॒ वै ब्रा᳚ह्म॒णः । स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वाय॑ । त्रि॒ष्टुग्भी॑-राज॒न्य॑स्य । त्रि॒ष्टु-प्छ॑न्दा॒ वै रा॑ज॒न्यः॑ । स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वाय॑ ॥ 70 ॥

जग॑तीभि॒-र्वैश्य॑स्य । जग॑ती छन्दा॒ वै वैश्यः॑ । स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वाय॑ ॥ तग्ं सं॑​वँथ्स॒र-ङ्गो॑पायेत् । सं॒​वँ॒थ्स॒रग्ं हि रेतो॑ हि॒तं-वँर्ध॑ते ॥ य-द्ये॑नग्ं सं​वँथ्स॒रे नोप॒नमे᳚त् । स॒मिधः॒ पुन॒राद॑द्ध्यात् । रेत॑ ए॒व तद्धि॒तं-वँर्ध॑मानमेति ॥ न मा॒ग्ं॒स-म॑श्ञीयात् । न स्त्रिय॒मुपे॑यात् ॥ 71 ॥

य-न्मा॒ग्ं॒स-म॑श्ञी॒यात् । यथ्स्त्रिय॑-मुपे॒यात् । निर्वी᳚र्य-स्स्यात् । नैन॑म॒ग्नि-रुप॑नमेत् ॥ श्व आ॑धा॒स्यमा॑नो ब्रह्मौद॒न-म्प॑चति । आ॒दि॒त्या वा इ॒त उ॑त्त॒मा-स्सु॑व॒र्गं-लोँ॒कमा॑यन्न् । ते वा इ॒तो यन्त॒-म्प्रति॑नुदन्ते । ए॒ते खलु॒ वावादि॒त्याः । य-द्ब्रा᳚ह्म॒णाः । तैरे॒व स॒त्व-ङ्ग॑च्छति ॥ 72 ॥

नैन॒-म्प्रति॑नुदन्ते ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । क्वा॑ सः । अ॒ग्निः का॒र्यः॑ । यो᳚-ऽस्मै प्र॒जा-म्प॒शू-न्प्र॑ज॒नय॒तीति॑ । शल्कै॒स्ताग्ं रात्रि॑म॒ग्नि-मि॑न्धीत । तस्मि॑-न्नुपव्यु॒षम॒रणी॒ निष्ट॑पेत् । यथ॑र्​ष॒भाय॑ वाशि॒ता न्या॑विच्छा॒यति॑ । ता॒दृगे॒व तत् ॥ अ॒पो॒दूह्य॒ भस्मा॒ग्नि-म्म॑न्थति ॥ 73 ॥

सैव सा-ऽग्ने-स्सन्त॑तिः ॥ त-म्म॑थि॒त्वा प्राञ्च॒मुद्ध॑रति । सं॒​वँ॒थ्स॒रमे॒व त-द्रेतो॑ हि॒त-म्प्रज॑नयति ॥ अना॑हित॒-स्तस्या॒ग्नि-रित्या॑हुः । य-स्स॒मिधो-ऽना॑धाया॒ग्नि-मा॑ध॒त्त इति॑ । ता-स्सं॑​वँथ्स॒रे पु॒रस्ता॒-दाद॑द्ध्यात् । सं॒​वँ॒थ्स॒रादे॒वैन॑-मव॒रुद्ध्या-ध॑त्ते ॥ यदि॑ सं​वँथ्स॒रे ऽनाद॒द्ध्यात् । द्वा॒द॒श्या᳚-म्पु॒रस्ता॒-दाद॑द्ध्यात् । सं॒​वँ॒थ्स॒र प्र॑तिमा॒ वै द्वाद॑श॒ रात्र॑यः । सं॒​वँ॒थ्स॒रमे॒वास्याहि॑ता भवन्ति ॥ यदि॑ द्वाद॒श्या᳚-न्नाद॒द्ध्यात् । त्र्य॒हे पु॒रस्ता॒दाद॑द्ध्यात् । आहि॑ता ए॒वास्य॑ भवन्ति ॥ 74 ॥
(द्वि॒तीय॑मपचच् - चतु॒र्थम॑पच॒ - ददि॑ती॒ रेतो॑-ऽधत्त॒ - सम्मि॑ता -
घृ॒तव॑तीभि॒राद॑धाति - राज॒न्य॑-स्स्वस्य॒ छन्द॑सः प्रत्ययन॒स्त्वा - ये॑या-द्- गच्छति - मन्थति॒ - रात्र॑य श्च॒त्वारि॑ च) (अ. 9)

अनुवाकं 10 - पञ्चाग्न्याधानम्
प्र॒जाप॑तिः प्र॒जा अ॑सृजत । स रि॑रिचा॒नो॑-ऽमन्यत । स तपो॑-ऽतप्यत । स आ॒त्मन् वी॒र्य॑-मपश्यत् । तद॑वर्धत । तद॑स्मा॒-थ्सह॑सो॒र्ध्व-म॑सृज्यत । सा वि॒राड॑भवत् । ता-न्दे॑वासु॒रा व्य॑गृह्णत । सो᳚-ऽब्रवी-त्प्र॒जाप॑तिः । मम॒ वा ए॒षा ॥ 75 ॥

दोहा॑ ए॒व यु॒ष्माक॒मिति॑ ॥ सा ततः॒ प्राच्युद॑क्रामत् । त-त्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । अथ॑र्व पि॒तु-म्मे॑ गोपा॒येति॑ । सा द्वि॒तीय॒-मुद॑क्रामत् । त-त्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । नर्य॑ प्र॒जा-म्मे॑ गोपा॒येति॑ । सा तृ॒तीय॒-मुद॑क्रामत् । त-त्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । शग्ग्​स्य॑ प॒शू-न्मे॑ गोपा॒येति॑ ॥ 76 ॥

सा च॑तु॒र्थ-मुद॑क्रामत् । त-त्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । सप्र॑थ स॒भा-म्मे॑ गोपा॒येति॑ । सा प॑ञ्च॒म-मुद॑क्रामत् । त-त्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । अहे॑ बुद्ध्निय॒ मन्त्र॑-म्मे गोपा॒येति॑ । अ॒ग्नीन् वाव सा तान् व्य॑क्रमत । ता-न्प्र॒जाप॑तिः॒ पर्य॑गृह्णात् । अथो॑ प॒ङ्क्तिमे॒व ॥ प॒ङ्क्तिर्वा ए॒षा ब्रा᳚ह्म॒णे प्रवि॑ष्टा ॥ 77 ॥

तामा॒त्मनो-ऽधि॒ निर्मि॑मीते । यद॒ग्नि-रा॑धी॒यते᳚ । तस्मा॑-दे॒ताव॑न्तो॒-ऽग्नय॒ आधी॑यन्ते । पाङ्क्तं॒-वाँ इ॒दग्ं सर्व᳚म् । पाङ्क्ते॑नै॒व पाङ्क्तग्ग्॑ स्पृणोति ॥ अथ॑र्व पि॒तु-म्मे॑ गोपा॒येत्या॑ह । अन्न॑मे॒वै तेन॑ स्पृणोति । नर्य॑ प्र॒जा-म्मे॑ गोपा॒येत्या॑ह । प्र॒जामे॒वैतेन॑ स्पृणोति । शग्ग्​स्य॑ प॒शू-न्मे॑ गोपा॒येत्या॑ह ॥ 78 ॥

प॒शूने॒वैतेन॑ स्पृणोति । सप्र॑थ स॒भा-म्मे॑ गोपा॒येत्या॑ह । स॒भामे॒वैतेनॆ᳚न्द्रि॒यग्ग्​ स्पृ॑णोति । अहे॑ बुद्ध्निय॒ मन्त्र॑-म्मे गोपा॒येत्या॑ह । मन्त्र॑मे॒वै तेन॒ श्रियग्ग्॑ स्पृणोति ॥ यद॑न्वाहार्य॒-पच॑ने-ऽन्वाहा॒र्य॑-म्पच॑न्ति । तेन॒ सो᳚-ऽस्या॒भीष्टः॑ प्री॒तः । य-द्गार्​ह॑पत्य॒ आज्य॑मधि॒श्रय॑न्ति॒ सम्पत्नी᳚र्या॒जय॑न्ति । तेन॒ सो᳚-ऽस्या॒भीष्टः॑ प्री॒तः । यदा॑हव॒नीये॒ जुह्व॑ति ॥ 79 ॥

तेन॒ सो᳚-ऽस्या॒भीष्टः॑ प्री॒तः । यथ्स॒भायां᳚-विँ॒जय॑न्ते । तेन॒ सो᳚-ऽस्या॒भीष्टः॑ प्री॒तः । यदा॑वस॒थे-ऽन्न॒ग्ं॒ हर॑न्ति । तेन॒ सो᳚-ऽस्या॒भीष्टः॑ प्री॒तः । तथा᳚-ऽस्य॒ सर्वे᳚ प्री॒ता अ॒भीष्टा॒ आधी॑यन्ते ॥ प्र॒व॒स॒थ-मे॒ष्यन्ने॒व-मुप॑तिष्ठे॒-तैक॑मेकम् । यथा᳚ ब्राह्म॒णाय॑ गृहेवा॒सिने॑ परि॒दाय॑ गृ॒हानेति॑ । ता॒दृगे॒व तत् ॥ पुन॑रा॒ग-त्योप॑तिष्ठते । सा भा॑गेयमे॒वैषा॒-न्तत् । सा तत॑ ऊ॒र्ध्वा-ऽऽरो॑हत् । सा रो॑हि॒ण्य॑भवत् । त-द्रो॑हि॒ण्यै रो॑हिणि॒त्वम् । रो॒हि॒ण्या-म॒ग्नि-माद॑धीत । स्व ए॒वैनं॒-योँनौ॒ प्रति॑ष्ठित॒-माध॑त्ते । ऋ॒द्ध्नोत्ये॑नेन ॥ 80 ॥
(ए॒षा - प॒शून्मे॑ गोपा॒येति॒ - प्रवि॑ष्टा -
प॒शून्मे॑ गोपा॒येत्या॑ह॒ - जुह्व॑ति - तिष्ठते स॒प्त च॑) (अ. 10)

(ब्रह्म॒ सन्ध॑त्तं॒ - कृत्ति॑का॒ - सूद्ध॑न्ति - द्वाद॒शसु॑ - प्र॒जाप॑ति-र्वा॒चो - दे॑वासु॒रास्तद॒ग्निर्नो-द्- घ॒र्म-श्शिर॑ - इ॒मे वै - श॑मीग॒र्भात् - प्र॒जाप॑ति॒-स्स रि॑रिचा॒न-स्सतप॒-स्स आ॒त्मन् वी॒र्य॑-न्दश॑ )

(ब्रह्म॒ सन्ध॑त्तं॒ - तौ दि॒व्या - वथो॑ श॒त्वां​यँ॒ - प्राच्ये॑षां॒ - ँयदु॒पर्यु॑परि॒ - य-थ्स॒द्यः - सो-ऽश्वो॒ वारो॑ भू॒त्वा - जग॑तीभि॒ रशी॑तिः)

(ब्रह्म॒ सन्ध॑त्त - मृ॒द्ध्नोत्ये॑नेन)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके प्रथमः प्रपाठक-स्समाप्तः ॥




Browse Related Categories: