View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

3.10 - सावित्रचयनम् - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण काठ प्रश्नः पाठः - सञ्ज्ञानं विज्ञानं

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे काठके प्रथमः प्रश्नः - सावित्रचयनम्

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अनुवाकं 1 - अनुवाकेषु नवसु लेखासु नाभ्या-ञ्चेष्टकोपधानं स्वयमातृण्णोपधान-ञ्चोच्यते
स॒ञ्ज्ञानं॑-विँ॒ज्ञान॑-म्प्र॒ज्ञान॑-ञ्जा॒नद॑भिजा॒नत् । स॒कं​ल्पँ॑मान-म्प्र॒कल्प॑मान-मुप॒कल्प॑मान॒-मुप॑क्लृप्त-ङ्क्लृ॒प्तम् ।
श्रेयो॒ वसी॑य आ॒यथ्सम्भू॑त-म्भू॒तम् ॥
चि॒त्रः के॒तुः प्र॒भाना॒भान्-थ्स॒भान्न् ।
ज्योति॑ष्मा॒ग्॒-स्तेज॑स्वाना॒तप॒ग्ग्॒-स्तप॑न्नभि॒तपन्न्॑ ।
रो॒च॒नो रोच॑मानः-शोभ॒नः-शोभ॑मानः क॒ल्याणः॑ ॥ दर्​शा॑ दृ॒ष्टा द॑र्​श॒ता वि॒श्वरू॑पा सुदर्​श॒ना । आ॒प्याय॑माना॒ प्याय॑माना॒-प्याया॑ सू॒नृतेरा᳚ ।
आ॒पूर्य॑माणा॒ पूर्य॑माणा पू॒रय॑न्ती पू॒र्णा पौ᳚र्णमा॒सी ॥ दा॒ता प्र॑दा॒ता-ऽऽन॒न्दो मोदः॑ प्रमो॒दः ॥ 1 ॥

आ॒वे॒शय॑-न्निवे॒शयन्᳚थ्सं॒​वेँश॑न॒-स्सग्ग्​शा᳚न्त-श्शा॒न्तः । आ॒भव॑-न्प्र॒भवन्᳚-थ्स॒भं​वँ॒न्-थ्सम्भू॑तो भू॒तः ॥
प्रस्तु॑तं॒-विँष्टु॑त॒ग्ं॒ सग्ग्​स्तु॑त-ङ्क॒ल्याणं॑-विँ॒श्वरू॑पम् । शु॒क्रम॒मृत॑-न्तेज॒स्वि तेज॒-स्समि॑द्धम् । अ॒रु॒ण-म्भा॑नु॒म-न्मरी॑चिमदभि॒तप॒-त्तप॑स्वत् ॥ स॒वि॒ता प्र॑सवि॒ता दी॒प्तो दी॒पय॒-न्दीप्य॑मानः । ज्वल॑-ञ्ज्वलि॒ता तप॑न् वि॒तपन्᳚-थ्स॒न्तपन्न्॑ । रो॒च॒नो रोच॑मान-श्शु॒भूं-श्शुम्भ॑मानो वा॒मः ॥
सु॒ता सु॑न्व॒ती प्रसु॑ता सू॒यमा॑ना ऽभिषू॒यमा॑णा । पीती᳚ प्र॒पा स॒पा-न्तृप्ति॑-स्त॒र्पय॑न्ती ॥ 2 ॥

का॒न्ता का॒म्या का॒मजा॒ता ऽऽयु॑ष्मती काम॒दुघा᳚ ॥ अ॒भि॒शा॒स्ता ऽनु॑म॒न्ता-ऽऽन॒न्दो मोदः॑ प्रमो॒दः । आ॒सा॒दय॑-न्निषा॒दयन्᳚-थ्स॒ग्ं॒साद॑न॒-स्सग्ंस॑न्न-स्स॒न्नः ।
आ॒भू र्वि॒भूः प्र॒भू-श्श॒भूं र्भुवः॑ ॥
प॒वित्र॑-म्पवयि॒ष्य-न्पू॒तो मेद्ध्यः॑ ।
यशो॒ यश॑स्वा-ना॒युर॒मृतः॑ । जी॒वो जी॑वि॒ष्य-न्थ्स्व॒र्गो लो॒कः ॥ सह॑स्वा॒-न्थ्सही॑या॒-नोज॑स्वा॒-न्थ्सह॑मानः । जय॑न्न-भि॒जयन्᳚-थ्सु॒द्रवि॑णो द्रविणो॒दाः । आ॒र्द्रप॑वित्रो॒ हरि॑केशो॒ मोदः॑ प्रमो॒दः ॥ 3 ॥

अ॒रु॒णो॑ ऽरु॒णर॑जाः पु॒ण्डरी॑को विश्व॒जिद॑-भि॒जित् । आ॒र्द्रः पिन्व॑मा॒नो ऽन्न॑वा॒न्-रस॑वा॒-निरा॑वान् ।
स॒र्वौ॒ष॒ध-स्स॑भं॒रो मह॑स्वान् ॥ ए॒ज॒त्का जो॑व॒त्काः । क्षु॒ल्ल॒का-श्शि॑पिविष्ट॒काः ।
स॒रि॒स्त्र॒रा-स्सु॒शेर॑वः । अ॒जि॒रासो॑ गमि॒ष्णवः॑ ॥ इ॒दानी᳚-न्त॒दानी॑-मे॒तर्​हि॑ क्षि॒प्रम॑जि॒रम् । आ॒शु र्नि॑मे॒षः फ॒णो द्रव॑न्नति॒-द्रवन्न्॑ । त्वर॒ग्ग्॒ स्त्वर॑माण आ॒शुराशी॑याञ्ज॒वः {आ॒शुराशी॑यान् ज॒वः} ॥
अ॒ग्नि॒ष्टो॒म उ॒क्थ्यो॑ ऽतिरा॒त्रो द्वि॑रा॒त्र-स्त्रि॑रा॒त्र-श्च॑तूरा॒त्रः । अ॒ग्निर्-ऋ॒तु-स्सूर्य॑ ऋ॒तुश्च॒न्द्रमा॑ ऋ॒तुः ॥ प्र॒जाप॑ति-स्सं​वँथ्स॒रो म॒हान्कः ॥ 4 ॥
(प्र॒मो॒द - स्त॒र्पय॑न्ती - प्रमो॒दो - ज॒वस्त्रीणि॑ च) (अ. 1)

अनुवाकं 2 - अनुवाकेषु नवसु लेखासु नाभ्या-ञ्चेष्टकोपधानं
स्वयमातृण्णोपधान-ञ्चोच्यते
भूर॒ग्नि-ञ्च॑ पृथि॒वी-ञ्च॒ मा-ञ्च॑ ।
त्रीग्​श्च॑ लो॒का-न्थ्सं॑​वँथ्स॒र-ञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥
भुवो॑ वा॒यु-ञ्चा॒न्तरि॑क्ष-ञ्च॒ मा-ञ्च॑ । त्रीग्​श्च॑ लो॒का-न्थ्सं॑​वँथ्स॒र-ञ्च॑ ।
प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या-ऽ ङ्गिंर॒स्व-द्ध्रु॒वा सी॑द । स्व॑रादि॒त्य-ञ्च॒ दिव॑-ञ्च॒ मा-ञ्च॑ । त्रीग्​श्च॑ लो॒का-न्थ्सं॑​वँथ्स॒र-ञ्च॑ । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या ऽङ्गिंर॒स्व-द्ध्रु॒वा सी॑द । भूर्भुव॒-स्स्व॑-श्च॒न्द्रम॑स-ञ्च॒ दिश॑श्च॒ मा-ञ्च॑ ।
त्रीग्​श्च॑ लो॒का-न्थ्स॑वन्​थ्स॒र-ञ्च॑ । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 5 ॥
(सं॒​वँ॒थ्स॒र॒-ञ्च॒ षट् च॑)(आ2)

अनुवाकं 3 - अनुवाकेषु नवसु लेखासु नाभ्या-ञ्चेष्टकोपधानं स्वयमातृण्णोपधान-ञ्चोच्यते
त्वमे॒व त्वां-वेँ᳚त्थ॒ यो॑-ऽसि॒ सो-ऽसि॑ । त्वमे॒व त्वाम॑चैषीः । चि॒तश्चासि॒ सञ्चि॑त-श्चास्यग्ने । ए॒तावा॒ग्॒श्चासि॒ भूयाग्॑श्चास्यग्ने ।
यत्ते॑ अग्ने॒ न्यू॑नं॒-यँदु॒ ते-ऽति॑रिक्तम् । आ॒दि॒त्या-स्तदंङ्गि॑रस-श्चिन्वन्तु ।
विश्वे॑ ते दे॒वाश्चिति॒-मापू॑रयन्तु । चि॒तश्चासि॒ सञ्चि॑त-श्चास्यग्ने । ए॒तावा॒ग्॒श्चासि॒ भूयाग्॑श्चास्यग्ने । मा ते॑ अग्ने ऽच॒येन॒ मा-ऽति॑ च॒ येनायु॒रावृ॑क्षि । सव॑र्​षा॒-ञ्ज्योति॑षा॒-ञ्ज्योति॒ र्यद॒दावु॒देति॑ । तप॑सो जा॒तमनि॑-भृष्ट॒मोजः॑ । तत्ते॒ ज्योति॑रिष्टके । तेन॑ मे तप । तेन॑ मे ज्वल । तेन॑ मे दीदिहि ।
याव॑द्दे॒वाः । याव॒दसा॑ति॒ सूर्यः॑ । याव॑दु॒तापि॒ ब्रह्म॑ ॥ 6 ॥
(आवृ॑क्षि॒ नव॑ च) (अ. 3)

अनुवाकं 4 - अनुवाकेषु नवसु लेखासु नाभ्या-ञ्चेष्टकोपधानं स्वयमातृण्णोपधान-ञ्चोच्यते
सं॒​वँ॒थ्स॒रो॑-ऽसि परिवथ्स॒रो॑-ऽसि । इ॒दा॒व॒थ्स॒रो॑-ऽसी-दुवथ्स॒रो॑-ऽसि ।
इ॒द्व॒थ्स॒रो॑-ऽसि वथ्स॒रो॑-ऽसि । तस्य॑ ते वस॒न्त-श्शिरः॑ । ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र॒.षाः पुच्छ᳚म् । श॒रदुत्त॑रः प॒क्षः ।
हे॒म॒न्तो मद्ध्य᳚म् । पू॒र्व॒प॒क्षाश्चित॑यः । अ॒प॒र॒प॒क्षाः पुरी॑षम् ॥ 7 ॥

अ॒हो॒रा॒त्रा-णीष्ट॑काः । ऋ॒ष॒भो॑-ऽसि स्व॒र्गो लो॒कः । यस्या᳚-न्दि॒शि म॒हीय॑से । ततो॑ नो॒ मह॒ आव॑ह । वा॒यु र्भू॒त्वा सर्वा॒ दिश॒ आवा॑हि । सर्वा॒ दिशो-ऽनु॒ विवा॑हि । सर्वा॒ दिशो-ऽनु॒ सं​वाँ॑हि । चित्त्या॒ चिति॒-मापृ॑ण । अचि॑त्त्या॒ चिति॒-मापृ॑ण । चिद॑सि समु॒द्रयो॑निः ॥ 8 ॥

इन्दु॒ र्दक्ष॑-श्श्ये॒न ऋ॒तावा᳚ । हिर॑ण्यपक्ष-श्शकु॒नो भु॑र॒ण्युः । म॒हा-न्थ्स॒धस्थे᳚ ध्रु॒व आनिष॑त्तः । नम॑स्ते अस्तु॒ मा मा॑ हिग्ंसीः । एति॒ प्रेति॒ वीति॒ समित्युदिति॑ । दिव॑-म्मे यच्छ । अ॒न्तरि॑क्ष-म्मे यच्छ । पृ॒थि॒वी-म्मे॑ यच्छ ।
पृ॒थि॒वी-म्मे॑ यच्छ । अ॒न्तरि॑क्ष-म्मे यच्छ । दिव॑-म्मे यच्छ । अह्ना॒ प्रसा॑रय । रात्र्या॒ सम॑च । रात्र्या॒ प्रसा॑रय । अह्ना॒ सम॑च ।
काम॒-म्प्रसा॑रय । काम॒ग्ं॒ सम॑च ॥ 9 ॥
(पुरी॑षग्ं - समु॒द्रयो॑निः - पृथि॒वी-म्मे॑ यच्छा॒न्तरि॑क्ष-म्मे यच्छ स॒प्त च॑) (अ. 4)

अनुवाकं 5 - अनुवाकेषु नवसु लेखासु नाभ्या-ञ्चेष्टकोपधानं
स्वयमातृण्णोपधान-ञ्चोच्यते
भूर्भुव॒-स्स्वः॑ । ओजो॒ बल᳚म् । ब्रह्म॑ क्ष॒त्रम् । यशो॑ म॒हत् । स॒त्य-न्तपो॒ नाम॑ । रू॒प-म॒मृत᳚म् । चक्षु॒-श्श्रोत्र᳚म् । मन॒ आयुः॑ ।
विश्वं॒-यँशो॑ म॒हः । स॒म-न्तपो॒ हरो॒ भाः । जा॒तवे॑दा॒ यदि॑ वा पाव॒को-ऽसि॑ । वै॒श्वा॒न॒रो यदि॑ वा वैद्यु॒तो-ऽसि॑ । श-म्प्र॒जाभ्यो॒ यज॑मानाय लो॒कम् । ऊर्ज॒-म्पुष्टि॒-न्दद॑-द॒भ्याव॑वृथ्स्व ॥ 10 ॥
(भाश्च॒त्वारि॑ च) (अ. 5)

अनुवाकं 6 - अनुवाकेषु नवसु लेखासु नाभ्या-ञ्चेष्टकोपधानं
स्वयमातृण्णोपधान-ञ्चोच्यते
राज्ञी॑ विराज्ञी᳚ । स॒म्राज्ञी᳚ स्व॒राज्ञी᳚ । अ॒र्चि-श्शो॒चिः । तपो॒ हरो॒ भाः । अ॒ग्नि-रिन्द्रो॒ बृह॒स्पतिः॑ । विश्वे॑ दे॒वा भुव॑नस्य गो॒पाः ।
ते मा॒ सर्वे॒ यश॑सा॒ सग्ंसृ॑जन्तु ॥ 11 ॥
(राज्ञीन्द्रो॑ मा स॒प्त (अ. 6)

अनुवाकं 7 - अनुवाकेषु नवसु लेखासु नाभ्या-ञ्चेष्टकोपधानं स्वयमातृण्णोपधान-ञ्चोच्यते
अस॑वे॒ स्वाहा॒ वस॑वे॒ स्वाहा᳚ । विभु॑वे॒ स्वाहा॒ विव॑स्वते॒ स्वाहा᳚ । अ॒भि॒भुवे॒ स्वाहा-ऽधि॑पतये॒ स्वाहा᳚ । दि॒वाम्पत॑ये॒ स्वाहा ऽग्ं॑हस्प॒त्याय॒ स्वाहा᳚ । चा॒क्षु॒ष्म॒त्याय॒ स्वाहा᳚ ज्योतिष्म॒त्याय॒ स्वाहा᳚ । राज्ञे॒ स्वाहा॑ वि॒राज्ञे॒ स्वाहा᳚ । स॒म्राज्ञे॒ स्वाहा᳚ स्व॒राज्ञे॒ स्वाहा᳚ ।
शूषा॑य॒ स्वाहा॒ सूर्या॑य॒ स्वाहा᳚ । च॒न्द्रम॑से॒ स्वाहा॒ ज्योति॑षे॒ स्वाहा᳚ ।
स॒ग्ं॒सर्पा॑य॒ स्वाहा॑ क॒ल्याणा॑य॒ स्वाहा᳚ ।
अर्जु॑नाय॒ स्वाहा᳚ ॥ 12 ॥
(क॒ल्याणा॑य॒ स्वाहैक॑-ञ्च) (अ. 7)

अनुवाकं 8 - अनुवाकेषु नवसु लेखासु नाभ्या-ञ्चेष्टकोपधानं स्वयमातृण्णोपधान-ञ्चोच्यते
वि॒प॒श्चिते॒ पव॑मानाय गायत । म॒ही न धारा ऽत्यन्धो॑ अर्​षति । अहि॑र्​ह जी॒र्णामति॑सर्पति॒ त्वच᳚म् । अत्यो॒ न क्रीड॑न्न सर॒द्वृषा॒ हरिः॑ ।
उ॒प॒या॒मगृ॑हीतो-ऽसि मृ॒त्यवे᳚ त्वा॒ जुष्ट॑-ङ्गृह्णामि । ए॒ष ते॒ योनि॑र्मृ॒त्यवे᳚ त्वा ॥ अप॑ मृ॒त्यु-मप॒क्षुध᳚म् । अपे॒त-श्श॒पथ॑-ञ्जहि ।
अधा॑ नो अग्न॒ आव॑ह । रा॒यस्पोषग्ं॑ सह॒स्रिण᳚म् ॥ 13 ॥

ये ते॑ स॒हस्र॑म॒युत॒-म्पाशाः᳚ । मृत्यो॒ मर्त्या॑य॒ हन्त॑वे । तान्. य॒ज्ञस्य॑ मा॒यया᳚ । सर्वा॒नव॑ यजामहे ॥ भ॒क्षो᳚ ऽस्यमृत भ॒क्षः । तस्य॑ ते मृ॒त्यु-पी॑तस्या॒-मृत॑वतः ।
स्व॒गा-कृ॑तस्य॒ मधु॑मतः ।
उप॑हूत॒स्यो-प॑हूतो भक्षयामि ॥
म॒न्द्रा ऽभिभू॑तिः के॒तु र्य॒ज्ञानां॒-वाँक् । असा॒वेहि॑ ॥ 14 ॥

अ॒न्धो जागृ॑विः प्राण । असा॒वेहि॑ । ब॒धि॒र आ᳚क्रन्दयित-रपान । असा॒वेहि॑ । अ॒ह॒स्तोस्त्वा॒ चक्षुः॑ । असा॒वेहि॑ । अ॒पा॒दाशो॒ मनः॑ ।
असा॒वेहि॑ । कवे॒ विप्र॑चित्ते॒ श्रोत्र॑ । असा॒वेहि॑ ॥ 15 ॥

सु॒ह॒स्त-स्सु॑वा॒साः । शू॒षो नामा᳚स्य॒-मृतो॒ मर्त्ये॑षु । तन्त्वा॒-ऽह-न्तथा॒ वेद॑ । असा॒वेहि॑ । अ॒ग्निर्मे॑ वा॒चि श्रि॒तः । वाघृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि । वा॒युर्मे᳚ प्रा॒णे श्रि॒तः ॥ 16 ॥

प्रा॒णो हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
सूर्यो॑ मे॒ चक्षु॑षि श्रि॒तः ।
चक्षु॒र्॒ हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः ॥ 17 ॥

मनो॒ हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
दिशो॑ मे॒ श्रोत्रे᳚ श्रि॒ताः । श्रोत्र॒ग्ं॒ हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ ।
अ॒मृत॒-म्ब्रह्म॑णि । आपो॑ मे॒ रेत॑सि श्रि॒ताः ॥ 18 ॥

रेतो॒ हृद॑ये । हृद॑य॒-म्मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ता ।
शरी॑र॒ग्ं॒ हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि । ओ॒ष॒धि॒व॒न॒स्प॒तयो॑ मे॒ लोम॑सु श्रि॒ताः ॥ 19 ॥

लोमा॑नि॒ हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
इन्द्रो॑ मे॒ बले᳚ श्रि॒तः । बल॒ग्ं॒ हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ ।
अ॒मृत॒-म्ब्रह्म॑णि । प॒र्जन्यो॑ मे मू॒र्ध्नि श्रि॒तः ॥ 20 ॥

मू॒द्र्धा हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
ईशा॑नो मे म॒न्यौ श्रि॒तः । म॒न्युर्-हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ ।
अ॒मृत॒-म्ब्रह्म॑णि ।
आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः( ) ॥ 21 ॥

आ॒त्मा हृद॑ये । हृद॑य॒-म्मयि॑ । अ॒हम॒मृते᳚ । अ॒मृत॒-म्ब्रह्म॑णि ।
पुन॑र्म आ॒त्मा पुन॒रायु॒रागा᳚त् । पुनः॑ प्रा॒णः पुन॒राकू॑त॒-मागा᳚त् ।
वै॒श्वा॒न॒रो र॒श्मिभि॑ र्वावृधा॒नः । अ॒न्तस्ति॑ष्ठत्व॒मृत॑स्य गो॒पाः ॥ 22 ॥
(स॒ह॒स्रिण॑ - मिहि॒ - श्रोत्रासा॒वेहि॑ - प्रा॒णे श्रि॒तो - मन॑सि श्रि॒तो - रेत॑सि श्रि॒ता - लोम॑सु श्रि॒ता - मू॒र्ध्नि श्रि॒त - आ॒त्मनि॑ श्रि॒तो᳚ - +-ऽष्टौ च॑) (अ. 8)

(अ॒ग्नि-र्वा॒यु-स्सूर्य॑ श्च॒न्द्रमा॒ दिश॒ आपः॑ पृथि॒ व्यो॑षधिवनस्प॒तय॒ इन्द्रः॑ प॒र्जन्य॒ ईशा॑न आ॒त्मा पुन॑र्मे॒ त्रयो॑दश)

अनुवाकं 9 - अनुवाकेषु नवसु लेखासु नाभ्या-ञ्चेष्टकोपधानं स्वयमातृण्णोपधान-ञ्चोच्यते
प्र॒जाप॑ति र्दे॒वान॑सृजत । ते पा॒प्मना॒ सन्दि॑ता अजायन्त । तान् व्य॑द्यत् । य-द्व्य॒द्यत् । तस्मा᳚-द्वि॒द्युत् । तम॑वृश्चत् । यदवृ॑श्चत् । तस्मा॒-द्वृष्टिः॑ । तस्मा॒-द्यत्रै॒ते दे॒वते॑ अभि॒प्राप्नु॑तः ।
विच॑ है॒वास्य॒ तत्र॑ पा॒प्मान॒न्द्यतः॑ ॥ 23 ॥

वृ॒श्चत॑श्च ॥ सैषा मी॑मा॒ग्ं॒सा-ऽग्नि॑हो॒त्र ए॒व स॑पन्न्ना । अथो॑ आहुः ।
सर्वे॑षु यज्ञक्र॒तुष्विति॑ ॥
होष्य॑न्न॒प उप॑स्पृशेत् ।
विद्यु॑दसि॒ विद्य॑मे पा॒प्मान॒मिति॑ ।
अथ॑ हु॒त्वोप॑स्पृशेत् ।
वृष्टि॑रसि॒ वृश्च॑ मे पा॒प्मान॒मिति॑ ।
य॒क्ष्यमा॑णो वे॒ष्ट्वा वा᳚ । वि च॑ है॒वास्यै॒ते दे॒वते॑ पा॒प्मान॒-न्द्यतः॑ ॥ 24 ॥

वृ॒श्चत॑श्च ॥ अ॒त्य॒ग्ं॒हो हारु॑णिः । ब्र॒ह्म॒चा॒रिणे᳚ प्र॒श्ना-न्प्रोच्य॒ प्रजि॑घाय ।
परे॑हि । प्ल॒क्ष-न्दैयां᳚ (दैय्यां᳚) पाति-म्पृच्छ । वेत्थ॑ सावि॒त्रां(3) न वे॒त्था(3) इति॑ ।
तमा॒गत्य॑ पप्रच्छ । आ॒चार्यो॑ मा॒ प्राहै॑षीत् ।
वेत्थ॑ सावि॒त्रां(3) न वे॒त्था(3) इति॑ । सहो॑वाच॒ वेदेति॑ ॥ 25 ॥

स कस्मि॒-न्प्रति॑ष्ठित॒ इति॑ । प॒रोर॑ज॒सीति॑ ।
कस्तद्य-त्प॒रोर॑जा॒ इति॑ । ए॒ष वाव स प॒रोर॑जा॒ इति॑ होवाच । य ए॒ष तप॑ति ।
ए॒षो᳚ ऽर्वाग्र॑जा॒ इति॑ । स कस्मि॑-न्त्वे॒ष इति॑ । स॒त्य इति॑ । कि-न्तथ्स॒त्यमिति॑ । तप॒ इति॑ ॥ 26 ॥

कस्मि॒न्नु तप॒ इति॑ । बल॒ इति॑ ।
कि-न्त-द्ब॒लमिति॑ । प्रा॒ण इति॑ ।
मास्म॑ प्रा॒णमति॑ पृच्छ॒ इति॑ मा-ऽऽचा॒र्यो᳚ ऽब्रवी॒दिति॑ होवाच ब्रह्मचा॒री ॥
सहो॑वाच प्ल॒क्षो दैयां᳚ (दैय्यां᳚) पातिः ।
यद्वै ब्र॑ह्मचारि-न्प्रा॒णमत्य॑प्रक्ष्यः । मू॒द्र्धा ते॒ व्यप॑तिष्यत् ।
अ॒हमु॑त आचा॒र्या-च्छ्रेया᳚-न्भविष्यामि ।
यो मा॑ सावि॒त्रे स॒मवा॑दि॒ष्टेति॑ ॥ 27 ॥

तस्मा᳚-थ्सावि॒त्रे न सं​वँ॑देत ॥
स यो ह॒वै सा॑वि॒त्रं-विँ॒दुषा॑ सावि॒त्रे सं॒​वँद॑ते । सहा᳚स्मि॒-ञ्छ्रिय॑-न्दधाति ।
अनु॑ ह॒वा अ॑स्मा अ॒सौ तप॒ञ्छ्रिय॑-म्मन्यते ।
अन्व॑स्मै॒ श्रीस्तपो॑ मन्यते । अन्व॑स्मै॒ तपो॒ बल॑-म्मन्यते । अन्व॑स्मै॒ बल॑-म्प्रा॒ण-म्म॑न्यते ॥ स यदाह॑ ।
स॒ज्ञान्नं॑-विँ॒ज्ञान॒-न्दर्​शा॑ दृ॒ष्टेति॑ । ए॒ष ए॒व तत् ॥ 28 ॥

अथ॒ यदाह॑ । प्रस्तु॑तं॒-विँष्टु॑तग्ं सु॒ता सु॑न्व॒तीति॑ । ए॒ष ए॒व तत् ॥ ए॒ष ह्ये॑व तान्यहा॑नि । ए॒ष रात्र॑यः ॥ अथ॒ यदाह॑ ।
चि॒त्रः के॒तु र्दा॒ता प्र॑दा॒ता स॑वि॒ता प्र॑सवि॒ता ऽभि॑शा॒स्ता ऽनु॑म॒न्तेति॑ । ए॒ष ए॒व तत् । ए॒ष ह्ये॑व ते-ऽह्नो॑ मुहू॒र्ताः । ए॒ष रात्रेः᳚ ॥ 29 ॥

अथ॒ यदाह॑ । प॒वित्र॑-म्पवयि॒ष्यन्-थ्सह॑स्वा॒न्-थ्सही॑यानरु॒णो॑
-ऽरु॒णर॑जा॒ इति॑ । ए॒ष ए॒व तत् । ए॒ष ह्ये॑व ते᳚ ऽद्र्धमा॒साः । ए॒ष मासाः᳚ ॥ अथ॒ यदाह॑ ।
अ॒ग्नि॒ष्टो॒म उ॒क्थ्यो᳚-ऽग्निर्-ऋ॒तुः प्र॒जाप॑ति-स्सं​वँथ्स॒र इति॑ । ए॒ष ए॒व तत् । ए॒ष ह्ये॑व ते य॑ज्ञक्र॒तवः॑ । ए॒ष ऋ॒तवः॑ ॥ 30 ॥

ए॒ष सं॑​वँथ्स॒रः ॥ अथ॒ यदाह॑ । इ॒दानी᳚-न्त॒दानी॒मिति॑ । ए॒ष ए॒व तत् । ए॒ष ह्ये॑व ते मु॑हू॒र्ताना᳚-म्मुहू॒र्ताः ॥ ज॒न॒को ह॒ वै दे॑हः । अ॒हो॒रा॒त्रै-स्स॒माज॑गाम । तग्ं हो॑चुः । यो वा अ॒स्मान्. वेद॑ । वि॒जह॑त्-पा॒प्मान॑मेति ॥ 31 ॥

सर्व॒-मायु॑रेति । अ॒भि स्व॒र्गं-लोँ॒क-ञ्ज॑यति ।
नास्या॒-मुष्मि॑न् ँलो॒के-ऽन्न॑-ङ्क्षीयत॒ इति॑ ॥ वि॒जह॑द्ध॒ वै पा॒प्मान॑मेति ।
सर्व॒मायु॑रेति । अ॒भि स्व॒र्गं-लोँ॒क-ञ्ज॑यति ।
नास्या॒-मुष्मि॑न् ँलो॒के ऽन्न॑-ङ्क्षीयते ।
य ए॒वं-वेँद॑ ॥ अही॑ना॒ हाश्व॑त्थ्यः । सा॒वि॒त्रं-विँ॒दा-ञ्च॑कार ॥ 32 ॥

स ह॑ ह॒ग्ं॒सो हि॑र॒ण्मयो॑ भू॒त्वा । स्व॒र्गं-लोँ॒कमि॑याय । आ॒दि॒त्यस्य॒ सायु॑ज्यम् ॥ ह॒ग्ं॒सो ह॒वै हि॑र॒ण्मयो॑ भू॒त्वा ।
स्व॒र्गं-लोँ॒कमे॑ति । आ॒दि॒त्यस्य॒ सायु॑ज्यम् । य ए॒वं-वेँद॑ ॥ दे॒व॒भा॒गो ह॑ श्रौत॒र्॒षः । सा॒वि॒त्रं-विँ॒दा-ञ्च॑कार ।
तग्ं ह॒ वागदृ॑श्यमा॒ना ऽभ्यु॑वाच ॥ 33 ॥

सर्व॑म्बत गौत॒मो वे॑द । य-स्सा॑वि॒त्रं-वेँदेति॑ । स हो॑वाच । कैषा वाग॒सीति॑ । अ॒यम॒हग्ं सा॑वि॒त्रः । दे॒वाना॑-मुत्त॒मो लो॒कः । गुह्य॒-म्महो॒ बिभ्र॒दिति॑ । ए॒ताव॑ति ह गौत॒मः ।
य॒ज्ञो॒प॒वी॒त-ङ्कृ॒त्वा-ऽधो निप॑पात ।
नमो॒ नम॒ इति॑ ॥ 34 ॥

स हो॑वाच । मा भै॑षी र्गौतम । जि॒तो वै ते॑ लो॒क इति॑ ॥ तस्मा॒द्ये के च॑ सावि॒त्रं-विँ॒दुः । सर्वे॒ ते जि॒तलो॑काः ॥ स यो ह॒वै सा॑वि॒त्र-स्या॒ष्टाक्ष॑र-म्प॒दग्ग्​ श्रि॒या ऽभिषि॑क्तं॒-वेँद॑ । श्रि॒या है॒वाभिषि॑च्यते । घृणि॒रिति॒ द्वे अ॒क्षरे᳚ । सूर्य॒ इति॒ त्रीणि॑ । आ॒दि॒त्य इति॒ त्रीणि॑ ॥ 35 ॥

ए॒तद्वै सा॑वि॒त्र-स्या॒ष्टाक्ष॑र-म्प॒दग्ग्​ श्रि॒याभिषि॑क्तम् । य ए॒वं-वेँद॑ ।
श्रि॒या है॒वाभिषि॑च्यते ॥ तदे॒-तदृ॒चा-ऽभ्यु॑क्तम् । ऋ॒चो अ॒क्षरे॑ पर॒मे व्यो॑मन्न् ।
यस्मि॑-न्दे॒वा अधि॒ विश्वे॑ निषे॒दुः ।
यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति । य इ-त्तद्वि॒दुस्त इ॒मे समा॑सत॒ इति॑ ॥ न ह॒वा ए॒तस्य॒र्चा न यजु॑षा॒ न साम्ना-ऽर्थो᳚-ऽस्ति ।
य-स्सा॑वि॒त्रं-वेँद॑ ॥ 36 ॥

तदे॒त-त्प॑रि॒ यद्दे॑वच॒क्रम् ।
आ॒र्द्र-म्पिन्व॑मानग्ग्​ स्व॒र्गे लो॒क ए॑ति ।
वि॒जह॒-द्विश्वा॑ भू॒तानि॑ स॒पंश्य॑त् ॥
आ॒र्द्रो ह॒ वै पिन्व॑मान-स्स्व॒र्गे लो॒क ए॑ति ।
वि॒जह॒न् विश्वा॑ भू॒तानि॑ स॒पंश्यन्न्॑ । य ए॒वं-वेँद॑ ॥ शू॒षो ह॒वै वा᳚र्​ष्णे॒यः । आ॒दि॒त्येन॑ स॒माज॑गाम । तग्ं हो॑वाच ।
एहि॑ सावि॒त्रं-विँ॑द्धि । अ॒यं-वैँ स्व॒र्ग्यो᳚-ऽग्निः पा॑रयि॒ष्णु-र॒मृता॒-थ्सम्भू॑त॒ इति॑ । ए॒ष वाव स सा॑वि॒त्रः ।
य ए॒ष तप॑ति । एहि॒ मां-विँ॑द्धि । इति॑ है॒वैन॒-न्तदु॑वाच ॥ 37 ॥
(द्यतो॒ - द्यतो॒ - वेदेति॒ - तप॒ इति॑ - स॒मवा॑दि॒ष्टेति॒ - त-द्- रात्रेर्॑. - ऋ॒तवः॑ - एति - चकारो - वाच॒ - नम॒ इत्या॑ - दि॒त्य इति॒ त्रीणि॑ - सावि॒त्रं-वेँद॑ - विद्धि॒ पञ्च॑ च) (अ. 9)

(प्र॒जाप॑तिर्दे॒वान् स॒ज्ञान्न॒-म्प्रस्तु॑त॒-न्तान्यहा᳚न्ये॒ष रात्र॑यास्चि॒त्र के॒तुस्ते-ऽह्नो॑ मुहू॒र्तो रात्रेः᳚ प॒वित्र॒-न्ते᳚-ऽर्ध मा॒सा अ॑ग्निष्टो॒मो य॑ज्ञक्र॒तव॑ इ॒दानी᳚-म्मुहू॒र्ताना᳚-ञ्जन॒को-ऽही॑ना देवभा॒गः कैषा वाम्म शू॒षो ह॒ वै षोड॑श)

अनुवाकं 10 - अनुवाकेषु नवसु लेखासु नाभ्या-ञ्चेष्टकोपधानं स्वयमातृण्णोपधान-ञ्चोच्यते

इ॒यं-वाँव स॒रघा᳚ । तस्या॑ अ॒ग्निरे॒व सा॑र॒घ-म्मधु॑ । या ए॒ताः पू᳚र्वपक्षा-परप॒क्षयो॒ रात्र॑यः । ता म॑धु॒कृतः॑ ।
यान्यहा॑नि । ते म॑धुवृ॒षाः ।
स यो ह॒ वा ए॒ता म॑धु॒कृत॑श्च मधुवृ॒षाग्​श्च॒ वेद॑ ।
कु॒र्वन्ति॑ हास्यै॒ता अ॒ग्नौ मधु॑ । नास्ये᳚ष्टापू॒र्त-न्ध॑यन्ति ॥
अथ॒ यो न वेद॑ ॥ 38 ॥
न हा᳚स्यै॒ता अ॒ग्नौ मधु॑ कुर्वन्ति । धय॑न्त्यस्येष्टापू॒र्तम् ॥
यो ह॒ वा अ॑होरा॒त्राणा᳚-न्नाम॒धेया॑नि॒ वेद॑ ।
नाहो॑रा॒त्रेष्वा-र्ति॒मार्च्छ॑ति । स॒ज्ञान्नं॑-विँ॒ज्ञान॒-न्दर्​शा॑ दृ॒ष्टेति॑ ।
ए॒ता-व॑नुवा॒कौ पू᳚र्वप॒क्षस्या॑-होरा॒त्राणा᳚-न्नाम॒धेया॑नि । प्रस्तु॑तं॒-विँष्टु॑तग्ं सु॒ता सु॑न्व॒तीति॑ । ए॒ताव॑नु-वा॒काव॑-परप॒क्षस्या॑-होरा॒त्राणा᳚-न्नाम॒धेया॑नि ।
नाहो॑रा॒त्रेष्वा-र्ति॒मार्च्छ॑ति । य ए॒वं-वेँद॑ ॥ 39 ॥

यो ह॒ वै मु॑हू॒र्ताना᳚-न्नाम॒धेया॑नि॒ वेद॑ । न मु॑हू॒र्तेष्वा-र्ति॒मार्च्छ॑ति । चि॒त्रः के॒तु र्दा॒ता प्र॑दा॒ता स॑वि॒ता प्र॑सवि॒ता ऽभि॑शा॒स्ता ऽनु॑म॒न्तेति॑ । ए॒ते॑-ऽनुवा॒का मु॑हू॒र्ताना᳚-न्नाम॒धेया॑नि । न मु॑हू॒र्तेष्वा-र्ति॒मार्च्छ॑ति । य ए॒वं-वेँद॑ ॥ यो ह॒ वा अ॑द्र्धमा॒सा-ना᳚ञ्च॒ मासा॑नाञ्च नाम॒धेया॑नि॒ वेद॑ ।
नाद्र्ध॑मा॒सेषु॒ न मासे॒ष्वा-र्ति॒मार्च्छ॑ति ।
प॒वित्र॑-म्पवयि॒ष्यन्-थ्सह॑स्वा॒न्-थ्सही॑यानरु॒णो॑ ऽरु॒णर॑जा॒ इति॑ ।
ए॒ते॑-ऽनुवा॒का अ॑द्र्धमा॒साना᳚ञ्च॒ मासा॑नाञ्च नाम॒धेया॑नि ॥ 40 ॥

नाद्र्ध॑म॒सेषु॒ न मासे॒ष्वा-र्ति॒मार्च्छ॑ति । य ए॒वं-वेँद॑ ॥
यो ह॒ वै य॑ज्ञक्रतू॒ना-ञ्च॑र्तू॒ना-ञ्च॑ सं​वँथ्स॒रस्य॑ च नाम॒धेया॑नि॒ वेद॑ ।
न य॑ज्ञक्र॒तुषु॒ नर्तुषु॒ न सं॑​वँथ्स॒र आर्ति॒मार्च्छ॑ति । अ॒ग्नि॒ष्टो॒म उ॒क्थ्यो᳚-ऽग्निर्-ऋ॒तुः प्र॒जाप॑ति-स्सं​वँथ्स॒र इति॑ ।
ए॒ते॑ ऽनुवा॒का य॑ज्ञक्रतू॒ना-ञ्च॑र्तू॒ना-ञ्च॑ सं​वँथ्स॒रस्य॑ च नाम॒धेया॑नि ।
न य॑ज्ञक्र॒तुषु॒ नर्तुषु॒ न सं॑​वँथ्स॒र आर्ति॒मार्च्छ॑ति । य ए॒वं-वेँद॑ ॥
यो ह॒ वै मु॑हू॒र्ताना᳚-म्मुहू॒र्तान्. वेद॑ ।
न मु॑हू॒र्ताना᳚-म्मुहू॒र्तेष्वार्ति॒ मार्च्छ॑ति ॥ 41 ॥

इ॒दानी᳚-न्त॒दानी॒मिति॑ । ए॒ते वै मु॑हू॒र्ताना᳚-म्मुहू॒र्ताः । न मु॑हू॒र्ताना᳚-म्मुहू॒र्तेष्वार्ति॒-मार्च्छ॑ति । य ए॒वं-वेँद॑ ॥
अथो॒ यथा᳚ क्षेत्र॒ज्ञो भू॒त्वा ऽनु॑ प्र॒विश्यान्न॒-मत्ति॑ । ए॒वमे॒वैतान् क्षे᳚त्र॒ज्ञो भू॒त्वा ऽनु॑ प्र॒विश्या-न्न॑मत्ति । स ए॒तेषा॑मे॒व स॑लो॒कता॒ग्ं॒ सायु॑ज्य-मश्नुते ।
अप॑ पुनर्मृ॒त्यु-ञ्ज॑यति । य ए॒वं-वेँद॑ ॥ 42 ॥
(न वेदै॒ - वं-वेँदा॑ - नुवा॒का अ॑द्र्धमा॒साना᳚-ञ्च॒ मसा॑ना-ञ्च नाम॒धेया॑नि - मुहू॒र्तेष्वार्ति॒मार्च्छ॑ति॒ - +नव॑ च) (अ. 10)

(इ॒यम॑होरा॒त्राणाग्ं॑ स॒ज्ञान्न॑-म्पूर्वप॒क्षस्य॒ प्रस्तु॑तमपरप॒क्षस्य॑ मुहू॒र्ताना᳚-ञ्चि॒त्रः के॒तुर॑द्र्धमा॒साना᳚-म्प॒वित्रं॑-यँज्ञक्रतू॒नाम॑ग्निष्टो॒मो य॑ज्ञक्रतू॒नामि॒दानी᳚-म्मुहू॒र्ताना᳚-म्मुहू॒र्तान्. वे॒देदानी॒मथो॒ द्वाद॑श)

अनुवाकं 11 - अनुवाकेषु नवसु लेखासु नाभ्या-ञ्चेष्टकोपधानं स्वयमातृण्णोपधान-ञ्चोच्यते
कश्चि॑द्ध॒वा अ॒स्मा-ल्लो॒का-त्प्रेत्य॑ । आ॒त्मानं॑-वेँद । अ॒य-म॒ह-म॒स्मीति॑ । कश्चि॒थ्स्वं-लोँ॒क-न्न प्रति॒ प्रजा॑नाति ॥ अ॒ग्निमु॑ग्धो है॒व धु॒मता᳚न्तः । स्वं-लोँ॒क-न्न प्रति॒ प्रजा॑नाति ।
अथ॒ यो है॒वैत-म॒ग्निग्ं सा॑वि॒त्रं-वेँद॑ ।
स ए॒वास्मा ल्लो॒का-त्प्रेत्य॑ । आ॒त्मानं॑-वेँद ।
अ॒य-म॒ह-म॒स्मीति॑ ॥ 43 ॥

स स्वं-लोँ॒क-म्प्रति॒ प्रजा॑नाति ॥ ए॒ष उ॑ वे॒वैन॒-न्तथ्सा॑वि॒त्रः । स्व॒र्गं-लोँ॒क-म॒भिव॑हति ॥ अ॒हो॒रा॒त्रै र्वा इदग्ं स॒युग्भिः॑ क्रियते । इ॒ति॒ रा॒त्राया॑ दीक्षिषत । इ॒ति॒ रा॒त्राय॑ व्र॒त-मुपा॑गु॒रिति॑ । तानि॒ हाने॑वं-विँ॒दुषः॑ । अ॒मुष्मि॑न् ँलो॒के शे॑व॒धि-न्ध॑यन्ति ।
धी॒तग्ं है॒व स शे॑व॒धि-मनु॒परै॑ति ॥
अथ॒ यो है॒वैतम॒ग्निग्ं सा॑वि॒त्रं-वेँद॑ ॥ 44 ॥

तस्य॑ है॒वा-हो॑रा॒त्राणि॑ । अ॒मुष्मि॑न् ँलो॒के शे॑व॒धि-न्न ध॑यन्ति ।
अधी॑तग्ं है॒व स शे॑व॒धि-मनु॒परै॑ति ॥
भ॒रद्वा॑जो ह त्रि॒भिरायु॑र्भि र्ब्रह्म॒चर्य॑मुवास ।
तग्ं ह॒ जीर्णि॒ग्ग्॒ स्थवि॑र॒ग्ं॒ शया॑नम् ।
इन्द्र॑ उप॒व्रज्यो॑ वाच । भर॑द्वाज । यत्ते॑ चतु॒र्थमायु॑र्द॒द्याम् । किमे॑नेन कुर्या॒ इति॑ । ब्र॒ह्म॒चर्य॑मे॒वैने॑न चरेय॒मिति॑ होवाच ॥ 45 ॥

तग्ं ह॒ त्री-न्गि॒रि-रू॑पा॒न वि॑ज्ञातानिव दर्​श॒या-ञ्च॑कार । तेषा॒ग्ं॒ हैकै॑कस्मा-न्मु॒ष्टिना-ऽऽद॑दे । स हो॑वाच ।
भर॑द्वा॒जेत्या॒मन्त्र्य॑ । वेदा॒ वा ए॒ते । अ॒न॒न्ता वै वेदाः᳚ । ए॒तद्वा ए॒तै स्त्रि॒भि-रायु॑र्भि॒-रन्व॑वोचथाः । अथ॑ त॒ इत॑र॒-दन॑नूक्तमे॒व । एही॒मं-विँ॑द्धि । अ॒यं-वैँ स॑र्व वि॒द्येति॑ ॥ 46 ॥

तस्मै॑ है॒तम॒ग्निग्ं सा॑वि॒त्रमु॑वाच । तग्ं स वि॑दि॒त्वा । अ॒मृतो॑ भू॒त्वा । स्व॒र्गं-लोँ॒कमि॑याय । आ॒दि॒त्यस्य॒ सायु॑ज्यम् ॥
अ॒मृतो॑ है॒व भू॒त्वा । स्व॒र्गं-लोँ॒कमे॑ति । आ॒दि॒त्यस्य॒ सायु॑ज्यम् । य ए॒वं-वेँद॑ ॥ ए॒षो ए॒व त्रयी॑ वि॒द्या ॥ 47 ॥

याव॑न्तग्ं ह॒ वै त्र॒य्या वि॒द्यया॑ लो॒क-ञ्ज॑यति । ताव॑न्तं-लोँ॒क-ञ्ज॑यति । य ए॒वं-वेँद॑ ॥ अ॒ग्ने र्वा ए॒तानि॑ नाम॒धेया॑नि ।
अ॒ग्नेरे॒व सायु॑ज्यग्ं सलो॒कता॑-माप्नोति ।
य ए॒वं-वेँद॑ । वा॒यो र्वा ए॒तानि॑ नाम॒धेया॑नि । वा॒योरे॒व सायु॑ज्यग्ं सलो॒कता॑-माप्नोति । य ए॒वं-वेँद॑ । इन्द्र॑स्य॒ वा ए॒तानि॑ नाम॒धेया॑नि ॥ 48 ॥

इन्द्र॑स्यै॒व सायु॑ज्यग्ं सलो॒कता॑-माप्नोति । य ए॒वं-वेँद॑ ।
बृह॒स्पते॒ र्वा ए॒तानि॑ नाम॒धेया॑नि ।
बृह॒स्पते॑रे॒व सायु॑ज्यग्ं सलो॒कता॑-माप्नोति ।
य ए॒वं-वेँद॑ । प्र॒जाप॑ते॒ र्वा ए॒तानि॑ नाम॒धेया॑नि । प्र॒जाप॑तेरे॒व सायु॑ज्यग्ं सलो॒कता॑-माप्नोति । य ए॒वं-वेँद॑ ।
ब्रह्म॑णो॒ वा ए॒तानि॑ नाम॒धेया॑नि ।
ब्रह्म॑ण ए॒व सायु॑ज्यग्ं सलो॒कता॑-माप्नोति ।
य ए॒वं-वेँद॑ ॥ स वा ए॒षो᳚-ऽग्नि-र॑पक्षपु॒च्छो वा॒युरे॒व ।
तस्या॒ग्नि र्मुख᳚म् । अ॒सावा॑दि॒त्य-श्शिरः॑ ।
स यदे॒ते दे॒वते॒ अन्त॑रेण ।
तथ्सर्वग्ं॑ सीव्यति । तस्मा᳚-थ्सावि॒त्रः ॥ 49 ॥
(अ॒यम॒हम॒स्मीति॒ - वेद॑ - होवाच - सर्ववि॒द्येति॑ - वि॒द्ये - न्द्र॑स्य॒ वा ए॒तानि॑ नाम॒धेया॑नि॒ - ब्रह्म॑ण ए॒व सायु॑ज्यग्ं सलो॒कता॑माप्नोति स॒प्त च॑) । (अ. 11)

(अ॒ग्नेर्वा॒योरिन्द्र॑स्य॒ बृह॒स्पतेः᳚ प्र॒जाप॑ते॒-र्ब्रह्म॑ण॒-स्स वै स॒प्त)

(स॒ञ्ज्ञानं॒ - भू - स्त्वमे॒व - सं॑​वँथ्स॒रो॑-ऽसि॒ - भू - राज्ञ्य - स॑व-विप॒श्चिते᳚ - प्र॒जाप॑ति-र्दे॒वा - नि॒यं-वाँव स॒रघा॒ - कश्चि॒द्धैका॑दश)

(स॒ञ्ज्ञान॒ग्ं॒ - राज्ञी॑ - मू॒द्र्धा हृद॑य - ए॒ष सं॑​वँथ्स॒रो - नाद्र्ध॑मा॒सेषु॒ नव॑चत्वारिग्ंशत्)

(स॒ञ्ज्ञानग्ं॑ - सावि॒त्रः)

॥ हरिः॑ ओम् ॥

॥ इति तैत्तरीय यजुब्राह्मणे काठके प्रथमः प्रश्न-स्समाप्तः ॥
++++++++++++++++++++++++++++++++++++++++++




Browse Related Categories: