View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

2.1 - अग्निहोत्रब्राह्मणम् - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - अङ्गिरसो वै

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके प्रथमः प्रपाठकः - अग्निहोत्रब्राह्मणम्

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अनुवाकं 1 - अग्निहोत्रस्योपोद्धातः
अङ्गि॑रसो॒ वै स॒त्रमा॑सत । तेषा॒-म्पृश्नि॑-र्घर्म॒धुगा॑सीत् । सर्जी॒षेणा॑जीवत् । ते᳚-ऽब्रुवन्न् । कस्मै॒ नु स॒त्रमा᳚स्महे । ये᳚-ऽस्या ओष॑धी॒र्न ज॒नया॑म॒ इति॑ । ते दि॒वो वृष्टि॑-मसृजन्त । याव॑न्त-स्स्तो॒का अ॒वाप॑द्यन्त । ताव॑ती॒रोष॑धयो ऽजायन्त ॥ ता जा॒ताः पि॒तरो॑ वि॒षेणा॑लिम्पन्न् ॥ 1 ॥

तासा᳚-ञ्ज॒ग्ध्वा रुप्य॒न्त्यैत् । ते᳚-ऽब्रुवन्न् । क इ॒दमि॒त्थ-म॑क॒रिति॑ । व॒य-म्भा॑ग॒धेय॑-मि॒च्छमा॑ना॒ इति॑ पि॒तरो᳚-ऽब्रुवन्न् । किं-वोँ॑ भाग॒धेय॒मिति॑ । अ॒ग्नि॒हो॒त्र ए॒व नो-ऽप्य॒स्त्वित्य॑-ब्रुवन्न् । तेभ्य॑ ए॒त-द्भा॑ग॒धेय॒-म्प्राय॑च्छन्न् । यद्धु॒त्वा नि॒मार्​ष्टि॑ । ततो॒ वै त ओष॑धीर-स्वदयन्न् ॥ य ए॒वं-वेँद॑ ॥ 2 ॥

स्वद॑न्ते-ऽस्मा॒ ओष॑धयः । ते व॒थ्समु॒-पावा॑सृजन्न् । इ॒द-न्नो॑ ह॒व्य-म्प्रदा॑प॒येति॑ । सो᳚-ऽब्रवी॒द्वरं॑-वृँणै । दश॑ मा॒ रात्री᳚र्जा॒त-न्न दो॑हन्न् । आ॒स॒ङ्ग॒व-म्मा॒त्रा स॒ह च॑रा॒णीति॑ । तस्मा᳚-द्व॒थ्स-ञ्जा॒त-न्दश॒ रात्री॒र्न दु॑हन्ति । आ॒स॒ङ्ग॒व-म्मा॒त्रा स॒ह चर॑ति । वारे॑वृत॒ग्ग्॒ह्य॑स्य । तस्मा᳚-द्व॒थ्सग्ं सग्ं॑सृष्टध॒यग्ं रु॒द्रो घातु॑कः । अति॒ हि स॒न्धा-न्धय॑ति ॥ 3 ॥
(अ॒लि॒म्प॒न् - वेद॒ - घातु॑क॒ एक॑-ञ्च) (अ. 1)

अनुवाकं 2 - अग्निहोत्रनिरूपणम्
प्र॒जाप॑ति-र॒ग्नि-म॑सृजत । त-म्प्र॒जा अन्व॑सृज्यन्त । तम॑भा॒ग उपा᳚स्त । सो᳚-ऽस्य प्र॒जाभि॒-रपा᳚क्रामत् । तम॑व॒रुरु॑-थ्समा॒नो-ऽन्वै᳚त् । तम॑व॒रुध॒-न्नाश॑क्नोत् । स तपो॑ ऽतप्यत । सो᳚-ऽग्नि-रुपा॑रम॒ताता॑पि॒ वै स्य प्र॒जाप॑ति॒रिति॑ । स र॒राटा॒दुद॑मृष्ट ॥ 4 ॥

त-द्घृ॒तम॑भवत् । तस्मा॒द्यस्य॑ दक्षिण॒तः केशा॒ उन्मृ॑ष्टाः । ता-ञ्ज्ये᳚ष्ठल॒क्ष्मी प्रा॑जाप॒त्येत्या॑हुः । य-द्र॒राटा॑दु॒दमृ॑ष्ट । तस्मा᳚-द्र॒राटे॒ केशा॒ न स॑न्ति । तद॒ग्नौ प्रागृ॑ह्णात् । तद्व्य॑चिकि॒थ्सत् । जु॒हवा॒नी(3) मा हौ॒षा(3)मिति॑ । त-द्वि॑चिकि॒थ्सायै॒ जन्म॑ ॥ य ए॒वं-विँ॒द्वान्. वि॑चि॒किथ्स॑ति ॥ 5 ॥

वसी॑य ए॒व चे॑तयते ॥ तं-वाँग॒भ्य॑वद-ज्जु॒हुधीति॑ । सो᳚-ऽब्रवीत् । कस्त्वम॒सीति॑ । स्वैव ते॒ वागित्य॑ब्रवीत् । सो॑-ऽजुहो॒-थ्स्वाहेति॑ । तथ्स्वा॑हाका॒रस्य॒ जन्म॑ ॥ य ए॒वग्ग्​ स्वा॑हाका॒रस्य॒ जन्म॒ वेद॑ । क॒रोति॑ स्वाहाका॒रेण॑ वी॒र्य᳚म् ॥ यस्यै॒वं-विँ॒दुष॑-स्स्वाहाका॒रेण॒ जुह्व॑ति ॥ 6 ॥

भोगा॑यै॒वास्य॑ हु॒त-म्भ॑वति ॥ तस्या॒ आहु॑त्यै॒ पुरु॑ष-मसृजत । द्वि॒तीय॑-मजुहोत् । सो-ऽश्व॑-मसृजत । तृ॒तीय॑-मजुहोत् । स गा॑मसृजत । च॒तु॒र्थ-म॑जुहोत् । सो-ऽवि॑मसृजत । प॒ञ्च॒म-म॑जुहोत् । सो॑-ऽजाम॑सृजत ॥ 7 ॥

सो᳚-ऽग्नि-र॑बिभेत् । आहु॑तीभि॒र्वै मा᳚-ऽऽप्नो॒तीति॑ । स प्र॒जाप॑ति॒-म्पुनः॒ प्रावि॑शत् । त-म्प्र॒जाप॑ति-रब्रवीत् । जाय॒स्वेति॑ । सो᳚-ऽब्रवीत् । कि-म्भा॑ग॒धेय॑म॒भि ज॑निष्य॒ इति॑ । तुभ्य॑मे॒वेदग्ं हू॑याता॒ इत्य॑ब्रवीत् । स ए॒त-द्भा॑ग॒धेय॑म॒भ्य॑जायत । यद॑ग्निहो॒त्रम् ॥ 8 ॥

तस्मा॑दग्निहो॒त्र-मु॑च्यते ॥ तद्धू॒यमा॑न-मादि॒त्यो᳚-ऽब्रवीत् । मा हौ॑षीः । उ॒भयो॒र्वै-ना॑वे॒तदिति॑ । सो᳚-ऽग्नि-र॑ब्रवीत् । क॒थ-न्नौ॑ होष्य॒न्तीति॑ । सा॒यमे॒व तुभ्य॑-ञ्जु॒हवन्न्॑ । प्रा॒तर्मह्य॒-मित्य॑ब्रवीत् । तस्मा॑द॒ग्नये॑ सा॒यग्ं हू॑यते । सूर्या॑य प्रा॒तः ॥ 9 ॥

आ॒ग्ने॒यी वै रात्रिः॑ । ऐ॒न्द्रमहः॑ । यदनु॑दिते॒ सूर्ये᳚ प्रा॒तर्जु॑हु॒यात् । उ॒भय॑मे॒वाग्ने॒यग्ग्​ स्या᳚त् । उदि॑ते॒ सूर्ये᳚ प्रा॒तर्जु॑होति । तथा॒-ऽग्नये॑ सा॒यग्ं हू॑यते । सूर्या॑य प्रा॒तः ॥ रात्रिं॒-वाँ अनु॑ प्र॒जाः प्र जा॑यन्ते । अह्ना॒ प्रति॑ तिष्ठन्ति । यथ्सा॒य-ञ्जु॒होति॑ ॥ 10 ॥

प्रैव तेन॑ जायते । उदि॑ते॒ सूर्ये᳚ प्रा॒त-र्जु॑होति । प्रत्ये॒व तेन॑ तिष्ठति ॥ प्र॒जाप॑तिर-कामयत॒ प्रजा॑ये॒येति॑ । स ए॒तद॑ग्निहो॒त्र-म्मि॑थु॒न-म॑पश्यत् । तदुदि॑ते॒ सूर्ये॑-ऽजुहोत् । यजु॑षा॒ ऽन्यत् । तू॒ष्णीम॒न्यत् । ततो॒ वै स प्राजा॑यत । यस्यै॒वं-विँ॒दुष॒ उदि॑ते॒ सूर्ये᳚-ऽग्निहो॒त्र-ञ्जुह्व॑ति ॥ 11 ॥

प्रैव जा॑यते । अथो॒ यथा॒ दिवा᳚ प्रजा॒नन्नेति॑ । ता॒दृगे॒व तत् ॥ अथो॒ खल्वा॑हुः । यस्य॒ वै द्वौ पुण्यौ॑ गृ॒हे वस॑तः । यस्तयो॑र॒न्यग्ं रा॒धय॑त्य॒न्य-न्न । उ॒भौ वाव स तावृ॑च्छ॒तीति॑ । अ॒ग्निं-वाँवादि॒त्य-स्सा॒य-म्प्रवि॑शति । तस्मा॑द॒ग्निर्दू॒रान्नक्त॑-न्ददृशे ।
उ॒भे हि तेज॑सी स॒पन्द्ये॑ते ॥ 12 ॥

उ॒द्यन्तं॒-वाँवादि॒त्य-म॒ग्निरनु॑ स॒मारो॑हति । तस्मा᳚द्धू॒म ए॒वाग्नेर्दिवा॑ ददृशे । यद॒ग्नये॑ सा॒य-ञ्जु॑हु॒यात् । आ सूर्या॑य वृश्च्येत । यथ्सूर्या॑य प्रा॒त-र्जु॑हु॒यात् । आ-ऽग्नये॑ वृश्च्येत । दे॒वता᳚भ्य-स्स॒मद॑-न्दद्ध्यात् । अ॒ग्निर्ज्योति॒-र्ज्योति॒-स्सूर्य॒-स्स्वाहेत्ये॒व सा॒यग्ं हो॑त॒व्य᳚म् । सूर्यो॒ ज्योति॒-र्ज्योति॑र॒ग्नि-स्स्वाहेति॑ प्रा॒तः । तथो॒भाभ्याग्ं॑ सा॒यग्ं हू॑यते ॥ 13 ॥

उ॒भाभ्या᳚-म्प्रा॒तः । न दे॒वता᳚भ्य-स्स॒मद॑-न्दधाति ॥ अ॒ग्निर्ज्योति॒रित्या॑ह । अ॒ग्निर्वै रे॑तो॒धाः ॥ प्र॒जा ज्योति॒रित्या॑ह । प्र॒जा ए॒वास्मै॒ प्र ज॑नयति ॥ सूर्यो॒ ज्योति॒रित्या॑ह । प्र॒जास्वे॒व प्रजा॑तासु॒ रेतो॑ दधाति ॥ ज्योति॑र॒ग्नि-स्स्वाहेत्या॑ह । प्र॒जा ए॒व प्रजा॑ता अ॒स्या-म्प्रति॑ष्ठापयति ॥ 14 ॥

तू॒ष्णीमुत्त॑रा॒-माहु॑ति-ञ्जुहोति । मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै ॥ यदुदि॑ते॒ सूर्ये᳚ प्रा॒त-र्जु॑हु॒यात् । यथा-ऽति॑थये॒ प्रद्रु॑ताय शू॒न्याया॑वस॒था-या॑हा॒र्यग्ं॑ हर॑न्ति । ता॒दृगे॒व तत् ।
क्वाह॒ तत॒स्त-द्भव॒तीत्या॑हुः । यथ्स न वेद॑ । यस्मै॒ तद्धर॒न्तीति॑ । तस्मा॒-द्यदौ॑ष॒स-ञ्जु॒होति॑ । तदे॒व स॑प्र॒न्ति । अथो॒ यथा॒ प्रार्थ॑मौष॒स-म्प॑रि॒ वेवे᳚ष्टि । ता॒दृगे॒व तत् ॥ 15 ॥
(अ॒मृ॒ष्ट॒ - वि॒चि॒किथ्स॑ति॒ - जुह्व॑ - त्य॒जाम॑सृज - ताग्निहो॒त्रग्ं - सूर्या॑य प्रा॒त--र् जु॒होति॒ - जुह्व॑ति - स॒म्पद्ये॑ते - हूयते - स्थापयति - सम्प्र॒ति द्वे च॑) (अ. 2)

अनुवाकं 3 - उपयोक्ष्यमाणस्य हविष-स्संस्कारः
रु॒द्रो वा ए॒षः । यद॒ग्निः । पत्नी᳚ स्था॒ली । यन्मद्ध्ये॒-ऽग्ने-र॑धि॒श्रये᳚त् । रु॒द्राय॒ पत्नी॒मपि॑ दद्ध्यात् । प्र॒मायु॑का स्यात् । उदी॒चो-ऽङ्गा॑रान्नि॒रूह्याधि॑ श्रयति । पत्नि॑यै गोपी॒थाय॑ ॥ व्य॑न्तान् करोति । तथा॒ पत्न्य-प्र॑मायुका भवति ॥ 16 ॥

घ॒र्मो वा ए॒षो-ऽशा᳚न्तः । अह॑रहः॒ प्रवृ॑ज्यते । यद॑ग्निहो॒त्रम् । प्रति॑षिञ्चे-त्प॒शुका॑मस्य । शा॒न्तमि॑व॒ हि प॑श॒व्य᳚म् ॥ न प्रति॑षिञ्चे-द्ब्रह्मवर्च॒सका॑मस्य । समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् ॥ अथो॒ खलु॑ । प्र॒ति॒षिच्य॑मे॒व । यत्-प्र॑तिषि॒ञ्चति॑ ॥ 17 ॥

तत्-प॑श॒व्य᳚म् । यज्जु॒होति॑ । तद्ब्र॑ह्मवर्च॒सि । उ॒भय॑मे॒वाकः॑ ॥ प्रच्यु॑तं॒-वाँ ए॒तद॒स्मा-ल्लो॒कात् । अग॑त-न्देवलो॒कम् । यच्छृ॒तग्ं ह॒विरन॑भिघारितम् । अ॒भिद्यो॑तयति । अ॒भ्ये॑वैन॑द्घारयति । अथो॑ देव॒त्रैवैन॑-द्गमयति ॥ 18 ॥

पर्य॑ग्नि करोति । रक्ष॑सा॒-मप॑हत्यै ॥ त्रिः पर्य॑ग्नि करोति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेद्ध्य॒त्वाय॑ ॥ यत्-प्रा॒चीन॑-मुद्वा॒सये᳚त् । यज॑मानग्ं शु॒चा ऽर्प॑येत् । य-द्द॑क्षि॒णा । पि॒तृ॒दे॒व॒त्यग्ग्॑ स्यात् । यत्-प्र॒त्यक् ॥ 19 ॥

पत्नीग्ं॑ शु॒चा ऽर्प॑येत् । उ॒दी॒चीन॒-मुद्वा॑सयति । ए॒षा वै दे॑वमनु॒ष्याणाग्ं॑ शा॒न्ता दिक् । तामे॒वैन॒दनू-द्वा॑सयति॒ शान्त्यै᳚ ॥ वर्त्म॑ करोति । य॒ज्ञस्य॒ सन्त॑त्यै ॥ निष्ट॑पति । उपै॒व तथ्स्तृ॑णाति ॥ च॒तुरुन्न॑यति । चतु॑ष्पादः प॒शवः॑ ॥ 20 ॥

प॒शूने॒वा-व॑रुन्धे ॥ सर्वा᳚न्-पू॒र्णानुन्न॑यति । सर्वे॒ हि पुण्या॑ रा॒द्धाः ॥ अ॒नूच॒ उन्न॑यति । प्र॒जाया॑ अनूचीन॒त्वाय॑ । अ॒नूच्ये॒वास्य॑ प्र॒जा ऽर्धु॑का भवति ॥ स-म्मृ॑शति॒ व्यावृ॑त्त्यै ॥ नाहो᳚ष्य॒न्नुप॑ सादयेत् । यदहो᳚ष्यन्नुप सा॒दये᳚त् । यथा॒ ऽन्यस्मा॑ उपनि॒धाय॑ ॥ 21 ॥

अ॒न्यस्मै᳚ प्र॒यच्छ॑ति । ता॒दृगे॒व तत् । आ-ऽस्मै॑ वृश्च्येत । यदे॒व गार्​ह॑पत्ये-ऽधि॒श्रय॑ति । तेन॒ गार्​ह॑पत्य-म्प्रीणाति ॥ अ॒ग्निर॑बिभेत् । आहु॑तयो॒ मा-ऽत्ये᳚ष्य॒न्तीति॑ । स ए॒ताग्ं स॒मिध॑-मपश्यत् । तामा-ऽध॑त्त । ततो॒ वा अ॒ग्नावाहु॑तयो-ऽद्ध्रियन्त ॥ 22 ॥

यदे॑नग्ं स॒मय॑च्छत् । तथ्स॒मिध॑-स्समि॒त्त्वम् । स॒मिध॒माद॑धाति । समे॒वैनं॑-यँच्छति । आहु॑तीना॒-न्धृत्यै᳚ । अथो॑ अग्निहो॒त्रमे॒वेद्ध्मव॑त्-करोति । आहु॑तीना॒-म्प्रति॑ष्ठित्यै ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यदेकाग्ं॑ स॒मिध॑मा॒धाय॒ द्वे आहु॑ती जु॒होति॑ । अथ॒ कस्याग्ं॑ स॒मिधि॑ द्वि॒तीया॒-माहु॑ति-ञ्जुहो॒तीति॑ ॥ 23 ॥

य-द्द्वे स॒मिधा॑वाद॒द्ध्यात् । भ्रातृ॑व्यमस्मै जनयेत् । एकाग्ं॑ स॒मिध॑मा॒धाय॑ । यजु॑षा॒ ऽन्यामाहु॑ति-ञ्जुहोति । उ॒भे ए॒व स॒मिद्व॑ती॒ आहु॑ती जुहोति । नास्मै॒ भ्रातृ॑व्य-ञ्जनयति ॥ आदी᳚प्ताया-ञ्जुहोति । समि॑द्धमिव॒ हि ब्र॑ह्मवर्च॒सम् । अथो॒ यथा-ऽति॑थि॒-ञ्ज्योति॑ष्कृ॒त्वा प॑रि॒वेवे᳚ष्टि । ता॒दृगे॒व तत् ॥ च॒तुरुन्न॑यति । द्विर्जु॑होति । तस्मा᳚-द्द्वि॒पा-च्चतु॑ष्पादमत्ति । अथो᳚ द्वि॒पद्ये॒व चतु॑ष्पदः॒ प्रति॑ष्ठापयति ॥ 24 ॥
(भ॒व॒ति॒ - प्र॒ति॒षि॒ञ्चति॑ - गमयति - प्र॒त्यक् - प॒शव॑ - उपनि॒धा - या᳚द्घ्रिय॒न् - तेति॒ - तच्च॒त्वारि॑ च) (अ. 3)

अनुवाकं 4 - उपयुक्तस्य हविष-स्संस्कारः
उ॒त्त॒राव॑तीं॒-वैँ दे॒वा आहु॑ति॒मजु॑हवुः । अवा॑ची॒मसु॑राः । ततो॑ दे॒वा अभ॑वन्न् । परा-ऽसु॑राः । य-ङ्का॒मये॑त॒ वसी॑यान्-थ्स्या॒दिति॑ । कनी॑य॒स्तस्य॒ पूर्वग्ं॑ हु॒त्वा । उत्त॑र॒-म्भूयो॑ जुहुयात् । ए॒षा वा उ॑त्त॒राव॒त्याहु॑तिः । ता-न्दे॒वा अ॑जुहवुः । तत॒स्ते॑-ऽभवन्न् ॥ 25 ॥

यस्यै॒व-ञ्जुह्व॑ति । भव॑त्ये॒व ॥ य-ङ्का॒मये॑त॒ पापी॑यान्-थ्स्या॒दिति॑ । भूय॒स्तस्य॒ पूर्वग्ं॑ हु॒त्वा । उत्त॑र॒-ङ्कनी॑यो जुहुयात् । ए॒षा वा अवा॒च्याहु॑तिः । तामसु॑रा अजुहवुः । तत॒स्ते परा॑-ऽभवन्न् । यस्यै॒व-ञ्जुह्व॑ति । परै॒व भ॑वति ॥ 26 ॥

हु॒त्वोप॑ सादय॒त्यजा॑मित्वाय । अथो॒ व्यावृ॑त्त्यै ॥ गार्​ह॑पत्य॒-म्प्रती᳚क्षते । अन॑नुद्ध्यायिन-मे॒वैन॑-ङ्करोति ॥ अ॒ग्नि॒हो॒त्रस्य॒ वै स्था॒णुर॑स्ति । तं-यँ ऋ॒च्छेत् । य॒ज्ञ॒स्था॒णुमृ॑च्छेत् । ए॒ष वा अ॑ग्निहो॒त्रस्य॑ स्था॒णुः । यत्-पूर्वा-ऽऽहु॑तिः । तां-यँदुत्त॑रया॒-ऽभि जु॑हु॒यात् ॥ 27 ॥

य॒ज्ञ॒स्था॒णु-मृ॑च्छेत् । अ॒ति॒हाय॒ पूर्वा॒माहु॑ति-ञ्जुहोति । य॒ज्ञ॒स्था॒णुमे॒व परि॑ वृणक्ति । अथो॒ भ्रातृ॑व्यमे॒वाप्त्वा ऽति॑क्रामति ॥ अ॒वा॒चीनग्ं॑ सा॒यमुप॑ मार्​ष्टि । रेत॑ ए॒व त-द्द॑धाति । ऊ॒र्ध्व-म्प्रा॒तः । प्र ज॑नयत्ये॒व तत् ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । च॒तुरुन्न॑यति ॥ 28 ॥

द्विर्जु॑होति । अथ॒ क्व॑ द्वे आहु॑ती भवत॒ इति॑ । अ॒ग्नौ वै᳚श्वान॒र इति॑ ब्रूयात् । ए॒ष वा अ॒ग्निर्वै᳚श्वान॒रः । यद्ब्रा᳚ह्म॒णः । हु॒त्वा द्विः प्राश्ञा॑ति । अ॒ग्नावे॒व वै᳚श्वान॒रे द्वे आहु॑ती जुहोति ॥ द्विर्जु॒होति॑ । द्विर्निमा᳚र्​ष्टि । द्विः प्राश्ञा॑ति ॥ 29 ॥

षट्-थ्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒व प्री॑णाति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । कि॒-न्दे॒व॒त्य॑-मग्निहो॒त्रमिति॑ । वै॒श्व॒दे॒वमिति॑ ब्रूयात् । य-द्यजु॑षा जु॒होति॑ । तदै᳚न्द्रा॒ग्नम् । यत्-तू॒ष्णीम् । तत्-प्रा॑जाप॒त्यम् ॥ 30 ॥

यन्नि॒मार्​ष्टि॑ । तदोष॑धीनाम् । यद्द्वि॒तीय᳚म् । तत्-पि॑तृ॒णाम् । यत्-प्राश्ञा॑ति । त-द्गर्भा॑णाम् । तस्मा॒-द्गर्भा॒ अन॑श्नन्तो वर्धन्ते । यदा॒चाम॑ति । तन्म॑नु॒ष्या॑णाम् ॥ उद॑म्पर्या॒वृत्याचा॑मति ॥ 31 ॥

आ॒त्मनो॑ गोपी॒थाय॑ ॥ निर्णे॑नेक्ति॒ शुद्ध्यै᳚ ॥ निष्ट॑पति स्व॒गाकृ॑त्यै । उ-द्दि॑शति । स॒प्त॒र्॒षीने॒व प्री॑णाति ॥ द॒क्षि॒णा प॒र्याव॑र्तते । स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते । तस्मा॒-द्दक्षि॒णो-ऽर्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्तरः । अथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑ प॒र्याव॑र्तते ॥ हु॒त्वोप॒ समि॑न्धे ॥ 32 ॥

ब्र॒ह्म॒व॒र्च॒सस्य॒ समि॑द्ध्यै ॥ न ब॒र॒ःइरनु॒ प्र ह॑रेत् । असग्ग्॑स्थितो॒ वा ए॒ष य॒ज्ञः । यद॑ग्निहो॒त्रम् । यद॑नु प्र॒हरे᳚त् । य॒ज्ञं-विँच्छि॑न्द्यात् । तस्मा॒न्नानु॑ प्र॒हृत्य᳚म् । य॒ज्ञस्य॒ सन्त॑त्यै ॥ अ॒पो नि न॑यति । अ॒व॒भृ॒थस्यै॒व रू॒पम॑कः ॥ 33 ॥
(अ॒भ॒व॒न् - भ॒व॒ति॒ - जु॒हु॒यान् - न॑यति - मार्​ष्टि॒ द्विः प्राश्ञा॑ति - प्राजाप॒त्य - माचा॑मती - न्धे - ऽकः) (अ. 4)

अनुवाकं 5 - काम्यानि होमद्रव्याणि
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । अ॒ग्नि॒हो॒त्रप्रा॑यणा य॒ज्ञाः । कि-म्प्रा॑यण-मग्निहो॒त्रमिति॑ । व॒थ्सो वा अ॑ग्निहो॒त्रस्य॒ प्राय॑णम् । अ॒ग्नि॒हो॒त्रं-यँज्ञाना᳚म् ॥ तस्य॑ पृथि॒वी सदः॑ । अ॒न्तरि॑क्ष॒-माग्नी᳚द्ध्रम् । द्यौर्-ह॑वि॒र्धान᳚म् । दि॒व्या आपः॒ प्रोक्ष॑णयः । ओष॑धयो ब॒र॒ःइः ॥ 34 ॥
वन॒स्पत॑य इ॒द्ध्मः । दिशः॑ परि॒धयः॑ । आ॒दि॒त्यो यूपः॑ । यज॑मानः प॒शुः । स॒मु॒द्रो॑-ऽवभृ॒थः । सं॒​वँ॒थ्स॒र-स्स्व॑गाका॒रः । तस्मा॒दाहि॑ताग्ने॒-स्सर्व॑मे॒व ब॑र्​हि॒ष्य॑-न्द॒त्त-म्भ॑वति । य-थ्सा॒य-ञ्जु॒होति॑ । रात्रि॑मे॒व तेन॑ दक्षि॒ण्या᳚-ङ्कुरुते । यत्-प्रा॒तः ॥ 35 ॥

अह॑रे॒व तेन॑ दक्षि॒ण्य॑-ङ्कुरुते । यत्-ततो॒ ददा॑ति । सा दक्षि॑णा ॥ याव॑न्तो॒ वै दे॒वा अहु॑त॒मादन्न्॑ । ते परा॑-ऽभवन्न् । त ए॒तद॑ग्निहो॒त्रग्ं सर्व॑स्यै॒व स॑मव॒दाया॑जुहवुः । तस्मा॑दाहुः । अ॒ग्नि॒हो॒त्रं-वैँ दे॒वा गृ॒हाणा॒-न्निष्कृ॑ति-मपश्य॒न्निति॑ । य-थ्सा॒य-ञ्जु॒होति॑ । रात्रि॑या ए॒व तद्धु॒ताद्या॑य ॥ 36 ॥

यज॑मान॒स्या-प॑राभावाय । यत्-प्रा॒तः । अह्न॑ ए॒व तद्धु॒ताद्या॑य । यज॑मान॒स्या-प॑राभावाय । यत्-ततो॒-ऽश्नाति॑ । हु॒तमे॒व तत् ॥ द्वयोः॒ पय॑सा जुहुयात्-प॒शुका॑मस्य । ए॒तद्वा अ॑ग्निहो॒त्र-म्मि॑थु॒नम् । य ए॒वं-वेँद॑ । प्र प्र॒जया॑ प॒शुभि॑-र्मिथु॒नै-र्जा॑यते ॥ 37 ॥

इ॒मामे॒व पूर्व॑या दु॒हे । अ॒मूमुत्त॑रया । अ॒धि॒श्रित्योत्त॑र॒मा न॑यति । योना॑वे॒व त-द्रेत॑-स्सिञ्चति प्र॒जन॑ने ॥ आज्ये॑न जुहुया॒त्-तेज॑स्कामस्य । तेजो॒ वा आज्य᳚म् । ते॒ज॒स्व्ये॑व भ॑वति । पय॑सा प॒शुका॑मस्य । ए॒तद्वै प॑शू॒नाग्ं रू॒पम् । रू॒पेणै॒वास्मै॑ प॒शूनव॑ रुन्धे ॥ 38 ॥

प॒शु॒माने॒व भ॑वति । द॒द्ध्नेन्द्रि॒य का॑मस्य । इ॒न्द्रि॒यं-वैँ दधि॑ । इ॒न्द्रि॒या॒व्ये॑व भ॑वति । य॒वा॒ग्वा᳚ ग्राम॑कामस्यौष॒धा वै म॑नु॒ष्याः᳚ । भा॒ग॒धेये॑नै॒वास्मै॑ सजा॒तानव॑-रुन्धे । ग्रा॒म्ये॑व भ॑वति ॥
अय॑ज्ञो॒ वा ए॒षः । यो॑सा॒मा ॥ 39 ॥

च॒तुरुन्न॑यति । चतु॑रक्षरग्ं रथन्त॒रम् । र॒थ॒न्त॒रस्यै॒ष वर्णः॑ । उ॒परी॑व हरति । अ॒न्तरि॑क्षं-वाँमदे॒व्यम् । वा॒म॒दे॒व्यस्यै॒ष वर्णः॑ । द्विर्जु॑होति । द्व्य॑क्षर-म्बृ॒हत् । बृ॒ह॒त ए॒ष वर्णः॑ । अ॒ग्नि॒हो॒त्रमे॒व त-थ्साम॑न्वत्-करोति ॥ 40 ॥

यो वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॒ वेद॑ । उपै॑नमुप॒सदो॑ नमन्ति । वि॒न्दत॑ उपस॒त्तार᳚म् । उ॒न्नीयोप॑ सादयति । पृ॒थि॒वीमे॒व प्री॑णाति । हो॒ष्यन्नुप॑ सादयति । अ॒न्तरि॑क्षमे॒व प्री॑णाति । हु॒त्वोप॑ सादयति । दिव॑मे॒व प्री॑णाति । ए॒ता वा अ॑ग्निहो॒त्रस्यो॑प॒सदः॑ ॥ 41 ॥

य ए॒वं-वेँद॑ । उपै॑न-मुप॒सदो॑ नमन्ति । वि॒न्दत॑ उपस॒त्तार᳚म् ॥ यो वा अ॑ग्निहो॒त्रस्याश्रा॑वित-म्प्र॒त्याश्रा॑वित॒ग्ं॒ होता॑र-म्ब्र॒ह्माणं॑-वँषट्का॒रं-वेँद॑ । तस्य॒ त्वे॑व हु॒तम् । प्रा॒णो वा अ॑ग्निहो॒त्रस्याश्रा॑वितम् । अ॒पा॒नः प्र॒त्याश्रा॑वितम् । मनो॒ होता᳚ । चक्षु॑-र्ब्र॒ह्मा । नि॒मे॒षो व॑षट्का॒रः ॥ 42 ॥

य ए॒वं-वेँद॑ । तस्य॒ त्वे॑व हु॒तम् ॥ सा॒यं॒-याँवा॑नश्च॒ वै दे॒वाः प्रा॑त॒र्यावा॑णश्चा-ग्निहो॒त्रिणो॑ गृ॒हमाग॑च्छन्ति । तान्. यन्न त॒र्पये᳚त् । प्र॒जया᳚-ऽस्य प॒शुभि॒र्वि ति॑ष्ठेरन्न् । यत्त॒र्पये᳚त् । तृ॒प्ता ए॑न-म्प्र॒जया॑ प॒शुभि॑स्तर्पयेयुः ॥ स॒जूर्दे॒वै-स्सा॒यं-याँव॑भि॒रिति॑ सा॒यग्ं स-म्मृ॑शति । स॒जूर्दे॒वैः प्रा॒तर्याव॑भि॒रिति॑ प्रा॒तः । ये चै॒व दे॒वा-स्सा॑यं॒-याँवा॑नो॒ ये च॑ प्रात॒र्यावा॑णः ॥ 43 ॥

ताने॒वोभयाग्॑ स्तर्पयति । त ए॑न-न्तृ॒प्ताः प्र॒जया॑ प॒शुभि॑ स्तर्पयन्ति ॥ अ॒रु॒णो ह॑ स्मा॒हौप॑वेशिः । अ॒ग्नि॒हो॒त्र ए॒वाहग्ं सा॒य-म्प्रा॑त॒र्वज्र॒-म्भ्रातृ॑व्येभ्यः॒ प्र ह॑रामि । तस्मा॒-न्मत्पापी॑याग्ंसो॒ भ्रातृ॑व्या॒ इति॑ । च॒तुरुन्न॑यति । द्विर्जु॑होति । स॒मि-थ्स॑प्त॒मी । स॒प्तप॑दा॒ शक्व॑री । शा॒क्व॒रो वज्रः॑ । अ॒ग्नि॒हो॒त्र ए॒व तथ्सा॒य-म्प्रा॑त॒र्वज्रं॒-यँज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति । भव॑त्या॒त्मना᳚ । परा᳚-ऽस्य॒ भ्रातृ॑व्यो भवति ॥ 44 ॥
(ब॒र्॒हिः - प्रा॒त--र् हु॒ताद्या॑य - जायते - रुन्धे - ऽसा॒मा - क॑रो - त्ये॒ता वा अ॑ग्निहो॒त्रस्यो॑ प॒सदो॑ - वषट्का॒र - श्च॑ प्रात॒र्यावा॑णो॒ - वज्र॒स्त्रीणि॑ च) (अ. 5)

अनुवाकं 6 - अभ्युद्द्रवणम्, होमाभावप्रतीकारश्च
प्र॒जाप॑ति-रकामय-तात्म॒न् वन्मे॑ जाये॒तेति॑ । सो॑-ऽजुहोत् । तस्या᳚त्म॒न् वद॑जायत । अ॒ग्नि-र्वा॒युरा॑-दि॒त्यः । ते᳚-ऽब्रुवन्न् । प्र॒जाप॑ति-रहौषी-दात्म॒न्-वन्मे॑ जाये॒तेति॑ । तस्य॑ व॒यम॑जनिष्महि । जाय॑ता-न्न आत्म॒न्-वदिति॒ ते॑-ऽजुहवुः । प्रा॒णाना॑म॒ग्निः । त॒नुवै॑ वा॒युः ॥ 45 ॥

चक्षु॑ष आदि॒त्यः । तेषाग्ं॑ हु॒ताद॑जायत॒ गौरे॒व ॥ तस्यै॒ पय॑सि॒ व्याय॑च्छन्त । मम॑ हु॒ताद॑जनि॒ ममेति॑ । ते प्र॒जाप॑ति-म्प्र॒श्नमा॑यन्न् । स आ॑दि॒त्यो᳚-ऽग्नि-म॑ब्रवीत् । य॒त॒रो नौ॒ जया᳚त् । तन्नौ॑ स॒हास॒दिति॑ । कस्यै को-ऽहौ॑षी॒दिति॑ प्र॒जाप॑ति-रब्रवी॒त्-कस्यै क॒ इति॑ । प्रा॒णाना॑म॒हमित्य॒ग्निः ॥ 46 ॥

त॒नुवा॑ अ॒हमिति॑ वा॒युः । चक्षु॑षो॒-ऽहमित्या॑दि॒त्यः । य ए॒व प्रा॒णाना॒महौ॑षीत् । तस्य॑ हु॒ताद॑ज॒नीति॑ । अ॒ग्नेर्-हु॒ताद॑ज॒नीति॑ । तद॑ग्निहो॒त्रस्या᳚-ग्निहोत्र॒त्वम् । गौर्वा अ॑ग्निहो॒त्रम् । य ए॒वं-वेँद॒ गौर॑ग्निहो॒त्रमिति॑ । प्रा॒णा॒पा॒नाभ्या॑-मे॒वाग्निग्ं सम॑र्धयति । अव्य॑र्धुकः प्राणापा॒नाभ्या᳚-म्भवति ॥ 47 ॥

य ए॒वं-वेँद॑ ॥ तौ वा॒युर॑ब्रवीत् । अनु॒ मा भ॑जत॒मिति॑ । यदे॒व गार्​ह॑पत्ये-ऽधि॒श्रित्या॑-हव॒नीय॑-म॒भ्यु॑द्द्रवान्॑ । तेन॒ त्वा-म्प्री॑णा॒नित्य॑-ब्रूताम् । तस्मा॒-द्य-द्गार्​ह॑पत्ये-ऽधि॒-श्रित्या॑हव॒नीय॑-म॒भ्यु॑द्द्रव॑ति । वा॒युमे॒व तेन॑ प्रीणाति ॥ प्र॒जाप॑ति-र्दे॒वता᳚-स्सृ॒जमा॑नः । अ॒ग्निमे॒व दे॒वता॑ना-म्प्रथ॒म-म॑सृजत । सो᳚-ऽन्यदा॑ल॒म्-भ्य॑मवि॑त्त्वा ॥ 48 ॥

प्र॒जाप॑तिम॒भि प॒र्याव॑र्तत । स मृ॒त्यो-र॑बिभेत् । सो॑-ऽमुमा॑दि॒त्य-मा॒त्मनो॒ निर॑मिमीत । तग्ंहु॒त्वा परा᳚म्प॒र्याव॑र्तत । ततो॒ वै स मृ॒त्युमपा॑जयत् । अप॑ मृ॒त्यु-ञ्ज॑यति । य ए॒वं-वेँद॑ ॥ तस्मा॒-द्यस्यै॒वं-विँ॒दुषः॑ । उ॒तैका॒हमु॒त द्व्य॒ह-न्न जुह्व॑ति । हु॒तमे॒वास्य॑ भवति । अ॒सौ ह्या॑दि॒त्यो᳚-ऽग्निहो॒त्रम् ॥ 49 ॥
(त॒नुवै॑ वा॒यु - र॒ग्नि--र् भ॑व॒ - त्यवि॑त्त्वा - भव॒त्येक॑-ञ्च) (अ. 6)

अनुवाकं 7 - हविष-स्सर्वदेवतासम्बन्धेन प्रशंसा
रौ॒द्र-ङ्गवि॑ । वा॒य॒व्य॑-मुप॑सृष्टम् । आ॒श्वि॒न-न्दु॒ह्यमा॑नम् । सौ॒म्य-न्दु॒ग्धम् । वा॒रु॒णमधि॑श्रितम् । वै॒श्व॒दे॒वा भि॒न्दवः॑ । पौ॒ष्णमुद॑न्तम् । सा॒र॒स्व॒तं-विँ॒ष्यन्द॑मानम् । मै॒त्रग्ं शरः॑ । धा॒तुरुद्वा॑सितम् । बृह॒स्पते॒रुन्नी॑तम् । स॒वि॒तुः प्रक्रा᳚न्तम् । द्या॒वा॒पृ॒थि॒व्यग्ग्॑ ह्रि॒यमा॑णम् । ऐ॒न्द्रा॒ग्न-मुप॑सन्नम् । अ॒ग्नेः पूर्वा ऽऽहु॑तिः । प्र॒जाप॑ते॒-रुत्त॑रा । ऐ॒न्द्रग्ं हु॒तम् ॥ 50 ॥
(उद्वा॑सितग्ं स॒प्त च॑) (अ. 7)

अनुवाकं 8 - दोहनप्रकारो-ऽग्निहोत्रहोत्रश्च
द॒क्षि॒ण॒त उप॑ सृजति । पि॒तृ॒लो॒कमे॒व तेन॑ जयति ॥ प्राची॒माव॑र्तयति । दे॒व॒लो॒कमे॒व तेन॑ जयति । उदी॑चीमा॒वृत्य॑ दोग्धि । म॒नु॒ष्य॒लो॒कमे॒व तेन॑ जयति ॥ पूर्वौ॑ दुह्याज्ज्ये॒ष्ठस्य॑ ज्यैष्ठिने॒यस्य॑ । यो वा॑ ग॒तश्री॒-स्स्यात् । अप॑रौ दुह्यात्-कनि॒ष्ठस्य॑ कानिष्ठिने॒यस्य॑ । यो वा॒ बुभू॑षेत् ॥ 51 ॥

न स-म्मृ॑शति । पा॒प॒व॒स्य॒सस्य॒ व्यावृ॑त्त्यै ॥ वा॒य॒व्यं॑-वाँ ए॒तदुप॑सृष्टम् । आ॒श्वि॒न-न्दु॒ह्यमा॑नम् । मै॒त्र-न्दु॒ग्धम् । अ॒र्य॒म्ण उ॑द्वा॒स्यमा॑नम् । त्वा॒ष्ट्र-मु॑न्नी॒यमा॑नम् । बृह॒स्पते॒-रुन्नी॑तम् । स॒वि॒तुः प्रक्रा᳚न्तम् । द्या॒वा॒पृ॒थि॒व्यग्ग्॑ ह्रि॒यमा॑णम् ॥ 52 ॥

ऐ॒न्द्रा॒ग्नमुप॑ सादितम् । सर्वा᳚भ्यो॒ वा ए॒ष दे॒वता᳚भ्यो जुहोति । यो᳚-ऽग्निहो॒त्र-ञ्जु॒होति॑ ॥ यथा॒ खलु॒ वै धे॒नु-न्ती॒र्थे त॒र्पय॑ति । ए॒वम॑ग्निहो॒त्री यज॑मान-न्तर्पयति । तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । प्रसु॑व॒र्गं-लोँ॒क-ञ्जा॑नाति । पश्य॑ति पु॒त्रम् । पश्य॑ति॒ पौत्र᳚म् । प्र प्र॒जया॑ प॒शुभि॑-र्मिथु॒नै-र्जा॑यते । यस्यै॒वं-विँ॒दुषो᳚-ऽग्निहो॒त्र-ञ्जुह्व॑ति । य उ॑ चैन दे॒वं-वेँद॑ ॥ 53 ॥
(बभू॑षे- द्ध्रि॒यमा॑णं - जायते॒ द्वे च॑) (अ. 8)

अनुवाकं 9 - अग्निहोत्रस्यासंसृष्टहोममन्त्रौ
त्रयो॒ वै प्रै॑यमे॒धा आ॑सन्न् । तेषा॒-न्त्रिरेको᳚-ऽग्निहो॒त्र-म॑जुहोत् । द्विरेकः॑ । स॒कृदेकः॑ । तेषां॒-यँस्त्रिरजु॑होत् । स ऋ॒चा-ऽजु॑होत् । यो द्विः । स यजु॑षा । य-स्स॒कृत् । स तू॒ष्णीम् ॥ 54 ॥

यश्च॒ यजु॒षा ऽजु॑हो॒द्यश्च॑ तू॒ष्णीम् । तावु॒भावा᳚र्ध्नुताम् । तस्मा॒-द्यजु॒षा ऽऽहु॑तिः॒ पूर्वा॑ होत॒व्या᳚ । तू॒ष्णीमुत्त॑रा । उ॒भे ए॒वर्धी अव॑रुन्धे । अ॒ग्नि-र्ज्योति॒-र्ज्योति॑र॒ग्नि-स्स्वाहेति॑ सा॒य-ञ्जु॑होति । रेत॑ ए॒व त-द्द॑धाति । सूर्यो॒ ज्योति॒-र्ज्योति॒-स्सूर्य॒-स्स्वाहेति॑ प्रा॒तः । रेत॑ ए॒व हि॒त-म्प्र ज॑नयति ॥ रेतो॒ वा ए॒तस्य॑ हि॒त-न्न प्र जा॑यते ॥ 55 ॥

यस्या᳚ग्निहो॒त्रमहु॑त॒ग्ं॒ सूर्यो॒-ऽभ्यु॑देति॑ । य-द्यन्ते॒ स्यात् । उ॒न्नीय॒ प्रांउ॒दाद्र॑वेत् । स उ॑प॒साद्यातमि॑तो-रासीत । स य॒दा ताम्ये᳚त् । अथ॒ भू-स्स्वाहेति॑ जुहुयात् । प्र॒जाप॑ति॒र्वै भू॒तः । तमे॒वो-पा॑सरत् । स ए॒वैन॒-न्तत॒ उन्न॑यति । नार्ति॒मार्च्छ॑ति॒ यज॑मानः ॥ 56 ॥
(तू॒ष्णीं - जा॑यते॒ - यज॑मानः) (अ. 9)

अनुवाकं 10 - वह्नेरवस्थाविशेषानुसारेण होमः
यद॒ग्नि-मु॒द्धर॑ति । वस॑व॒स्तर्​ह्य॒ग्निः । तस्मि॒न्॒. यस्य॒ तथा॑विधे॒ जुह्व॑ति । वसु॑ष्वे॒वास्या᳚ग्निहो॒त्रग्ं हु॒त-म्भ॑वति ॥ निहि॑तो धूपा॒यञ्छे॑ते । रु॒द्रास्तह्य॒र्ग्निः । तस्मि॒न्.॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । रु॒द्रेष्वे॒वास्या᳚ग्निहो॒त्रग्ं हु॒त-म्भ॑वति ॥ प्र॒थ॒ममि॒द्ध्मम॒र्चिरा ल॑भते । आ॒दि॒त्यास्तर्​ह्य॒ग्निः ॥ 57 ॥

तस्मि॒न्॒. यस्य॒ तथा॑विधे॒ जुह्व॑ति । आ॒दि॒त्येष्वे॒वास्या᳚ग्निहो॒त्रग्ं हु॒त-म्भ॑वति ॥ सर्व॑ ए॒व स॑र्व॒श इ॒द्ध्म आदी᳚प्तो भवति । विश्वे॑ दे॒वास्तह्य॒र्ग्निः । तस्मि॒न्॒. यस्य॒ तथा॑विधे॒ जुह्व॑ति । विश्वे᳚ष्वे॒वास्य॑ दे॒वेष्व॑ग्निहो॒त्रग्ं हु॒त-म्भ॑वति ॥ नि॒त॒राम॒र्चिरु॒पावै॑ति लोहि॒नीके॑व भवति । इन्द्र॒स्तर्​ह्य॒ग्निः । तस्मि॒न्॒. यस्य॒ तथा॑विधे॒ जुह्व॑ति । इन्द्र॑ ए॒वास्या᳚ग्निहो॒त्रग्ं हु॒त-म्भ॑वति ॥ 58 ॥

अङ्गा॑रा भवन्ति । तेभ्यो-ऽङ्गा॑रेभ्यो॒-ऽर्चिरुदे॑ति । प्र॒जाप॑ति॒स्तर्​ह्य॒ग्निः । तस्मि॒न्॒. यस्य॒ तथा॑विधे॒ जुह्व॑ति । प्र॒जाप॑तावे॒वास्या᳚ग्निहो॒त्रग्ं हु॒त-म्भ॑वति ॥ शरो-ऽङ्गा॑रा॒ अद्ध्यू॑हन्ते । ब्रह्म॒-तर्​ह्य॒ग्निः । तस्मि॒न्.॒ यस्य॒ तथा॑विधे॒ जुह्व॑ति । ब्रह्म॑न्ने॒वास्या᳚ग्निहो॒त्रग्ं हु॒त-म्भ॑वति ॥ वसु॑षु रु॒द्रेष्वा॑दि॒त्येषु॒ विश्वे॑षु दे॒वेषु॑ । इन्द्रे᳚ प्र॒जाप॑तौ॒ ब्रह्मन्न्॑ । अप॑रिवर्गमे॒वास्यै॒तासु॑ दे॒वता॑सु हु॒त-म्भ॑वति । यस्यै॒वं-विँ॒दुषो᳚-ऽग्निहो॒त्र-ञ्जुह्व॑ति । य उ॑ चैन दे॒वं-वेँद॑ ॥ 59 ॥
(आ॒दि॒त्यास्तर्​ह्य॒ग्नि--र् इन्द्र॑ ए॒वास्या᳚ग्निहो॒त्रग्ं हु॒त-म्भ॑वति - दे॒वेषु॑ च॒त्वारि॑ च) (अ. 10)

(यद॒ग्नि-न्निहि॑तः प्रथ॒मग्ं सर्व॑ ए॒व नि॑त॒रामङ्गा॑रा॒-श्शरो-ऽङ्गा॑रा॒
ब्रह्म॒वसु॑ष्व॒ष्टौ)

अनुवाकं 11 - कालभेदेन समन्त्रक-म्परिषेचनम्
ऋ॒त-न्त्वा॑ स॒त्येन॒ परि॑षिञ्चा॒मीति॑ सा॒य-म्परि॑षिञ्चति । स॒त्य-न्त्व॒र्तेन॒ परि॑षिञ्चा॒मीति॑ प्रा॒तः । अ॒ग्निर्वा ऋ॒तम् । अ॒सावा॑दि॒त्य-स्स॒त्यम् । अ॒ग्निमे॒व तदा॑दि॒त्येन॑ सा॒य-म्परि॑षिञ्चति । अ॒ग्निना॑ ऽऽदि॒त्य-म्प्रा॒तस्सः । याव॑दहोरा॒त्रे भव॑तः । ताव॑दस्य लो॒कस्य॑ । नार्ति॒र्न रिष्टिः॑ । नान्तो॒ न प॑र्य॒न्तो᳚-ऽस्ति । यस्यै॒वं-विँ॒दुषो᳚-ऽग्निहो॒त्र-ञ्जुह्व॑ति । य उ॑ चैन दे॒वं-वेँद॑ ॥ 60 ॥
(अ॒स्ति॒ द्वे च॑) (अ. 11)

(अङ्गि॑रसः - प्र॒जाप॑तिर॒ग्निग्ं - रु॒द्र - उ॑त्त॒राव॑तीं - ब्रह्मवा॒दिनो᳚ ऽग्निहो॒त्रप्रा॑यणा य॒ज्ञाः - प्र॒जाप॑तिरकामयतात्म॒न्व-द्- रौ॒द्र-ङ्गवि॑ -दक्षिण॒त - स्त्रयो॒ वै - यद॒ग्नि - मृ॒त-न्त्वा॑ स॒त्येनैका॑दश)

(अङ्गि॑रसः॒ - प्रैव तेन॑ - प॒शूने॒व - यन्नि॒मार्​ष्टि॒ - यो वा अ॑ग्निहो॒त्रस्यो॑प॒सदो॑ - दक्षिण॒त-ष्ष॑ष्टिः )

(अङ्गि॑रसो॒ - य उ॑ चैन दे॒वं-वेँद॑)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके प्रथमः प्रपाठक-स्समाप्तः ॥




Browse Related Categories: