View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री महा कालभैरव कवचं

श्रीदेव्युवाच ।
देवदेव महाबाहो भक्तानां सुखवर्धन ।
केन सिद्धिं ददात्याशु काली त्रैलोक्यमोहन ॥ 1॥

तन्मे वद दयाऽऽधार साधकाभीष्टसिद्धये ।
कृपां कुरु जगन्नाथ वद वेदविदां वर ॥ 2॥

श्रीभैरव उवाच ।
गोपनीयं प्रयत्नेन तत्त्वात् तत्त्वं परात्परम् ।
एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥ 3॥

महाकालमहं वंदे सर्वसिद्धिप्रदायकम् ।
देवदानवगंधर्वकिन्नरपरिसेवितम् ॥ 4॥

कवचं तत्त्वदेवस्य पठनाद् घोरदर्शने ।
सत्यं भवति सान्निध्यं कवचस्तवनांतरात् ॥ 5॥

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।
साम्राज्यत्वं प्रियं दत्वा पुत्रवत् परिपालयेत् ॥ 6॥

कवचस्य ऋषिर्देवी कालिका दक्षिणा तथा
विराट्छंदः सुविज्ञेयं महाकालस्तु देवता ।
कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ 7॥

ॐ श्मशानस्थो महारुद्रो महाकालो दिगंबरः ।
कपालकर्तृका वामे शूलं खट्वांगं दक्षिणे ॥ 8॥

भुजंगभूषिते देवि भस्मास्थिमणिमंडितः ।
ज्वलत्पावकमध्यस्थो भस्मशय्याव्यवस्थितः ॥ 9॥

विपरीतरतां तत्र कालिकां हृदयोपरि ।
पेयं खाद्यं च चोष्यं च तौ कृत्वा तु परस्परम् ।
एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ 10॥

प्रणवं पूर्वमुच्चार्य महाकालाय तत्पदम् ।
नमः पातु महामंत्रः सर्वशास्त्रार्थपारगः ॥ 11॥

अष्टक्षरो महा मंत्रः सर्वाशापरिपूरकः ।
सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ 12॥

कूर्चद्वंद्वं महाकाल प्रसीदेति पदद्वयम् ।
लज्जायुग्मं वह्निजाया स तु राजेश्वरो महान् ॥ 13॥

मंत्रग्रहणमात्रेण भवेत सत्यं महाकविः ।
गद्यपद्यमयी वाणी गंगानिर्झरिता तथा ॥ 14॥

तस्य नाम तु देवेशि देवा गायंति भावुकाः ।
शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनंतरम् ॥ 15॥

महाकालपदं दत्वा मायाबीजयुगं तथा ।
कूर्चमेकं समुद्धृत्य महामंत्रो दशाक्षरः ॥ 16॥

राजस्थाने दुर्गमे च पातु मां सर्वतो मुदा ।
वेदादिबीजमादाय भगमान् तदनंतरम् ॥ 17॥

महाकालाय संप्रोच्य कूर्चं दत्वा च ठद्वयम् ।
ह्रींकारपूर्वमुद्धृत्य वेदादिस्तदनंतरम् ॥ 18॥

महाकालस्यांतभागे स्वाहांतमनुमुत्तमम् ।
धनं पुत्रं सदा पातु बंधुदारानिकेतनम् ॥ 19॥

पिंगलाक्षो मंजुयुद्धे युद्धे नित्यं जयप्रदः ।
संभाव्यः सर्वदुष्टघ्नः पातु स्वस्थानवल्लभः ॥ 20॥

इति ते कथितं तुभ्यं देवानामपि दुर्लभम् ।
अनेन पठनाद् देवि विघ्ननाशो यथा भवेत् ॥ 21॥

संपूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।
सर्वव्याधिविनिर्मुक्तः वैरिमध्ये विशेषतः ॥ 22॥

महाभीमः सदा पातु सर्वस्थान वल्लभम् । ?
कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ 23॥

॥ फल श्रुति॥

पठनात् कालिकादेवी पठेत् कवचमुत्तमम् ।
श्रुणुयाद् वा प्रयत्नेन सदाऽऽनंदमयो भवेत् ॥ 1॥

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य यत् ।
सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ॥ 2॥

बिल्वमूले पठेद् यस्तु पठनाद् कवचस्य यत् ।
त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ॥ 3॥

कुमारीं पूजयित्वा तु यः पठेद् भावतत्परः ।
न किंचिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ 4॥

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।
यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥ 5॥

तत्र तत्राभयं तस्य भवत्येव न संशयः ।
वामपार्श्वे समानीय शोभितां वरकामिनीम् ॥ 6॥

श्रद्धयाऽश्रद्धया वापि पठनात् कवचस्य तु ।
प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ 7॥

इदं कवचमज्ञात्वा कालं यो भजते नरः ।
नैव सिद्धिर्भवेत् तस्य विघ्नस्तस्य पदे पदे ।
आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥ 8॥

॥ इति रुद्रयामले महातंत्रे महाकालभैरवकवचं संपूर्णम्॥




Browse Related Categories: