View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री गुरुगीता द्वितीयोध्यायः

अथ द्वितीयोऽध्यायः ॥

ध्यानं श्रुणु महादेवि सर्वानंदप्रदायकम् ।
सर्वसौख्यकरं चैव भुक्तिमुक्तिप्रदायकम् ॥ 109 ॥

श्रीमत्परं ब्रह्म गुरुं स्मरामि
श्रीमत्परं ब्रह्म गुरुं भजामि ।
श्रीमत्परं ब्रह्म गुरुं वदामि
श्रीमत्परं ब्रह्म गुरुं नमामि ॥ 110 ॥

ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्तिं
द्वंद्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ 111 ॥

हृदंबुजे कर्णिकमध्यसंस्थे
सिंहासने संस्थितदिव्यमूर्तिम् ।
ध्यायेद्गुरुं चंद्रकलाप्रकाशं
सच्चित्सुखाभीष्टवरं दधानम् ॥ 112 ॥

श्वेतांबरं श्वेतविलेपपुष्पं
मुक्ताविभूषं मुदितं द्विनेत्रम् ।
वामांकपीठस्थितदिव्यशक्तिं
मंदस्मितं पूर्णकृपानिधानम् ॥ 113 ॥

आनंदमानंदकरं प्रसन्नं
ज्ञानस्वरूपं निजभावयुक्तम् ।
योगींद्रमीड्यं भवरोगवैद्यं
श्रीमद्गुरुं नित्यमहं नमामि ॥ 114 ॥

वंदे गुरूणां चरणारविंदं
संदर्शितस्वात्मसुखावबोधे ।
जनस्य ये जांगलिकायमाने
संसारहालाहलमोहशांत्यै ॥ 115 ॥

यस्मिन् सृष्टिस्थितिध्वंसनिग्रहानुग्रहात्मकम् ।
कृत्यं पंचविधं शश्वत् भासते तं गुरुं भजेत् ॥ 116 ॥

पादाब्जे सर्वसंसारदावकालानलं स्वके ।
ब्रह्मरंध्रे स्थितांभोजमध्यस्थं चंद्रमंडलम् ॥ 117 ॥

अकथादित्रिरेखाब्जे सहस्रदलमंडले ।
हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् ॥ 118 ॥

नित्यं शुद्धं निराभासं निराकारं निरंजनम् ।
नित्यबोधं चिदानंदं गुरुं ब्रह्म नमाम्यहम् ॥ 119 ॥

सकलभुवनसृष्टिः कल्पिताशेषसृष्टिः
निखिलनिगमदृष्टिः सत्पदार्थैकसृष्टिः ।
अतद्गणपरमेष्टिः सत्पदार्थैकदृष्टिः
भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ॥ 120 ॥

सकलभुवनरंगस्थापनास्तंभयष्टिः
सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः ।
सकलसमयसृष्टिस्सच्चिदानंददृष्टिः
निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ॥ 121 ॥

न गुरोरधिकं न गुरोरधिकं
न गुरोरधिकं न गुरोरधिकम् ।
शिवशासनतः शिवशासनतः
शिवशासनतः शिवशासनतः ॥ 122 ॥

इदमेव शिवं इदमेव शिवं
इदमेव शिवं इदमेव शिवम् ।
हरिशासनतो हरिशासनतो
हरिशासनतो हरिशासनतः ॥ 123 ॥

विदितं विदितं विदितं विदितं
विजनं विजनं विजनं विजनम् ।
विधिशासनतो विधिशासनतो
विधिशासनतो विधिशासनतः ॥ 124 ॥

एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् ।
तदा गुरूपदेशेन मुक्तोऽहमिति भावयेत् ॥ 125 ॥

गुरूपदिष्टमार्गेण मनश्शुद्धिं तु कारयेत् ।
अनित्यं खंडयेत्सर्वं यत्किंचिदात्मगोचरम् ॥ 126 ॥

ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते ।
ज्ञानं ज्ञेयं समं कुर्यान्नान्यः पंथा द्वितीयकः ॥ 127 ॥

किमत्र बहुनोक्तेन शास्त्रकोटिशतैरपि ।
दुर्लभा चित्तविश्रांतिः विना गुरुकृपां पराम् ॥ 128 ॥

करुणाखड्गपातेन छित्वा पाशाष्टकं शिशोः ।
सम्यगानंदजनकः सद्गुरुः सोऽभिधीयते ॥ 129 ॥

एवं श्रुत्वा महादेवि गुरुनिंदां करोति यः ।
स याति नरकान् घोरान् यावच्चंद्रदिवाकरौ ॥ 130 ॥

यावत्कल्पांतको देहस्तावद्देवि गुरुं स्मरेत् ।
गुरुलोपो न कर्तव्यः स्वच्छंदो यदि वा भवेत् ॥ 131 ॥

हुंकारेण न वक्तव्यं प्राज्ञशिष्यैः कदाचन ।
गुरोरग्र न वक्तव्यमसत्यं तु कदाचन ॥ 132 ॥

गुरुं त्वंकृत्य हुंकृत्य गुरुसान्निध्यभाषणः ।
अरण्ये निर्जले देशे संभवेद् ब्रह्मराक्षसः ॥ 133 ॥

अद्वैतं भावयेन्नित्यं सर्वावस्थासु सर्वदा ।
कदाचिदपि नो कुर्यादद्वैतं गुरुसन्निधौ ॥ 134 ॥

दृश्यविस्मृतिपर्यंतं कुर्याद् गुरुपदार्चनम् ।
तादृशस्यैव कैवल्यं न च तद्व्यतिरेकिणः ॥ 135 ॥

अपि संपूर्णतत्त्वज्ञो गुरुत्यागी भवेद्यदा ।
भवत्येव हि तस्यांतकाले विक्षेपमुत्कटम् ॥ 136 ॥

गुरुकार्यं न लंघेत नापृष्ट्वा कार्यमाचरेत् ।
न ह्युत्तिष्ठेद्दिशेऽनत्वा गुरुसद्भावशोभितः ॥ 137 ॥

गुरौ सति स्वयं देवि परेषां तु कदाचन ।
उपदेशं न वै कुर्यात् तथा चेद्राक्षसो भवेत् ॥ 138 ॥

न गुरोराश्रमे कुर्यात् दुष्पानं परिसर्पणम् ।
दीक्षा व्याख्या प्रभुत्वादि गुरोराज्ञां न कारयेत् ॥ 139 ॥

नोपाश्रयं च पर्यकं न च पादप्रसारणम् ।
नांगभोगादिकं कुर्यान्न लीलामपरामपि ॥ 140 ॥

गुरूणां सदसद्वाऽपि यदुक्तं तन्न लंघयेत् ।
कुर्वन्नाज्ञां दिवा रात्रौ दासवन्निवसेद्गुरो ॥ 141 ॥

अदत्तं न गुरोर्द्रव्यमुपभुंजीत कर्हिचित् ।
दत्ते च रंकवद्ग्राह्यं प्राणोऽप्येतेन लभ्यते ॥ 142 ॥

पादुकासनशय्यादि गुरुणा यदभीष्टितम् ।
नमस्कुर्वीत तत्सर्वं पादाभ्यां न स्पृशेत् क्वचित् ॥ 143 ॥

गच्छतः पृष्ठतो गच्छेत् गुरुच्छायां न लंघयेत् ।
नोल्बणं धारयेद्वेषं नालंकारांस्ततोल्बणान् ॥ 144 ॥

गुरुनिंदाकरं दृष्ट्वा धावयेदथ वासयेत् ।
स्थानं वा तत्परित्याज्यं जिह्वाच्छेदाक्षमो यदि ॥ 145 ॥

नोच्छिष्टं कस्यचिद्देयं गुरोराज्ञां न च त्यजेत् ।
कृत्स्नमुच्छिष्टमादाय हविरिव भक्षयेत्स्वयम् ॥ 146 ॥

नाऽनृतं नाऽप्रियं चैव न गर्वं नाऽपि वा बहु ।
न नियोगपरं ब्रूयात् गुरोराज्ञां विभावयेत् ॥ 147 ॥

प्रभो देवकुलेशानां स्वामिन् राजन् कुलेश्वर ।
इति संबोधनैर्भीतो गुरुभावेन सर्वदा ॥ 148 ॥

मुनिभिः पन्नगैर्वापि सुरैर्वा शापितो यदि ।
कालमृत्युभयाद्वापि गुरुः संत्राति पार्वति ॥ 149 ॥

अशक्ता हि सुराद्याश्च ह्यशक्ताः मुनयस्तथा ।
गुरुशापोपपन्नस्य रक्षणाय च कुत्रचित् ॥ 150 ॥

मंत्रराजमिदं देवि गुरुरित्यक्षरद्वयम् ।
स्मृतिवेदपुराणानां सारमेव न संशयः ॥ 151 ॥

सत्कारमानपूजार्थं दंडकाषयधारणः ।
स सन्न्यासी न वक्तव्यः सन्न्यासी ज्ञानतत्परः ॥ 152 ॥

विजानंति महावाक्यं गुरोश्चरण सेवया ।
ते वै सन्न्यासिनः प्रोक्ता इतरे वेषधारिणः ॥ 153 ॥

[पाठभेदः –
नित्यं ब्रह्म निराकारं निर्गुणं बोधयेत्परम् ।
भासयन् ब्रह्मभावं च दीपो दीपांतरं यथा ॥
]
नित्यं ब्रह्म निराकारं निर्गुणं सत्यचिद्धनम् ।
यः साक्षात्कुरुते लोके गुरुत्वं तस्य शोभते ॥ 154 ॥

गुरुप्रसादतः स्वात्मन्यात्मारामनिरीक्षणात् ।
समता मुक्तिमार्गेण स्वात्मज्ञानं प्रवर्तते ॥ 155 ॥

आब्रह्मस्तंबपर्यंतं परमात्मस्वरूपकम् ।
स्थावरं जंगमं चैव प्रणमामि जगन्मयम् ॥ 156 ॥

वंदेऽहं सच्चिदानंदं भावातीतं जगद्गुरुम् ।
नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम् ॥ 157 ॥

परात्परतरं ध्यायेन्नित्यमानंदकारकम् ।
हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम् ॥ 158 ॥

स्फाटिके स्फाटिकं रूपं दर्पणे दर्पणो यथा ।
तथाऽऽत्मनि चिदाकारमानंदं सोऽहमित्युत ॥ 159 ॥

अंगुष्ठमात्रं पुरुषं ध्यायेच्च चिन्मयं हृदि ।
तत्र स्फुरति यो भावः शृणु तत्कथयामि ते ॥ 160 ॥

अजोऽहममरोऽहं च अनादिनिधनो ह्यहम् ।
अविकारश्चिदानंदो ह्यणीयान्महतो महान् ॥ 161 ॥

अपूर्वमपरं नित्यं स्वयंज्योतिर्निरामयम् ।
विरजं परमाकाशं ध्रुवमानंदमव्ययम् ॥ 162 ॥

अगोचरं तथाऽगम्यं नामरूपविवर्जितम् ।
निश्शब्दं तु विजानीयात्स्वभावाद्ब्रह्म पार्वति ॥ 163 ॥

यथा गंधस्वभावत्वं कर्पूरकुसुमादिषु ।
शीतोष्णत्वस्वभावत्वं तथा ब्रह्मणि शाश्वतम् ॥ 164 ॥

यथा निजस्वभावेन कुंडले कटकादयः ।
सुवर्णत्वेन तिष्ठंति तथाऽहं ब्रह्म शाश्वतम् ॥ 165 ॥

स्वयं तथाविधो भूत्वा स्थातव्यं यत्र कुत्र चित् ।
कीटो भृंग इव ध्यानाद्यथा भवति तादृशः ॥ 166 ॥

गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत् ।
पिंडे पदे तथा रूपे मुक्तास्ते नात्र संशयः ॥ 167 ॥

श्रीपार्वती उवाच ।
पिंडं किं तु महादेव पदं किं समुदाहृतम् ।
रूपातीतं च रूपं किं एतदाख्याहि शंकर ॥ 168 ॥

श्रीमहादेव उवाच ।
पिंडं कुंडलिनी शक्तिः पदं हंसमुदाहृतम् ।
रूपं बिंदुरिति ज्ञेयं रूपातीतं निरंजनम् ॥ 169 ॥

पिंडे मुक्ताः पदे मुक्ता रूपे मुक्ता वरानने ।
रूपातीते तु ये मुक्तास्ते मुक्ता नाऽत्र संशयः ॥ 170 ॥

गुरुर्ध्यानेनैव नित्यं देही ब्रह्ममयो भवेत् ।
स्थितश्च यत्र कुत्राऽपि मुक्तोऽसौ नाऽत्र संशयः ॥ 171 ॥

ज्ञानं वैराग्यमैश्वर्यं यशश्रीः स्वमुदाहृतम् ।
षड्गुणैश्वर्ययुक्तो हि भगवान् श्रीगुरुः प्रिये ॥ 172 ॥

गुरुश्शिवो गुरुर्देवो गुरुर्बंधुः शरीरिणाम् ।
गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते ॥ 173 ॥

एकाकी निस्स्पृहः शांतश्चिंताऽसूयादिवर्जितः ।
बाल्यभावेन यो भाति ब्रह्मज्ञानी स उच्यते ॥ 174 ॥

न सुखं वेदशास्त्रेषु न सुखं मंत्रयंत्रके ।
गुरोः प्रसादादन्यत्र सुखं नास्ति महीतले ॥ 175 ॥

चार्वाकवैष्णवमते सुखं प्राभाकरे न हि ।
गुरोः पादांतिके यद्वत्सुखं वेदांतसम्मतम् ॥ 176 ॥

न तत्सुखं सुरेंद्रस्य न सुखं चक्रवर्तिनाम् ।
यत्सुखं वीतरागस्य मुनेरेकांतवासिनः ॥ 177 ॥

नित्यं ब्रह्मरसं पीत्वा तृप्तो यः परमात्मनि ।
इंद्रं च मन्यते तुच्छं नृपाणां तत्र का कथा ॥ 178 ॥

यतः परमकैवल्यं गुरुमार्गेण वै भवेत् ।
गुरुभक्तिरतः कार्या सर्वदा मोक्षकांक्षिभिः ॥ 179 ॥

एक एवाऽद्वितीयोऽहं गुरुवाक्येन निश्चितः ।
एवमभ्यस्यता नित्यं न सेव्यं वै वनांतरम् ॥ 180 ॥

अभ्यासान्निमिषेणैव समाधिमधिगच्छति ।
आजन्मजनितं पापं तत्​क्षणादेव नश्यति ॥ 181 ॥

किमावाहनमव्यक्ते व्यापके किं विसर्जनम् ।
अमूर्ते च कथं पूजा कथं ध्यानं निरामये ॥ 182 ॥

गुरुर्विष्णुः सत्त्वमयो राजसश्चतुराननः ।
तामसो रुद्ररूपेण सृजत्यवति हंति च ॥ 183 ॥

स्वयं ब्रह्ममयो भूत्वा तत्परं चावलोकयेत् ।
परात्परतरं नान्यत् सर्वगं तन्निरामयम् ॥ 184 ॥

तस्यावलोकनं प्राप्य सर्वसंगविवर्जितः ।
एकाकी निस्स्पृहः शांतः स्थातव्यं तत्प्रसादतः ॥ 185 ॥

लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा ।
निष्कामेनैव भोक्तव्यं सदा संतुष्टमानसः ॥ 186 ॥

सर्वज्ञपदमित्याहुर्देही सर्वमयो भुवि ।
सदाऽऽनंदः सदा शांतो रमते यत्र कुत्र चित् ॥ 187 ॥

यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनः ।
मुक्तस्य लक्षणं देवि तवाऽग्रे कथितं मया ॥ 188 ॥

उपदेशस्त्वयं देवि गुरुमार्गेण मुक्तिदः ।
गुरुभक्तिः तथाऽत्यंता कर्तव्या वै मनीषिभिः ॥ 189 ॥

नित्ययुक्ताश्रयः सर्ववेदकृत्सर्ववेदकृत् ।
स्वपरज्ञानदाता च तं वंदे गुरुमीश्वरम् ॥ 190 ॥

यद्यप्यधीता निगमाः षडंगा आगमाः प्रिये ।
अध्यात्मादीनि शास्त्राणि ज्ञानं नास्ति गुरुं विना ॥ 191 ॥

शिवपूजारतो वाऽपि विष्णुपूजारतोऽथवा ।
गुरुतत्त्वविहीनश्चेत्तत्सर्वं व्यर्थमेव हि ॥ 192 ॥

शिवस्वरूपमज्ञात्वा शिवपूजा कृता यदि ।
सा पूजा नाममात्रं स्याच्चित्रदीप इव प्रिये ॥ 193 ॥

सर्वं स्यात्सफलं कर्म गुरुदीक्षाप्रभावतः ।
गुरुलाभात्सर्वलाभो गुरुहीनस्तु बालिशः ॥ 194 ॥

गुरुहीनः पशुः कीटः पतंगो वक्तुमर्हति ।
शिवरूपं स्वरूपं च न जानाति यतस्स्वयम् ॥ 195 ॥

तस्मात्सर्वप्रयत्नेन सर्वसंगविवर्जितः ।
विहाय शास्त्रजालानि गुरुमेव समाश्रयेत् ॥ 196 ॥

निरस्तसर्वसंदेहो एकीकृत्य सुदर्शनम् ।
रहस्यं यो दर्शयति भजामि गुरुमीश्वरम् ॥ 197 ॥

ज्ञानहीनो गुरुस्त्याज्यो मिथ्यावादी विडंबकः ।
स्वविश्रांतिं न जानाति परशांतिं करोति किम् ॥ 198 ॥

शिलायाः किं परं ज्ञानं शिलासंघप्रतारणे ।
स्वयं तर्तुं न जानाति परं निस्तारयेत् कथम् ॥ 199 ॥

न वंदनीयास्ते कष्टं दर्शनाद्भ्रांतिकारकाः ।
वर्जयेत्तान् गुरून् दूरे धीरस्य तु समाश्रयेत् ॥ 200 ॥

पाषंडिनः पापरताः नास्तिका भेदबुद्धयः ।
स्त्रीलंपटा दुराचाराः कृतघ्ना बकवृत्तयः ॥ 201 ॥

कर्मभ्रष्टाः क्षमानष्टा निंद्यतर्कैश्च वादिनः ।
कामिनः क्रोधिनश्चैव हिंस्राश्चंडाः शठास्तथा ॥ 202 ॥

ज्ञानलुप्ता न कर्तव्या महापापास्तथा प्रिये ।
एभ्यो भिन्नो गुरुः सेव्यः एकभक्त्या विचार्य च ॥ 203 ॥

शिष्यादन्यत्र देवेशि न वदेद्यस्य कस्यचित् ।
नराणां च फलप्राप्तौ भक्तिरेव हि कारणम् ॥ 204 ॥

गूढो दृढश्च प्रीतश्च मौनेन सुसमाहितः ।
सकृत्कामगतो वाऽपि पंचधा गुरुरीरितः ॥ 205 ॥

सर्वं गुरुमुखाल्लब्धं सफलं पापनाशनम् ।
यद्यदात्महितं वस्तु तत्तद्द्रव्यं न वंचयेत् ॥ 206 ॥

गुरुदेवार्पणं वस्तु तेन तुष्टोऽस्मि सुव्रते ।
श्रीगुरोः पादुकां मुद्रां मूलमंत्रं च गोपयेत् ॥ 207 ॥

नताऽस्मि ते नाथ पदारविंदं
बुद्धींद्रियप्राणमनोवचोभिः ।
यच्चिंत्यते भावित आत्मयुक्तौ
मुमुक्षिभिः कर्ममयोपशांतये ॥ 208 ॥

अनेन यद्भवेत्कार्यं तद्वदामि तव प्रिये ।
लोकोपकारकं देवि लौकिकं तु विवर्जयेत् ॥ 209 ॥

लौकिकाद्धर्मतो याति ज्ञानहीनो भवार्णवे ।
ज्ञानभावे च यत्सर्वं कर्म निष्कर्म शाम्यति ॥ 210 ॥

इमां तु भक्तिभावेन पठेद्वै शृणुयादपि ।
लिखित्वा यत्प्रदानेन तत्सर्वं फलमश्नुते ॥ 211 ॥

गुरुगीतामिमां देवि हृदि नित्यं विभावय ।
महाव्याधिगतैर्दुःखैः सर्वदा प्रजपेन्मुदा ॥ 212 ॥

गुरुगीताक्षरैकैकं मंत्रराजमिदं प्रिये ।
अन्ये च विविधाः मंत्राः कलां नार्हंति षोडशीम् ॥ 213 ॥

अनंत फलमाप्नोति गुरुगीता जपेन तु ।
सर्वपापहरा देवि सर्वदारिद्र्यनाशिनी ॥ 214 ॥

अकालमृत्युहरा चैव सर्वसंकटनाशिनी ।
यक्षराक्षसभूतादिचोरव्याघ्रविघातिनी ॥ 215 ॥

सर्वोपद्रवकुष्ठादिदुष्टदोषनिवारिणी ।
यत्फलं गुरुसान्निध्यात्तत्फलं पठनाद्भवेत् ॥ 216 ॥

महाव्याधिहरा सर्वविभूतेः सिद्धिदा भवेत् ।
अथवा मोहने वश्ये स्वयमेव जपेत्सदा ॥ 217 ॥

कुशदूर्वासने देवि ह्यासने शुभ्रकंबले ।
उपविश्य ततो देवि जपेदेकाग्रमानसः ॥ 218 ॥

शुक्लं सर्वत्र वै प्रोक्तं वश्ये रक्तासनं प्रिये ।
पद्मासने जपेन्नित्यं शांतिवश्यकरं परम् ॥ 219 ॥

वस्त्रासने च दारिद्र्यं पाषाणे रोगसंभवः ।
मेदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम् ॥ 220 ॥

कृष्णाजिने ज्ञानसिद्धिः मोक्षश्रीर्व्याघ्रचर्मणि ।
कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कंबले ॥ 221 ॥

आग्नेय्यां कर्षणं चैव वायव्यां शत्रुनाशनम् ।
नैरृत्यां दर्शनं चैव ईशान्यां ज्ञानमेव च ॥ 222 ॥

उदङ्मुखः शांतिजाप्ये वश्ये पूर्वमुखस्तथा ।
याम्ये तु मारणं प्रोक्तं पश्चिमे च धनागमः ॥ 223 ॥

मोहनं सर्वभूतानां बंधमोक्षकरं परम् ।
देवराजप्रियकरं राजानं वशमानयेत् ॥ 224 ॥

मुखस्तंभकरं चैव गुणानां च विवर्धनम् ।
दुष्कर्मनाशनं चैव तथा सत्कर्मसिद्धिदम् ॥ 225 ॥

असिद्धं साधयेत्कार्यं नवग्रहभयापहम् ।
दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम् ॥ 226 ॥

मोहशांतिकरं चैव बंधमोक्षकरं परम् ।
स्वरूपज्ञाननिलयं गीताशास्त्रमिदं शिवे ॥ 227 ॥

यं यं चिंतयते कामं तं तं प्राप्नोति निश्चयम् ।
नित्यं सौभाग्यदं पुण्यं तापत्रयकुलापहम् ॥ 228 ॥

सर्वशांतिकरं नित्यं तथा वंध्या सुपुत्रदम् ।
अवैधव्यकरं स्त्रीणां सौभाग्यस्य विवर्धनम् ॥ 229 ॥

आयुरारोग्यमैश्वर्यं पुत्रपौत्रविवर्धनम् ।
निष्कामजापी विधवा पठेन्मोक्षमवाप्नुयात् ॥ 230 ॥

अवैधव्यं सकामा तु लभते चान्यजन्मनि ।
सर्वदुःखमयं विघ्नं नाशयेत्तापहारकम् ॥ 231 ॥

सर्वपापप्रशमनं धर्मकामार्थमोक्षदम् ।
यं यं चिंतयते कामं तं तं प्राप्नोति निश्चितम् ॥ 232 ॥

काम्यानां कामधेनुर्वै कल्पते कल्पपादपः ।
चिंतामणिश्चिंतितस्य सर्वमंगलकारकम् ॥ 233 ॥

लिखित्वा पूजयेद्यस्तु मोक्षश्रियमवाप्नुयात् ।
गुरूभक्तिर्विशेषेण जायते हृदि सर्वदा ॥ 234 ॥

जपंति शाक्ताः सौराश्च गाणपत्याश्च वैष्णवाः ।
शैवाः पाशुपताः सर्वे सत्यं सत्यं न संशयः ॥ 235 ॥

इति श्रीस्कंदपुराणे उत्तरखंडे उमामहेश्वर संवादे
श्री गुरुगीतायां द्वितीयोऽध्यायः ॥




Browse Related Categories: