View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

कुंती स्तुतिः (भागवत पुराण)

(श्रीमद्भागवत महापुराणे प्रथमस्कंधे अष्टमाध्यायः)

कुंत्युवाच ।

नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृतेः परम् ।
अलक्ष्यं सर्वभूतानामंतर्बहिरवस्थितम् ॥ 18 ॥

मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम् ।
न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ 19 ॥

तथा परमहंसानां मुनीनाममलात्मनाम् ।
भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥ 20 ॥

कृष्णाय वासुदेवाय देवकीनंदनाय च ।
नंदगोपकुमाराय गोविंदाय नमो नमः ॥ 21 ॥

नमः पंकजनाभाय नमः पंकजमालिने ।
नमः पंकजनेत्राय नमस्ते पंकजांघ्रये ॥ 22 ॥

यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता ।
विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात् ॥ 23 ॥

विषान्महाग्नेः पुरुषाददर्शनादसत्सभाया वनवासकृच्छ्रतः ।
मृधे मृधेऽनेकमहाऱथास्त्रतो द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः ॥ 24 ॥

विपदः संतु ताः शश्वत्तत्र तत्र जगद्गुरो ।
भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥ 25 ॥

जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान् ।
नैवार्हत्यभिधातुं वै त्वामकिंचनगोचरम् ॥ 26 ॥

नमोऽकिंचनवित्ताय निवृत्तगुणवृत्तये ।
आत्मारामाय शांताय कैवल्यपतये नमः ॥ 27 ॥

मन्ये त्वां कालमीशानमनादिनिधनं विभुम् ।
समं चरंतं सर्वत्र भूतानां यन्मिथः कलिः ॥ 28 ॥

न वेद कश्चिद्भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडंबनम् ।
न यस्य कश्चिद्दयितोऽस्ति कर्हिचिद्द्वेष्यश्च यस्मिन्विषमा मतिर्नृणाम् ॥ 29 ॥

जन्म कर्म च विश्वात्मन्नजस्याकर्तुरात्मनः ।
तिर्यंनृषिषु यादःसु तदत्यंतविडंबनम् ॥ 30 ॥

गोप्याददे त्वयि कृतागसि दाम तावद्याते दशाश्रुकलिलांजनसंभ्रमाक्षम् ।
वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्बिभेति ॥ 31 ॥

केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये ।
यदोः प्रियस्यान्ववाये मलयस्येव चंदनम् ॥ 32 ॥

अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् ।
अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥ 33 ॥

भारावतारणायान्ये भुवो नाव इवोदधौ ।
सीदंत्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥ 34 ॥

भवेस्मिन्क्लिश्यमानानामविद्याकामकर्मभिः ।
श्रवणस्मरणार्हाणि करिष्यन्निति केचन ॥ 35 ॥

शृण्वंति गायंति गृणंत्यभीक्ष्णशः स्मरंति नंदंति तवेहितं जनाः ।
त एव पश्यंत्यचिरेण तावकं भवप्रवाहोपरमं पदांबुजम् ॥ 36 ॥

अप्यद्य नस्त्वं स्वकृतेहित प्रभो जिहाससि स्वित्सुहृदोऽनुजीविनः ।
येषां न चान्यद्भवतः पदांबुजात्परायणं राजसु योजितांहसाम् ॥ 37 ॥

के वयं नामरूपाभ्यां यदुभिः सह पांडवाः ।
भवतोऽदर्शनं यर्हि हृषीकाणामिवेशितुः ॥ 38 ॥

नेयं शोभिष्यते तत्र यथेदानीं गदाधर ।
त्वत्पदैरंकिता भाति स्वलक्षणविलक्षितैः ॥ 39 ॥

इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः ।
वनाद्रिनद्युदन्वंतो ह्येधंते तव वीक्षितैः ॥ 40 ॥

अथ विश्वेश विश्वात्मन्विश्वमूर्ते स्वकेषु मे ।
स्नेहपाशमिमं छिंधि दृढं पांडुषु वृष्णिषु ॥ 41 ॥

त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् ।
रतिमुद्वहतादद्धा गंगेवौघमुदन्वति ॥ 42 ॥

श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिद्रुग्राजन्यवंशदहनानपवर्गवीर्य ।
गोविंद गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन्नमस्ते ॥ 43 ॥

॥ इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कंधे अष्टमेऽध्याये श्रीकुंतीकृतकृष्णस्तुतिः संपूर्णा ॥




Browse Related Categories: