अथापरमहं वक्ष्येऽमृतसंजीवनं स्तवम् ।
यस्यानुष्ठानमात्रेण मृत्युर्दूरात्पलायते ॥ 1 ॥
असाध्याः कष्टसाध्याश्च महारोगा भयंकराः ।
शीघ्रं नश्यंति पठनादस्यायुश्च प्रवर्धते ॥ 2 ॥
शाकिनीडाकिनीदोषाः कुदृष्टिग्रहशत्रुजाः ।
प्रेतवेतालयक्षोत्था बाधा नश्यंति चाखिलाः ॥ 3 ॥
दुरितानि समस्तानि नानाजन्मोद्भवानि च ।
संसर्गजविकाराणि विलीयंतेऽस्य पाठतः ॥ 4 ॥
सर्वोपद्रवनाशाय सर्वबाधाप्रशांतये ।
आयुः प्रवृद्धये चैतत् स्तोत्रं परममद्भुतम् ॥ 5 ॥
बालग्रहाभिभूतानां बालानां सुखदायकम् ।
सर्वारिष्टहरं चैतद्बलपुष्टिकरं परम् ॥ 6 ॥
बालानां जीवनायैतत् स्तोत्रं दिव्यं सुधोपमम् ।
मृतवत्सत्वहरणं चिरंजीवित्वकारकम् ॥ 7 ॥
महारोगाभिभूतानां भयव्याकुलितात्मनाम् ।
सर्वाधिव्याधिहरणं भयघ्नममृतोपमम् ॥ 8 ॥
अल्पमृत्युश्चापमृत्युः पाठादस्यः प्रणश्यति ।
जलाऽग्निविषशस्त्रारि न हि शृंगि भयं तथा ॥ 9 ॥
गर्भरक्षाकरं स्त्रीणां बालानां जीवनप्रदम् ।
महारोगहरं नॄणामल्पमृत्युहरं परम् ॥ 10 ॥
बाला वृद्धाश्च तरुणा नरा नार्यश्च दुःखिताः ।
भवंति सुखिनः पाठादस्य लोके चिरायुषः ॥ 11 ॥
अस्मात्परतरं नास्ति जीवनोपाय ऐहिकः ।
तस्मात् सर्वप्रयत्नेन पाठमस्य समाचरेत् ॥ 12 ॥
अयुतावृत्तिकं वाथ सहस्रावृत्तिकं तथा ।
तदर्धं वा तदर्धं वा पठेदेतच्च भक्तितः ॥ 13 ॥
कलशे विष्णुमाराध्य दीपं प्रज्वाल्य यत्नतः ।
सायं प्रातश्च विधिवत् स्तोत्रमेतत् पठेत् सुधीः ॥ 14 ॥
सर्पिषा हविषा वाऽपि संयावेनाथ भक्तितः ।
दशांशमानतो होमं कुर्यात् सर्वार्थसिद्धये ॥ 15 ॥
अथ स्तोत्रम्
नमो नमो विश्वविभावनाय
नमो नमो लोकसुखप्रदाय ।
नमो नमो विश्वसृजेश्वराय
नमो नमो मुक्तिवरप्रदाय ॥ 1 ॥
नमो नमस्तेऽखिललोकपाय
नमो नमस्तेऽखिलकामदाय ।
नमो नमस्तेऽखिलकारणाय
नमो नमस्तेऽखिलरक्षकाय ॥ 2 ॥
नमो नमस्ते सकलार्तिहर्त्रे
नमो नमस्ते विरुजः प्रकर्त्रे ।
नमो नमस्तेऽखिलविश्वधर्त्रे
नमो नमस्तेऽखिललोकभर्त्रे ॥ 3 ॥
सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते
सर्वं तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते ।
विश्वं संह्रितये तदेव निखिलं रुद्रस्वरूपेण ते
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ 4 ॥
यो धन्वंतरिसंज्ञया निगदितः क्षीराब्धितो निःसृतो
हस्ताभ्यां जनजीवनाय कलशं पीयूषपूर्णं दधत् ।
आयुर्वेदमरीरचज्जनरुजां नाशाय स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ 5 ॥
स्त्रीरूपं वरभूषणांबरधरं त्रैलोक्यसम्मोहनं
कृत्वा पाययति स्म यः सुरगणान् पीयूषमत्युत्तमम् ।
चक्रे दैत्यगणान् सुधाविरहितान् संमोह्य स त्वं मुदा
संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ 6 ॥
चाक्षुषोदधिसंप्लाव भूवेदप झषाकृते ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 7 ॥
पृष्ठमंदरनिर्घूर्णनिद्राक्ष कमठाकृते ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 8 ॥
यांचाच्छलबलित्रासमुक्तनिर्जर वामन ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 9 ॥
धरोद्धार हिरण्याक्षघात क्रोडाकृते प्रभो ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 10 ॥
भक्तत्रासविनाशात्तचंडत्व नृहरे विभो ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 11 ॥
क्षत्रियारण्यसंछेदकुठारकररैणुक ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 12 ॥
रक्षोराजप्रतापाब्धिशोषणाशुग राघव ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 13 ॥
भूभारासुरसंदोहकालाग्ने रुक्मिणीपते ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 14 ॥
वेदमार्गरतानर्हविभ्रांत्यै बुद्धरूपधृक् ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 15 ॥
कलिवर्णाश्रमास्पष्टधर्मर्ध्यै कल्किरूपभाक् ।
सिंच सिंचामृतकणैश्चिरं जीवय जीवय ॥ 16 ॥
असाध्याः कष्टसाध्या ये महारोगा भयंकराः ।
छिंधि तानाशु चक्रेण चिरं जीवय जीवय ॥ 17 ॥
अल्पमृत्युं चापमृत्युं महोत्पातानुपद्रवान् ।
भिंधि भिंधि गदाघातैश्चिरं जीवय जीवय ॥ 18 ॥
अहं न जाने किमपि त्वदन्यत्
समाश्रये नाथ पदांबुजं ते ।
कुरुष्व तद्यन्मनसीप्सितं ते
सुकर्मणा केन समक्षमीयाम् ॥ 19 ॥
त्वमेव तातो जननी त्वमेव
त्वमेव नाथश्च त्वमेव बंधुः ।
विद्याधनागारकुलं त्वमेव
त्वमेव सर्वं मम देवदेव ॥ 20 ॥
न मेऽपराधं प्रविलोकय प्रभो-
-ऽपराधसिंधोश्च दयानिधिस्त्वम् ।
तातेन दुष्टोऽपि सुतः सुरक्षते
दयालुता तेऽवतु सर्वदाऽस्मान् ॥ 21 ॥
अहह विस्मर नाथ न मां सदा
करुणया निजया परिपूरितः ।
भुवि भवान् यदि मे न हि रक्षकः
कथमहो मम जीवनमत्र वै ॥ 22 ॥
दह दह कृपया त्वं व्याधिजालं विशालं
हर हर करवालं चाल्पमृत्योः करालम् ।
निजजनपरिपालं त्वां भजे भावयालं
कुरु कुरु बहुकालं जीवितं मे सदाऽलम् ॥ 23 ॥
न यत्र धर्माचरणं न जानं
व्रतं न योगो न च विष्णुचर्चा ।
न पितृगोविप्रवरामरार्चा
स्वल्पायुषस्तत्र जना भवंति ॥ 24 ॥
अथ मंत्रम्
क्लीं श्रीं क्लीं श्रीं नमो भगवते जनार्दनाय सकल दुरितानि नाशय नाशय ।
क्ष्रौं आरोग्यं कुरु कुरु । ह्रीं दीर्घमायुर्देहि देहि स्वाहा ॥
फलश्रुतिः
अस्य धारणतो जापादल्पमृत्युः प्रशाम्यति ।
गर्भरक्षाकरं स्त्रीणां बालानां जीवनं परम् ॥ 1 ॥
शतं पंचाशतं शक्त्याऽथवा पंचाधिविंशतिम् ।
पुस्तकानां द्विजेभ्यस्तु दद्याद्दीर्घायुषाप्तये ॥ 2 ॥
भूर्जपत्रे विलिख्येदं कंठे वा बाहुमूलके ।
संधारयेद्गर्भरक्षा बालरक्षा च जायते ॥ 3 ॥
सर्वे रोगा विनश्यंति सर्वा बाधाः प्रशाम्यति ।
कुदृष्टिजं भयं नश्येत् तथा प्रेतादिजं भयम् ॥ 4 ॥
मया कथितमेतत्तेऽमृतसंजीवनं परम् ।
अल्पमृत्युहरं स्तोत्रं मृतवत्सत्वनाशनम् ॥ 5 ॥
इति सुदर्शनसंहितोक्तं अमृतसंजीवन धन्वंतरि स्तोत्रम् ॥