View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.8 - काम्यपशुयाज्यानुवाक्या ब्राह्मणम् - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - पीवोन्नां रयिवृधः

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके अष्टमः प्रपाठकः - काम्यपशुयाज्यानुवाक्या ब्राह्मणम्

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अनुवाकं 1 - वायव्यादिपशूनां सूक्तानि

पीवो᳚न्नाग्ं रयि॒वृध॑-स्सुमे॒धाः । श्वे॒त-स्सि॑षक्ति नि॒युता॑मभि॒श्रीः । ते वा॒यवे॒ सम॑नसो॒ वित॑स्थुः । विश्वेन्नर॑-स्स्वप॒त्यानि॑ चक्रुः ॥ रा॒ये-ऽनु य-ञ्ज॒ज्ञतू॒ रोद॑सी उ॒भे । रा॒ये दे॒वी धि॒षणा॑ धाति दे॒वम् । अधा॑ वा॒यु-न्नि॒युत॑-स्सश्चत॒ स्वाः । उ॒त श्वे॒तं-वँसु॑धिति-न्निरे॒के ॥ आ वा॑यो भूष शुचिपा॒ उप॑ न-स्स॒हस्र॑-न्ते नि॒युतो॑ विश्ववार । उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू᳚र्व॒पेय᳚म् ॥ प्र याभि॒र्यासि॑ दा॒श्वाग्ं समच्छा॑ नि॒युद्भि॑-र्वायवि॒ष्टये॑ दुरो॒णे । नि नो॑ र॒यिग्ं सु॒भोज॑सं-युँवे॒ह नि वी॒रव॒-द्गव्य॒मश्वि॑य-ञ्च॒ राधः॑ ॥॥ प्र वा॒युमच्छा॑ बृह॒ती म॑नी॒षा ॥ 1 ॥

बृ॒हद्र॑यिं-विँ॒श्ववा॑राग्ं रथ॒प्राम् । द्यु॒तद्या॑मा नि॒युतः॒ पत्य॑मानः । क॒विः क॒विमि॑यक्षसि प्रयज्यो ॥ आ नो॑ नि॒युद्भि॑-श्श॒तिनी॑भि-रद्ध्व॒रम् । स॒ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् । वायो॑ अ॒स्मिन्. ह॒विषि॑ मादयस्व । यू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः ॥ प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः । विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । य-त्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु ॥ 2 ॥

व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् ॥ र॒यी॒णा-म्पतिं॑-यँज॒त-म्बृ॒हन्त᳚म् । अ॒स्मिन्भरे॒ नृत॑मं॒-वाँज॑सातौ । प्र॒जाप॑ति-म्प्रथम॒जामृ॒तस्य॑ । यजा॑म दे॒वमधि॑ नो ब्रवीतु ॥ प्रजा॑पते॒ त्व-न्नि॑धि॒पाः पु॑रा॒णः । दे॒वाना᳚-म्पि॒ता ज॑नि॒ता प्र॒जाना᳚म् । पति॒-र्विश्व॑स्य॒ जग॑तः पर॒स्पाः । ह॒विर्नो॑ देव विह॒वे जु॑षस्व ॥ तवे॒मे लो॒काः प्र॒दिशो॒ दिश॑श्च ॥ 3 ॥

प॒रा॒वतो॑ नि॒वत॑ उ॒द्वत॑श्च । प्रजा॑पते विश्व॒सृज्जी॒वध॑न्य इ॒द-न्नो॑ देव । प्रति॑हर्य ह॒व्यम् ॥ प्र॒जाप॑ति-म्प्रथ॒मं-यँ॒ज्ञिया॑नाम् । दे॒वाना॒मग्रे॑ यज॒तं-यँ॑जद्ध्वम् । स नो॑ ददातु॒ द्रवि॑णग्ं सु॒वीर्य᳚म् । रा॒यस्पोषं॒-विँष्य॑तु॒ नाभि॑म॒स्मे ॥ यो रा॒य ईशे॑ शतदा॒य उ॒क्थ्यः॑ । यः प॑शू॒नाग्ं र॑क्षि॒ता विष्ठि॑तानाम् । प्र॒जाप॑तिः प्रथम॒जा ऋ॒तस्य॑ ॥ 4 ॥

स॒हस्र॑धामा जुषताग्ं ह॒विर्नः॑ ॥ सोमा॑पूषणा॒ जन॑ना रयी॒णा-ञ्जन॑ना दि॒वो जन॑ना पृथि॒व्याः । जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि᳚म् ॥ इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमाग्ं॑सि गूहता॒मजु॑ष्टा । आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्त-स्सो॑मापू॒षभ्या᳚-ञ्जनदु॒स्रिया॑सु ॥ ॥ सोमा॑पूषणा॒ रज॑सो वि॒मान᳚म् । स॒प्तच॑क्र॒ग्ं॒ रथ॒मवि॑श्वमिन्वम् । वि॒षू॒वृत॒-म्मन॑सा यु॒ज्यमा॑नम् । त-ञ्जि॑न्वथो वृषणा॒ पञ्च॑रश्मिम् ॥ दि॒व्य॑न्य-स्सद॑न-ञ्च॒क्र उ॒च्चा । पृ॒थि॒व्याम॒न्यो अद्ध्य॒न्तरि॑क्षे । ताव॒स्मभ्य॑-म्पुरु॒वार॑-म्पुरु॒क्षुम् । रा॒यस्पोषं॒-विँष्य॑ता॒-न्नाभि॑म॒स्मे ॥ 5 ॥

धिय॑-म्पू॒षा जि॑न्वतु विश्वमि॒न्वः । र॒यिग्ं सोमो॑ रयि॒पति॑-र्दधातु । अव॑तु दे॒व्यदि॑तिर-न॒र्वा । बृ॒ह-द्व॑देम वि॒दथे॑ सु॒वीराः᳚ ॥ विश्वा᳚न्य॒न्यो भुव॑ना ज॒जान॑ । विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति । सोमा॑पूषणा॒-वव॑त॒-न्धिय॑-म्मे । यु॒वभ्यां॒-विँश्वाः॒ पृत॑ना जयेम ॥ उदु॑त्त॒मं-वँ॑रुण॒ पाश॑म॒स्मदवा॑-ऽध॒मं-विँम॑ध्य॒मग्ग्​ श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवा-ऽना॑गसो॒ अदि॑तये स्याम अस्त॑भ्ना॒द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माण॑-म्पृथि॒व्या आ-ऽसी॑द॒-द्विश्वा॒ भुव॑नानि स॒म्रा-ड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥ । य-त्किञ्चे॒दं-वँ॑रुण॒ दैव्ये॒ जने॑-ऽभिद्रो॒ह-म्म॑नु॒ष्या᳚श्चरा॑मसि । अचि॑त्ती॒य-त्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒ देन॑सो देव रीरिषः ॥ कि॒त॒वासो॒ यद्रि॑ रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्य मु॒तयन्न वि॒द्म । सर्वा॒ ता विष्य॑ शिथि॒रेव॑ दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑ ॥( ) । अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेनाग्ं॑सि शिश्रथः कृ॒तानि॑ ॥, तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शग्ंस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ ॥ आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शन्त॑मेन । अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं-यँ॒ज्ञ-न्द॑धतु॒ श्रोष॑माणाः ॥, न द॑क्षि॒णा विचि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा । पा॒क्या॑ चिद्वसवो धी॒र्या॑ चि--द्यु॒ष्मानी॑तो॒ अभ॑य॒-ञ्ज्योति॑रश्याम् ॥ । धा॒रय॑न्त आदि॒त्यासो॒ जग॒थ्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः । दी॒र्घाधि॑यो॒ रक्ष॑माणा असु॒र्य॑मृ॒तावा॑न॒-श्चय॑माना ऋ॒णानि॑ ॥, ति॒स्रो भूमी᳚र्धारय॒-न्त्रीग्ं रु॒त द्यू-न्त्रीणि॑ व्र॒ता वि॒दथे॑ अ॒न्तरे॑षाम् । ऋ॒तेना॑-ऽऽदित्या॒ महि॑ वो महि॒त्व-न्तद॑र्यमन् वरुण मित्र॒ चारु॑ ॥ । य॒ज्ञो दे॒वाना॒-म्प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृड॒यन्तः॑ । आ वो॒-ऽर्वाची॑ सुम॒ति र्व॑वृत्याद॒ग्ं॒ होश्चि॒द्या व॑रिवो॒वित्त॒रा-ऽस॑त् ॥ शुचि॑र॒प-स्सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑या-स्सु॒वीरः॑ । नकि॒ष्ट-ङ्घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ॑दि॒त्याना॒-म्भव॑ति॒ प्रणी॑तौ ॥ ॥ 6 ॥
(म॒नी॒षा-ऽस्तु॑-च॒-र्त-स्या॒स्मे-कि॑त॒वास॑ श्च॒त्वारि॑ च ) (अ. 1)

अनुवाकं 2 - वशादीनां सूक्तानि
ते शु॒क्रास॒-श्शुच॑यो रश्मि॒वन्तः॑ । सीद॑न्नादि॒त्या अधि॑ ब॒र॒ःइषि॑ प्रि॒ये । कामे॑न दे॒वा-स्स॒रथ॑-न्दि॒वो नः॑ । आया᳚न्तु य॒ज्ञमुप॑ नो जुषा॒णाः ॥ ते सू॒नवो॒ अदि॑तेः पीव॒सामिष᳚म् । घृ॒त-म्पिन्व॒त्-प्रति॑हर्यन्नृते॒जाः । प्र य॒ज्ञिया॒ यज॑मानाय येमुरे । आ॒दि॒त्याः काम॑-म्पितु॒मन्त॑म॒स्मे ॥ आ नः॑ पु॒त्रा अदि॑तेर्यान्तु य॒ज्ञम् । आ॒दि॒त्यासः॑ प॒थिभि॑-र्देव॒यानैः᳚ ॥ 7 ॥

अ॒स्मे काम॑-न्दा॒शुषे॑ स॒न्नम॑न्तः । पु॒रो॒डाश॑-ङ्घृ॒तव॑न्त-ञ्जुषन्ताम् ॥ स्क॒भा॒यत॒ निर्-ऋ॑ति॒ग्ं॒ सेध॒ताम॑तिम् । प्र र॒श्मिभि॒-र्यत॑माना अमृद्ध्राः । आदि॑त्याः॒ काम॒ प्रय॑तां॒-वँष॑ट्कृतिम् । जु॒षद्ध्व॑-न्नो ह॒व्यदा॑तिं-यँजत्राः ॥ आ॒दि॒त्यान्-काम॒मव॑से हुवेम । ये भू॒तानि॑ ज॒नय॑न्तो विचि॒ख्युः । सीद॑न्तु पु॒त्रा अदि॑तेरु॒पस्थ᳚म् । स्ती॒र्ण-म्ब॒र॒ःइर्​ह॑वि॒रद्या॑य दे॒वाः ॥ 8 ॥

स्ती॒र्ण-म्ब॒र॒ःइ-स्सी॑दता य॒ज्ञे अ॒स्मिन्न् । ध्रा॒जा-स्सेध॑न्तो॒ अम॑ति-न्दु॒रेवा᳚म् । अ॒स्मभ्य॑-म्पुत्रा अदितेः॒ प्रयग्ं॑सत । आदि॑त्याः॒ काम॑ ह॒विषो॑ जुषा॒णाः ॥ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् । विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒द्ध्य॑स्म-ज्जु॑हुरा॒णमेनः॑ । भूयि॑ष्ठा-न्ते॒ नम॑ उक्तिं-विँधेम ॥ प्रव॑-श्शु॒क्राय॑ भा॒नवे॑ भरद्ध्वम् । ह॒व्य-म्म॒ति-ञ्चा॒ग्नये॒ सुपू॑तम् ॥ 9 ॥

यो दैव्या॑नि॒ मानु॑षा ज॒नूग्ंषि॑ । अ॒न्त-र्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥ अच्छा॒ गिरो॑ म॒तयो॑ देव॒यन्तीः᳚ । अ॒ग्निं-यँ॑न्ति॒ द्रवि॑ण॒-म्भिक्ष॑माणाः । सु॒स॒दृंशग्ं॑ सु॒प्रती॑क॒ग्ग्॒ स्वञ्च᳚म् । ह॒व्य॒वाह॑मर॒ति-म्मानु॑षाणाम् ॥ अग्ने॒ त्वम॒स्म-द्यु॑यो॒द्ध्यमी॑वाः । अन॑ग्नित्रा अ॒भ्य॑मन्त कृ॒ष्टीः । पुन॑र॒स्मभ्यग्ं॑ सुवि॒ताय॑ देव । क्षां-विँश्वे॑भिर॒जरे॑भि-र्यजत्र ॥ 10 ॥

अग्ने॒ त्व-म्पा॑रया॒ नव्यो॑ अ॒स्मान् । स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी । भवा॑ तो॒काय॒ तन॑याय॒ शं-योः ँ॥ प्र का॑रवो मन॒ना व॒च्यमा॑नाः । दे॒व॒द्रीची᳚-न्नयथ देव॒यन्तः॑ । द॒क्षि॒णा॒वाड्-वा॒जिनी॒ प्राच्ये॑ति । ह॒विर्भर॑न्त्य॒ग्नये॑ घृ॒ताची᳚ ॥ इन्द्र॒-न्नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः । शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वन्नः॑ ॥ यु॒जे रथ॑-ङ्ग॒वेष॑ण॒ग्ं॒ हरि॑भ्याम् । उप॒ ब्रह्मा॑णि जुजुषा॒ण-म॑स्थुः । विबा॑धिष्टा॒स्य रोद॑सी महि॒त्वा । इन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥ ॥ ज॒गृ॒भ्णा ते॒ दक्षि॑णामिन्द्र॒ हस्त᳚म् ॥ 11 ॥

व॒सू॒यवो॑ वसुपते॒ वसू॑नाम् । वि॒द्मा हि त्वा॒ गोप॑तिग्ं शूर॒ गोना᳚म् । अ॒स्मभ्य॑-ञ्चि॒त्रं-वृँष॑णग्ं र॒यि-न्दाः᳚ ॥ तवे॒दं-विँश्व॑म॒भितः॑ पश॒व्य᳚म् । य-त्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य । गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र । भ॒क्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ॥ समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॑ । सग्ं सू॒रिभि॑-र्मघव॒न्-थ्सग्ग्​ स्व॒स्त्या । स-म्ब्रह्म॑णा दे॒वकृ॑तं॒-यँदस्ति॑ ॥ 12 ॥

स-न्दे॒वानाग्ं॑ सुम॒त्या य॒ज्ञिया॑नाम् ॥ आ॒राच्छत्रु॒-मप॑बाधस्व दू॒रम् । उ॒ग्रो य-श्शम्बः॑ पुरुहूत॒ तेन॑ । अ॒स्मे धे॑हि॒ यव॑म॒द्गोम॑दिन्द्र । कृ॒धी धिय॑-ञ्जरि॒त्रे वाज॑रत्नाम् ॥ आवे॒धस॒-न्नील॑पृष्ठ-म्बृ॒हन्त᳚म् । बृह॒स्पति॒ग्ं॒ सद॑ने सादयध्वम् । सा॒दद्यो॑नि॒-न्दम॒ आदी॑दि॒वाग्ंस᳚म् । हिर॑ण्यवर्णमरु॒षग्ं स॑पेम ॥ स हि शुचिः॑ ॥ बृह॒स्पतिः॑ प्रथ॒म-ञ्जाय॑मानः । म॒हो ज्योति॑षः पर॒मे व्यो॑मन्न् । स॒प्तास्य॑स्तुविजा॒तो रवे॑ण । वि स॒प्तर॑श्मिरधम॒त्तमाग्ं॑सि ॥ 13 ॥

बृह॒स्पति॒-स्सम॑जय॒-द्वसू॑नि । म॒हो व्र॒जा-न्गोम॑तो दे॒व ए॒षः । अ॒प-स्सिषा॑स॒न्-थ्सुव॒र प्र॑तीत्तः । बृह॒स्पति॒र॒ःअन्त्य॒मित्र॑-म॒र्कैः ॥ बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हा ऽमित्राग्ं॑ अप॒ बाध॑मानः । प्र॒भ॒ञ्जन्-थ्सेनाः᳚ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑-मेध्यवि॒ता रथा॑नाम् ॥ ए॒वा पि॒त्रे वि॒श्वदे॑वाय॒ वृष्णे॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ । बृह॑स्पते सुप्र॒जा वी॒रव॑न्तो व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् ॥ ॥ आ नो॑ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञम् । हव॑-न्दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मा-न्नो॒ वाच॑मुश॒ती शृ॑णोतु ॥पावी॑रवी क॒न्या॑ चि॒त्रायु॒-स्सर॑स्वती वी॒रप॑त्नी॒ धिय॑-न्धात् । ग्नाभि॒रच्छि॑द्रग्ं शर॒णग्ं स॒जोषा॑ दुरा॒धर्​ष॑-ङ्गृण॒ते शर्म॑ यग्ंसत् ॥ । इ॒मा जुह्वा॑ना यु॒ष्मदा नमो॑भिः । प्रति॒ स्तोमग्ं॑ सरस्वति जुषस्व । तव॒ शर्म॑-न्प्रि॒यत॑मे॒ दधा॑नाः । उप॑स्थेयाम शर॒ण-न्न वृ॒क्षम् ॥ यस्ते॒ स्तन॑श्शश॒य इत्या॑ह । स्तौत्ये॒वैना᳚म् । उस्र॑ घ॒र्मग्ं शि॒ग्ं॒षोस्र॑ घ॒र्म-म्पा॑हि घ॒र्माय॑ शि॒ग्ं॒षेत्या॑ह । यथा᳚ ब्रू॒याद॒मुष्मै॑ दे॒हीति॑ । ता॒दृगे॒व तत् । बृह॒स्पति॒स्त्वोप॑ सीद॒त्वित्या॑ह । । सर॑स्वत्य॒भि नो॑ नेषि॒ वस्यः॑ । मा प॑स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् । जु॒षस्व॑ न-स्स॒ख्या॑ वे॒श्या॑ च । मा त्वत्क्षेत्रा॒-ण्यर॑णानि गन्म ॥ ॥ इ॒यग्ं शुष्मे॑भिर्बिस॒खा इ॑वारुजत् । सानु॑ गिरी॒णा-न्त॑वि॒षेभि॑रू॒र्मिभिः॑ । पा॒रा॒व॒द॒घ्नीमव॑से सुवृ॒क्तिभिः॑ । सर॑स्वती॒-मावि॑वासेम धी॒तिभिः॑ ॥ 14 ॥
(दे॒व॒यानै᳚--र् दे॒वाः - सुपू॑तं​यँजत्र॒-हस्त॒-मस्ति॒-तमाग्॑-स्यू॒र्मिभि॒-र्द्वे च॑) (अ. 2)

अनुवाकं 3 - सौम्यादीनां सूक्तानि
सोमो॑ धे॒नुग्ं सोमो॒ अर्व॑न्तमा॒शुम् । सोमो॑ वी॒र-ङ्क॑र्म॒ण्य॑-न्ददातु । सा॒द॒न्यं॑-विँद॒थ्यग्ं॑ स॒भेय᳚म् । पि॒तु॒-श्श्रव॑णं॒-योँ ददा॑शदस्मै ॥ अषा॑ढं-युँ॒थ्सु पृत॑नासु॒ पप्रि᳚म् । सु॒व॒र्॒षाम॒फ्स्वां-वृँ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जाग्ं सु॑क्षि॒तिग्ं सु॒श्रव॑सम् । जय॑न्त॒-न्त्वामनु॑ मदेम सोम ॥ त्वग्ं सो॑म॒ क्रतु॑भिः ॥ या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञ-ङ्ग॑य॒स्फानः॑ प्र॒तर॑ण-स्सु॒वीरो-ऽवी॑रहा॒ प्रच॑रा सोम॒ दुर्या॒न॥ त्वमि॒मा ओष॑धी-स्सोम॒ विश्वाः᳚ । त्वम॒पो अ॑जनय॒स्त्व-ङ्गाः । त्वमात॑तन्थो॒र्व॑न्तरि॑क्षम् । त्व-ञ्ज्योति॑षा॒ वितमो॑ ववर्थ ॥ 15 ॥

या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्याम् । या पर्व॑ते॒ष्वोष॑धीष्व॒फ्सु । तेभि॑र्नो॒ विश्वै᳚-स्सु॒मना॒ अहे॑डन्न् । राजन्᳚-थ्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥ विष्णो॒र्नुकं॑-वीँ॒र्या॑णि॒ प्र वो॑चं॒-यः ँपार्थि॑वानि विम॒मे रजाग्ं॑सि॒ यो अस्क॑भाय॒दुत्त॑रग्ं स॒धस्थं॑-विँचक्रमा॒ण स्त्रे॒धोरु॑गा॒यो विष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॑सि॒ विष्णो॒-श्श्न्यप्त्रे᳚ स्थो॒ विष्णो॒-स्स्यूर॑सि॒ विष्णो᳚-र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा ॥ तद॑स्य प्रि॒यम॒भि पाथो॑ अश्याम् । नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति । उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था । विष्णोः᳚ प॒दे प॑र॒मे मध्व॒ उथ्सः॑ ॥ । प्रत-द्विष्णु॑-स्स्तवते वी॒र्या॑य । मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ॥ ॥ प॒रो मात्र॑या त॒नुवा॑ वृधान । न ते॑ महि॒त्व-मन्व॑श्नुवन्ति । उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वम् । प॒र॒मस्य॑ विथ्से ॥ 16 ॥

विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् । क्षेत्रा॑य॒ विष्णु॒-र्मनु॑षे दश॒स्यन्न् । ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः । उ॒रु॒क्षि॒तिग्ं सु॒जनि॑मा चकार ॥ त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒ताम् । विच॑क्रमे श॒तर्च॑स-म्महि॒त्वा । प्र विष्णु॑-रस्तु त॒वस॒स्त वी॑यान् । त्वे॒षग्ग्​ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥ ॥ आ ते॑ म॒ह इ॑न्द्रो॒त्यु॑ग्र॒ सम॑न्यवो॒ य-थ्स॒मर॑न्त॒ सेनाः᳚ । पता॑ति दि॒द्युन्नर्य॑स्य बाहु॒वोर्मा ते॒ मनो॑ विष्व॒द्रिय॒ग्वि चा॑रीत् ॥ यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वा-न्दे॒वो दे॒वान् क्रतु॑ना प॒र्यभू॑षत् । यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेता-न्नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥ । अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानो-ऽदा॒यो वी॒र-श्श॒तम॑न्यु॒रिन्द्रः॑ । दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑ यु॒ध्यो᳚-स्माक॒ग्ं॒ सेना॑ अवतु॒ प्र यु॒थ्सु ॥ ॥ आभि॒-स्स्पृधो॑ मिथ॒ती- ररि॑षण्यन्न् । अ॒मित्र॑स्य व्यथया म॒न्युमि॑न्द्र । आभि॒र्विश्वा॑ अभि॒युजो॒ विषू॑चीः । आर्या॑य॒ विशो-ऽव॑तारी॒र्दासीः᳚ ॥ अ॒यग्ं शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन्न् । अ॒यमु॒त प्रकृ॑णुते यु॒धा गाः । य॒दा स॒त्य-ङ्कृ॑णु॒ते म॒न्युमिन्द्रः॑ ॥ 17 ॥

विश्व॑-न्दृ॒ढ-म्भ॑यत॒ एज॑दस्मात् ॥ अनु॑ स्व॒धा-म॑क्षर॒न्नापो॑ अस्य । अव॑र्धत॒ मद्ध्य॒ आ ना॒व्या॑नाम् । स॒द्ध्री॒चीने॑न॒ मन॑सा॒ तमि॑न्द्र॒ ओजि॑ष्ठेन । हन्म॑ना-ऽहन्न॒भिद्यून् ॥ म॒रुत्व॑न्तं-वृँष॒भं-वाँ॑वृधा॒नम् । अक॑वारि-न्दि॒व्यग्ं शा॒समिन्द्र᳚म् । वि॒श्वा॒साह॒मव॑से॒ नूत॑नाय । उ॒ग्रग्ं स॑हो॒दामि॒ह तग्ं हु॑वेम ॥ जनि॑ष्ठा उ॒ग्र-स्सह॑से तु॒राय॑ ॥ 18 ॥

म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः । अव॑र्ध॒न्निन्द्र॑-म्म॒रुत॑श्चि॒दत्र॑ । मा॒ता य-द्वी॒र-न्द॒धन॒द्धनि॑ष्ठा ॥ क्व॑ स्या वो॑ मरुत-स्स्व॒धा-ऽऽसी᳚त् । य-न्मामेकग्ं॑ स॒मध॑त्ताहि॒हत्ये᳚ । अ॒हग्ग्​ ह्यु॑ग्रस्त॑वि॒ष-स्तुवि॑ष्मान् । विश्व॑स्य॒ शत्रो॒रन॑मं-वँध॒स्नैः ॥ वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणाः । विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः । म॒रुद्भि॑रिन्द्र स॒ख्य-न्ते॑ अस्तु ॥ 19 ॥

अथे॒मा विश्वाः॒ पृत॑ना जयासि ॥ वधीं᳚-वृँ॒त्र-म्म॑रुत इन्द्रि॒येण॑ । स्वेन॒ भामे॑न तवि॒षो ब॑भू॒वान् । अ॒हमे॒ता मन॑वे वि॒श्वश्च॑न्द्राः । सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ॥ स यो वृषा॒ वृष्णि॑येभि॒-स्समो॑काः । म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् । स॒ती॒नस॑त्त्वा॒ हव्यो॒ भरे॑षु । म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ॥ इन्द्रो॑ वृ॒त्रम॑तर-द्वृत्र॒तूर्ये᳚ ॥ 20 ॥

अ॒ना॒धृ॒ष्यो म॒घवा॒ शूर॒ इन्द्रः॑ । अन्वे॑नं॒-विँशो॑ अमदन्त पू॒र्वीः । अ॒यग्ं राजा॒ जग॑तश्चर्​षणी॒नाम् ॥ स ए॒व वी॒र-स्स उ॑ वी॒र्या॑वान् । स ए॑करा॒जो जग॑तः पर॒स्पाः । य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ । अथा॑ भवद्दमि॒ता-ऽभिक्र॑तूनाम् ॥ इन्द्रो॑ य॒ज्ञं-वँ॒र्धय॑न् वि॒श्ववे॑दाः । पु॒रो॒डाश॑स्य जुषताग्ं ह॒विर्नः॑ । वृ॒त्र-न्ती॒र्त्वा दा॑न॒वं-वँज्र॑बाहुः ॥ 21 ॥

दिशो॑-ऽदृग्ं हद्दृग्ंहि॒ता दृग्ंह॑णेन ॥ इ॒मं-यँ॒ज्ञं-वँ॒र्धय॑न् वि॒श्ववे॑दाः । पु॒रो॒डाश॒-म्प्रति॑गृभ्णा॒त्विन्द्रः॑ । य॒दा वृ॒त्रमत॑र॒च्छूर॒ इन्द्रः॑ । अथै॑करा॒जो अ॑भव॒ज्जना॑नाम् ॥ इन्द्रो॑ दे॒वाञ्छ॑म्बर॒हत्य॑ आवत् । इन्द्रो॑ दे॒वाना॑- मभव-त्पुरो॒गाः । इन्द्रो॑ य॒ज्ञे ह॒विषा॑ वावृधा॒नः । वृ॒त्र॒तूर्णो॒ अभ॑य॒ग्ं॒ शर्म॑ यग्ंसत् ॥ य-स्स॒प्त सिन्धू॒ग्ं॒ रद॑धात्-पृथि॒व्याम् । य-स्स॒प्त लो॒कानकृ॑णो॒-द्दिश॑श्च । इन्द्रो॑ ह॒विष्मा॒न्-थ्सग॑णो म॒रुद्भिः॑ । वृ॒त्र॒तूर्णो॑ य॒ज्ञमि॒होप॑यासत् ॥ 22 ॥
(व॒व॒र्थ॒ - वि॒थ्स॒ - इन्द्र॑ - स्तु॒रा - या᳚स्तु॒ - वृत्र॒तूर्ये॒ - वज्र॑बाहुः - पृथि॒व्या-न्त्रीणि॑ च) (अ. 3)

अनुवाकं 4 - अभिमातिहैन्द्रादिपशूनां सूक्तानि
इन्द्र॒-स्तर॑स्वा-नभिमाति॒होग्रः । हिर॑ण्यवाशी-रिषि॒र-स्सु॑व॒र॒.षाः । तस्य॑ व॒यग्ं सु॑म॒तौ य॒ज्ञिय॑स्य । अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥ हिर॑ण्यवर्णो॒ अभ॑य-ङ्कृणोतु । अ॒भि॒मा॒ति॒हेन्द्रः॒ पृत॑नासु जि॒ष्णुः । स न॒-श्शर्म॑ त्रि॒वरू॑थं॒-विँयग्ं॑सत् । यू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः ॥ इन्द्रग्ग्॑ स्तुहि व॒ज्रिण॒ग्ग्॒ स्तोम॑पृष्ठम् । पु॒रो॒डाश॑स्य जुषताग्ं ह॒विर्नः॑ ॥ 23 ॥

ह॒त्वा-ऽभिमा॑तीः॒ पृत॑ना॒-स्सह॑स्वान् । अथाभय॑-ङ्कृणुहि वि॒श्वतो॑ नः ॥ स्तु॒हि शूरं॑-वँ॒ज्रिण॒-मप्र॑तीतम् (मप्र॑तीत्तम्) । अ॒भि॒मा॒ति॒हन॑-म्पुरुहू॒तमिन्द्र᳚म् । य एक॒ इच्छ॒तप॑ति॒र्जने॑षु । तस्मा॒ इन्द्रा॑य ह॒विराजु॑होत ॥ इन्द्रो॑ दे॒वाना॑मधि॒पाः पु॒रोहि॑तः । दि॒शा-म्पति॑रभव-द्वा॒जिनी॑वान् । अ॒भि॒मा॒ति॒हा त॑वि॒षस्तुवि॑ष्मान् । अ॒स्मभ्य॑-ञ्चि॒त्रं-वृँष॑णग्ं र॒यि-न्दा᳚त् ॥ 24 ॥

य इ॒मे द्यावा॑पृथि॒वी म॑हि॒त्वा । बले॒नादृग्ं॑हदभिमाति॒हेन्द्रः॑ । स नो॑ ह॒विः प्रति॑गृभ्णातु रा॒तये᳚ । दे॒वाना᳚-न्दे॒वो नि॑धि॒पा नो॑ अव्यात् ॥ अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न्-त्वष्टा॒ वज्र॑-म्पुरुहूत द्यु॒मन्त᳚म् । ब्र॒ह्माण॒ इन्द्र॑-म्म॒हय॑न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒ वा उ॑ ॥ वृष्णे॒ य-त्ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑ति-स्स॒जोषाः᳚ । अ॒न॒श्वासो॒ ये प॒वयो॑-ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यून्॑ ॥ । इन्द्र॑स्य॒ नु वी॒र्या॑णि॒ प्रवो॑चम् । यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री ॥ अह॒-न्नहि॒मन्व॒पस्त॑तर्द । प्र व॒क्षणा॑ अभिन॒-त्पर्व॑तानाम् ॥ ॥ इन्द्रो॑ या॒तो-ऽव॑सितस्य॒ राजा᳚ । शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः । सेदु॒ राजा᳚ क्षेति चर्​षणी॒नाम् । अ॒रान्न ने॒मिः परि॒ता ब॑भूव ॥ 25 ॥

अ॒भि सि॒द्ध्मो अ॑जिगादस्य॒ शत्रून्॑ । वि ति॒ग्मेन॑ वृष॒भेणा॒ पुरो॑-ऽभेत् । सं-वँज्रे॑णासृज-द्वृ॒त्रमिन्द्रः॑ । प्र स्वा-म्म॒तिम॑तिर॒च्छाश॑दानः ॥ विष्णु॑-न्दे॒वं-वँरु॑णमू॒तये॒ भग᳚म् । मेद॑सा दे॒वा व॒पया॑ यजद्ध्वम् । ता नो॑ य॒ज्ञमाग॑तं-विँ॒श्वधे॑ना । प्र॒जाव॑द॒स्मे द्रवि॑णे॒ह ध॑त्तम् ॥ मेद॑सा दे॒वा व॒पया॑ यजद्ध्वम् । विष्णु॑-ञ्च दे॒वं-वँरु॑ण-ञ्च रा॒तिम् ॥ 26 ॥

ता नो॒ अमी॑वा अप॒बाध॑मानौ । इ॒मं-यँ॒ज्ञ-ञ्जु॒षमा॑णा॒वुपेत᳚म् ॥ विष्णू॑वरुणा यु॒वम॑द्ध्व॒राय॑ नः । वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् । दी॒र्घप्र॑यज्यू ह॒विषा॑ वृधा॒ना । ज्योति॒षा-ऽरा॑तीर्दहत॒-न्तमाग्ं॑सि ॥ ययो॒रोज॑सा स्कभि॒ता रजाग्ं॑सि । वी॒र्ये॑भि-र्वी॒रत॑मा॒ शवि॑ष्ठा । या पत्ये॑ते॒ अप्र॑तीत्ता॒ सहो॑भिः । विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ ॥ 27 ॥

विष्णू॑वरुणा वभिशस्ति॒पा वा᳚म् । दे॒वा य॑जन्त ह॒विषा॑ घृ॒तेन॑ । अपामी॑वाग्ं सेधतग्ं र॒क्षस॑श्च । अथा॑ धत्तं॒-यँज॑मानाय॒ शं-योः ँ॥ अ॒ग्ं॒हो॒मुचा॑ वृष॒भा सु॒प्रतू᳚र्ती । दे॒वाना᳚-न्दे॒वत॑मा॒ शचि॑ष्ठा । विष्णू॑वरुणा॒ प्रति॑हर्यत-न्नः । इ॒द-न्नरा॒ प्रय॑तमू॒तये॑ ह॒विः ॥ म॒ही नु द्यावा॑पृथि॒वी इ॒ह ज्येष्ठे᳚ । रु॒चा भ॑वताग्ं शु॒चय॑द्भि-र॒र्कैः ॥ 28 ॥

यथ्सीं॒-वँरि॑ष्ठे बृह॒ती वि॑मि॒न्वन्न् । नृ॒वद्भ्यो॒-ऽक्षा प॑प्रथा॒नेभि॒रेवैः᳚ ॥ प्र पू᳚र्व॒जे पि॒तरा॒ नव्य॑सीभिः । गी॒र्भिः कृ॑णुद्ध्व॒ग्ं॒ सद॑ने ऋ॒तस्य॑ । आ नो᳚ द्यावापृथिवी॒ दैव्ये॑न । जने॑न यात॒-म्महि॑ वां॒-वँरू॑थम् ॥ स इथ्स्वपा॒ भुव॑नेष्वास । य इ॒मे द्यावा॑पृथि॒वी ज॒जान॑ । उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके᳚ । अ॒व॒ग्ं॒शे धीर॒-श्शच्या॒ समै॑रत् ॥ 29 ॥

भूरि॒-न्द्वे अच॑रन्ती॒ चर॑न्तम् । प॒द्वन्त॒-ङ्गर्भ॑म॒पदी॑ दधाते । नित्य॒-न्न सू॒नु-म्पि॒त्रोरु॒पस्थे᳚ । त-म्पि॑पृतग्ं रोदसी सत्य॒वाच᳚म् ॥ इ॒द-न्द्या॑वापृथिवी स॒त्यम॑स्तु । पित॒-र्मात॒-र्यदि॒होप॑ब्रु॒वे वा᳚म् । भू॒त-न्दे॒वाना॑मव॒मे अवो॑भिः । विद्यामे॒षं-वृँ॒जन॑-ञ्जी॒रदा॑नुम् ॥ उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रे अ॑न्ते । उप॑ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन्न् । दधा॑ते॒ ये सु॒भगे॑ सु॒प्रतू᳚र्ती । द्यावा॒ रक्ष॑त-म्पृथि॒वी नो॒ अभ्वा᳚त् ॥ या जा॒ता ओष॑धयो दे॒वेभ्य॑स्त्रियु॒ग-म्पु॒रा । मन्दा॑मि ब॒भ्रूणा॑म॒हग्ं श॒त-न्धामा॑नि स॒प्त च॑ ॥, अति॒ विश्वाः᳚ परि॒ष्ठा-स्स्ते॒न इ॑व व्र॒जम॑क्रमुः । ओष॑धयः॒ प्राचु॑च्यवु॒ र्य-त्कि-ञ्च॑ त॒नुवा॒ग्ं॒ रपः॑ ॥ । या ओष॑धय॒-स्सोम॑राज्ञीः॒ प्रवि॑ष्टाः पृथि॒वीमनु॑ । तासा॒-न्त्वम॑स्युत्त॒मा प्रणो॑ जी॒वात॑-वेसुव ॥ अ॒श्वा॒व॒तीग्ं सो॑मव॒ती मू॒र्जय॑न्ती॒ मुदो॑जसम् । आ वि॑थ्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥ । ओष॑धी॒रिति॑ मातर॒-स्तद्वो॑ देवी॒-रुप॑ ब्रुवे । रपाग्ं॑सि विघ्न॒तीरि॑त॒ रप॑श्चा॒तय॑मानाः ॥ अ॒न्या वो॑ अ॒न्याम॑व-त्व॒न्या-ऽन्यस्या॒ उपा॑वत । ता-स्सर्वा॒ ओष॑धय-स्सं​विँदा॒ना इ॒द-म्मे॒ प्राव॑ता॒ वचः॑ ॥ ॥ 30 ॥
(ह॒विर्नो॑ - दा-द्- बभूव - रा॒तिं - पू॒र्वहू॑ता - व॒र्कै - रै॑र - द॒स्मि-न्पञ्च च) (अ. 4)

अनुवाकं 5 - ऐन्द्राग्नपश्वादीनां सूक्तानि
शुचि॒-न्नु स्तोम॒-न्नव॑जात-म॒द्येन्द्रा᳚ग्नी वृत्रहणा जु॒षेथा᳚म् । उ॒भा हि वाग्ं॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजग्ं॑ स॒द्य उ॑श॒ते धेष्ठा᳚ ॥, श्नथ॑-द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् । इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरे॒-स्सह॑स्तमा॒ सह॑सा वाज॒यन्ता᳚ ॥ । उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑स-स्स॒ह मा॑द॒यध्यै᳚ । उ॒भा दा॒तारा॑वि॒षाग्ं र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥,प्र च॑र्​ष॒णिभ्यः॑ पृतना॒ हवे॑षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ । प्र सिन्धु॑भ्यः॒ प्रगि॒रिभ्यो॑ महि॒त्वा प्रेन्द्रा᳚ग्नी॒ विश्वा॒ भुव॒ना-ऽत्य॒न्या ॥ । आ वृ॑त्रहणा वृत्र॒हभि॒-श्शुष्मैः᳚ । इन्द्र॑ या॒त-न्नमो॑भिरग्ने अ॒र्वाक् । यु॒वग्ं राधो॑भि॒रक॑वेभिरिन्द्र । अग्ने॑ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ॥ गी॒र्भि-र्विप्रः॒ प्रम॑तिमि॒च्छमा॑नः । ई॒॑ र॒यिं-यँ॒शस॑-म्पूर्व॒भाज᳚म् । इन्द्रा᳚ग्नी वृत्रहणा सुवज्रा । प्रणो॒ नव्ये॑भिस्तिरत-न्दे॒ष्णैः ॥ ॥ ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता । सू॒क्तस्य॑ बोधि॒ तन॑य-ञ्च जिन्व । विश्व॒-न्त-द्भ॒द्रं-यँद॒वन्ति॑ दे॒वाः । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚ ॥ स ईग्ं॑ स॒त्येभि॒-स्सखि॑भि-श्शु॒चद्भिः॑ । गोधा॑यसं॒​विँ ध॑न॒सैर॑तर्दत् । ब्रह्म॑ण॒स्पति॒-र्वृष॑भिर्व॒राहैः᳚ ॥ 31 ॥

घ॒र्मस्वे॑देभि॒-र्द्रवि॑णं॒-व्याँ॑नट् ॥ ब्रह्म॑ण॒स्पते॑-रभवद्यथा व॒शम् । स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः । यो गा उ॒दाज॒थ्स दि॒वे वि चा॑भजत् । म॒हीव॑ री॒ति-श्शव॑सा सर॒-त्पृथ॑क् ॥ इन्धा॑नो अ॒ग्निं-वँ॑नवद्वनुष्य॒तः । कृ॒तब्र॑ह्मा शूशुव-द्रा॒तह॑व्य॒ इत् । जा॒तेन॑ जा॒तमति॒ सृ-त्प्रसृग्ं॑सते । यं-यँं॒-युँज॑-ङ्कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥ ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा᳚ ॥ 32 ॥

रा॒य-स्स्या॑म र॒थ्यो॑ विव॑स्वतः । वी॒रेषु॑ वी॒राग्ं उप॑पृङ्ग्धि न॒स्त्वम् । यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव᳚म् ॥ स इज्जने॑न॒ स वि॒शा स जन्म॑ना । स पु॒त्रैर्वाज॑-म्भरते॒ धना॒ नृभिः॑ । दे॒वानां॒-यः ँपि॒तर॑मा॒विवा॑सति । श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति᳚म् ॥ यास्ते॑ पूष॒न्नावो॑ अ॒न्त-स्स॑मु॒द्रे । हि॒र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति । याभि॑र्यासि दू॒त्याग्ं सूर्य॑स्य । कामे॑न कृ॒त-श्श्रव॑ इ॒च्छमा॑नः ॥ । शु॒क्र-न्ते॑ अ॒न्यद्य॑ज॒त-न्ते॑ अ॒न्यद्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ॥, पू॒षेमा आशा॒ अनु॑वेद॒ सर्वा᳚-स्सो अ॒स्माग्ं अभ॑यतमेन नेषत् । स्व॒स्ति॒दा अघृ॑णि॒-स्सर्व॑वीरः । अप्र॑युच्छ-न्पु॒र ए॑तु॒ प्रजा॒नन्न् ॥ ॥ प्रप॑थे प॒थाम॑जनिष्ट पू॒षा ॥ 33 ॥

प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः । उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे᳚ । आ च॒ परा॑ च चरति प्रजा॒नन्न् ॥ पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्याः । इ॒डस्पति॑-र्म॒घवा॑ द॒स्मव॑र्चाः । त-न्दे॒वासो॒ अद॑दु-स्सू॒र्यायै᳚ । कामे॑न कृ॒त-न्त॒वस॒ग्ग्॒ स्वञ्च᳚म् ॥ अ॒जाश्वः॑ पशु॒पा वाज॑वस्त्यः । धि॒य॒जि॒न्न्वो विश्वे॒ भुव॑ने॒ अर्पि॑तः । अष्ट्रा᳚-म्पू॒षा शि॑थि॒रामु॒द्वरी॑वृजत् ॥ 34 ॥

स॒चङ्क्षा॑णो॒ भुव॑ना दे॒व ई॑यते ॥ शुची॑ वो ह॒व्या म॑रुत॒-श्शुची॑नाम् । शुचिग्ं॑ हिनोम्यद्ध्व॒रग्ं शुचि॑भ्यः । ऋ॒तेन॑ स॒त्यमृत॒साप॑ आयन्न् । शुचि॑जन्मान॒-श्शुच॑यः पाव॒काः ॥ प्र चि॒त्रम॒र्क-ङ्गृ॑ण॒ते तु॒राय॑ । मारु॑ताय॒ स्वत॑वसे भरद्ध्वम् । ये सहाग्ं॑सि॒ सह॑सा॒ सह॑न्ते । रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ॥ अग्ंसे॒ष्वा म॑रुतः खा॒दयो॑ वः ॥ 35 ॥

वक्ष॑स्सु रु॒क्मा उप॑शिश्रिया॒णाः । वि वि॒द्युतो॒ न वृ॒ष्टिभी॑ रुचा॒नाः । अनु॑ स्व॒धामायु॑धै॒-र्यच्छ॑मानाः ॥ या व॒-श्शर्म॑ शशमा॒नाय॒ सन्ति॑ । त्रि॒धातू॑नि दा॒शुषे॑ यच्छ॒ताधि॑ । अ॒स्मभ्य॒-न्तानि॑ मरुतो॒ विय॑न्त । र॒यि-न्नो॑ धत्त वृषण-स्सु॒वीर᳚म् ॥ इ॒मे तु॒र-म्म॒रुतो॑ रामयन्ति । इ॒मे स॒ह-स्सह॑स॒ आन॑मन्ति । इ॒मे शग्ंसं॑-वँनुष्य॒तो निपा᳚न्ति ॥ 36 ॥

गु॒रुद्वेषो॒ अर॑रुषे दधन्ति ॥ अ॒रा इ॒वेदच॑रमा॒ अहे॑व । प्र प्र॑जायन्ते॒ अक॑वा॒ महो॑भिः । पृश्नेः᳚ पु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः । स्वया॑ म॒त्या म॒रुत॒-स्सम्मि॑मिक्षुः ॥ अनु॑ ते दायि म॒ह इ॑न्द्रि॒याय॑ । स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ । अनु॑ क्ष॒त्रमनु॒ सहो॑ यजत्र । इन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ॥ य इन्द्र॒ शुष्मो॑ मघवन्ते॒ अस्ति॑ ॥ 37 ॥

शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्यः॑ । त्वग्ं हि दृ॒ढा म॑घव॒न् विचे॑ताः । अपा॑वृधि॒ परि॑वृति॒-न्न राधः॑ ॥ इन्द्रो॒ राजा॒ जग॑तश्चर्​षणी॒नाम् । अधि॒क्षमि॒ विषु॑रूपं॒-यँदस्ति॑ । ततो॑ ददातु दा॒शुषे॒ वसू॑नि । चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ॥ तमु॑ ष्टुहि॒ यो अ॒भिभू᳚त्योजाः । व॒न्वन्नवा॑तः पुरुहू॒त इन्द्रः॑ । अषा॑ढमु॒ग्रग्ं सह॑मानमा॒भिः ॥ 38 ॥

गी॒र्भिर्व॑र्ध वृष॒भ-ञ्च॑र्​षणी॒नाम् ॥ स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे᳚ । तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र᳚म् । यो वा॒युना॒ जय॑ति॒ गोम॑तीषु । प्र धृ॑ष्णु॒या न॑यति॒ वस्यो॒ अच्छ॑ ॥ आ ते॒ शुष्मो॑ वृष॒भ एतु॑ प॒श्चात् । ओत्त॒राद॑ध॒रागा पु॒रस्ता᳚त् । आ वि॒श्वतो॑ अ॒भि समे᳚त्व॒र्वाम् । इन्द्र॑ द्यु॒म्नग्ं सुव॑र्वद्धेह्य॒स्मे ॥ 39 ॥
(व॒राहै᳚--र् वि॒श्वहा॑ - ऽजनिष्ट पू॒षो - द्वरी॑वृजत् - खा॒दयो॑ वः - पा॒न् - त्यस्त - या॒भि--र् + नव॑ च) (अ. 5)

अनुवाकं 6 - सावित्रादिपशूनां सूक्तानि
आ दे॒वो या॑तु सवि॒ता सु॒रत्नः॑ । अ॒न्त॒रि॒क्ष॒प्रा वह॑मानो॒ अश्वैः᳚ । हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ । नि॒वे॒शय॑न् च प्रसु॒वन् च॒ भूम॑ ॥ अ॒भीवृ॑त॒-ङ्कृश॑नै-र्वि॒श्वरू॑पम् ।
हिर॑ण्यशम्यं-यँज॒तो बृ॒हन्त᳚म् । आस्था॒-द्रथग्ं॑ सवि॒ता चि॒त्रभा॑नुः । कृ॒ष्णा रजाग्ं॑सि॒ तवि॑षी॒-न्दधा॑नः ॥ सघा॑ नो दे॒व-स्स॑वि॒ता स॒वाय॑ । आसा॑विष॒-द्वसु॑पति॒-र्वसू॑नि ॥ 40 ॥

वि॒श्रय॑माणो॒ अम॑तिमुरू॒चीम् । म॒र्त॒भोज॑न॒मध॑ रासते न ॥ वि जना᳚ञ्छ्या॒वा-श्शि॑ति॒पादो॑ अख्यन्न् । रथ॒ग्ं॒ हिर॑ण्य प्र उगं॒-वँह॑न्तः । शश्व॒-द्दिश॑-स्सवि॒तु-र्दैव्य॑स्य । उ॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ॥ वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यत् । ग॒भी॒रवे॑पा॒ असु॑र-स्सुनी॒थः । क्वे॑दानी॒ग्ं॒ सूर्यः॒ कश्चि॑केत । क॒त॒मा-न्द्याग्ं र॒श्मिर॒स्यात॑तान ॥ 41 ॥

भग॒-न्धियं॑-वाँ॒जय॑न्तः॒ पुर॑न्धिम् । नरा॒शग्ंसो॒ ग्नास्पति॑र्नो अव्यात् । आ-ऽये वा॒मस्य॑ सङ्ग॒थे र॑यी॒णाम् । प्रि॒या दे॒वस्य॑ सवि॒तु-स्स्या॑म ॥ आ नो॒ विश्वे॒ अस्क्रा॑ गमन्तु दे॒वाः । मि॒त्रो अ॑र्य॒मा वरु॑ण-स्स॒जोषाः᳚ । भुव॒न्॒. यथा॑ नो॒ विश्वे॑ वृ॒धासः॑ । कर᳚न्-थ्सु॒षहा॑ विथु॒र-न्न शवः॑ ॥ श-न्नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु । शग्ं सर॑स्वती स॒ह धी॒भिर॑स्तु ॥ 42 ॥

शम॑भि॒षाच॒-श्शमु॑ राति॒षाचः॑ । श-न्नो॑ दि॒व्याः पार्थि॑वा॒-श्श-न्नो॒ अप्याः᳚ ॥ ये स॑वि॒तु-स्स॒त्यस॑वस्य॒ विश्वे᳚ । मि॒त्रस्य॑ व्र॒ते वरु॑णस्य दे॒वाः । ते सौभ॑गं-वीँ॒रव॒द्गोम॒दप्नः॑ । दधा॑तन॒ द्रवि॑ण-ञ्चि॒त्रम॒स्मे ॥ अग्ने॑ या॒हि दू॒त्यं॑-वाँरि॑षेण्यः । दे॒वां अच्छा᳚ ब्रह्म॒कृता॑ ग॒णेन॑ । सर॑स्वती-म्म॒रुतो॑ अ॒श्विना-ऽ॒पः । य॒क्षि॒ दे॒वा-न्र॑त्न॒धेया॑य॒ विश्वान्॑ ॥ 43 ॥

द्यौः पि॑तः॒ पृथि॑वि॒ मात॒रद्ध्रु॑क् । अग्ने᳚ भ्रातर्वसवो मृ॒डता॑ नः । विश्व॑ आदित्या आदिते स॒जोषाः᳚ । अ॒स्मभ्य॒ग्ं॒ शर्म॑ बहु॒लं-विँय॑न्त ॥ विश्वे॑ देवा-श्शृणु॒तेमग्ं हव॑-म्मे । ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ । ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्राः । आ॒स-द्या॒स्मि-न्ब॒र्॒हिषि॑ मादयद्ध्वम् ॥ आ वा᳚-म्मित्रावरुणा ह॒व्यजु॑ष्टिम् । नम॑सा देवा॒ वव॑सा-ऽऽववृत्याम् ॥ 44 ॥

अ॒स्माक॒-म्ब्रह्म॒ पृत॑नासु सह्या अ॒स्माक᳚म् । वृ॒ष्टि-र्दि॒व्या सु॑पा॒रा ॥ यु॒वं-वँस्त्रा॑णि पीव॒सा व॑साथे । यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गाः᳚ । अवा॑तिरत॒मनृ॑तानि॒ विश्वा᳚ । ऋ॒तेन॑ मित्रावरुणा सचेथे ॥ तथ्सु वा᳚-म्मित्रावरुणा महि॒त्वम् । ई॒र्मा त॒स्थुषी॒रह॑भि-र्दुदुह्रे । विश्वाः᳚ पिन्वथ॒ स्वस॑रस्य॒ धेनाः᳚ । अनु॑ वा॒मेकः॑ प॒विराव॑वर्ति ॥ 45 ॥

यद्बग्ंहि॑ष्ठ॒-न्नाति॒विदे॑ सुदानू । अच्छि॑द्र॒ग्ं॒ शर्म॒ भुव॑नस्य गोपा । ततो॑ नो मित्रावरुणा-ववीष्टम् । सिषा॑सन्तो जीगि॒वाग्ंस॑-स्स्याम ॥ आ नो॑ मित्रावरुणा ह॒व्यदा॑तिम् । घृ॒तै-र्गव्यू॑तिमुक्षत॒मिडा॑भिः । प्रति॑ वा॒मत्र॒ वर॒मा जना॑य । पृ॒णी॒तमु॒द्गो दि॒व्यस्य॒ चारोः᳚ ॥ प्र बा॒हवा॑ सिसृत-ञ्जी॒वसे॑ नः । आ नो॒ गव्यू॑तिमुक्षत-ङ्घृ॒तेन॑ ॥ 46 ॥

आ नो॒ जने᳚ श्रवयतं-युँवाना । श्रु॒त-म्मे॑ मित्रावरुणा॒ हवे॒मा ॥ इ॒मा रु॒द्राय॑ स्थि॒रध॑न्वने॒ गिरः॑ । क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाम्ने᳚ । अषा॑ढाय॒ सह॑मानाय मी॒ढुषे᳚ । ति॒ग्मायु॑धाय भरता शृ॒णोत॑न ॥ त्वा द॑त्तेभी रुद्र॒ शन्त॑मेभिः । श॒तग्ं हिमा॑ अशीय भेष॒जेभिः॑ । व्य॑स्मद्द्वेषो॑ वित॒रं-व्यँग्ंहः॑ । व्यमी॑वाग्​ श्चातयस्वा॒ विषू॑चीः ॥ 47 ॥

अर्​ह॑न्बिभर्​षि॒ साय॑कानि॒ धन्व॑ । अर्​ह॑न्नि॒ष्कं-यँ॑ज॒तं-विँ॒श्वरू॑पम् । अर्​ह॑न्नि॒दन्द॑यसे॒ विश्व॒मब्भु॑वम् । न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥, मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रा-न्मानो॑ रुद्र भामि॒तो व॑धीर्​ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥॥ आ ते॑ पितर्मरुताग्ं सु॒म्नमे॑तु । मा न॒-स्सूर्य॑स्य स॒दृंशो॑ युयोथाः । अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत । प्रजा॑येमहि रुद्र प्र॒जाभिः॑ ॥ ए॒वा ब॑भ्रो वृषभ चेकितान । यथा॑ देव॒ न हृ॑णी॒षे न हग्ंसि॑ । हा॒व॒न॒श्रूर्नो॑ रुद्रे॒ह बो॑धि । बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः᳚ ॥ परि॑णो रु॒द्रस्य॑ हे॒ति र्वृ॑णक्तु॒ परि॑त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः । अव॑ स्थि॒रा म॒घव॑द्भ्य-स्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ॥, स्तु॒हि श्रु॒त-ङ्ग॑र्त॒सदं॒-युँवा॑न-म्मृ॒ग-न्न भी॒म-मु॑पह॒त्नु-मु॒ग्रम् । मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यन्ते॑ अ॒स्मन्निव॑पन्तु॒ सेनाः᳚ ॥ । मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑-स्सु॒मना॑ भव ।प॒र॒मे वृ॒क्ष आयु॑ध-न्नि॒धाय॒ कृत्तिं॒-वँसा॑न॒ आच॑र॒ पिना॑क॒म्बिभ्र॒दाग॑हि ॥ अर्​ह॑न्बिभर्​षि॒ साय॑कानि॒ धन्व॑ । अर्​ह॑न्नि॒ष्कं-यँ॑ज॒तं-विँ॒श्वरू॑पम् । अर्​ह॑न्नि॒दन्द॑यसे॒ विश्व॒मब्भु॑वम् । न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥। त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वग्ं शर्धो॒ मारु॑त-म्पृ॒क्ष ई॑शिषे । त्वं-वाँतै॑ररु॒णैर्या॑सि शङ्ग॒यस्त्व-म्पू॒षा वि॑ध॒तः पा॑सि॒ नुत्मना᳚ ॥, आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रग्ं होता॑रग्ं सत्य॒यज॒ग्ं॒ रोद॑स्योः । अ॒ग्नि-म्पु॒रा त॑नयि॒त्नो र॒चित्ता॒-द्धिर॑ण्यरूप॒मव॑से कृणुध्वम् ॥ ॥ 48 ॥
(वसू॑नि - तता - नास्तु॒ - विश्वान्॑.-ववृत्यां​वँवर्ति-घृ॒तेन॒-विषू॑चीः-श्रु॒त-न्द्वे च॑) (अ. 6)

अनुवाकं 7 - सौर्यादिपशूनां सूक्तानि
सूर्यो॑ दे॒वीमु॒षस॒ग्ं रोच॑माना॒ मर्यः॑ । न योषा॑म॒भ्ये॑ति प॒श्चात् । यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ । वि॒त॒न्वते॒ प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥ भ॒द्रा अश्वा॑ ह॒रित॒-स्सूर्य॑स्य । चि॒त्रा एद॑ग्वा अनु॒माद्या॑सः । न॒म॒स्यन्तो॑ दि॒व आ पृ॒ष्ठम॑स्थुः ।
परि॒ द्यावा॑पृथि॒वी य॑न्ति स॒द्यः ॥ त-थ्सूर्य॑स्य देव॒त्व-न्त-न्म॑हि॒त्वम् । म॒द्ध्या कर्तो॒-र्वित॑त॒ग्ं॒ सञ्ज॑भार ॥ 49 ॥

य॒देदयु॑क्त ह॒रित॑-स्स॒धस्था᳚त् । आद्रात्री॒ वास॑स्तनुते सि॒मस्मै᳚ ॥ त-न्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे᳚ । सूर्यो॑ रू॒प-ङ्कृ॑णुते॒ द्योरु॒पस्थे᳚ । अ॒न॒न्तम॒न्य-द्रुश॑दस्य॒ पाजः॑ । कृ॒ष्णम॒न्यद्ध॒रित॒-स्सम्भ॑रन्ति ॥ अ॒द्या दे॑वा॒ उदि॑ता॒ सूर्य॑स्य । निरग्ंह॑सः पिपृ॒तान्निर॑व॒द्यात् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ताम् । अदि॑ति॒-स्सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥ 50 ॥

दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे॑ति । दू॒रे अ॑र्थस्त॒रणि॒-र्भ्राज॑मानः । नू॒न-ञ्जना॒-स्सूर्ये॑ण॒ प्रसू॑ताः । आयन्नर्था॑नि कृ॒णव॒न्नपाग्ं॑सि ॥ श-न्नो॑ भव॒ चक्ष॑सा॒ श-न्नो॒ अह्ना᳚ । श-म्भा॒नुना॒ शग्ं हि॒मा श-ङ्घृ॒णेन॑ । यथा॒ शम॒स्मै शमस॑-द्दुरो॒णे । त-थ्सू᳚र्य॒ द्रवि॑ण-न्धे॒हि चि॒त्रम् ॥ चि॒त्र-न्दे॒वाना॒-मुद॑गा॒दनी॑कम् । चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ॥ 51 ॥

आ-ऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् । सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ त्वष्टा॒ दध॒दिन्द्रा॑य॒ शुष्म᳚म् । अपा॒को-ऽचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑ । वृषा॒ यज॒न् वृष॑ण॒-म्भूरि॑रेताः । मू॒र्धन्. य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ॥, तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒ण-स्स्य॑स्व । यतो॑ वी॒रः क॑र्म॒ण्य॑-स्सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥ । त्वष्टा॑ वी॒र-न्दे॒वका॑म-ञ्जजान॒ त्वष्टु॒रर्वा॑ जायत आ॒शुरश्वः॑ । त्वष्टे॒दं-विँश्व॒-म्भुव॑न-ञ्जजान ब॒होः क॒र्तार॑मि॒ह य॑क्षि होतः ॥ पि॒शङ्ग॑रूप-स्सु॒भरो॑ वयो॒धा-श्श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जा-न्त्वष्टा॒ विष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ ॥ दशे॒म-न्त्वष्टु॑र्जनयन्त॒ गर्भ᳚म् । अत॑न्द्रासो युव॒तयो॒ बिभ॑र्त्रम् । ति॒ग्मानी॑क॒ग्ग्॒ स्वय॑शस॒-ञ्जने॑षु । वि॒रोच॑मान॒-म्परि॑षी-न्नयन्ति ॥ आविष्ट्यो॑ वर्धते॒ चारु॑रासु । जि॒ह्माना॑मू॒र्ध्व-स्स्वय॑शा उ॒पस्थे᳚ ॥ 52 ॥

उ॒भे त्वष्टु॑र्बिभ्यतु॒-र्जाय॑मानात् । प्र॒तीची॑ सि॒ग्ं॒ह-म्प्रति॑जोषयेते ॥ मि॒त्रो जनान्॑ यातयति प्रजा॒न-न्मि॒त्रो दा॑धार पृथि॒वीमु॒त द्याम् । मि॒त्रः कृ॒ष्टीरनि॑मिषा॒-ऽभि च॑ष्टे स॒त्याय॑ ह॒व्य-ङ्घृ॒तव॑-द्विधेम ॥, प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न् यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ । न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मग्ंहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ॥ ॥ अ॒य-म्मि॒त्रो न॑म॒स्य॑-स्सु॒शेवः॑ । राजा॑ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः । तस्य॑ व॒यग्ं सु॑म॒तौ य॒ज्ञिय॑स्य । अपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥ अ॒न॒मी॒वास॒ इड॑या॒ मद॑न्तः । मि॒तज्म॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः । आ॒दि॒त्यस्य॑ व्र॒तमु॑प॒क्ष्यन्तः॑ ॥ 53 ॥

व॒य-म्मि॒त्रस्य॑ सुम॒तौ स्या॑म ॥ मि॒त्र-न्न ईग्ं शिम्या॒ गोषु॑ ग॒व्यव॑त् । स्वा॒धियो॑ वि॒दथे॑ अ॒फ्स्वजी॑जनन्न् । अरे॑जयता॒ग्ं॒ रोद॑सी॒ पाज॑सा गि॒रा । प्रति॑ प्रि॒यं-यँ॑ज॒त-ञ्ज॒नुषा॒मवः॑ ॥ म॒हाग्ं आ॑दि॒त्यो नम॑सोप॒सद्यः॑ । या॒त॒यज्ज॑नो गृण॒ते सु॒शेवः॑ । तस्मा॑ ए॒त-त्पन्य॑तमाय॒ जुष्ट᳚म् । अ॒ग्नौ मि॒त्राय॑ ह॒विराजु॑होत ॥ आवा॒ग्ं॒ रथो॒ रोद॑सी बद्बधा॒नः ॥ 54 ॥

हि॒र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः᳚ । घृ॒तव॑र्तनिः प॒विभी॑ रुचा॒नः । इ॒षां-वोँ॒ढा नृ॒पति॑र्वा॒जिनी॑वान् ॥ स प॑प्रथा॒नो अ॒भि पञ्च॒ भूम॑ । त्रि॒व॒न्धु॒रो मन॒सा-ऽऽया॑तु यु॒क्तः । विशो॒ येन॒ गच्छ॑थो देव॒यन्तीः᳚ । कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना ॥ स्वश्वा॑ य॒शसा-ऽऽया॑तम॒र्वाक् । दस्रा॑ नि॒धि-म्मधु॑मन्त-म्पिबाथः । वि वा॒ग्ं॒ रथो॑ व॒द्ध्वा॑ याद॑मानः ॥ 55 ॥

अन्ता᳚-न्दि॒वो बा॑धते वर्त॒निभ्या᳚म् ॥ यु॒वो-श्श्रिय॒-म्परि॒ योषा॑ वृणीत । सूरो॑ दुहि॒ता परि॑तक्मियायाम् । य-द्दे॑व॒यन्त॒मव॑थ॒-श्शची॑भिः । परि॑घ्र॒ग्ं॒स वा॒-म्मना॑ वां॒-वँयो॑ गाम् ॥ यो ह॒ स्य वाग्ं॑ रथिरा॒ वस्त॑ उ॒स्राः । रथो॑ युजा॒नः प॑रि॒याति॑ व॒र्तिः । तेन॑ न॒-श्शं-योँरु॒षसो॒ व्यु॑ष्टौ । न्य॑श्विना वहतं-यँ॒ज्ञे अ॒स्मिन्न् ॥ यु॒व-म्भु॒ज्युमव॑विद्धग्ं समु॒द्रे ॥ 56 ॥

उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः । प॒त॒त्रिभि॑-रश्र॒मै-र॑व्य॒थिभिः॑ । द॒ग्ं॒सना॑भिरश्विना पा॒रय॑न्ता ॥ अग्नी॑षोमा॒ यो अ॒द्य वा᳚म् । इ॒दं-वँच॑-स्सप॒र्यति॑ । तस्मै॑ धत्तग्ं सु॒वीर्य᳚म् । गवा॒-म्पोष॒ग्ग्॒ स्वश्वि॑यम् ॥ यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्यात् । दे॒व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ । तस्य॑ व्र॒तग्ं र॑क्षत-म्पा॒तमग्ंह॑सः ॥ 57 ॥

वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ॥ अग्नी॑षोमा॒ य आहु॑तिम् । यो वा॒-न्दाशा᳚द्ध॒विष्कृ॑तिम् । स प्र॒जया॑ सु॒वीर्य᳚म् । विश्व॒मायु॒-र्व्य॑श्नवत् ॥ अग्नी॑षोमा॒ चेति॒ त-द्वी॒र्यं॑-वाँम् । यदमु॑ष्णीतमव॒स-म्प॒णि-ङ्गोः । अवा॑तिरत॒-म्प्रथ॑यस्य॒ शेषः॑ । अवि॑न्दत॒-ञ्ज्योति॒रेक॑-म्ब॒हुभ्यः॑ ॥ अग्नी॑षोमा वि॒मग्ं सु मे॑ शृणु॒तं-वृँ॑षणा॒ हव᳚म् । प्रति॑ सू॒क्तानि॑ हर्यत॒-म्भव॑त-न्दा॒शुषे॒ मयः॑ ॥ अग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तग्ंहर्य॑तं-वृँषणा जु॒षेथा᳚म् । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒-यँज॑मानाय॒ शं-योः ँ॥ ॥ 58 ॥
(ज॒भा॒र॒ - द्यौ - र॒ग्ने - रु॒पस्थ॑ - उप॒क्ष्यन्तो॑ - बद्बधा॒नो-याद॑मानः - समु॒द्रे - ऽग्ंह॑सः॒ - प्रस्थि॑तस्य) (अ. 7)

अनुवाकं 8 - वेहदादिपशूनां सूक्तानि
अ॒हम॑स्मि प्रथम॒जा ऋ॒तस्य॑ । पूर्व॑-न्दे॒वेभ्यो॑ अ॒मृत॑स्य॒ नाभिः॑ । यो मा॒ ददा॑ति॒ स इदे॒व मा वाः᳚ । अ॒ह-मन्न॒-मन्न॑-म॒दन्त॑मद्मि ॥ पूर्व॑-म॒ग्नेरपि॑ दह॒त्यन्न᳚म् । य॒त्तौ हा॑-ऽऽसाते अहमुत्त॒रेषु॑ । व्यात्त॑मस्य प॒शव॑-स्सु॒जम्भ᳚म् । पश्य॑न्ति॒ धीराः॒ प्रच॑रन्ति॒ पाकाः᳚ ॥ जहा᳚म्य॒न्य-न्न ज॑हाम्य॒न्यम् । अ॒हमन्नं॒-वँश॒मिच्च॑रामि ॥ 59 ॥

स॒मा॒नमर्थ॒-म्पर्ये॑मि भु॒ञ्जत् । को मामन्न॑-म्मनु॒ष्यो॑ दयेत ॥ परा॑के॒ अन्न॒-न्निहि॑तं-लोँ॒क ए॒तत् । विश्वै᳚-र्दे॒वैः पि॒तृभि॑-र्गु॒प्तमन्न᳚म् । यद॒द्यते॑ लु॒प्यते॒ य-त्प॑रो॒प्यते᳚ । श॒त॒त॒मी सा त॒नूर्मे॑ बभूव ॥ म॒हान्तौ॑ च॒रू स॑कृ-द्दु॒ग्धेन॑ पप्रौ । दिव॑ञ्च॒ पृश्ञि॑ पृथि॒वी-ञ्च॑ सा॒कम् । त-थ्स॒म्पिब॑न्तो॒ न मि॑नन्ति वे॒धसः॑ । नैत-द्भूयो॒ भव॑ति॒ नो कनी॑यः ॥ 60 ॥

अन्न॑-म्प्रा॒ण-मन्न॑-मपा॒न-मा॑हुः । अन्न॑-म्मृ॒त्यु-न्तमु॑ जी॒वातु॑माहुः । अन्न॑-म्ब्र॒ह्माणो॑ ज॒रसं॑-वँदन्ति । अन्न॑माहुः प्र॒जन॑न-म्प्र॒जाना᳚म् ॥ मोघ॒मन्नं॑-विँन्दते॒ अप्र॑चेताः । स॒त्य-म्ब्र॑वीमि व॒ध इथ्स तस्य॑ । नार्य॒मण॒-म्पुष्य॑ति॒ नो सखा॑यम् । केव॑लाघो भवति केवला॒दी ॥ अ॒ह-म्मे॒घ-स्स्त॒नय॒न्. वर्​ष॑न्नस्मि । माम॑दन्त्य॒हम॑द्म्य॒न्यान् ॥ 61 ॥

अ॒हग्ं सद॒मृतो॑ भवामि । मदा॑दि॒त्या अधि॒ सर्वे॑ तपन्ति ॥ सा नो॑ म॒न्द्रेष॒मूर्ज॒-न्दुहा॑ना । धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥, य-द्वाग्वद॑न्त्य-विचेत॒नानि॑ । राष्ट्री॑ दे॒वाना᳚-न्निष॒साद॑ म॒न्द्रा । चत॑स्र॒ ऊर्ज॑-न्दुदुहे॒ पयाग्ं॑सि । क्व॑ स्वि दस्याः पर॒म-ञ्ज॑गाम ॥ ॥ अ॒न॒न्ता-मन्ता॒दधि॒ निर्मि॑ता-म्म॒हीम् । यस्या᳚-न्दे॒वा अ॑दधु॒-र्भोज॑नानि । एका᳚क्षरा-न्द्वि॒पदा॒ग्ं॒ षट्प॑दाञ्च । वाच॑-न्दे॒वा उप॑जीवन्ति॒ विश्वे᳚ ॥ वाच॑-न्दे॒वा उप॑जीवन्ति॒ विश्वे᳚ । वाच॑-ङ्गन्ध॒र्वाः प॒शवो॑ मनु॒ष्याः᳚ । वा॒चीमा विश्वा॒ भुव॑ना॒न्यर्पि॑ता ॥ 62 ॥

सा नो॒ हव॑-ञ्जुषता॒-मिन्द्र॑पत्नी ॥ वाग॒क्षर॑-म्प्रथम॒जा ऋ॒तस्य॑ । वेदा॑ना-म्मा॒ता-ऽमृत॑स्य॒ नाभिः॑ । सा नो॑ जुषा॒णोप॑ य॒ज्ञमागा᳚त् । अव॑न्ती दे॒वी सु॒हवा॑ मे अस्तु ॥ या मृष॑यो मन्त्र॒कृतो॑ मनी॒षिणः॑ । अ॒न्वैच्छ॑-न्दे॒वा-स्तप॑सा॒ श्रमे॑ण । ता-न्दे॒वीं-वाँचग्ं॑ ह॒विषा॑ यजामहे । सा नो॑ दधातु सुकृ॒तस्य॑ लो॒के ॥ च॒त्वारि॒ वा-क्परि॑मिता प॒दानि॑ ॥ 63 ॥

तानि॑ विदु-र्ब्राह्म॒णा ये म॑नी॒षिणः॑ । गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति । तु॒रीयं॑-वाँ॒चो म॑नु॒ष्या॑ वदन्ति ॥ श्र॒द्धया॒-ऽग्नि-स्समि॑द्ध्यते । श्र॒द्धया॑ विन्दते ह॒विः । श्र॒द्धा-म्भग॑स्य मू॒र्धनि॑ । वच॒सा ऽऽवे॑दयामसि ॥ प्रि॒यग्ग्​ श्र॑द्धे॒ दद॑तः । प्रि॒यग्ग्​ श्र॑द्धे॒ दिदा॑सतः । प्रि॒य-म्भो॒जेषु॒ यज्व॑सु ॥ 64 ॥

इ॒द-म्म॑ उदि॒त-ङ्कृ॑धि ॥ यथा॑ दे॒वा असु॑रेषु । श्र॒द्धा-मु॒ग्रेषु॑ चक्रि॒रे । ए॒व-म्भो॒जेषु॒ यज्व॑सु । अ॒स्माक॑-मुदि॒त-ङ्कृ॑धि ॥ श्र॒द्धा-न्दे॑वा॒ यज॑मानाः । वा॒युगो॑पा॒ उपा॑सते । श्र॒द्धाग्ं हृ॑द॒य्य॑या-ऽऽकू᳚त्या । श्र॒द्धया॑ हूयते ह॒विः ॥ श्र॒द्धा-म्प्रा॒तर्-ह॑वामहे ॥ 65 ॥

श्र॒द्धा-म्म॒द्ध्यन्दि॑न॒-म्परि॑ । श्र॒द्धाग्ं सूर्य॑स्य नि॒म्रुचि॑ । श्रद्धे॒ श्रद्धा॑पये॒ह मा᳚ ॥ श्र॒द्धा दे॒वा-नधि॑वस्ते । श्र॒द्धा विश्व॑मि॒द-ञ्जग॑त् । श्र॒द्धा-ङ्काम॑स्य मा॒तर᳚म् । ह॒विषा॑ वर्धयामसि ॥ ब्रह्म॑जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता᳚त् । वि सी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः । स बु॒द्ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः ॥ 66 ॥

स॒तश्च॒ योनि॒-मस॑तश्च॒ विवः॑ ॥ पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् । अ॒न्तरि॑क्षं-विँ॒श्वरू॑प॒ आवि॑वेश । तम॒र्कै-र॒भ्य॑र्चन्ति व॒थ्सम् । ब्रह्म॒ सन्त॒-म्ब्रह्म॑णा व॒र्धय॑न्तः ॥ ब्रह्म॑ दे॒वान॑जनयत् । ब्रह्म॒ विश्व॑मि॒द-ञ्जग॑त् । ब्रह्म॑णः, क्ष॒त्र-न्निर्मि॑तम् । ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ ॥ अ॒न्तर॑स्मि-न्नि॒मे लो॒काः ॥ 67 ॥

अ॒न्त-र्विश्व॑मि॒द-ञ्जग॑त् । ब्रह्मै॒व भू॒ताना॒-ञ्ज्येष्ठ᳚म् । तेन॒ को॑-ऽर्​हति॒ स्पर्धि॑तुम् ॥ ब्रह्म॑-न्दे॒वा-स्त्रय॑स्त्रिग्ंशत् । ब्रह्म॑न्निन्द्र प्रजाप॒ती । ब्रह्म॑न्. ह॒ विश्वा॑ भू॒तानि॑ । ना॒वी वा॒न्त-स्स॒माहि॑ता ॥ चत॑स्र॒ आशाः॒ प्रच॑रन्त्व॒-ग्नयः॑ । इ॒मन्नो॑ य॒ज्ञ-न्न॑यतु प्रजा॒नन्न् । घृ॒त-म्पिन्व॑न्न॒जरग्ं॑ सु॒वीर᳚म् ॥ 68 ॥

ब्रह्म॑ स॒मि-द्भ॑व॒त्याहु॑तीनाम् ॥ आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्रन्न् । सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे । प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्युः । इन्द्रा॑य पू॒र्वी रु॒षसो॒ दुहा॑नाः ॥ इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्षति । उपेद्द॑दाति॒ न स्व-म्मु॑षायति । भूयो॑ भूयो र॒यिमिद॑स्य व॒र्धयन्न्॑ । अभि॑न्ने खि॒ल्ले निद॑धाति देव॒युम् ॥ न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रः । नैना॑ अमि॒त्रो व्यथि॒राद॑धर्​षति । दे॒वाग्​श्च॒ याभि॒-र्यज॑ते॒ ददा॑ति च । ज्योगित्ताभि॑-स्सचते॒ गोप॑ति-स्स॒ह ॥, न ता अर्वा॑ रे॒णुक॑काटो अश्नुते । न सग्ग्॑ स्कृत॒त्र-मुप॑यन्ति॒ ता अ॒भि । उ॒रु॒गा॒यमभ॑य॒-न्तस्य॒ ता अनु॑ । गावो॒ मर्त्य॑स्य॒ विच॑रन्ति॒ यज्व॑नः ॥ ॥ 69 ॥

गावो॒ भगो॒ गाव॒ इन्द्रो॑ मे अच्छात् । गाव॒-स्सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः । इ॒मा या गाव॒-स्सज॑नास॒ इन्द्रः॑ । इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र᳚म् ॥ यू॒य-ङ्गा॑वो मेदयथा कृ॒श-ञ्चि॑त् । अ॒श्ली॒ल-ञ्चि॑-त्कृणुथा सु॒प्रती॑कम् । भ॒द्र-ङ्गृ॒ह-ङ्कृ॑णुथ भद्रवाचः । बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ॥ प्र॒जाव॑ती-स्सू॒यव॑सग्ं रि॒शन्तीः᳚ (रु॒शन्तीः᳚) । शु॒द्धा अ॒प-स्सु॑प्रपा॒णे पिब॑न्तीः । मा व॑-स्स्ते॒न ई॑शत॒ मा-ऽघशग्ं॑सः । परि॑वो हे॒ती रु॒द्रस्य॑ वृञ्ज्यात् ॥ उपे॒द-मु॑प॒पर्च॑नम् । आ॒सु गोषूप॑पृच्यताम् । उप॑र्​ष॒भस्य॒ रेत॑सि । उपे᳚न्द्र॒ तव॑ वी॒र्ये᳚ ॥ 70 ॥
(च॒रा॒मि॒ - कनी॑यो॒ - ऽन्या - नर्पि॑ता - प॒दानि॒ - यज्व॑सु - हवामहे - वि॒ष्ठा - लो॒काः - सु॒वीर॒ - मर्वा॒ - पिब॑न्ती॒-ष्षट्च॑) (अ. 8)

अनुवाकं 9 - शुक्लकृष्णपश्वादीनां सूक्तानि
ता सू᳚र्या चन्द्र॒मसा॑ विश्व॒भृत्त॑मा म॒हत् । तेजो॒ वसु॑म-द्राजतो दि॒वि । सामा᳚त्माना चरत-स्सामचा॒रिणा᳚ । ययो᳚र्व्र॒त-न्न म॒मे जातु॑ दे॒वयोः᳚ ॥ उ॒भावन्तौ॒ परि॑यात॒ अर्म्या᳚ । दि॒वो न र॒श्मीग्​ स्त॑नु॒तो-व्य॑र्ण॒वे । उ॒भा भु॑व॒न्ती भुव॑ना क॒विक्र॑तू । सूर्या॒ न च॒न्द्रा च॑रतो ह॒ताम॑ती ॥ पती᳚ द्यु॒म-द्वि॑श्व॒विदा॑ उ॒भा दि॒वः । सूर्या॑ उ॒भा च॒न्द्रम॑सा विचक्ष॒णा ॥ 71 ॥

वि॒श्ववा॑रा वरिवो॒भा वरे᳚ण्या । ता नो॑-ऽवत-म्मति॒मन्ता॒ महि॑व्रता ॥ वि॒श्व॒वप॑री प्र॒तर॑णा तर॒न्ता । सु॒व॒र्विदा॑ दृ॒शये॒ भूरि॑रश्मी । सूर्या॒ हि च॒न्द्रा वसु॑त्वे॒ष-द॑र्​शता । म॒न॒स्विनो॒भा-ऽनु॑ चर॒तो नु॒ स-न्दिव᳚म् ॥ अ॒स्य श्रवो॑ न॒द्य॑-स्स॒प्त बि॑भ्रति । द्यावा॒ क्षामा॑ पृथि॒वी द॑र्​श॒तं-वँपुः॑ । अ॒स्मे सू᳚र्या चन्द्र॒मसा॑-ऽभि॒चक्षे᳚ । श्र॒द्धे कमि॑न्द्र चरतो विचर्तु॒रम् ॥ 72 ॥

पू॒र्वा॒प॒र-ञ्च॑रतो मा॒य यै॒तौ । शिशू॒ क्रीड॑न्तौ॒ परि॑यातो अद्ध्व॒रम् । विश्वा᳚न्य॒न्यो भुव॑ना ऽभि॒चष्टे᳚ । ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ॥ हिर॑ण्यवर्णा॒-श्शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निं-याँ गर्भ॑-न्दधि॒रे विरू॑पा॒स्ता न॒ आप॒-श्शग्ग्​ स्यो॒ना भ॑वन्तु ॥,
यासा॒ग्ं॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नाम् । म॒धु॒श्चुत॒-श्शुच॑यो॒ याः पा॑व॒कास्ता न॒ आप॒-श्शग्ग्​ स्यो॒ना भ॑वन्तु ॥ । यासा᳚-न्दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं-याँ अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति । याः पृ॑थि॒वी-म्पय॑सो॒न्दन्ति॑शु॒क्रास्ता न॒ आप॒-श्शग्ग्​ स्यो॒ना भ॑वन्तु ॥, शि॒वेन॑ मा॒ चक्षु॑षा पश्यता-ऽऽप-श्शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वच॑-म्मे । सर्वाग्ं॑ अ॒ग्नीग्ं र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ॥ । आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नी-षोमौ॑ बिभ्र॒त्याप॒ इ-त्ताः । ती॒व्रो रसो॑ मधु॒पृचा॑ -मरङ्ग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ॥, आदि-त्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वान्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्​हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं-यँ॒दा वः॑ ॥ ॥ नास॑दासी॒न्नो सदा॑सी-त्त॒दानी᳚म् । नासी॒-द्रजो॒ नो व्यो॑माप॒रो यत् । किमाव॑रीवः॒ कुह॒ कस्य॒ शर्मन्न्॑ ॥ 73 ॥

अम्भः॒ किमा॑सी॒-द्गह॑न-ङ्गभी॒रम् ॥ न मृ॒त्युर॒मृत॒-न्तर्​हि॒ न । रात्रि॑या॒ अह्न॑ आसी-त्प्रके॒तः । आनी॑दवा॒तग्ग्​ स्व॒धया॒ तदेक᳚म् । तस्मा᳚-द्धा॒न्य-न्न प॒रः (प॒रं) किञ्च॒ नास॑ ॥ तम॑ आसी॒-त्तम॑सा गू॒ढमग्रे᳚ प्रके॒तम् । स॒लि॒लग्ं सर्व॑मा इ॒दम् । तु॒च्छे ना॒भ्वपि॑हितQं-यँदासी᳚त् । तम॑स॒ स्तन्म॑हि॒ना जा॑य॒तैक᳚म् ॥ काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ ॥ 74 ॥

मन॑सो॒ रेतः॑ प्रथ॒मं-यँदासी᳚त् । स॒ तो बन्धु॒मस॑ति॒ निर॑विन्दन्न् (निर॑विदन्न्) । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥ ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे॑षाम् । अ॒ध-स्स्वि॑दा॒सी(3) दु॒परि॑ स्विदासी(3)त् । रे॒तो॒धा आ॑स-न्महि॒मान॑ आसन्न् । स्व॒धा अ॒वस्ता॒-त्प्रय॑तिः प॒रस्ता᳚त् ॥ को अ॒द्धा वे॑द॒ क इ॒ह प्रवो॑चत् । कुत॒ आजा॑ता॒ कुत॑ इ॒यं-विँसृ॑ष्टिः । अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑नाय ॥ 75 ॥

अथा॒ को वे॑द॒ यत॑ आब॒भूव॑ ॥ इ॒यं-विँसृ॑ष्टि॒-र्यत॑ आब॒भूव॑ । यदि॑ वा द॒धे यदि॑ वा॒ न । यो अ॒स्याद्ध्य॑क्षः पर॒मे व्यो॑मन्न् । सो अ॒ङ्ग वे॑द॒ यदि॑ वा॒ न वेद॑ ॥ किग्ग्​स्वि॒द्वन॒-ङ्क उ॒ स वृ॒क्ष आ॑सीत् । यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तत् । यद॒द्ध्यति॑ष्ठ॒-द्भुव॑नानि धा॒रयन्न्॑ ॥ ब्रह्म॒ वन॒-म्ब्रह्म॒ स वृ॒क्ष आ॑सीत् ॥ 76 ॥

यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा॒ विब्र॑वीमि वः । ब्रह्मा॒द्ध्यति॑ष्ठ॒-द्भुव॑नानि धा॒रयन्न्॑ ॥ प्रा॒तर॒ग्नि-म्प्रा॒तरिन्द्रग्ं॑ हवामहे । प्रा॒त र्मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚ । प्रा॒त र्भग॑-म्पू॒षण॒-म्ब्रह्म॑ण॒स्पति᳚म् । प्रा॒तस्सोम॑मु॒त रु॒द्रग्ं हु॑वेम ॥ प्रा॒त॒र्जित॒-म्भग॑मु॒ग्रग्ं हु॑वेम । व॒य-म्पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता । आ॒द्ध्रश्चि॒द्य-म्मन्य॑मान-स्तु॒रश्चि॑त् ॥ 77 ॥

राजा॑ चि॒द्य-म्भग॑-म्भ॒क्षीत्याह॑ ॥ भग॒ प्रणे॑त॒र्भग॒ सत्य॑राधः । भगे॒मा-न्धिय॒मुद॑व॒ दद॑न्नः । भग॒ प्रणो॑ जनय॒ गोभि॒रश्वैः᳚ । भग॒ प्रनृभि॑-र्नृ॒वन्त॑-स्स्याम । उ॒तेदानी॒-म्भग॑वन्त-स्स्याम ॥ उ॒त प्रपि॒त्व उ॒त मद्ध्ये॒ अह्ना᳚म् । उ॒तोदि॑ता मघव॒न्-थ्सूर्य॑स्य । व॒य-न्दे॒वानाग्ं॑ सुम॒तौ स्या॑म ॥ भग॑ ए॒व भग॑वाग्ं अस्तु देवाः ॥ 78 ॥

तेन॑ व॒य-म्भग॑वन्त-स्स्याम । त-न्त्वा॑ भग॒ सर्व॒ इज्जो॑हवीमि । स नो॑ भग पुर ए॒ता भ॑वे॒ह ॥ सम॑द्ध्व॒रायो॒षसो॑ नमन्त । द॒धि॒क्रावे॑व॒ शुच॑ये प॒दाय॑ । अ॒र्वा॒ची॒नं-वँ॑सु॒विद॒-म्भग॑न्नः । रथ॑मि॒वाश्वा॑ वा॒जिन॒ आव॑हन्तु ॥ अश्वा॑वती॒-र्गोम॑ती-र्न उ॒षासः॑ । वी॒रव॑ती॒-स्सद॑मुच्छन्तु भ॒द्राः । घृ॒त-न्दुहा॑ना वि॒श्वतः॒ प्रपी॑नाः । यू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः ॥ 79 ॥
(वि॒च॒क्ष॒णा - वि॑चर्तु॒रग्ं - शर्म॒ - न्नधि॑ - वि॒सर्ज॑नाय॒ - ब्रह्म॒ वन॒-म्ब्रह्म॒ स वृ॒क्ष आ॑सीत्- तु॒रश्चि॑-द्- देवाः॒ - प्रपी॑ना॒ एक॑-ञ्च) (अ. 9)

(पीवो᳚-ऽन्ना॒ - मग्ने॒ त्व-म्पा॑र - यानाघृ॒ष्यः - शुचि॒-न्नु स्तोमं॑ - ँवि॒श्रय॑माणो - दि॒वो रु॒क्मो - ऽन्न॑-म्प्रा॒णं - ता सू᳚र्याचन्द्र॒मसा॒ नव॑सप्ततिः)

(पीवो᳚न्ना - ँयू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑नः)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके अष्टमः प्रपाठक-स्समाप्तः ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टकं समाप्तम् ॥




Browse Related Categories: