View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

हंस गुह्य स्तोत्रम् (भागवत पुराण)

(भागवतपुराणांतर्गतम्)

नमः परायावितथानुभूतये
गुणत्रयाभासनिमित्तबंधवे ।
अदृष्टधाम्ने गुणतत्त्वबुद्धिभिः
निवृत्तमानाय दधे स्वयंभुवे ॥ 1 ॥

न यस्य सख्यं पुरुषोऽवैति सख्युः
सखा वसन्संवसतः पुरेऽस्मिन् ।
गुणो यथा गुणिनो व्यक्तदृष्टेः
तस्मै महेशाय नमस्करोमि ॥ 2 ॥

देहोऽसवोऽक्षा मनवो भूतमात्रा
नात्मानमन्यं च विदुः परं यत् ।
सर्वं पुमान् वेद गुणांश्च तज्ज्ञो
न वेद सर्वज्ञमनंतमीडे ॥ 3 ॥

यदोपरामो मनसो नामरूप-
रूपस्य दृष्टस्मृतिसप्रमोषात् ।
य ईयते केवलया स्वसंस्थया
हंसाय तस्मै शुचिसद्मने नमः ॥ 4 ॥

मनीषिणोऽंतर्हदि सन्निवेशितं
स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः ।
वह्निं यथा दारुणि पांचदश्यं
मनीषया निष्कर्षंति गूढम् ॥ 5 ॥

स वै ममाशेषविशेषमाया
निषेधनिवाणसुखानुभूतिः ।
स सर्वनामा स च विश्वरूपः
प्रसीदतामनिरुक्तात्मशक्तिः ॥ 6 ॥

यद्यन्निरुक्तं वचसा निरूपितं
धियाऽक्षभिर्वा मनसा वोत यस्य ।
मा भूत्स्वरूपं गुणरूपं हि तत्तत्
स वै गुणापायविसर्गलक्षणः ॥ 7 ॥

यस्मिन् यतो येन च यस्य यस्मै
यद्यो यथा कुरूते कार्यते च ।
परावरेषां परमं प्राक् प्रसिद्धं
तद्ब्रह्म तद्धेतुरनन्यदेकम् ॥ 8 ॥

यच्छक्तयो वदतां वादितां वै
विवादसंवादभुवो भवंति ।
कुर्वंति चैषां मुहुरात्ममोहं
तस्मै नमोऽनंतगुणाय भूम्ने ॥ 9 ॥

अस्तीति नास्तीति च वस्तुनिष्ठयोः
एकस्थयोर्भिन्नविरुद्धधर्मयोः ।
अवेक्षितं किं च न योगसांख्ययोः
समं परं ह्यनुकूलं बृहत्तत् ॥ 10 ॥

योऽनुगहार्थं भजतां पादमूलमनामरूपो भगवाननंतः ।
नामानि रूपाणि च जन्मकर्मभिर्भेजे स मह्यं परमः प्रसीदतु ॥ 11 ॥

यः प्राकृतैर्ज्ञानपथैर्जनानां
यथाशयं देहगतो विभाति ।
यथानिलः पार्थिवमाश्रितो गुणं
स ईश्वरो मे कुरुतान्मनोरथम् ॥ 12 ॥

॥ इति हंसगुह्यस्तोत्रं संपूर्णम् ॥




Browse Related Categories: