View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

चित्रकॆतु स्तुतिः (अनंत स्तोत्रं भागवत पुराण)

(श्रीमद्भागवतं 6.16.34-48)

चित्रकेतुरुवाच ।
अजित जितः सममतिभिः साधुभि-
र्भवान् जितात्मभिर्भवता ।
विजितास्तेऽपि च भजतामकामात्मनां
य आत्मदोऽतिकरुणः ॥ 34 ॥

तव विभवः खलु भगवन्
जगदुदयस्थितिलयादीनि ।
विश्वसृजस्तेंऽशांशास्तत्र
मृषा स्पर्धंते पृथगभिमत्या ॥ 35 ॥

परमाणुपरममहतोस्त्व-
माद्यंतांतरवर्ती त्रयविधुरः ।
आदावंतेऽपि च सत्त्वानां
यद्ध्रुवं तदेवांतरालेऽपि ॥ 36 ॥

क्षित्यादिभिरेष किलावृतः
सप्तभिर्दशगुणोत्तरैरंडकोशः ।
यत्र पतत्यणुकल्पः
सहांडकोटिकोटिभिस्तदनंतः ॥ 37 ॥

विषयतृषो नरपशवो
य उपासते विभूतीर्न परं त्वाम् ।
तेषामाशिष ईश तदनु
विनश्यंति यथा राजकुलम् ॥ 38 ॥

कामधियस्त्वयि रचिता
न परम रोहंति यथा करंभबीजानि ।
ज्ञानात्मन्यगुणमये
गुणगणतोऽस्य द्वंद्वजालानि ॥ 39 ॥

जितमजित तदा भवता
यदाह भागवतं धर्ममनवद्यम् ।
निष्किंचना ये मुनय आत्मारामा
यमुपासतेऽपवर्गाय ॥ 40 ॥

विषममतिर्न यत्र नृणां
त्वमहमिति मम तवेति च यदन्यत्र ।
विषमधिया रचितो यः
स ह्यविशुद्धः क्षयिष्णुरधर्मबहुलः ॥ 41 ॥

कः क्षेमो निजपरयोः
कियानर्थः स्वपरद्रुहा धर्मेण ।
स्वद्रोहात्तव कोपः
परसंपीडया च तथाधर्मः ॥ 42 ॥

न व्यभिचरति तवेक्षा यया
ह्यभिहितो भागवतो धर्मः ।
स्थिरचरसत्त्वकदंबेष्वपृथग्धियो
यमुपासते त्वार्याः ॥ 43 ॥

न हि भगवन्नघटितमिदं
त्वद्दर्शनान्नृणामखिलपापक्षयः ।
यन्नाम सकृच्छ्रवणात्पुल्कसकोऽपि
विमुच्यते संसारात् ॥ 44 ॥

अथ भगवन् वयमधुना
त्वदवलोकपरिमृष्टाशयमलाः ।
सुरऋषिणा यदुदितं तावकेन
कथमन्यथा भवति ॥ 45 ॥

विदितमनंत समस्तं तव
जगदात्मनो जनैरिहाचरितम् ।
विज्ञाप्यं परमगुरोः कियदिव
सवितुरिव खद्योतैः ॥ 46 ॥

नमस्तुभ्यं भगवते सकलजग-
त्स्थितिलयोदयेशाय ।
दुरवसितात्मगतये
कुयोगिनां भिदा परमहंसाय ॥ 47 ॥

यं वै श्वसंतमनु विश्वसृजः श्वसंति
यं चेकितानमनु चित्तय उच्चकंति ।
भूमंडलं सर्षपायति यस्य मूर्ध्नि
तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने ॥ 48 ॥

॥ इति श्रीमद्भागवतमहापुराणे षष्ठस्कंधे षोडशाध्यायांतर्गतं चित्रकेतुकृतं अनंतस्तोत्रम् ॥




Browse Related Categories: