View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

गोपाल सहस्र नाम स्तोत्रम्

कैलासशिखरे रम्ये गौरी पप्रच्छ शंकरम् ।
ब्रह्मांडाखिलनाथस्त्वं सृष्टिसंहारकारकः ॥ 1 ॥

त्वमेव पूज्यसे लोकैर्ब्रह्मविष्णुसुरादिभिः ।
नित्यं पठसि देवेश कस्य स्तोत्रं महेश्वर ॥ 2 ॥

आश्चर्यमिदमत्यंतं जायते मम शंकर ।
तत्प्राणेश महाप्राज्ञ संशयं छिंधि मे प्रभो ॥ 3 ॥

श्रीमहादेव उवाच-
धन्यासि कृतपुण्यासि पार्वति प्राणवल्लभे ।
रहस्यातिरहस्यं च यत्पृच्छसि वरानने ॥ 4 ॥

स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि ।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ 5 ॥

दत्ते च सिद्धिहानिः स्यात्तस्माद्यत्नेन गोपयेत् ।
इदं रहस्यं परमं पुरुषार्थप्रदायकम् ॥ 6 ॥

धनरत्नौघमाणिक्यं तुरंगं च गजादिकम् ।
ददाति स्मरणादेव महामोक्षप्रदायकम् ॥ 7 ॥

तत्तेऽहं संप्रवक्ष्यामि शृणुष्वावहिता प्रिये ।
योऽसौ निरंजनो देवश्चित्स्वरूपी जनार्दनः ॥ 8 ॥

संसारसागरोत्तारकारणाय नृणां सदा ।
श्रीरंगादिकरूपेण त्रैलोक्यं व्याप्य तिष्ठति ॥ 9 ॥

ततो लोका महामूढा विष्णुभक्तिविवर्जिताः ।
निश्चयं नाधिगच्छंति पुनर्नारायणो हरिः ॥ 10 ॥

निरंजनो निराकारो भक्तानां प्रीतिकामदः ।
बृंदावनविहाराय गोपालं रूपमुद्वहन् ॥ 11 ॥

मुरलीवादनाधारी राधायै प्रीतिमावहन् ।
अंशांशेभ्यः समुन्मील्य पूर्णरूपकलायुतः ॥ 12 ॥

श्रीकृष्णचंद्रो भगवान् नंदगोपवरोद्यतः ।
धरणीरूपिणी माता यशोदा नंदगेहिनी ॥ 13 ॥

द्वाभ्यां प्रयाचितो नाथो देवक्यां वसुदेवतः ।
ब्रह्मणाऽभ्यर्थितो देवो देवैरपि सुरेश्वरः ॥ 14 ॥

जातोऽवन्यां च मुदितो मुरलीवाचनेच्छया ।
श्रिया सार्धं वचः कृत्वा ततो जातो महीतले ॥ 15 ॥

संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् ।
एतज्ज्योतिरहं वंद्यं चिंतयामि सनातनम् ॥ 16 ॥

गौरतेजो विना यस्तु श्यामतेजस्समर्चयेत् ।
जपेद्वा ध्यायते वापि स भवेत्पातकी शिवे ॥ 17 ॥

स ब्रह्महा सुरापी च स्वर्णस्तेयी च पंचमः ।
एतैर्दोषैर्विलिप्येत तेजोभेदान्महीश्वरि ॥ 18 ॥

तस्माज्ज्योतिरभूद्द्वेधा राधामाधवरूपकम् ।
तस्मादिदं महादेवि गोपालेनैव भाषितम् ॥ 19 ॥

दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमंडले ।
ततः पृष्टवती राधा संदेहं भेदमात्मनः ॥ 20 ॥

निरंजनात्समुत्पन्नं मायातीतं जगन्मयम् ।
श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥ 21 ॥

ततो नारदतस्सर्वं विरला वैष्णवास्तथा ।
कलौ जानंति देवेशि गोपनीयं प्रयत्नतः ॥ 22 ॥

शठाय कृपणायाथ डांभिकाय सुरेश्वरि ।
ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥ 23 ॥

ॐ अस्य श्रीगोपालसहस्रनामस्तोत्र महामंत्रस्य श्रीनारद ऋषिः, अनुष्टुप् छंदः, श्रीगोपालो देवता, कामो बीजं, माया शक्तिः, चंद्रः कीलकं, श्रीकृष्णचंद्र भक्तिरूपफलप्राप्तये श्रीगोपालसहस्रनामस्तोत्रजपे विनियोगः ।

ॐ ऐं क्लीं बीजं, श्रीं ह्रीं शक्तिः, श्री बृंदावननिवासः कीलकं, श्रीराधाप्रियं परं ब्रह्मेति मंत्रः, धर्मादि चतुर्विध पुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।

न्यासः ।
ॐ नारद ऋषये नमः शिरसि ।
अनुष्टुप् छंदसे नमः मुखे ।
श्रीगोपालदेवतायै नमः हृदये ।
क्लीं कीलकाय नमः नाभौ ।
ह्रीं शक्तये नमः गुह्ये ।
श्रीं कीलकाय नमः फालयोः ।
ॐ क्लीं कृष्णाय गोविंदाय गोपीजनवल्लभाय स्वाहा इति मूलमंत्रः ।

करन्यासः ।
ॐ क्लां अंगुष्ठाभ्यां नमः ।
ॐ क्लीं तर्जनीभ्यां नमः ।
ॐ क्लूं मध्यमाभ्यां नमः ।
ॐ क्लैं अनामिकाभ्यां नमः ।
ॐ क्लौं कनिष्ठिकाभ्यां नमः ।
ॐ क्लः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः ।
ॐ क्लां हृदयाय नमः ।
ॐ क्लीं शिरसे स्वाहा ।
ॐ क्लूं शिखायै वषट् ।
ॐ क्लैं कवचाय हुम् ।
ॐ क्लौं नेत्रत्रयाय वौषट् ।
ॐ क्लः अस्त्राय फट् ।

मूलमंत्रन्यासः ।
क्लीं अंगुष्ठाभ्यां नमः ।
कृष्णाय तर्जनीभ्यां नमः ।
गोविंदाय मध्यमाभ्यां नमः ।
गोपीजन अनामिकाभ्यां नमः ।
वल्लभाय कनिष्ठिकाभ्यां नमः ।
स्वाहा करतलकरपृष्ठाभ्यां नमः ।
क्लीं हृदयाय नमः ।
कृष्णाय शिरसे स्वाहा ।
गोविंदाय शिखायै वषट् ।
गोपीजन कवचाय हुम् ।
वल्लभाय नेत्रत्रयाय वौषट् ।
स्वाहा अस्त्राय फट् ।

ध्यानम् ।

फुल्लेंदीवरकांतिमिंदुवदनं बर्हावतंसप्रियं
श्रीवत्सांकमुदारकौस्तुभधरं पीतांबरं सुंदरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसंघावृतं
गोविंदं कलवेणुवादनपरं दिव्यांगभूषं भजे ॥ 1 ॥

कस्तूरीतिलकं ललाटफलके वक्षस्स्थले कौस्तुभं
नासाग्रे वरमौक्तिकं करतले वेणुं करे कंकणम् ।
सर्वांगे हरिचंदनं च कलयन् कंठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ 2 ॥

ॐ क्लीं देवः कामदेवः कामबीजशिरोमणिः ।
श्रीगोपालो महीपालो वेदवेदांगपारगः ॥ 1 ॥

कृष्णः कमलपत्राक्षः पुंडरीकः सनातनः ।
गोपतिर्भूपतिः शास्ता प्रहर्ता विश्वतोमुखः ॥ 2 ॥

आदिकर्ता महाकर्ता महाकालः प्रतापवान् ।
जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः ॥ 3 ॥

मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान् ।
नारायणो हृषीकेशो गोविंदो गरुडध्वजः ॥ 4 ॥

गोकुलेशो महाचंद्रः शर्वरीप्रियकारकः ।
कमलामुखलोलाक्षः पुंडरीकः शुभावहः ॥ 5 ॥

दुर्वासाः कपिलो भौमः सिंधुसागरसंगमः ।
गोविंदो गोपतिर्गोत्रः कालिंदीप्रेमपूरकः ॥ 6 ॥

गोपस्वामी गोकुलेंद्रः गोवर्धनवरप्रदः ।
नंदादिगोकुलत्राता दाता दारिद्र्यभंजनः ॥ 7 ॥

सर्वमंगलदाता च सर्वकामवरप्रदः ।
आदिकर्ता महीभर्ता सर्वसागरसिंधुजः ॥ 8 ॥

गजगामी गजोद्धारी कामी कामकलानिधिः ।
कलंकरहितश्चंद्रो बिंबास्यो बिंबसत्तमः ॥ 9 ॥

मालाकारः कृपाकारः कोकिलस्वरभूषणः ।
रामो नीलांबरो देही हली द्विविदमर्दनः ॥ 10 ॥

सहस्राक्षपुरीभेत्ता महामारीविनाशनः ।
शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥ 11 ॥

कुमारीवरदायी च वरेण्यो मीनकेतनः ।
नरो नारायणो धीरो धरापतिरुदारधीः ॥ 12 ॥

श्रीपतिः श्रीनिधिः श्रीमान् मापतिः प्रतिराजहा ।
बृंदापतिः कुलं ग्रामी धाम ब्रह्मसनातनः ॥ 13 ॥

रेवतीरमणो रामः प्रियश्चंचललोचनः ।
रामायणशरीरश्च रामो रामः श्रियःपतिः ॥ 14 ॥

शर्वरः शर्वरी शर्वः सर्वत्र शुभदायकः ।
राधाराधयिताराधी राधाचित्तप्रमोदकः ॥ 15 ॥

राधारतिसुखोपेतो राधामोहनतत्परः ।
राधावशीकरो राधाहृदयांभोजषट्पदः ॥ 16 ॥

राधालिंगनसम्मोदो राधानर्तनकौतुकः ।
राधासंजातसंप्रीतो राधाकामफलप्रदः ॥ 17 ॥

बृंदापतिः कोकनिधिः कोकशोकविनाशनः ।
चंद्रापतिश्चंद्रपतिश्चंडकोदंडभंजनः ॥ 18 ॥

रामो दाशरथी रामो भृगुवंशसमुद्भवः ।
आत्मारामो जितक्रोधो मोहो मोहांधभंजनः ॥ 19 ॥

वृषभानुभवो भावी काश्यपिः करुणानिधिः ।
कोलाहलो हलो हाली हली हलधरप्रियः ॥ 20 ॥

राधामुखाब्जमार्तांडो भास्करो रविजो विधुः ।
विधिर्विधाता वरुणो वारुणो वारुणीप्रियः ॥ 21 ॥

रोहिणीहृदयानंदी वसुदेवात्मजो बलिः ।
नीलांबरो रौहिणेयो जरासंधवधोऽमलः ॥ 22 ॥

नागो जवांभो विरुदो वीरहा वरदो बली ।
गोपदो विजयी विद्वान् शिपिविष्टः सनातनः ॥ 23 ॥

परशुरामवचोग्राही वरग्राही सृगालहा ।
दमघोषोपदेष्टा च रथग्राही सुदर्शनः ॥ 24 ॥

वीरपत्नीयशस्त्राता जराव्याधिविघातकः ।
द्वारकावासतत्त्वज्ञो हुताशनवरप्रदः ॥ 25 ॥

यमुनावेगसंहारी नीलांबरधरः प्रभुः ।
विभुः शरासनो धन्वी गणेशो गणनायकः ॥ 26 ॥

लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनाशकः ।
वामनो वामनीभूतो वमनो वमनारुहः ॥ 27 ॥

यशोदानंदनः कर्ता यमलार्जुनमुक्तिदः ।
उलूखली महामानो दामबद्धाह्वयी शमी ॥ 28 ॥

भक्तानुकारी भगवान् केशवोऽचलधारकः ।
केशिहा मधुहा मोही वृषासुरविघातकः ॥ 29 ॥

अघासुरविघाती च पूतनामोक्षदायकः ।
कुब्जाविनोदी भगवान् कंसमृत्युर्महामुखी ॥ 30 ॥

अश्वमेधो वाजपेयो गोमेधो नरमेधवान् ।
कंदर्पकोटिलावण्यश्चंद्रकोटिसुशीतलः ॥ 31 ॥

रविकोटिप्रतीकाशो वायुकोटिमहाबलः ।
ब्रह्मा ब्रह्मांडकर्ता च कमलावांछितप्रदः ॥ 32 ॥

कमली कमलाक्षश्च कमलामुखलोलुपः ।
कमलाव्रतधारी च कमलाभः पुरंदरः ॥ 33 ॥

सौभाग्याधिकचित्तश्च महामायी मदोत्कटः ।
ताटकारिः सुरत्राता मारीचक्षोभकारकः ॥ 34 ॥

विश्वामित्रप्रियो दांतो रामो राजीवलोचनः ।
लंकाधिपकुलध्वंसी विभीषणवरप्रदः ॥ 35 ॥

सीतानंदकरो रामो वीरो वारिधिबंधनः ।
खरदूषणसंहारी साकेतपुरवासवान् ॥ 36 ॥

चंद्रावलिपतिः कूलः केशिकंसवधोऽमरः ।
माधवो मधुहा माध्वी माध्वीको माधवी विभुः ॥ 37 ॥

मुंजाटवीगाहमानो धेनुकारिर्दशात्मजः ।
वंशीवटविहारी च गोवर्धनवनाश्रयः ॥ 38 ॥

तथा तालवनोद्देशी भांडीरवनशंकरः ।
तृणावर्तकृपाकारी वृषभानुसुतापतिः ॥ 39 ॥

राधाप्राणसमो राधावदनाब्जमधूत्कटः ।
गोपीरंजनदैवज्ञः लीलाकमलपूजितः ॥ 40 ॥

क्रीडाकमलसंदोहो गोपिकाप्रीतिरंजनः ।
रंजको रंजनो रंगो रंगी रंगमहीरुहः ॥ 41 ॥

कामः कामारिभक्तश्च पुराणपुरुषः कविः ।
नारदो देवलो भीमो बालो बालमुखांबुजः ॥ 42 ॥

अंबुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः ।
ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥ 43 ॥

पद्मनाभः सुरज्येष्ठो ब्रह्मा रुद्रोऽहिभूषितः ।
गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रहिः ॥ 44 ॥

गणाश्रयो गणाध्यक्षो क्रोडीकृतजगत्त्रयः ।
यादवेंद्रो द्वारकेंद्रो मथुरावल्लभो धुरी ॥ 45 ॥

भ्रमरः कुंतली कुंतीसुतरक्षी महामनाः ।
यमुनावरदाता च काश्यपस्य वरप्रदः ॥ 46 ॥

शंखचूडवधोद्दामो गोपीरक्षणतत्परः ।
पांचजन्यकरो रामी त्रिरामी वनजो जयः ॥ 47 ॥

फाल्गुणः फल्गुनसखो विराधवधकारकः ।
रुक्मिणीप्राणनाथश्च सत्यभामाप्रियंकरः ॥ 48 ॥

कल्पवृक्षो महावृक्षो दानवृक्षो महाफलः ।
अंकुशो भूसुरो भावो भामको भ्रामको हरिः ॥ 49 ॥

सरलः शाश्वतो वीरो यदुवंशशिवात्मकः ।
प्रद्युम्नो बलकर्ता च प्रहर्ता दैत्यहा प्रभुः ॥ 50 ॥

महाधनो महावीरो वनमालाविभूषणः ।
तुलसीदामशोभाढ्यो जालंधरविनाशनः ॥ 51 ॥

सूरः सूर्यो मृकंडुश्च भास्वरो विश्वपूजितः ।
रविस्तमोहा वह्निश्च बाडबो बडबानलः ॥ 52 ॥

दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः ।
गोपीनाथो महीनाथो बृंदानाथोऽवरोधकः ॥ 53 ॥

प्रपंची पंचरूपश्च लतागुल्मश्च गोमतिः ।
गंगा च यमुनारूपो गोदा वेत्रवती तथा ॥ 54 ॥

कावेरी नर्मदा तापी गंडकी सरयू रजः ।
राजसस्तामसस्सत्त्वी सर्वांगी सर्वलोचनः ॥ 55 ॥

सुधामयोऽमृतमयो योगिनां वल्लभः शिवः ।
बुद्धो बुद्धिमतां श्रेष्ठो विष्णुर्जिष्णुः शचीपतिः ॥ 56 ॥

वंशी वंशधरो लोको विलोको मोहनाशनः ।
रवरावो रवो रावो वलो वालो वलाहकः ॥ 57 ॥

शिवो रुद्रो नलो नीलो लांगली लांगलाश्रयः ।
पारदः पावनो हंसो हंसारूढो जगत्पतिः ॥ 58 ॥

मोहिनीमोहनो मायी महामायो महासुखी ।
वृषो वृषाकपिः कालः कालीदमनकारकः ॥ 59 ॥

कुब्जाभाग्यप्रदो वीरो रजकक्षयकारकः ।
कोमलो वारुणी राजा जलजो जलधारकः ॥ 60 ॥

हारकः सर्वपापघ्नः परमेष्ठी पितामहः ।
खड्गधारी कृपाकारी राधारमणसुंदरः ॥ 61 ॥

द्वादशारण्यसंभोगी शेषनागफणालयः ।
कामः श्यामः सुखश्रीदः श्रीपतिः श्रीनिधिः कृतिः ॥ 62 ॥

हरिर्हरो नरो नारो नरोत्तम इषुप्रियः ।
गोपालचित्तहर्ता च कर्ता संसारतारकः ॥ 63 ॥

आदिदेवो महादेवो गौरीगुरुरनाश्रयः ।
साधुर्मधुर्विधुर्धाता त्राताऽक्रूरपरायणः ॥ 64 ॥

रोलंबी च हयग्रीवो वानरारिर्वनाश्रयः ।
वनं वनी वनाध्यक्षो महावंद्यो महामुनिः ॥ 65 ॥

स्यमंतकमणिप्राज्ञः विज्ञो विघ्नविघातकः ।
गोवर्धनो वर्धनीयो वर्धनी वर्धनप्रियः ॥ 66 ॥

वार्धन्यो वर्धनो वर्धी वर्धिष्णस्तु सुखप्रियः ।
वर्धितो वर्धको वृद्धो बृंदारकजनप्रियः ॥ 67 ॥

गोपालरमणीभर्ता सांबकुष्ठविनाशनः ।
रुक्मिणीहरणप्रेमा प्रेमी चंद्रावलीपतिः ॥ 68 ॥

श्रीकर्ता विश्वभर्ता च नारायण नरो बली ।
गणो गणपतिश्चैव दत्तात्रेयो महामुनिः ॥ 69 ॥

व्यासो नारायणो दिव्यो भव्यो भावुकधारकः ।
श्वःश्रेयसं शिवं भद्रं भावुकं भवुकं शुभम् ॥ 70 ॥

शुभात्मकः शुभः शास्ता प्रशस्तो मेघनादहा ।
ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षमः ॥ 71 ॥

कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः ।
कृष्णः कामी सदा कृष्णः समस्तप्रियकारकः ॥ 72 ॥

नंदो नंदी महानंदी मादी मादनकः किली ।
मीली हिली गिली गोली गोलो गोलालयो गुली ॥ 73 ॥

गुग्गुली मारकी शाखी वटः पिप्पलकः कृती ।
म्लेच्छहा कालहर्ता च यशोदा यश एव च ॥ 74 ॥

अच्युतः केशवो विष्णुः हरिः सत्यो जनार्दनः ।
हंसो नारायणो नीलो लीनो भक्तिपरायणः ॥ 75 ॥

जानकीवल्लभो रामो विरामो विषनाशनः ।
सिंहभानुर्महाभानु-र्वीरभानुर्महोदधिः ॥ 76 ॥

समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।
गोकुलानंदकारी च प्रतिज्ञापरिपालकः ॥ 77 ॥

सदारामः कृपारामो महारामो धनुर्धरः ।
पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥ 78 ॥

कमलाश्वतरो रामो रामायणप्रवर्तकः ।
द्यौर्दिवो दिवसो दिव्यो भव्यो भागी भयापहः ॥ 79 ॥

पार्वतीभाग्यसहितो भर्ता लक्ष्मीसहायवान् । [विलासवान्]
विलासी साहसी सर्वी गर्वी गर्वितलोचनः ॥ 80 ॥

सुरारिर्लोकधर्मज्ञो जीवनो जीवनांतकः ।
यमो यमारिर्यमनो यमी यामविघातकः ॥ 81 ॥

वंशुली पांशुली पांसुः पांडुरर्जुनवल्लभः ।
ललिता चंद्रिकामाला माली मालांबुजाश्रयः ॥ 82 ॥

अंबुजाक्षो महायक्षो दक्षश्चिंतामणिप्रभुः ।
मणिर्दिनमणिश्चैव केदारो बदरीश्रयः ॥ 83 ॥

बदरीवनसंप्रीतो व्यासः सत्यवतीसुतः ।
अमरारिनिहंता च सुधासिंधुविधूदयः ॥ 84 ॥

चंद्रो रविः शिवः शूली चक्री चैव गदाधरः ।
श्रीकर्ता श्रीपतिः श्रीदः श्रीदेवो देवकीसुतः ॥ 85 ॥

श्रीपतिः पुंडरीकाक्षः पद्मनाभो जगत्पतिः ।
वासुदेवोऽप्रमेयात्मा केशवो गरुडध्वजः ॥ 86 ॥

नारायणः परं धाम देवदेवो महेश्वरः ।
चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥ 87 ॥

भगवान् सर्वभूतेशो गोपालः सर्वपालकः ।
अनंतो निर्गुणो नित्यो निर्विकल्पो निरंजनः ॥ 88 ॥

निराधारो निराकारो निराभासो निराश्रयः ।
पुरुषः प्रणवातीतो मुकुंदः परमेश्वरः ॥ 89 ॥

क्षणावनिः सार्वभौमो वैकुंठो भक्तवत्सलः ।
विष्णुर्दामोदरः कृष्णो माधवो मथुरापतिः ॥ 90 ॥

देवकीगर्भसंभूतो यशोदावत्सलो हरिः ।
शिवः संकर्षणः शंभुर्भूतनाथो दिवस्पतिः ॥ 91 ॥

अव्ययः सर्वधर्मज्ञो निर्मलो निरुपद्रवः ।
निर्वाणनायको नित्यो नीलजीमूतसन्निभः ॥ 92 ॥

कलाक्षयश्च सर्वज्ञः कमलारूपतत्परः ।
हृषीकेशः पीतवासा वसुदेवप्रियात्मजः ॥ 93 ॥

नंदगोपकुमारार्यो नवनीताशनो विभुः ।
पुराणः पुरुषश्रेष्ठः शंखपाणिः सुविक्रमः ॥ 94 ॥

अनिरुद्धश्चक्रधरः शार्ङ्गपाणिश्चतुर्भुजः ।
गदाधरः सुरार्तिघ्नो गोविंदो नंदकायुधः ॥ 95 ॥

बृंदावनचरः शौरिर्वेणुवाद्यविशारदः ।
तृणावर्तांतको भीमसाहसो बहुविक्रमः ॥ 96 ॥

शकटासुरसंहारी बकासुरविनाशनः ।
धेनुकासुरसंहारी पूतनारिर्नृकेसरी ॥ 97 ॥

पितामहो गुरुस्साक्षी प्रत्यगात्मा सदाशिवः ।
अप्रमेयः प्रभुः प्राज्ञोऽप्रतर्क्यः स्वप्नवर्धनः ॥ 98 ॥

धन्यो मान्यो भवो भावो धीरः शांतो जगद्गुरुः ।
अंतर्यामीश्वरो दिव्यो दैवज्ञो देवसंस्तुतः ॥ 99 ॥

क्षीराब्धिशयनो धाता लक्ष्मीवान् लक्ष्मणाग्रजः ।
धात्रीपतिरमेयात्मा चंद्रशेखरपूजितः ॥ 100 ॥

लोकसाक्षी जगच्चक्षुः पुण्यचारित्रकीर्तनः ।
कोटिमन्मथसौंदर्यो जगन्मोहनविग्रहः ॥ 101 ॥

मंदस्मिततनुर्गोपगोपिकापरिवेष्टितः ।
फुल्लारविंदनयनश्चाणूरांध्रनिषूदनः ॥ 102 ॥

इंदीवरदलश्यामो बर्हिबर्हावतंसकः ।
मुरलीनिनदाह्लादो दिव्यमालांबरावृतः ॥ 103 ॥

सुकपोलयुगः सुभ्रूयुगलः सुललाटकम् ।
कंबुग्रीवो विशालाक्षो लक्ष्मीवांछुभलक्षणः ॥ 104 ॥

पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तिस्त्रिविक्रमः ।
कलंकरहितः शुद्धो दुष्टशत्रुनिबर्हणः ॥ 105 ॥

किरीटकुंडलधरः कटकांगदमंडितः ।
मुद्रिकाभरणोपेतः कटिसूत्रविराजितः ॥ 106 ॥

मंजीररंजितपदः सर्वाभरणभूषितः ।
विन्यस्तपादयुगलो दिव्यमंगलविग्रहः ॥ 107 ॥

गोपिकानयनानंदः पूर्णचंद्रनिभाननः ।
समस्तजगदानंदः सुंदरो लोकनंदनः ॥ 108 ॥

यमुनातीरसंचारी राधामन्मथवैभवः ।
गोपनारीप्रियो दांतो गोपीवस्त्रापहारकः ॥ 109 ॥

शृंगारमूर्तिः श्रीधामा तारको मूलकारणम् ।
सृष्टिसंरक्षणोपायः क्रूरासुरविभंजनः ॥ 110 ॥

नरकासुरसंहारी मुरारिर्वैरिमर्दनः ।
आदितेयप्रियो दैत्यभीकरो यदुशेखरः ॥ 111 ॥

जरासंधकुलध्वंसी कंसारातिः सुविक्रमः ।
पुण्यश्लोकः कीर्तनीयो यादवेंद्रो जगन्नुतः ॥ 112 ॥

रुक्मिणीरमणः सत्यभामाजांबवतीप्रियः ।
मित्रविंदानाग्नजितीलक्ष्मणासमुपासितः ॥ 113 ॥

सुधाकरकुले जातोऽनंतः प्रबलविक्रमः ।
सर्वसौभाग्यसंपन्नो द्वारकापट्टणस्थितः ॥ 114 ॥

भद्रासूर्यसुतानाथो लीलामानुषविग्रहः ।
सहस्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥ 115 ॥

वेदांतवेद्यः संवेद्यो वैद्यो ब्रह्मांडनायकः ।
गोवर्धनधरो नाथः सर्वजीवदयापरः ॥ 116 ॥

मूर्तिमान् सर्वभूतात्मा आर्तत्राणपरायणः ।
सर्वज्ञः सर्वसुलभः सर्वशास्त्रविशारदः ॥ 117 ॥

षड्गुणैश्वर्यसंपन्नः पूर्णकामो धुरंधरः ।
महानुभावः कैवल्यदायको लोकनायकः ॥ 118 ॥

आदिमध्यांतरहितः शुद्धसात्त्विकविग्रहः ।
असमानः समस्तात्मा शरणागतवत्सलः ॥ 119 ॥

उत्पत्तिस्थितिसंहारकारणं सर्वकारणम् ।
गंभीरः सर्वभावज्ञः सच्चिदानंदविग्रहः ॥ 120 ॥

विष्वक्सेनः सत्यसंधः सत्यवाक् सत्यविक्रमः ।
सत्यव्रतः सत्यरतः सत्यधर्मपरायणः ॥ 121 ॥

आपन्नार्तिप्रशमनः द्रौपदीमानरक्षकः ।
कंदर्पजनकः प्राज्ञो जगन्नाटकवैभवः ॥ 122 ॥

भक्तिवश्यो गुणातीतः सर्वैश्वर्यप्रदायकः ।
दमघोषसुतद्वेषी बाणबाहुविखंडनः ॥ 123 ॥

भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः ।
कौंतेयप्रियबंधुश्च पार्थस्यंदनसारथिः ॥ 124 ॥

नारसिंहो महावीरः स्तंभजातो महाबलः ।
प्रह्लादवरदः सत्यो देवपूज्योऽभयंकरः ॥ 125 ॥

उपेंद्र इंद्रावरजो वामनो बलिबंधनः ।
गजेंद्रवरदः स्वामी सर्वदेवनमस्कृतः ॥ 126 ॥

शेषपर्यंकशयनो वैनतेयरथो जयी ।
अव्याहतबलैश्वर्यसंपन्नः पूर्णमानसः ॥ 127 ॥

योगीश्वरेश्वरः साक्षी क्षेत्रज्ञो ज्ञानदायकः ।
योगिहृत्पंकजावासो योगमायासमन्वितः ॥ 128 ॥

नादबिंदुकलातीतश्चतुर्वर्गफलप्रदः ।
सुषुम्नामार्गसंचारी देहस्यांतरसंस्थितः ॥ 129 ॥

देहेंद्रियमनःप्राणसाक्षी चेतःप्रसादकः ।
सूक्ष्मः सर्वगतो देही ज्ञानदर्पणगोचरः ॥ 130 ॥

तत्त्वत्रयात्मकोऽव्यक्तः कुंडली समुपाश्रितः ।
ब्रह्मण्यः सर्वधर्मज्ञः शांतो दांतो गतक्लमः ॥ 131 ॥

श्रीनिवासः सदानंदो विश्वमूर्तिर्महाप्रभुः ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ 132 ॥

समस्तभुवनाधारः समस्तप्राणरक्षकः ।
समस्तस्सर्वभावज्ञो गोपिकाप्राणवल्लभः ॥ 133 ॥

नित्योत्सवो नित्यसौख्यो नित्यश्रीर्नित्यमंगलम् ।
व्यूहार्चितो जगन्नाथः श्रीवैकुंठपुराधिपः ॥ 134 ॥

पूर्णानंदघनीभूतो गोपवेषधरो हरिः ।
कलापकुसुमश्यामः कोमलः शांतविग्रहः ॥ 135 ॥

गोपांगनावृतोऽनंतो बृंदावनसमाश्रयः ।
वेणुनादरतः श्रेष्ठो देवानां हितकारकः ॥ 136 ॥

जलक्रीडासमासक्तो नवनीतस्य तस्करः ।
गोपालकामिनीजारश्चोरजारशिखामणिः ॥ 137 ॥

परंज्योतिः पराकाशः परावासः परिस्फुटः ।
अष्टादशाक्षरो मंत्रो व्यापको लोकपावनः ॥ 138 ॥

सप्तकोटिमहामंत्रशेखरो देवशेखरः ।
विज्ञानज्ञानसंधानस्तेजोराशिर्जगत्पतिः ॥ 139 ॥

भक्तलोकप्रसन्नात्मा भक्तमंदारविग्रहः ।
भक्तदारिद्र्यशमनो भक्तानां प्रीतिदायकः ॥ 140 ॥

भक्ताधीनमनाः पूज्यो भक्तलोकशिवंकरः ।
भक्ताभीष्टप्रदः सर्वभक्ताघौघनिकृंतकः ॥ 141 ॥

अपारकरुणासिंधुर्भगवान् भक्ततत्परः ॥ 142 ॥

[इति श्रीराधिकानाथ नाम्नां साहस्रमीरितम् । ]
स्मरणात्पापराशीनां खंडनं मृत्युनाशनम् ॥ 1 ॥

वैष्णवानां प्रियकरं महादारिद्र्यनाशनम् ।
ब्रह्महत्यासुरापानं परस्त्रीगमनं तथा ॥ 2 ॥

परद्रव्यापहरणं परद्वेषसमन्वितम् ।
मानसं वाचिकं कायं यत्पापं पापसंभवम् ॥ 3 ॥

सहस्रनामपठनात्सर्वे नश्यंति तत्क्षणात् ।
महादारिद्र्ययुक्तो वै वैष्णवो विष्णुभक्तिमान् ॥ 4 ॥

कार्तिक्यां यः पठेद्रात्रौ शतमष्टोत्तरं क्रमात् ।
पीतांबरधरो धीमान् सुगंधी पुष्पचंदनैः ॥ 5 ॥

पुस्तकं पूजयित्वा च नैवेद्यादिभिरेव च ।
राधाध्यानांकितो धीरो वनमालाविभूषितः ॥ 6 ॥

शतमष्टोत्तरं देवि पठेन्नामसहस्रकम् ।
चैत्रे कृष्णे च शुक्ले च कुहूसंक्रांतिवासरे ॥ 7 ॥

पठितव्यं प्रयत्नेन त्रैलोक्यं मोहयेत् क्षणात् ।
तुलसीमालया युक्तो वैष्णवो भक्तितत्परः ॥ 8 ॥

रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे ।
ब्राह्मणं पूजयित्वा च भोजयित्वा विधानतः ॥ 9 ॥

पठेन्नामसहस्रं च ततः सिद्धिः प्रजायते ।
महानिशायां सततं वैष्णवो यः पठेत्सदा ॥ 10 ॥

देशांतरगता लक्ष्मीः समायाति न संशयः ।
त्रैलोक्ये तु महादेवि सुंदर्यः काममोहिताः ॥ 11 ॥

मुग्धाः स्वयं समायांति वैष्णवं च भजंति ताः ।
रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बंधनात् ॥ 12 ॥

गर्भिणी जनयेत्पुत्रं कन्या विंदति सत्पतिम् ।
राजानो वशतां यांति किं पुनः क्षुद्रमानुषाः ॥ 13 ॥

सहस्रनामश्रवणात् पठनात् पूजनात् प्रिये ।
धारणात् सर्वमाप्नोति वैष्णवो नात्र संशयः ॥ 14 ॥

वंशीवटे चान्यवटे तथा पिप्पलकेऽथ वा ।
कदंबपादपतले श्रीगोपालस्य सन्निधौ ॥ 15 ॥

यः पठेद्वैष्णवो नित्यं स याति हरिमंदिरम् ।
कृष्णेनोक्तं राधिकायै तया प्रोक्तं पुरा शिवे ॥ 16 ॥

नारदाय मया प्रोक्तं नारदेन प्रकाशितम् ।
मया तव वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥ 17 ॥

गोपनीयं प्रयत्नेन न प्रकाश्यं कदाचन ।
शठाय पापिने चैव लंपटाय विशेषतः ॥ 18 ॥

न दातव्यं न दातव्यं न दातव्यं कदाचन ।
देयं शांताय शिष्याय विष्णुभक्तिरताय च ॥ 19 ॥

गोदानब्रह्मयज्ञादेर्वाजपेयशतस्य च ।
अश्वमेधसहस्रस्य फलं पाठे भवेद्ध्रुवम् ॥ 20 ॥

मोहनं स्तंभनं चैव मारणोच्चाटनादिकम् ।
यद्यद्वांछति चित्तेन तत्तत्प्राप्नोति वैष्णवः ॥ 21 ॥

एकादश्यां नरः स्नात्वा सुगंधद्रव्यतैलकैः ।
आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् ॥ 22 ॥

ततः प्रारंभकर्तासौ सर्वं प्राप्नोति मानवः ।
शतावृत्त सहस्रं च यः पठेद्वैष्णवो जनः ॥ 23 ॥

श्रीबृंदावनचंद्रस्य प्रसादात्सर्वमाप्नुयात् ।
यद्गृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥ 24 ॥

न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित् ।
सर्पादिभूतयक्षाद्या नश्यंते नात्र संशयः ॥ 25 ॥

श्रीगोपालो महादेवि वसेत्तस्य गृहे सदा ।
यद्गृहे च सहस्रं च नाम्नां तिष्ठति पूजितम् ॥ 26 ॥

इति श्रीसम्मोहनतंत्रे हरगौरीसंवादे श्रीगोपाल सहस्रनामस्तोत्रम् ।




Browse Related Categories: