View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

3.5 - इष्टिहौत्रम् - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - सत्यं प्रपद्ये

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके पञ्चमः प्रपाठकः - इष्टिहौत्रम्

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अनुवाकं 1 - होतुर्जपः पुरस्ता-थ्सामिधेनीनाम्

स॒त्य-म्प्रप॑द्ये । ऋ॒त-म्प्रप॑द्ये ।
अ॒मृत॒-म्प्रप॑द्ये ।
प्र॒जाप॑तेः प्रि॒या-न्त॒नुव॒मना᳚र्ता॒-म्प्रप॑द्ये ।
इ॒दम॒ह-म्प॑ञ्चद॒शेन॒ वज्रे॑ण ।
द्वि॒षन्त॒-म्भ्रातृ॑व्य॒मव॑क्रामामि ।
यो᳚-ऽस्मा-न्द्वेष्टि॑ । य-ञ्च॑ व॒य-न्द्वि॒ष्मः ।
भूर्भुव॒-स्सुवः॑ । हिम् ॥ 1 ॥
(स॒त्य-न्दश॑) (अ. 1)

अनुवाकं 2 - सामिधेनीम्रन्वाह
प्र वो॒ वाजा॑ अ॒भिद्य॑वः । ह॒विष्म॑न्तो घृ॒ताच्या᳚ ।
दे॒वाञ्जि॑गाति सुम्न॒युः ॥ अग्न॒ आया॑हि वी॒तये᳚ । गृ॒णा॒नो ह॒व्यदा॑तये । नि होता॑ सथ्सि ब॒र॒ःइषि॑ ॥ त-न्त्वा॑ स॒मिद्भि॑रङ्गिरः । घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य ॥ स नः॑ पृ॒थु श्र॒वाय्य᳚म् ॥ 2 ॥

अच्छा॑ देव विवाससि । बृ॒हद॑ग्ने सु॒वीर्य᳚म् ॥
ई॒डेन्यो॑ नम॒स्य॑स्ति॒रः । तमाग्ं॑सि दर्​श॒तः । सम॒ग्निरि॑द्ध्यते॒ वृषा᳚ ॥ वृषो॑ अ॒ग्नि-स्समि॑द्ध्यते । अश्वो॒ न दे॑व॒वाह॑नः ।
तग्ं ह॒विष्म॑न्त ईडते ॥ वृष॑ण-न्त्वा व॒यं-वृँषन्न्॑ । वृषा॑ण॒-स्समि॑धीमहि ॥ 3 ॥
अग्ने॒ दीद्य॑त-म्बृ॒हत् ॥ अ॒ग्नि-न्दू॒तं-वृँ॑णीमहे ।
होता॑रं-विँ॒श्ववे॑दसम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु᳚म् ॥ स॒मि॒द्ध्यमा॑नो अद्ध्व॒रे । अ॒ग्निः पा॑व॒क ईड्यः॑ । शो॒चिष्के॑श॒स्तमी॑महे ॥ समि॑द्धो अग्न आहुत । दे॒वान्. य॑क्षि स्वद्ध्वर । त्वग्ं हि ह॑व्य॒वाडसि॑ ॥
आजु॑होत दुव॒स्यत॑ । अ॒ग्नि-म्प्र॑य॒त्य॑द्ध्व॒रे ।
वृ॒णी॒द्ध्वग्ं ह॑व्य॒वाह॑नम् ॥
त्वं-वँरु॑ण उ॒त मि॒त्रो अ॑ग्ने । त्वां-वँ॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः । त्वे वसु॑ सुषण॒नानि॑ सन्तु । यू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः ॥ 4 ॥
(श्र॒वाय्य॑ - मिधीम॒ - ह्यसि॑ स॒प्त च॑) (अ. 2)

अनुवाकं 3 - प्ररमुक्त्वा निविदो-ऽनूच्य देवता आवाहयति
अग्ने॑ म॒हाग्ं अ॑सि ब्राह्मण भारत । असा॒वसौ᳚ ॥
दे॒वेद्धो॒ मन्वि॑द्धः । ऋषि॑ष्टुतो॒ विप्रा॑नुमदितः । क॒वि॒श॒स्तो ब्रह्म॑सग्ंशितो घृ॒ताह॑वनः ।
प्र॒णी-र्य॒ज्ञाना᳚म् । र॒थीर॑द्ध्व॒राणा᳚म् ।
अ॒तूर्तो॒ होता᳚ । तूर्णि॑र्​हव्य॒वाट् ।
आस्पात्र॑-ञ्जु॒हू-र्दे॒वाना᳚म् ॥ 5 ॥

च॒म॒सो दे॑व॒पानः॑ । अ॒राग्ं इ॑वाग्ने ने॒मिर्दे॒वाग्​स्त्व-म्प॑रि॒भूर॑सि । आव॑ह दे॒वान्. यज॑मानाय ॥ अ॒ग्निम॑ग्न॒ आव॑ह । सोम॒माव॑ह ।
अ॒ग्निमाव॑ह । प्र॒जाप॑ति॒माव॑ह । अ॒ग्नीषोमा॒वाव॑ह । इ॒न्द्रा॒ग्नी आव॑ह । इन्द्र॒माव॑ह । म॒हे॒न्द्रमाव॑ह । दे॒वाग्ं आ᳚ज्य॒पाग्ं आव॑ह ।
अ॒ग्निग्ं हो॒त्रायाव॑ह । स्व-म्म॑हि॒मान॒माव॑ह । आ चा᳚ग्ने दे॒वान्. वह॑ । सु॒यजा॑ च यज जातवेदः ॥ 6 ॥
(दे॒वाना॒-मिन्द्र॒माव॑ह॒ षट्च॑) (अ. 3)

अनुवाकं 4 - स्रुचावादापयति
अ॒ग्निर्-होता॒ वेत्व॒ग्निः । हो॒त्रं-वेँ᳚त्तु प्रावि॒त्रम् । स्मो व॒यम् । सा॒धु ते॑ यजमान दे॒वता᳚ । घृ॒तव॑ती-मद्ध्वर्यो॒ स्रुच॒मा-ऽस्य॑स्व । दे॒वा॒युवं॑-विँ॒श्ववा॑राम् । ईडा॑महै दे॒वाग्ं ई॒डेन्यान्॑ ।
न॒म॒स्याम॑ नम॒स्यान्॑ । यजा॑म य॒ज्ञियान्॑ ॥ 7 ॥
(अ॒ग्निर्-होता॒ नव॑) (अ. 4)

अनुवाकं 5 - प्रयाजाः
स॒मिधो॑ अग्न॒ आज्य॑स्य वियन्तु । तनू॒नपा॑दग्न॒ आज्य॑स्य वेतु । इ॒डो अ॑ग्न॒ आज्य॑स्य वियन्तु । ब॒र्॒हिर॑ग्न॒ आज्य॑स्य वेतु । स्वाहा॒-ऽग्निम् । स्वाहा॒ सोम᳚म् । स्वाहा॒-ऽग्निम् । स्वाहा᳚ प्र॒जाप॑तिम् ।
स्वाहा॒-ऽग्नीषोमौ᳚ । स्वाहे᳚न्द्रा॒ग्नी । स्वाहेन्द्र᳚म् ।
स्वाहा॑ महे॒न्द्रम् । स्वाहा॑ दे॒वाग्ं आ᳚ज्य॒पान् । स्वाहा॒-ऽग्निग्ं हो॒त्राज्जु॑षा॒णाः ।
अग्न॒ आज्य॑स्य वियन्तु ॥ 8 ॥
(इ॒न्द्रा॒ग्नी पञ्च॑ च) (अ. 5)

अनुवाकं 6 - अज्यभागयोः पुरोनुवाक्ये
अ॒ग्नि-र्वृ॒त्राणि॑ जङ्घनत् । द्र॒वि॒ण॒स्यु-र्वि॑प॒न्यया᳚ ।
समि॑द्ध-श्शु॒क्र आहु॑तः । जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु । त्वग्ं सो॑मासि॒ सत्प॑तिः । त्वग्ं राजो॒त वृ॑त्र॒हा ।
त्व-म्भ॒द्रो अ॑सि॒ क्रतुः॑ । जु॒षा॒ण-स्सोम॒ आज्य॑स्य ह॒विषो॑ वेतु । अ॒ग्निः प्र॒त्नेन॒ जन्म॑ना । शुम्भा॑नस्त॒नुव॒ग्ग्॒ स्वाम् ।
क॒वि-र्विप्रे॑ण वावृधे । जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु ।
सोम॑ गी॒र्भिष्ट्वा॑ व॒यम् । व॒र्धया॑मो वचो॒विदः॑ । सु॒मृ॒डी॒को न॒ आवि॑श ।
जु॒षा॒ण-स्सोम॒ आज्य॑स्य ह॒विषो॑ वेतु ॥ 9 ॥
(स्वाग्ं षट्च॑) (अ. 6)

अनुवाकं 7 - हविषां-याँज्यानुवाक्याः
अ॒ग्नि-र्मू॒र्धा दि॒वः क॒कुत् । पतिः॑ पृथि॒व्या अ॒यम् ।
अ॒पाग्ं रेताग्ं॑सि जिन्वति । भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता । यत्रा॑ नि॒युद्भि॒-स्सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धान॑-न्दधिषे सुव॒र्॒षाम् ।
जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह᳚म् । प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः । विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्-का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु ॥ 10 ॥

व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् । स वे॑द पु॒त्रः पि॒तर॒ग्ं॒ स मा॒तर᳚म् । स सू॒नुर्भु॑व॒थ्स भु॑व॒त्पुन॑र्मघः । स द्यामौर्णो॑द॒न्तरि॑क्ष॒ग्ं॒ स सुवः॑ । स विश्वा॒ भुवो॑ अभव॒थ्स आ-ऽभ॑वत् । अग्नी॑षोमा॒ सवे॑दसा । सहू॑ती वनत॒-ङ्गिरः॑ । स-न्दे॑व॒त्रा ब॑भूवथुः । यु॒वमे॒तानि॑ दि॒वि रो॑च॒नानि॑ ।
अ॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् ॥ 11 ॥

यु॒वग्ं सिन्धूग्ं॑ र॒भिश॑स्ते-रव॒द्यात् । अग्नी॑षोमा॒-वमु॑ञ्चत-ङ्गृभी॒तान् ।
इन्द्रा᳚ग्नी रोच॒ना दि॒वः । परि॒ वाजे॑षु भूषथः ।
तद्वा᳚-ञ्चेति॒ प्रवी॒र्य᳚म् । श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज᳚म् । इन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् ।
इ॒र॒ज्यन्ता॑ वस॒व्य॑स्य॒ भूरेः᳚ । सह॑स्तमा॒ सह॑सा वाज॒यन्ता᳚ । एन्द्र॑ सान॒सिग्ं र॒यिम् ॥ 12 ॥
स॒जित्वा॑नग्ं सदा॒सह᳚म् । वर्​षि॑ष्ठमू॒तये॑ भर । प्रस॑साहिषे पुरुहूत॒ शत्रून्॑ । ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु । इन्द्राभ॑र॒ दक्षि॑णेना॒ वसू॑नि । पति॒-स्सिन्धू॑नामसि रे॒वती॑नाम् । म॒हाग्ं इन्द्रो॒ य ओज॑सा । प॒र्जन्यो॑ वृष्टि॒माग्ं इ॑व ।
स्तोमै᳚र्व॒थ्सस्य॑ वावृधे ।
म॒हां इन्द्रो॑ नृ॒वदाच॑र्​षणि॒प्राः ॥ 13 ॥

उ॒त द्वि॒बर्​हा॑ अमि॒न-स्सहो॑भिः । अ॒स्म॒द्रिय॑ग्वावृधे वी॒र्या॑य ।
उ॒रुः पृ॒थु-स्सुकृ॑तः क॒र्तृभि॑र्भूत् ।
पि॒प्री॒हि दे॒वाग्ं उ॑श॒तो य॑विष्ठ ।
वि॒द्वां ऋतूग्ंर्-ऋ॑तुपते यजे॒ह ।
ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने ।
त्वग्ं होतॄ॑णाम॒स्याय॑जिष्ठः ॥
अ॒ग्निग्ग्​ स्वि॑ष्ट॒कृत᳚म् । अया॑ड॒ग्निर॒ग्नेः प्रि॒या धामा॑नि । अया॒ट्थ्सोम॑स्य प्रि॒या धामा॑नि ॥ 14 ॥

अया॑ड॒ग्नेः प्रि॒या धामा॑नि । अया᳚ट्प्र॒जाप॑तेः प्रि॒या धामा॑नि । अया॑ड॒ग्नीषोम॑योः प्रि॒या धामा॑नि । अया॑डिन्द्राग्नि॒योः प्रि॒या धामा॑नि ।
अया॒डिन्द्र॑स्य प्रि॒या धामा॑नि । अया᳚ण्महे॒न्द्रस्य॑ प्रि॒या धामा॑नि । अया᳚ड्दे॒वाना॑-माज्य॒पाना᳚-म्प्रि॒या धामा॑नि । यक्ष॑द॒ग्नेर्-होतुः॑ प्रि॒या धामा॑नि । यक्ष॒थ्स्व-म्म॑हि॒मान᳚म् । आय॑जता॒मेज्या॒ इषः॑ । कृ॒णोतु॒ सो अ॑द्ध्व॒रा जा॒तवे॑दाः । जु॒षताग्ं॑ ह॒विः । अग्ने॒ यद॒द्य वि॒शो अ॑द्ध्वरस्य होतः ।
पाव॑क शोचे॒ वेष्ट्वग्ं हि यज्वा᳚ । ऋ॒ता य॑जासि महि॒ना वि यद्भूः ।
ह॒व्या व॑ह यविष्ठ॒ या ते॑ अ॒द्य ॥ 15 ॥
(अ॒स्त्व॒ - ध॒त्त॒ग्ं - र॒यिं - च॑र्​षणि॒प्राः - सोम॑स्य प्रि॒या धामा॒ - नीष॒-ष्षट्च॑) (अ. 7)

अनुवाकं 8 - इडोपाह्वानाम्
उप॑हूतग्ं रथन्त॒रग्ं स॒ह पृ॑थि॒व्या ।
उप॑ मा रथन्त॒रग्ं स॒ह पृ॑थि॒व्या ह्व॑यताम् ।
उप॑हूतं-वाँमदे॒व्यग्ं स॒हान्तरि॑क्षेण ।
उप॑ मा वामदे॒व्यग्ं स॒हान्तरि॑क्षेण ह्वयताम् ।
उप॑ हूत-म्बृ॒हथ्स॒ह दि॒वा । उप॑ मा बृ॒हथ्स॒ह दि॒वा ह्व॑यताम् । उप॑हूता-स्स॒प्त होत्राः᳚ ।
उप॑ मा स॒प्त होत्रा᳚ ह्वयन्ताम् । उप॑हूता धे॒नु-स्स॒हर्​ष॑भा । उप॑ मा धे॒नु-स्स॒हर्​ष॑भा ह्वयताम् ॥ 16 ॥

उप॑हूतो भ॒क्ष-स्सखा᳚ । उप॑ मा भ॒क्ष-स्सखा᳚ ह्वयताम् । उप॑हू॒ताँ(4) हो । इडोप॑हूता । उप॑हू॒तेडा᳚ । उपो॑ अ॒स्माग्ं इडा᳚ ह्वयताम् । इडोप॑हूता । उप॑हू॒तेडा᳚ । मा॒न॒वी घृ॒तप॑दी मैत्रावरु॒णी ।
ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूतम् ॥ 17 ॥

दैव्या॑ अद्ध्व॒र्यव॒ उप॑हूताः । उप॑हूता मनु॒ष्याः᳚ । य इ॒मं-यँ॒ज्ञमवान्॑ । ये य॒ज्ञप॑तिं॒-वँर्धान्॑ । उप॑हूते॒ द्यावा॑पृथि॒वी ।
पू॒र्व॒जे ऋ॒ताव॑री । दे॒वी दे॒वपु॑त्रे । उप॑हूतो॒-ऽयं-यँज॑मानः । उत्त॑रस्या-न्देवय॒ज्याया॒-मुप॑हूतः । भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूतः ।
दि॒व्ये धाम॒न्नुप॑हूतः ।
इ॒द-म्मे॑ दे॒वा ह॒विर्जु॑षन्ता॒मिति॒ तस्मि॒न्नुप॑हूतः ।
विश्व॑मस्य प्रि॒यमुप॑हूतम् ।
विश्व॑स्य प्रि॒यस्योप॑हूत॒स्योप॑हूतः ॥ 18 ॥
(स॒हर्​ष॑भा ह्वयता॒ - मुप॑हूतग्ं - हवि॒ष्कर॑ण॒ उप॑हूतश्च॒त्वारि॑ च) (अ. 8)

अनुवाकं 9 - अनूयाजाः
दे॒व-म्ब॒र्॒हिः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो नरा॒शग्ं सः॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु । दे॒वो अ॒ग्नि-स्स्वि॑ष्ट॒कृत् । सु॒द्रवि॑णा म॒न्द्रः क॒विः । स॒त्यम॑न्मा-ऽऽय॒जी होता᳚ । होतु॑र्-होतु॒राय॑जीयान् । अग्ने॒ यान्-दे॒वानया᳚ट् । याग्ं अपि॑प्रेः । ये ते॑ हो॒त्रे अम॑थ्सत । ताग्ं स॑स॒नुषी॒ग्ं॒ होत्रा᳚-न्देव-ङ्ग॒माम् । दि॒वि दे॒वेषु॑ य॒ज्ञमेर॑ये॒मम् । स्वि॒ष्ट॒कृच्चाग्ने॒ होता-ऽभूः᳚ ।
व॒सु॒वने॑ वसु॒धेय॑स्य नमोवा॒के वीहि॑ ॥ 19 ॥
(अपि॑प्रेः॒ पञ्च॑ च) (अ. 9)

अनुवाकं 10 - सूक्तावाकः
इ॒द-न्द्या॑वापृथिवी भ॒द्रम॑भूत् ।
आर्ध्म॑ सूक्तवा॒कम् । उ॒त न॑मोवा॒कम् ।
ऋ॒द्ध्यास्म॑ सू॒क्तोच्य॑मग्ने । त्वग्ं सू᳚क्त॒वाग॑सि ।
उप॑श्रितो दि॒वः पृ॑थि॒व्योः । ओम॑न्वती ते॒-ऽस्मिन्. य॒ज्ञे य॑जमान॒ द्यावा॑पृथि॒वी स्ता᳚म् ।
श॒गं॒ये जी॒रदा॑नू । अत्र॑स्नू॒ अप्र॑वेदे ।
उ॒रुग॑व्यूती अभय॒-ङ्कृतौ᳚ ॥ 20 ॥

वृ॒ष्टिद्या॑वा री॒त्या॑पा । श॒म्भुवौ॑ मयो॒भुवौ᳚ ।
ऊर्ज॑स्वती च॒ पय॑स्वती च । सू॒प॒च॒र॒णा च॑ स्वधिचर॒णा च॑ । तयो॑रा॒विदि॑ ॥
अ॒ग्निरि॒दग्ं ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑-ऽकृत । सोम॑ इ॒दग्ं ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑-ऽकृत ।
अ॒ग्निरि॒दग्ं ह॒विर॑जुषत ॥ 21 ॥

अवी॑वृधत॒ महो॒ ज्यायो॑-ऽकृत । प्र॒जाप॑तिरि॒दग्ं ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑-ऽकृत । अ॒ग्नीषोमा॑वि॒दग्ं ह॒विर॑जुषेताम् ।
अवी॑वृधेता॒-म्महो॒ ज्यायो᳚-ऽक्राताम् ।
इ॒न्द्रा॒ग्नी इ॒दग्ं ह॒विर॑जुषेताम् ।
अवी॑वृधेता॒-म्महो॒ ज्यायो᳚-ऽक्राताम् । इन्द्र॑ इ॒दग्ं ह॒विर॑जुषत । अवी॑वृधत॒ महो॒ ज्यायो॑-ऽकृत । म॒हे॒न्द्र इ॒दग्ं ह॒विर॑जुषत ॥ 22 ॥

अवी॑वृधत॒ महो॒ ज्यायो॑-ऽकृत । दे॒वा आ᳚ज्य॒पा आज्य॑मजुषन्त । अवी॑वृधन्त॒ महो॒ ज्यायो᳚-ऽक्रत । अ॒ग्निर्​हो॒त्रेणे॒दग्ं ह॒विर॑जुषत ।
अवी॑वृधत॒ महो॒ ज्यायो॑-ऽकृत ।
अ॒स्यामृध॒-द्धोत्रा॑या-न्देवङ्ग॒माया᳚म् ।
आशा᳚स्ते॒-ऽयं-यँज॑मानो॒-ऽसौ ॥
आयु॒राशा᳚स्ते । सु॒प्र॒जा॒स्त्व-माशा᳚स्ते ।
स॒जा॒त॒व॒न॒स्या-माशा᳚स्ते ॥ 23 ॥

उत्त॑रा-न्देवय॒ज्या-माशा᳚स्ते । भूयो॑ हवि॒ष्कर॑ण॒-माशा᳚स्ते । दि॒व्य-न्धामाशा᳚स्ते । विश्व॑-म्प्रि॒यमाशा᳚स्ते । यद॒नेन॑ ह॒विषा ऽऽशा᳚स्ते । तद॑श्या॒त्-तदृ॑द्ध्यात् । तद॑स्मै दे॒वा रा॑सन्ताम् । तद॒ग्नि-र्दे॒वो दे॒वेभ्यो॒ वन॑ते । व॒यम॒ग्ने-र्मानु॑षाः । इ॒ष्ट-ञ्च॑ वी॒त-ञ्च॑ । उ॒भे च॑ नो॒ द्यावा॑पृथि॒वी अग्ंह॑सस्पाताम् ।
इ॒ह गति॑-र्वा॒मस्ये॒द-ञ्च॑ । नमो॑ दे॒वेभ्यः॑ ॥ 24 ॥
(अ॒भ॒य॒ङ्कृता॑वकृ - ता॒ग्निरि॒दग्ं ह॒विर॑जुषत - महे॒न्द्र इ॒दग्ं ह॒विर॑जुषत - सजातवन॒स्यामाशा᳚स्ते - वी॒त-ञ्च॒ त्रीणि॑ च) (अ. 10)

अनुवाकं 11 - शं​युँवाकः
तच्छं॒-योँरा वृ॑णीमहे । गा॒तुं-यँ॒ज्ञाय॑ । गा॒तुं-यँ॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः । स्व॒स्ति-र्मानु॑षेभ्यः । ऊ॒र्ध्व-ञ्जि॑गातु भेष॒जम् ।
श-न्नो॑ अस्तु द्वि॒पदे᳚ । श-ञ्चतु॑ष्पदे ॥ 25 ॥
(तच्छं॒-योँर॒ष्टौ) (अ. 11)

अनुवाकं 12 - पत्नीसं​याँजानां-याँज्यानुवाक्याः
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑-स्सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य सङ्ग॒थे ॥ स-न्ते॒ पयाग्ं ॑सि॒ समु॑ यन्तु॒ वाजा॒-स्सं-वृँष्णि॑या-न्यभिमाति॒षाहः॑ । आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवाग्॑स्युत्त॒मानि॑ धिष्व ॥ ॥
इ॒ह त्वष्टा॑रमग्रि॒यं-विँ॒श्वरू॑प॒मुप॑ ह्वये । अ॒स्माक॑मस्तु॒ केव॑लः ॥ तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒ण-स्स्य॑स्व । यतो॑ वी॒रः क॑र्म॒ण्य॑-स्सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥ ॥
दे॒वाना॒-म्पत्नी॑रुश॒तीर॑वन्तु नः । प्राव॑न्तु नस्तु॒जये॒ वाज॑सातये । याः पार्थि॑वासो॒ या अ॒पामपि॑ व्र॒ते । ता नो॑ देवी-स्सुहवा॒-श्शर्म॑ यच्छत ॥ उ॒त ग्ना वि॑यन्तु दे॒वप॑त्नीः । इ॒न्द्रा॒ण्य॑ग्नाय्य॒श्विनी॒ राट् । आ रोद॑सी वरुणा॒नी शृ॑णोतु ।
वि॒यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी॑नाम् ॥ 26 ॥

अ॒ग्निर्-होता॑ गृ॒हप॑ति॒-स्स राजा᳚ । विश्वा॑ वेद॒ जनि॑मा जा॒तवे॑दाः । दे॒वाना॑मु॒त यो मर्त्या॑नाम् । यजि॑ष्ठ॒-स्स प्रय॑जतामृ॒तावा᳚ ॥
व॒यमु॑ त्वा गृहपते॒ जना॑नाम् । अग्ने॒ अक॑र्म स॒मिधा॑ बृ॒हन्त᳚म् । अ॒स्थू॒रिणो॒ गार्​ह॑पत्यानि सन्तु । ति॒ग्मेन॑ न॒स्तेज॑सा॒ सग्ंशि॑शाधि ॥ 27 ॥
(जनी॑ना - +म॒ष्टौ च॑) (अ. 12)
अनुवाकं 13 - पत्नीसं​याँजे सोमाह्वानम्
उप॑हूतग्ं रथन्त॒रग्ं स॒ह पृ॑थि॒व्या ।
उप॑ मा रथन्त॒रग्ं स॒ह पृ॑थि॒व्या ह्व॑यताम् ।
उप॑हूतं-वाँमदे॒व्यग्ं स॒हान्तरि॑क्षेण ।
उप॑ मा वामदे॒व्यग्ं स॒हान्तरि॑क्षेण ह्वयताम् । उप॑हूत-म्बृ॒हथ्स॒ह दि॒वा । उप॑ मा बृ॒हथ्स॒ह दि॒वा ह्व॑यताम् । उप॑हूता-स्स॒प्त होत्राः᳚ ।
उप॑ मा स॒प्त होत्रा᳚ ह्वयन्ताम् । उप॑हूता धे॒नु-स्स॒हर्​ष॑भा । उप॑ मा धे॒नु-स्स॒हर्​ष॑भा ह्वयताम् ॥ 28 ॥

उप॑हूतो भ॒क्ष-स्सखा᳚ । उप॑ मा भ॒क्ष-स्सखा᳚ ह्वयताम् । उप॑हू॒ताँ(4) हो । इडोप॑हूता । उप॑हू॒तेडा᳚ । उपो॑ अ॒स्माग्ं इडा᳚ ह्वयताम् । इडोप॑हूता । उप॑हू॒तेडा᳚ । मा॒न॒वी घृ॒तप॑दी मैत्रावरु॒णी ।
ब्रह्म॑ दे॒वकृ॑त॒मुप॑हूतम् ॥ 29 ॥

दैव्या॑ अद्ध्व॒र्यव॒ उप॑हूताः । उप॑हूता मनु॒ष्याः᳚ । य इ॒मं-यँ॒ज्ञमवान्॑ । ये य॒ज्ञप॑त्नीं॒-वँर्धान्॑ । उप॑हूते॒ द्यावा॑पृथि॒वी । पू॒र्व॒जे ऋ॒ताव॑री । दे॒वी दे॒वपु॑त्रे । उप॑हूते॒यं-यँज॑माना । इ॒न्द्रा॒णीवा॑विध॒वा । अदि॑तिरिव सुपु॒त्रा । उत्त॑रस्या-न्देवय॒ज्याया॒-मुप॑हूता ।
भूय॑सि हवि॒ष्कर॑ण॒ उप॑हूता । दि॒व्ये धाम॒न्नुप॑हूता । इ॒द-म्मे॑ दे॒वा ह॒वि-र्जु॑षन्ता॒मिति॒ तस्मि॒-न्नुप॑हूता । विश्व॑मस्याः प्रि॒यमुप॑हूतम् ।
विश्व॑स्य प्रि॒यस्योप॑हूत॒स्योप॑हूता ॥ 30 ॥
(स॒हर्​ष॑भा ह्वयता॒ - मुप॑हूतग्ं - सुपु॒त्रा षट्च॑) (अ. 13)

(स॒त्यं - प्रवो - ऽग्ने॑ म॒हा - न॒ग्निर्-होता॑ - स॒मिधो॒ - ऽग्नि-र्वृ॒त्राण्य॒ - ग्नि-र्मू॒र्धो - प॑हूतं - दे॒व-म्ब॒र्॒हि - रि॒द-न्द्या॑वापृथिवी॒ -तच्छं॒​योँ- रा प्या॑य॒स्वो - प॑हूत॒-न्त्रयो॑दश)

(स॒त्यं - ँव॒यग्ग्​ स्या॑म - वृ॒ष्टिद्या॑वा त्रि॒ग्ं॒शत्)

(स॒त्य-मुप॑हूता)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके पञ्चम प्रपाठक-स्समाप्तः ॥




Browse Related Categories: