| | English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| | Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
|
2.6 - सौत्रामणिः कौकिली होत्रं च - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - स्वाद्वीं त्वा कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके षष्ठः प्रपाठकः - सौत्रामणिः कौकिली होत्र-ञ्च ओ-न्नमः परमात्मने, श्री महागणपतये नमः, अनुवाकं 1 - ग्रहाः द॒ध॒न्वा यो नर्यो॑ अ॒फ्स्व॑न्तरा । सु॒षाव॒ सोम॒मद्रि॑भिः ॥ पु॒नातु॑ ते परि॒स्रुत᳚म् । सोम॒ग्ं॒ सूर्य॑स्य दुहि॒ता । वारे॑ण॒ शश्व॑ता॒ तना᳚ । वा॒युः पू॒तः प॒वित्रे॑ण । प्राङ्ख्सोमो॒ अति॑द्रुतः । इन्द्र॑स्य॒ युज्य॒-स्सखा᳚ ॥ वा॒युः पू॒तः प॒वित्रे॑ण । प्र॒त्यङ्ख्सोमो॒ आति॑द्रुतः ॥ 2 ॥ इन्द्र॑स्य॒ युज्य॒-स्सखा᳚ ॥ ब्रह्म॑ क्ष॒त्र-म्प॑वते॒ तेज॑ इन्द्रि॒यम् । सुर॑या॒ सोमः॑ सु॒त आसु॑तो॒ मदा॑य । शु॒क्रेण॑ देव दे॒वताः᳚ पिपृग्धि । रसे॒नान्नं॒-यँज॑मानाय धेहि ॥ कु॒विद॒ङ्ग यव॑मन्तो॒ यव॑-ञ्चित् । यथा॒ दान्त्य॑नुपू॒र्वं-विँ॒यूय॑ । इ॒हेहै॑षा-ङ्कृणुत॒ भोज॑नानि । ये ब॒र॒ःइषो॒ नमो॑वृक्ति॒-न्न ज॒ग्मुः ॥ उ॒प॒या॒म-गृ॑हीतो-ऽस्य॒श्विभ्या᳚-न्त्वा॒ जुष्ट॑-ङ्गृह्णामि ॥ 3 ॥ सर॑स्वत्या॒ इन्द्रा॑य सु॒त्राम्णे᳚ ॥ ए॒ष ते॒ योनि॒स्तेज॑से त्वा । वी॒र्या॑य त्वा॒ बला॑य त्वा ॥ तेजो॑-ऽसि॒ तेजो॒ मयि॑ धेहि । वी॒र्य॑मसि वी॒र्य॑-म्मयि॑ धेहि । बल॑मसि॒ बल॒-म्मयि॑ धेहि ॥ नाना॒ हि वा᳚-न्दे॒वहि॑त॒ग्ं॒ सदः॑ कृ॒तम् । मा सग्ंसृ॑क्षाथा-म्पर॒मे व्यो॑मन्न् । सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः । मा मा॑ हिग्ंसी॒-स्स्वां-योँनि॑मावि॒शन्न् ॥ 4 ॥ उ॒प॒या॒मगृ॑हीतो-ऽस्याश्वि॒न-न्तेजः॑ । सा॒र॒स्व॒तं-वीँ॒र्य᳚म् । ऐ॒न्द्र-म्बल᳚म् ॥ ए॒ष ते॒ योनि॒र्मोदा॑य त्वा । आ॒न॒न्दाय॑ त्वा॒ मह॑से त्वा ॥ ओजो॒-ऽस्योजो॒ मयि॑ धेहि । म॒न्युर॑सि म॒न्यु-म्मयि॑ धेहि । महो॑-ऽसि॒ महो॒ मयि॑ धेहि । सहो॑-ऽसि॒ सहो॒ मयि॑ धेहि ॥ या व्या॒घ्रं-विँषू॑चिका । उ॒भौ वृक॑-ञ्च॒ रक्ष॑ति । श्ये॒न-म्प॑त॒त्रिणग्ं॑ सि॒ग्ं॒हम् । सेम-म्पा॒त्वग्ंह॑सः ॥ स॒-म्पृचः॑ स्थ॒ स-म्मा॑ भ॒द्रेण॑ पृङ्क्त । वि॒पृचः॑ स्थ॒ वि मा॑ पा॒प्मना॑ पृङ्क्त ॥ 5 ॥ अनुवाकं 2 - ग्रहोपस्थानम् क्रुङ्ङा᳚ङ्गिर॒सो धि॒या । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । अन्ना᳚-त्परि॒स्रुतो॒ रस᳚म् । ब्रह्म॑णा॒ व्य॑पिब-त्क्ष॒त्रम् । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ॥ रेतो॒ मूत्रं॒-विँज॑हाति । योनि॑-म्प्रवि॒शदि॑न्द्रि॒यम् । गर्भो॑ ज॒रायु॒णा-ऽऽवृ॑तः । उल्ब॑-ञ्जहाति॒ जन्म॑ना । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ॥ 7 ॥ वेदे॑न रू॒पे व्य॑करोत् । स॒ता॒स॒ती प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ॥ सोमे॑न॒ सोमौ॒ व्य॑पिबत् । सु॒ता॒सु॒तौ प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । दृ॒ष्ट्वा रू॒पे व्याक॑रोत् । स॒त्या॒नृ॒ते प्र॒जाप॑तिः । अश्र॑द्धा॒-मनृ॒ते-ऽद॑धात् । श्र॒द्धाग्ं स॒त्ये प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् ॥ दृ॒ष्ट्वा प॑रि॒स्रुतो॒ रस᳚म् । शु॒क्रेण॑ शु॒क्रं-व्यँ॑पिबत् । पय॒-स्सोम॑-म्प्र॒जाप॑तिः । ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यम् । विपानग्ं॑ शु॒क्रमन्ध॑सः । इन्द्र॑स्येन्द्रि॒यम् । इ॒द-म्पयो॒-ऽमृत॒-म्मधु॑ ॥ 8 ॥ (सोमो॒ राजा॒ विपान॒ग्ं॒ सोम॑म॒द्भ्यो-ऽन्ना॒-द्रेतो॒ मूत्रं॒-वेँदे॑न सतास॒ती सोमे॑न सुतासु॒तौ दृ॒ष्ट्वा रू॒पे दृ॒ष्ट्वा प॑रि॒स्रुतो॒ रसं॒-विँपान॒-न्दश॑ ) अनुवाकं 3 - ग्रहहोमः इ॒म-न्तग्ं शु॒क्र-म्मधु॑मन्त॒-मिन्दु᳚म् । सोम॒ग्ं॒ राजा॑नमि॒ह भ॑क्षयामि ॥ यदत्र॑ रि॒प्तग्ं र॒सिनः॑ सु॒तस्य॑ । यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः । अ॒ह-न्तद॑स्य॒ मन॑सा शि॒वेन॑ । सोम॒ग्ं॒ राजा॑नमि॒ह भ॑क्षयामि ॥ पि॒तृभ्यः॑ स्वधा॒विभ्यः॑ स्व॒धा नमः॑ । पि॒ता॒म॒हेभ्यः॑ स्वधा॒विभ्यः॑ स्व॒धा नमः॑ । प्रपि॑तामहेभ्य-स्स्वधा॒विभ्यः॑ स्व॒धा नमः॑ । अक्ष॑-न्पि॒तरः॑ ॥ 10 ॥ अमी॑मदन्त पि॒तरः॑ । अती॑तृपन्त पि॒तरः॑ । अमी॑मृजन्त पि॒तरः॑ । पित॑र॒-श्शुन्ध॑द्ध्वम् ॥ पु॒नन्तु॑ मा पि॒तरः॑ सो॒म्यासः॑ । पु॒नन्तु॑ मा पिताम॒हाः । पु॒नन्तु॒ प्रपि॑तामहाः । प॒वित्रे॑ण श॒तायु॑षा । पु॒नन्तु॑ मा पिताम॒हाः । पु॒नन्तु॒ प्रपि॑तामहाः ॥ 11 ॥ प॒वित्रे॑ण श॒तायु॑षा ॥ विश्व॒मायु॒-र्व्य॑श्नवै । अग्न॒ आयूग्ं॑षि पवस॒ आ सु॒वोर्ज॒मिष॑-ञ्च नः । आ॒रे बा॑धस्व दु॒च्छुना᳚म् ॥ अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य᳚म् । दध॒-त्पोषग्ं॑ र॒यि-म्मयि॑ ॥। पव॑मान॒-स्सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्षणिः । यः पोता॒ स पु॑नातु मा ॥ पु॒नन्तु॑ मा देवज॒नाः । पु॒नन्तु॒ मन॑ वो धि॒या । पु॒नन्तु॒ विश्व॑ आ॒यवः॑ ॥। जात॑वेदः प॒वित्र॑वत् । प॒वित्रे॑ण पुनाहि मा । शु॒क्रेण॑ देव॒ दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतू॒ग्ं॒रनु॑ ॥ यत्ते॑ प॒वित्र॑-म॒र्चिषि॑ । अग्ने॒ वित॑तमन्त॒रा । ब्रह्म॒ तेन॑ पुनीमहे ॥। उ॒भाभ्या᳚-न्देव सवितः । प॒वित्रे॑ण स॒वेन॑ च । इ॒द-म्ब्रह्म॑ पुनीमहे ॥ वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा᳚त् । यस्यै॑ ब॒ह्वी-स्त॒नुवो॑ वी॒तपृ॑ष्ठाः । तया॒ मद॑न्त-स्सध॒माद्ये॑षु । व॒यग्ग् स्या॑म॒ पत॑यो रयी॒णाम् ॥॥ ये स॑मा॒ना-स्सम॑नसः । पि॒तरो॑ यम॒राज्ये᳚ । तेषां᳚-लोँ॒क-स्स्व॒धा नमः॑ । य॒ज्ञो दे॒वेषु॑ कल्पताम् ॥ 12 ॥ ये स॑जा॒ता-स्सम॑नसः । जी॒वा जी॒वेषु॑ माम॒काः । तेषा॒ग्॒ श्रीर्मयि॑ कल्पताम् । अ॒स्मिल् ँलो॒के श॒तग्ं समाः᳚ ॥ द्वे स्रु॒ती अ॑शृणव-म्पितृ॒णाम् । अ॒ह-न्दे॒वाना॑मु॒त मर्त्या॑नाम् । याभ्या॑मि॒दं-विँश्व॒मेज॒-थ्समे॑ति । यद॑न्त॒रा पि॒तर॑-म्मा॒तर॑-ञ्च ॥ इ॒दग्ं ह॒विः प्र॒जन॑न-म्मे अस्तु । दश॑वीरग्ं स॒र्वग॑णग्ग् स्व॒स्तये᳚ । आ॒त्म॒सनि॑ प्रजा॒सनि॑ । प॒शु॒सन्य॑भय॒सनि॑ लोक॒सनि॑ । अ॒ग्निः प्र॒जा-म्ब॑हु॒ला-म्मे॑ करोतु । अन्न॒-म्पयो॒ रेतो॑ अ॒स्मासु॑ धत्त । रा॒यस्पोष॒-मिष॒मूर्ज॑म॒स्मासु॑ दीधर॒-थ्स्वाहा᳚ ॥ 13 ॥ अनुवाकं 4 - उपहोमाः अस्थि॑ म॒ज्जान॒-म्मास॑रैः । का॒रो॒त॒रेण॒ दध॑तो॒ गवा᳚-न्त्व॒चि ॥ सर॑स्वती॒ मन॑सा पेश॒लं-वँसु॑ । नास॑त्याभ्यां-वँयति दर्श॒तं-वँपुः॑ । रस॑-म्परि॒स्रुता॒ न रोहि॑तम् । न॒ग्नहु॒र्धीर॒स्तस॑र॒-न्न वेम॑ ॥ पय॑सा शु॒क्रम॒मृत॑-ञ्ज॒नित्र᳚म् । सुर॑या॒ मूत्रा᳚ज्जनयन्ति॒ रेतः॑ । अपाम॑ति-न्दुर्म॒ति-म्बाध॑मानाः । ऊव॑द्ध्यं॒-वाँतग्ं॑ स॒बुव॒-न्तदा॒रात् ॥ 15 ॥ इन्द्रः॑ सु॒त्रामा॒ हृद॑येन स॒त्यम् । पु॒रो॒डाशे॑न सवि॒ता ज॑जान । यकृ॑-त्क्लो॒मानं॒-वँरु॑णो भिष॒ज्यन्न् । मत॑स्ने वाय॒व्यै᳚र्न मि॑नाति पि॒त्तम् ॥ आ॒न्त्राणि॑ स्था॒ली मधु॒ पिन्व॑माना । गुदा॒ पात्रा॑णि सु॒दुघा॒ न धे॒नुः । श्ये॒नस्य॒ पत्र॒-न्न प्ली॒हा शची॑भिः । आ॒स॒न्दी नाभि॑रु॒दर॒-न्न मा॒ता ॥ कु॒म्भो व॑नि॒ष्ठुर्ज॑नि॒ता शची॑भिः । यस्मि॒न्नग्रे॒ योन्या॒-ङ्गर्भो॑ अ॒न्तः ॥ 16 ॥ प्ला॒शीर्व्य॑क्त-श्श॒तधा॑र॒ उथ्सः॑ । दु॒हे न कु॒म्भीग् स्व॒धा-म्पि॒तृभ्यः॑ ॥ मुख॒ग्ं॒ सद॑स्य॒ शिर॒ इथ्सदे॑न । जि॒ह्वा प॒वित्र॑म॒श्विना॒ सग्ं सर॑स्वती । चप्प॒-न्न पा॒युर्भि॒षग॑स्य॒ वालः॑ । व॒स्तिर्न शेपो॒ हर॑सा तर॒स्वी ॥ अ॒श्विभ्या॒-ञ्चक्षु॑र॒मृत॒-ङ्ग्रहा᳚भ्याम् । छागे॑न॒ तेजो॑ ह॒विषा॑ शृ॒तेन॑ । पक्ष्मा॑णि गो॒धूमैः॒ क्व॑लैरु॒तानि॑ । पेशो॒ न शु॒क्लमसि॑तं-वँसाते ॥ 17 ॥ अवि॒र्न मे॒षो न॒सि वी॒र्या॑य । प्रा॒णस्य॒ पन्था॑ अ॒मृतो॒ ग्रहा᳚भ्याम् । सर॑स्व॒त्युप॒वाकै᳚र्व्या॒नम् । नस्या॑नि ब॒र॒ःइ-र्बद॑रै-र्जजान ॥ इन्द्र॑स्य रू॒पमृ॑ष॒भो बला॑य । कर्णा᳚भ्या॒ग्॒ श्रोत्र॑म॒मृत॒-ङ्ग्रहा᳚भ्याम् । यवा॒ न ब॒र॒ःइ-र्भ्रु॒वि केस॑राणि । क॒र्कन्धु॑ जज्ञे॒ मधु॑ सार॒घ-म्मुखा᳚त् ॥ आ॒त्मन्नु॒पस्थे॒ न वृक॑स्य॒ लोम॑ । मुखे॒ श्मश्रू॑णि॒ न व्या᳚घ्रलो॒मम् ॥ 18 ॥ केशा॒ न शी॒र॒.षन्. यश॑से श्रि॒यै शिखा᳚ । सि॒ग्ं॒हस्य॒ लोम॒ त्विषि॑-रिन्द्रि॒याणि॑ ॥ अङ्गा᳚न्या॒त्मन्-भि॒षजा॒ तद॒श्विना᳚ । आ॒त्मान॒मङ्गै॒-स्सम॑धा॒-थ्सर॑स्वती । इन्द्र॑स्य रू॒पग्ं श॒तमा॑न॒मायुः॑ । च॒न्द्रेण॒ ज्योति॑र॒मृत॒-न्दधा॑ना ॥ सर॑स्वती॒ योन्या॒-ङ्गर्भ॑म॒न्तः । अ॒श्विभ्या॒-म्पत्नी॒ सुकृ॑त-म्बिभर्ति । अ॒पाग्ं रसे॑न॒ वरु॑णो॒ न साम्ना᳚ । इन्द्रग्ग्॑ श्रि॒यै ज॒नय॑न्न॒फ्सु राजा᳚ ॥ तेजः॑ पशू॒नाग्ं ह॒विरि॑न्द्रि॒याव॑त् । प॒रि॒स्रुता॒ पय॑सा सार॒घ-म्मधु॑ । अ॒श्विभ्या᳚-न्दु॒ग्ध-म्भि॒षजा॒ सर॑स्वत्या सुतासु॒ताभ्या᳚म् । अ॒मृत॒-स्सोम॒ इन्दुः॑ ॥ 19 ॥ अनुवाकं 5 - अभिषेकः साम्रा᳚ज्याय सु॒क्रतुः॑ ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚-र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । अ॒श्विनो॒-र्भैष॑ज्येन । तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚-र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । सर॑स्वत्यै॒ भैष॑ज्येन ॥ 21 ॥ वी॒र्या॑या॒न्नाद्या॑या॒भिषि॑ञ्चामि ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚-र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्याम् । इन्द्र॑स्येन्द्रि॒येण॑ । श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि ॥ को॑-ऽसि कत॒मो॑-ऽसि । कस्मै᳚ त्वा॒ काय॑ त्वा ॥ सुश्लो॒काँ(4) सुम॑ड्ग॒लाँ(4) सत्य॑रा॒जा(3)न् ॥ शिरो॑ मे॒ श्रीः ॥ 22 ॥ यशो॒ मुख᳚म् । त्विषिः॒ केशा᳚श्च॒ श्मश्रू॑णि । राजा॑ मे प्रा॒णो॑-ऽमृत᳚म् । स॒म्राट् चक्षुः॑ । वि॒राट्छ्रोत्र᳚म् । जि॒ह्वा मे॑ भ॒द्रम् । वाम्महः॑ । मनो॑ म॒न्युः । स्व॒राड्भामः॑ । मोदाः᳚ प्रमो॒दा अ॒ङ्गुली॒रङ्गा॑नि ॥ 23 ॥ चि॒त्त-म्मे॒ सहः॑ । बा॒हू मे॒ बल॑मिन्द्रि॒यम् । हस्तौ॑ मे॒ कर्म॑ वी॒र्य᳚म् । आ॒त्मा क्ष॒त्रमुरो॒ मम॑ । पृ॒ष्टीर्मे॑ रा॒ष्ट्रमु॒दर॒मग्ंसौ᳚ । ग्री॒वाश्च॒ श्रोण्यौ᳚ । ऊ॒रू अ॑र॒त्नी जानु॑नी । विशो॒ मे-ऽङ्गा॑नि स॒र्वतः॑ । नाभि॑र्मे चि॒त्तं-विँ॒ज्ञान᳚म् । पा॒युर्मे-ऽप॑चितिर्भ॒सत् ॥ 24 ॥ आ॒न॒न्द॒न॒न्दावा॒ण्डौ मे᳚ । भग॒-स्सौभा᳚ग्य॒-म्पसः॑ ॥ जङ्घा᳚भ्या-म्प॒द्भ्या-न्धर्मो᳚-ऽस्मि । वि॒शि राजा॒ प्रति॑ष्ठितः ॥ प्रति॑ क्ष॒त्रे प्रति॑तिष्ठामि रा॒ष्ट्रे । प्रत्यश्वे॑षु॒ प्रति॑तिष्ठामि॒ गोषु॑ । प्रत्यङ्गे॑षु॒ प्रति॑तिष्ठाम्या॒त्मन्न् । प्रति॑ प्रा॒णेषु॒ प्रति॑तिष्ठामि पु॒ष्टे । प्रति॒ द्यावा॑पृथि॒व्योः । प्रतिति॑ष्ठामि य॒ज्ञे ॥ 25 ॥ त्र॒या दे॒वा एका॑दश । त्र॒य॒स्त्रि॒ग्ं॒शा-स्सु॒राध॑सः । बृह॒स्पति॑ पुरोहिताः । दे॒वस्य॑ सवि॒तु-स्स॒वे । दे॒वा दे॒वैर॑वन्तु मा । प्र॒थ॒मा द्वि॒तीयैः᳚ । द्वि॒तीया᳚स्तृ॒तीयैः᳚ । तृ॒तीया᳚-स्स॒त्येन॑ । स॒त्यं-यँ॒ज्ञेन॑ ।य॒ज्ञो यजु॑र्भिः ॥ 26 ॥ यजूग्ं॑षि॒ साम॑भिः । सामा᳚न्यृ॒ग्भिः । ऋचो॑ या॒ज्या॑भिः । या॒ज्या॑ वषट्का॒रैः । व॒ष॒ट्का॒रा आहु॑तिभिः । आहु॑तयो मे॒ कामा॒न्-थ्सम॑र्धयन्तु ॥ भू-स्स्वाहा᳚ ॥ लोमा॑नि॒ प्रय॑ति॒र्मम॑ । त्वम्म॒ आन॑ति॒राग॑तिः । मा॒ग्ं॒स-म्म॒ उप॑नतिः । व स्वस्थि॑ । म॒ज्जा म॒ आन॑तिः ॥ 27 ॥ अनुवाकं 6 - अवभृथः सूर्यो॑ मा॒ तस्मा॒देन॑सः । विश्वा᳚-न्मुञ्च॒त्वग्ंह॑सः ॥ यद्ग्रामे॒ यदर॑ण्ये । य-थ्स॒भायां॒-यँदि॑न्द्रि॒ये । यच्छू॒द्रे यद॒र्ये᳚ । एन॑श्चकृ॒मा व॒यम् । यदेक॒स्याधि॒ धर्म॑णि । तस्या॑व॒यज॑नमसि ॥ यदापो॒ अघ्नि॑या॒ वरु॒णेति॒ शपा॑महे । ततो॑ वरुण नो मुञ्च ॥ 29 ॥ अव॑भृथ निचङ्कुण निचे॒रुर॑सि निचङ्कुण । अव॑ दे॒वै-र्दे॒वकृ॑त॒मेनो॑-ऽयाट् । अव॒ मर्त्यै॒र्मर्त्य॑कृतम् । उ॒रोरा नो॑ देव रि॒षस्पा॑हि ॥ सु॒मि॒त्रा न॒ आप॒ ओष॑धय-स्सन्तु । दु॒र्मि॒त्रास्तस्मै॑ भुयासुः । यो᳚-ऽस्मा-न्द्वेष्टि॑ । य-ञ्च॑ व॒य-न्द्वि॒ष्मः ॥ द्रु॒प॒दादि॒वे-न्मु॑मुचा॒नः । स्वि॒न्न-स्स्ना॒त्वी मला॑दिव ॥ 30 ॥ पू॒त-म्प॒वित्रे॑णे॒वाज्य᳚म् । आपः॑ शुन्धन्तु॒ मैन॑सः ॥ उद्व॒य-न्तम॑स॒स्परि॑ । पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒व-न्दे॑व॒त्रा सूर्य᳚म् । अग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ प्रति॑युतो॒ वरु॑णस्य॒ पाशः॑ । प्रत्य॑स्तो॒ वरु॑णस्य॒ पाशः॑ ॥ एधो᳚-ऽस्येधिषी॒महि॑ । स॒मिद॑सि ॥ 31 ॥ तेजो॑-ऽसि॒ तेजो॒ मयि॑ धेहि ॥ अ॒पो अन्व॑चारिषम् । रसे॑न॒ सम॑सृक्ष्महि । पय॑स्वाग्ं अग्न॒ आ-ऽग॑मम् । त-म्मा॒ सग्ंसृ॑ज॒ वर्च॑सा । प्र॒जया॑ च॒ धने॑न च ॥ स॒माव॑वर्ति पृथि॒वी । समु॒षाः । समु॒ सूर्यः॑ । समु॒ विश्व॑मि॒द-ञ्जग॑त् । वै॒श्वा॒न॒र ज्यो॑ति-र्भूयासम् । वि॒भु-ङ्कामं॒-व्यँ॑श्नवै ॥ भू-स्स्वाहा᳚ ॥ 32 ॥ अनुवाकं 7 - ऐन्द्रे प्रश्नौ प्रयाजानामेकादश मैत्रावरुणप्रैषाः वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒दिडा॑भि॒-रिन्द्र॑-मीडि॒तम् । आ॒जुह्वा॑न॒-मम॑र्त्यम् । दे॒वो दे॒वै-स्सवी᳚र्यः । वज्र॑हस्तः पुरन्द॒रः । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष-द्ब॒र॒ःइषीन्द्र॑-न्निषद्व॒रम् । वृ॒ष॒भ-न्नर्या॑पसम् । वसु॑भी रु॒द्रैरा॑दि॒त्यैः । स॒युग्भि॑-र्ब॒र॒ःइरा ऽस॑दत् ॥ 34 ॥ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒दोजो॒ न वी॒र्य᳚म् । सहो॒ द्वार॒ इन्द्र॑मवर्धयन्न् । सु॒प्रा॒य॒णा विश्र॑यन्तामृता॒वृधः॑ । द्वार॒ इन्द्रा॑य मी॒ढुषे᳚ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्षदु॒षे इन्द्र॑स्य धे॒नू । सु॒दुघे॑ मा॒तरौ॑ म॒ही । सवा॒तरौ॒ न तेज॑सी । व॒थ्समिन्द्र॑-मवर्धताम् ॥ 35 ॥ वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒-द्दैव्या॒ होता॑रा । भि॒षजा॒ सखा॑या । ह॒विषेन्द्र॑-म्भिषज्यतः । क॒वी दे॒वौ प्रचे॑तसौ । इन्द्रा॑य धत्त इन्द्रि॒यम् । वी॒तामाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्षत्ति॒स्रो दे॒वीः । त्रय॑स्त्रि॒धात॑वो॒-ऽपसः॑ । इडा॒ सर॑स्वती॒ भार॑ती ॥ 36 ॥ म॒हीन्द्र॑पत्नीर्-ह॒विष्म॑तीः । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒त्त्वष्टा॑र॒-मिन्द्र॑-न्दे॒वम् । भि॒षजग्ं॑ सु॒यज॑-ङ्घृत॒श्रिय᳚म् । पु॒रु॒रूपग्ं॑ सु॒रेत॑स-म्म॒घोनि᳚म् । इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒-द्वन॒स्पति᳚म् । श॒मि॒तारग्ं॑ श॒तक्र॑तुम् । धि॒यो जो॒ष्टार॑-मिन्द्रि॒यम् ॥ 37 ॥ मद्ध्वा॑ सम॒ञ्जन्प॒थिभिः॑ सु॒गेभिः॑ । स्वदा॑ति ह॒व्य-म्मधु॑ना घृ॒तेन॑ । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒दिन्द्र॒ग्ग्॒ स्वाहा-ऽऽज्य॑स्य । स्वाहा॒ मेद॑सः । स्वाहा᳚ स्तो॒काना᳚म् । स्वाहा॒ स्वाहा॑कृतीनाम् । स्वाहा॑ ह॒व्यसू᳚क्तीनाम् । स्वाहा॑ दे॒वाग्ं आ᳚ज्य॒पान् । स्वाहेन्द्रग्ं॑ हो॒त्राज्जु॑षा॒णाः । इन्द्र॒ आज्य॑स्य वियन्तु । होत॒र्यज॑ ॥ 38 ॥ (स॒मिधेन्द्र॒-न्तनू॒नपा॑त॒मिडा॑भि-र्ब॒र्॒हिष्योज॑ उ॒षे दैव्या॑ ति॒स्रस्त्वष्टा॑रं॒-वँन॒स्पति॒मिन्द्र᳚म् । स॒मिधेन्द्र॑-ञ्च॒तुर्वेत्वेको॑ वि॒यन्तु॒ द्विर्वी॒तामेको॑ वि॒यन्तु॒ द्विर्वेत्वेको॑ वि॒यन्तु॒ होत॒र्यज॑ ) अनुवाकं 8 - ऐन्द्रे प्रश्नौ प्रयाजयाज्याः पु॒र॒दं॒रो म॒घवा॒न्॒. वज्र॑बाहुः । आया॑तु य॒ज्ञमुप॑ नो जुषा॒णः ॥ जु॒षा॒णो ब॒र॒ःइर्हरि॑वान्न॒ इन्द्रः॑ । प्रा॒चीनग्ं॑ सीदत्प्र॒दिशा॑ पृथि॒व्याः । उ॒रु॒व्यचाः॒ प्रथ॑मानग्ग् स्यो॒नम् । आ॒दि॒त्यैर॒क्तं-वँसु॑भि-स्स॒जोषाः᳚ ॥ इन्द्र॒-न्दुरः॑ कव॒ष्यो॑ धाव॑मानाः । वृषा॑णं-यँन्तु॒ जन॑य-स्सु॒पत्नीः᳚ । द्वारो॑ दे॒वीर॒भितो॒ विश्र॑यन्ताम् । सु॒वीरा॑ वी॒र-म्प्रथ॑माना॒ महो॑भिः ॥ 40 ॥ उ॒षासा॒ नक्ता॑ बृह॒ती बृ॒हन्त᳚म् । पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्र᳚म् । पेश॑स्वती॒ तन्तु॑ना सं॒व्यँय॑न्ती । दे॒वाना᳚-न्दे॒वं-यँ॑जत-स्सुरु॒क्मे ॥ दैव्या॒ मिमा॑ना॒ मन॑सा पुरु॒त्रा । होता॑रा॒विन्द्र॑-म्प्रथ॒मा सु॒वाचा᳚ । मू॒र्धन्. य॒ज्ञस्य॒ मधु॑ना॒ दधा॑ना । प्रा॒चीन॒-ञ्ज्योति॑र्ह॒विषा॑ वृधातः ॥ ति॒स्रो दे॒वीर्ह॒विषा॒ वर्ध॑मानाः । इन्द्र॑-ञ्जुषा॒णा वृष॑ण॒-न्न पत्नीः᳚ ॥ 41 ॥ अच्छि॑न्न॒-न्तन्तु॒-म्पय॑सा॒ सर॑स्वती । इडा॑ दे॒वी भार॑ती वि॒श्वतू᳚र्तिः ॥ त्वष्टा॒ दध॒दिन्द्रा॑य॒ शुष्म᳚म् । अपा॒को-ऽचि॑ष्टुर्य॒शसे॑ पु॒रूणि॑ । वृषा॒ यज॒न् वृष॑ण॒-म्भूरि॑रेताः । मू॒र्धन्. य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ॥ वन॒स्पति॒-रव॑सृष्टो॒ न पाशैः᳚ । त्मन्या॑ सम॒ञ्जञ्छ॑मि॒ता न दे॒वः । इन्द्र॑स्य ह॒व्यैर्ज॒ठर॑-म्पृणा॒नः । स्वदा॑ति ह॒व्य-म्मधु॑ना घृ॒तेन॑ ॥ स्तो॒काना॒मिन्दु॒-म्प्रति॒ शूर॒ इन्द्रः॑ । वृ॒षा॒यमा॑णो वृष॒भ-स्तु॑रा॒षाट् । घृ॒त॒प्रुषा॒ मधु॑ना ह॒व्यमु॒न्दन्न् । मू॒र्धन्. य॒ज्ञस्य॑ जुषता॒ग्॒ स्वाहा᳚ ॥ 42 ॥ अनुवाकं 9 - ऐन्द्रे प्रश्नौ वपादीनां-याँज्यानुवाक्याः अनुवाकं 10 - ऐन्द्रे प्रश्नौ अनुयाजानामेकादश मैत्रावरुणप्रैषाः दे॒वी उ॒षासा॒ नक्ता᳚ । इन्द्रं॑-यँ॒ज्ञे प्र॑य॒त्य॑ह्वेताम् । दैवी॒र्विशः॒ प्राया॑सिष्टाम् । सुप्री॑ते॒ सुधि॑ते अभूताम् । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒-यँज॑ ॥ दे॒वी जोष्ट्री॒ वसु॑धिती । दे॒वमिन्द्र॑मवर्धताम् । अया᳚व्य॒न्या-ऽघा द्वेषाग्ं॑सि । आ-ऽन्या वा᳚क्षी॒-द्वसु॒ वार्या॑णि । यज॑मानाय शिक्षि॒ते ॥ 45 ॥ व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒-यँज॑ ॥ दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे᳚ । पय॒सेन्द्र॑मवर्धताम् । इष॒मूर्ज॑म॒न्या ऽवा᳚क्षीत् । सग्धि॒ग्ं॒ सपी॑तिम॒न्या । नवे॑न॒ पूर्व॒-न्दय॑माने । पु॒रा॒णेन॒ नव᳚म् । अधा॑ता॒-मूर्ज॑मू॒र्जाहु॑ती॒ वसु॒ वार्या॑णि । यज॑मानाय शिक्षि॒ते । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒-यँज॑ ॥ 46 ॥ दे॒वा दैव्या॒ होता॑रा । दे॒वमिन्द्र॑मवर्धताम् । ह॒ताघ॑शग्ं सा॒वाभा᳚र्ष्टां॒-वँसु॒ वार्या॑णि । यज॑मानाय शिक्षि॒तौ । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒-यँज॑ ॥ दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः । पति॒मिन्द्र॑मवर्धयन्न् । अस्पृ॑क्ष॒द्भार॑ती॒ दिव᳚म् । रु॒द्रैर्य॒ज्ञग्ं सर॑स्वती । इडा॒ वसु॑मती गृ॒हान् ॥ 47 ॥ व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ दे॒व इन्द्रो॒ नरा॒शग्ंसः॑ । त्रि॒व॒रू॒थ-स्त्रि॑वन्धु॒रः । दे॒वमिन्द्र॑मवर्धयत् । श॒तेन॑ शितिपृ॒ष्ठाना॒माहि॑तः । स॒हस्रे॑ण॒ प्रव॑र्तते । मि॒त्रावरु॒णेद॑स्य हो॒त्रमर्ह॑तः । बृह॒स्पतिः॑ स्तो॒त्रम् । अ॒श्विना-ऽऽद्ध्व॑र्यवम् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥ 48 ॥ दे॒व इन्द्रो॒ वन॒स्पतिः॑ । हिर॑ण्यपर्णो॒ मधु॑शाख-स्सुपिप्प॒लः । दे॒वमिन्द्र॑मवर्धयत् । दिव॒मग्रे॑णाप्रात् । आ-ऽन्तरि॑क्ष-म्पृथि॒वीम॑दृग्ंहीत् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥ दे॒व-म्ब॒र॒ःइर्वारि॑तीनाम् । दे॒वमिन्द्र॑मवर्धयत् । स्वा॒स॒स्थ-मिन्द्रे॒णास॑न्नम् । अ॒न्या ब॒र्॒हीग्ष्य॒भ्य॑भूत् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥ दे॒वो अ॒ग्नि-स्स्वि॑ष्ट॒कृत् । दे॒वमिन्द्र॑मवर्धयत् । स्वि॑ष्ट-ङ्कु॒र्वन्-थ्स्वि॑ष्ट॒कृत् । स्वि॑ष्टम॒द्य क॑रोतु नः । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यजे॑ ॥ 49 ॥ दे॒व-म्ब॒र्॒हि-र्दे॒वीर्द्वारो॑ दे॒वी उ॒षासा॒ नक्ता॑ दे॒वी जोष्ट्री॑ दे॒वी ऊ॒र्जाहु॑ती दे॒वा दैव्या॒ होता॑रा शिक्षि॒तौ दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः पति॑-न्दे॒व इन्द्रो॒ नरा॒शग्ंसो॑ दे॒व इन्द्रो॒ वन॒स्पति॑-र्दे॒व-म्ब॒र्॒हिर्वारि॑तीना-न्दे॒वो अ॒ग्नि-स्स्वि॑ष्ट॒कृ-द्दे॒वम् । वे॒तु॒ वि॒य॒न्तु॒ च॒तुर्वी॑ता॒मेको॑ वियन्तु च॒तुर्वे॑तु । अ॒व॒र्ध॒य॒द॒व॒र्ध॒य॒-न्त्रिर॑वर्धता॒मेको॑ ऽवर्धयग्ग् श्च॒तुर॑वर्धयत् । वस्तो॒रा व॒थ्सेन॒ दैवी॒रया॒वीषग्ं॑ ह॒तास्पृ॑क्षच्छ॒तेन॒ दिव॒मिन्द्रग्ग्॑ स्वास॒स्थग्ग् स्वि॑ष्टम् । शिक्षि॒ते शि॑क्षि॒ते शि॑क्षि॒तौ । अनुवाकं 11 - पशुत्रये प्रय जार्था मैत्रावरुणप्रैषाः बद॑रैरुप॒वाका॑भि-र्भेष॒ज-न्तोक्म॑भिः । पय॒-स्सोमः॑ परि॒स्रुता॑ घृ॒त-म्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒न्नरा॒शग्ंस॒न-न्न॒ग्नहु᳚म् । पति॒ग्ं॒ सुरा॑यै भेष॒जम् । मे॒ष-स्सर॑स्वती भि॒षक् । रथो॒ न च॒न्द्र्य॑श्विनो᳚र्व॒पा इन्द्र॑स्य वी॒र्य᳚म् । बद॑रैरुप॒वाका॑भि-र्भेष॒ज-न्तोक्म॑भिः । पय॒-स्सोमः॑ परि॒स्रुता॑ घृ॒त-म्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ 51 ॥ होता॑ यक्षदि॒डेडि॒त आ॒जुह्वा॑न॒-स्सर॑स्वतीम् । इन्द्र॒-म्बले॑न व॒र्धयन्न्॑ । ऋ॒ष॒भेण॒ गवे᳚न्द्रि॒यम् । अ॒श्विनेन्द्रा॑य वी॒र्य᳚म् । यवैः᳚ क॒र्कन्धु॑भिः । मधु॑ ला॒जैर्न मास॑रम् । पय॒-स्सोमः॑ परि॒स्रुता॑ घृ॒त-म्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष-द्ब॒र॒ःइ-स्सु॒ष्टरी॒मो-ऽर्ण॑म्रदाः । भि॒षन्नास॑त्या ॥ 52 ॥ भि॒षजा॒-ऽश्विना-ऽश्वा॒ शिशु॑मती । भि॒षग्धे॒नु-स्सर॑स्वती । भि॒षग्दु॒ह इन्द्रा॑य भेष॒जम् । पय॒-स्सोमः॑ परि॒स्रुता॑ घृ॒त-म्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒द्दुरो॒ दिशः॑ । क॒व॒ष्यो॑ न व्यच॑स्वतीः । अ॒श्विभ्या॒-न्न दुरो॒ दिशः॑ । इन्द्रो॒ न रोद॑सी॒ दुघे᳚ । दु॒हे कामा॒न्-थ्सर॑स्वती ॥ 53 ॥ अ॒श्विनेन्द्रा॑य भेष॒जम् । शु॒क्र-न्न ज्योति॑रिन्द्रि॒यम् । पय॒-स्सोमः॑ परि॒स्रुता॑ घृ॒त-म्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष-थ्सु॒पेश॑सो॒षे नक्त॒-न्दिवा᳚ । अ॒श्विना॑ सञ्जाना॒ने । सम॑ञ्जाते॒ सर॑स्वत्या । त्विषि॒मिन्द्रे॒ न भे॑ष॒जम् । श्ये॒नो न रज॑सा हृ॒दा । पय॒-स्सोमः॑ परि॒स्रुता॑ घृ॒त-म्मधु॑ ॥ 54 ॥ वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒-ऽश्विना᳚ । इन्द्र॒-न्न जागृ॑वी॒ दिवा॒ नक्त॒-न्न भे॑ष॒जैः । शूष॒ग्ं॒ सर॑स्वती भि॒षक् । सीसे॑न दुह इन्द्रि॒यम् । पय॒-स्सोमः॑ परि॒स्रुता॑ घृ॒त-म्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष-त्ति॒स्रो दे॒वीर्न भे॑ष॒जम् । त्रय॑स्त्रि॒धात॑वो॒-ऽपसः॑ । रू॒पमिन्द्रे॑ हिर॒ण्यय᳚म् ॥ 55 ॥ अ॒श्विनेडा॒ न भार॑ती । वा॒चा सर॑स्वती । मह॒ इन्द्रा॑य दधुरिन्द्रि॒यम् । पय॒-स्सोमः॑ परि॒स्रुता॑ घृ॒त-म्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒त्त्वष्टा॑र॒-मिन्द्र॑म॒श्विना᳚ । भि॒षज॒-न्न सर॑स्वतीम् । ओजो॒ न जू॒तिरि॑न्द्रि॒यम् । वृको॒ न र॑भ॒सो भि॒षक् । यश॒-स्सुर॑या भेष॒जम् ॥ 56 ॥ श्रि॒या न मास॑रम् । पय॒-स्सोमः॑ परि॒स्रुता॑ घृ॒त-म्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒-द्वन॒स्पति᳚म् । श॒मि॒तारग्ं॑ श॒तक्र॑तुम् । भी॒म-न्न म॒न्युग्ं राजा॑नं-व्याँ॒घ्र-न्नम॑सा॒-ऽश्विना॒ भाम᳚म् । सर॑स्वती भि॒षक् । इन्द्रा॑य दुह इन्द्रि॒यम् । पय॒-स्सोमः॑ परि॒स्रुता॑ घृ॒त-म्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ 57 ॥ होता॑ यक्षद॒ग्निग्ग् स्वाहा-ऽऽज्य॑स्य स्तो॒काना᳚म् । स्वाहा॒ मेद॑सा॒-म्पृथ॑क् । स्वाहा॒ छाग॑म॒श्विभ्या᳚म् । स्वाहा॑ मे॒षग्ं सर॑स्वत्यै । स्वाहा॑र्ष॒भ-मिन्द्रा॑य सि॒ग्ं॒हाय॒ सह॑सेन्द्रि॒यम् । स्वाहा॒-ऽग्नि-न्न भे॑ष॒जम् । स्वाहा॒ सोम॑मिन्द्रि॒यम् । स्वाहेन्द्रग्ं॑ सु॒त्रामा॑णग्ं सवि॒तारं॒-वँरु॑ण-म्भि॒षजा॒-म्पति᳚म् । स्वाहा॒ वन॒स्पति॑-म्प्रि॒य-म्पाथो॒ न भे॑ष॒जम् । स्वाहा॑ दे॒वाग्ं आ᳚ज्य॒पान् ॥ 58 ॥ स्वाहा॒-ऽग्निग्ं हो॒त्राज्जु॑षा॒णो अ॒ग्नि-र्भे॑ष॒जम् । पय॒-स्सोमः॑ परि॒स्रुता॑ घृ॒त-म्मधु॑ । वि॒यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्षद॒श्विना॒ सर॑स्वती॒मिन्द्रग्ं॑ सु॒त्रामा॑णम् । इ॒मे सोमा᳚-स्सु॒रामा॑णः । छागै॒र्न मे॒षैर्-ऋ॑ष॒भै-स्सु॒ताः । शष्पै॒र्न तोक्म॑भिः । ला॒जैर्मह॑स्वन्तः । मदा॒ मास॑रेण॒ परि॑ष्कृताः । शु॒क्राः पय॑स्वन्तो॒-ऽमृताः᳚ । प्रस्थि॑ता वो मधु॒श्चुतः॑ । तान॒श्विना॒ सर॑स्व॒तीन्द्रः॑ सु॒त्रामा॑ वृत्र॒हा । जु॒षन्ताग्ं॑ सौ॒म्य-म्मधु॑ । पिब॑न्तु॒ मद॑न्तु वि॒यन्तु॒ सोम᳚म् । होत॒र्यज॑ ॥ 59 ॥ स॒मिधा॒-ऽग्निग्ं षट् । तनू॒नपा᳚-थ्स॒प्त । नरा॒शग्ंस॒मृषिः॑ । इ॒डेडि॒तो यवै॑र॒ष्टौ । ब॒र्॒हि-स्स॒प्त । दुरो॒-ऽश्विना॑ शु॒क्रन्नव॑ । सु॒पेश॑सो॒षे नक्त॒मृषिः॑। दैव्या॒ होता॑रा॒ सीसे॑न॒ रसः॑ । ति॒स्रस्त्वष्टा॑रम॒ष्टाव॑ष्टौ । वन॒स्पति॒मृषिः॑ । अ॒ग्नि-न्त्रयो॑दश । अ॒श्विना॒ द्वाद॑श॒ त्रयो॑दश । स॒मिधा॒-ऽग्नि-म्बद॑रै॒-र्बद॑रै॒-र्यवै॑र॒श्विना॒ त्विषि॑म॒श्विना॒ न भे॑ष॒जग्ं रू॒पम॒श्विना॑ भी॒म-म्भाम᳚म् । अनुवाकं 12 - पशुत्रये प्रयाजयाज्या आप्रियः अधा॑ताम॒श्विना॒ मधु॑ । भे॒ष॒ज-म्भि॒षजा॑ सु॒ते ॥ आ॒जुह्वा॑ना॒ सर॑स्वती । इन्द्रा॑येन्द्रि॒याणि॑ वी॒र्य᳚म् । इडा॑भिरश्विना॒विष᳚म् । समूर्ज॒ग्ं॒ सग्ं र॒यि-न्द॑धुः ॥ अश्वि॑ना॒ नमु॑चे-स्सु॒तम् । सोमग्ं॑ शु॒क्र-म्प॑रि॒स्रुता᳚ । सर॑स्वती॒ तमाभ॑रत् । ब॒र्॒हिषेन्द्रा॑य॒ पात॑वे ॥ 61 ॥ क॒व॒ष्यो॑ न व्यच॑स्वतीः । अ॒श्विभ्या॒-न्न दुरो॒ दिशः॑ । इन्द्रो॒ न रोद॑सी॒ दुघे᳚ । दु॒हे कामा॒न्-थ्सर॑स्वती ॥ उ॒षासा॒ नक्त॑मश्विना । दिवेन्द्रग्ं॑ सा॒यमि॑न्द्रि॒यैः । स॒जा॒न्ना॒ने सु॒पेश॑सा । सम॑ञ्जाते॒ सर॑स्वत्या ॥ पा॒त-न्नो॑ अश्विना॒ दिवा᳚ । पा॒हि नक्तग्ं॑ सरस्वति ॥ 62 ॥ दैव्या॑ होतारा भिषजा । पा॒तमिन्द्र॒ग्ं॒ सचा॑ सु॒ते ॥ ति॒स्रस्त्रे॒धा सर॑स्वती । अ॒श्विना॒ भार॒तीडा᳚ । ती॒व्र-म्प॑रि॒स्रुता॒ सोम᳚म् । इन्द्रा॑य सुषवु॒र्मद᳚म् ॥ अश्वि॑ना भेष॒ज-म्मधु॑ । भे॒ष॒ज-न्न॒-स्सर॑स्वती । इन्द्रे॒ त्वष्टा॒ यश॒-श्श्रिय᳚म् । रू॒पग्ं रू॑पमधु-स्सु॒ते ॥ ऋ॒तु॒थेन्द्रो॒ वन॒स्पतिः॑ । श॒श॒मा॒नः प॑रि॒स्रुता᳚ । की॒लाल॑म॒श्विभ्या॒-म्मधु॑ । दु॒हे धे॒नु-स्सर॑स्वती ॥ गोभि॒र्न सोम॑मश्विना । मास॑रेण परि॒ष्कृता᳚ । सम॑धाता॒ग्ं॒ सर॑स्वत्या । स्वाहेन्द्रे॑ सु॒त-म्मधु॑ ॥ 63 ॥ अनुवाकं 13 - पशुत्रये वपादीनां-याँज्यानुवाक्याः दधा॑ना अ॒भ्य॑नूषत । ह॒विषा॑ य॒ज्ञमि॑न्द्रि॒यम् ॥ य इन्द्र॑ इन्द्रि॒य-न्द॒धुः । स॒वि॒ता वरु॑णो॒ भगः॑ । स सु॒त्रामा॑ ह॒विष्प॑तिः । यज॑मानाय सश्चत ॥ स॒वि॒ता वरु॑णो॒ दध॑त् । यज॑मानाय दा॒शुषे᳚ । आद॑त्त॒ नमु॑चे॒र्वसु॑ । सु॒त्रामा॒ बल॑मिन्द्रि॒यम् ॥ 65 ॥ वरु॑णः, क्ष॒त्रमि॑न्द्रि॒यम् । भगे॑न सवि॒ता श्रिय᳚म् । सु॒त्रामा॒ यश॑सा॒ बल᳚म् । दधा॑ना य॒ज्ञमा॑शत ॥ अश्वि॑ना॒ गोभि॑रिन्द्रि॒यम् । अश्वे॑भि-र्वी॒र्य॑-म्बल᳚म् । ह॒विषेन्द्र॒ग्ं॒ सर॑स्वती । यज॑मान-मवर्धयन्न् ॥ ता नास॑त्या सु॒पेश॑सा । हिर॑ण्यवर्तनी॒ नरा᳚ । सर॑स्वती ह॒विष्म॑ती । इन्द्र॒ कम॑र्सु नो-ऽवत ॥ ता भि॒षजा॑ सु॒कर्म॑णा । सा सु॒दुघा॒ सर॑स्वती । स वृ॑त्र॒हा श॒तक्र॑तुः । इन्द्रा॑य दधुरिन्द्रि॒यम् ॥ 66 ॥ अनुवाकं 14 - पशुत्रये अनूयाजप्रैषाः दे॒वी उ॒षासा॑व॒श्विना᳚ । भि॒षजेन्द्रे॒ सर॑स्वती । बल॒-न्न वाच॑मा॒स्ये᳚ । उ॒षाभ्या᳚-न्दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ दे॒वी जोष्ट्री॑ अ॒श्विना᳚ । सु॒त्रामेन्द्रे॒ सर॑स्वती । श्रोत्र॒-न्न कर्ण॑यो॒र्यशः॑ । जोष्ट्री᳚भ्या-न्दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ 68 ॥ दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दुघे᳚ । पय॒सेन्द्र॒ग्ं॒ सर॑स्वत्य॒श्विना॑ भि॒षजा॑-ऽवत । शु॒क्र-न्न ज्योति॒-स्स्तन॑यो॒राहु॑ती धत्त इन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ दे॒वा दे॒वाना᳚-म्भि॒षजा᳚ । होता॑रा॒विन्द्र॑-म॒श्विना᳚ । व॒ष॒ट्का॒रै-स्सर॑स्वती । त्विषि॒-न्न हृद॑ये म॒तिम् । होतृ॑भ्या-न्दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ 69 ॥ दे॒वी-स्ति॒स्र-स्ति॒स्रो दे॒वीः । सर॑स्वत्य॒श्विना॒ भार॒तीडा᳚ । शूष॒-न्न मद्ध्ये॒ नाभ्या᳚म् । इन्द्रा॑य दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ दे॒व इन्द्रो॒ नरा॒शग्ंसः॑ । त्रि॒व॒रू॒थ-स्सर॑स्वत्या॒ ऽश्विभ्या॑मीयते॒ रथः॑ । रेतो॒ न रू॒पम॒मृत॑-ञ्ज॒नित्र᳚म् । इन्द्रा॑य॒ त्वष्टा॒ दध॑दिन्द्रि॒याणि॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ 70 ॥ दे॒व इन्द्रो॒ वन॒स्पतिः॑ । हिर॑ण्यपर्णो अ॒श्विभ्या᳚म् । सर॑स्वत्या-स्सुपिप्प॒लः । इन्द्रा॑य पच्यते॒ मधु॑ । ओजो॒ न जू॒तिमृ॑ष॒भो न भाम᳚म् । वन॒स्पति॑र्नो॒ दध॑दिन्द्रि॒याणि॑ । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ दे॒व-म्ब॒र्॒हिर्वारि॑तीनाम् । अ॒द्ध्व॒रे स्ती॒र्णम॒श्विभ्या᳚म् । ऊर्ण॑म्रदा॒-स्सर॑स्वत्याः ॥ 71 ॥ स्यो॒नमि॑न्द्र ते॒ सदः॑ । ई॒शायै॑ म॒न्युग्ं राजा॑न-म्ब॒र्॒हिषा॑ दधुरिन्द्रि॒यम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ दे॒वो अ॒ग्नि-स्स्वि॑ष्ट॒कृत् । दे॒वान्.य॑क्ष-द्यथाय॒थम् । होता॑रा॒-विन्द्र॑म॒श्विना᳚ । वा॒चा वाच॒ग्ं॒ सर॑स्वतीम् । अ॒ग्निग्ं सोमग्ग्॑ स्विष्ट॒कृत् । स्वि॑ष्ट॒ इन्द्रः॑ सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षक् । इ॒ष्टो दे॒वो वन॒स्पतिः॑ । स्वि॑ष्टा दे॒वा आ᳚ज्य॒पाः । इ॒ष्टो अ॒ग्निर॒ग्निना᳚ । होता॑ हो॒त्रे स्वि॑ष्ट॒कृत् । यशो॒ न दध॑दिन्द्रि॒यम् । ऊर्ज॒मप॑चितिग्ग् स्व॒धाम् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ 72 ॥ (दे॒व-म्ब॒र्॒हि-र्दे॒वी-र्द्वारो॑ दे॒वी उ॒षासा॑व॒श्विना॑ दे॒वी जोष्ट्र॑ दे॒वी ऊ॒र्जाहू॑ती दे॒वा दे॒वाना᳚-म्भि॒षजा॑ वषट्का॒रै-र्दे॒वीस्तिस्रस्ति॒स्रो दे॒वी-स्सर॑स्वती दे॒व इन्द्रो॒ नरा॒शग्ंसो॑ दे॒व इन्द्रो॒ वन॒स्पति॑र्दे॒व-म्ब॒र्॒हिर्वारि॑तीना-न्दे॒वोअ॒ग्नि-स्स्वि॑ष्ट॒कृ-द्दे॒वान्) । (स॒मिधा॒-ऽग्नि-न्दे॒व-म्ब॒र्॒हि-स्सर॑स्वत्या॒श्विना॒ सर्वं॑-विँयन्तु । द्वार॑स्ति॒स्र-स्संर्व॑ वियन्तु । अ॒ज इन्द्र॒मोजो॒-ऽग्नि-म्पर॒-स्सर॑स्वतीम् । नक्त॒म्पूर्व॒-स्सर॑स्वति । अ॒न्यत्र॒ सर॑स्वति । भि॒ष-क्पूर्व॑-न्दुह इन्द्रि॒यम् । अ॒न्यत्र॑ दधुरिन्द्रि॒यम् । सौ॒त्रा॒म॒ण्याग्ं सु॑तासु॒ती । अ॒ञ्जन्त्य॒यं-यँज॑मानः) अनुवाकं 15 - सूक्तवाकप्रैषः सर॑स्वत्यै मे॒षेणेन्द्रा॑या॒श्विभ्या᳚म् । इन्द्रा॑यर्ष॒भेणा॒श्विभ्या॒ग्ं॒ सर॑स्वत्यै । अक्ष॒ग्ग्॒स्तान्मे॑द॒स्तः प्रति॑ पच॒ता-ऽग्र॑भीषुः । अवी॑वृधन्त॒ ग्रहैः᳚ । अपा॑ताम॒श्विना॒ सर॑स्व॒तीन्द्रः॑ सु॒त्रामा॑ वृत्र॒हा । सोमा᳚न्-थ्सु॒राम्णः॑ । उपो॑ उक्थाम॒दा-श्श्रौ॒द्विमदा॑ अदन्न् । अवी॑वृध-न्ताङ्गू॒षैः । त्वाम॒द्यर्ष॑ आर्षेयर्षीणा-न्नपादवृणीत । अ॒यग्ं सु॑तासु॒ती यज॑मानः । ब॒हुभ्य॒ आसङ्ग॑तेभ्यः । ए॒ष मे॑ दे॒वेषु॒ वसु॒ वार्या य॑क्ष्यत॒ इति॑ । ता या दे॒वा दे॑व॒दाना॒न्यदुः॑ । तान्य॑स्मा॒ आ च॒ शास्व॑ । आ च॑ गुरस्व । इ॒षि॒तश्च॑ होत॒रसि॑ भद्र॒वाच्या॑य॒ प्रेषि॑तो॒ मानु॑षः । सू॒क्त॒वा॒काय॑ सू॒क्ता ब्रू॑हि ॥ 74 ॥ अनुवाकं 16 - पितृयज्ञयाज्यानुवाक्याः अ॒ग्ं॒हो॒मुचः॑ पि॒तरः॑ सो॒म्यासः॑ । परे-ऽव॑रे॒-ऽमृता॑सो॒ भव॑न्तः । अधि॑ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान् ॥ वा॒न्या॑यै दु॒ग्धे जु॒षमा॑णाः कर॒म्भम् । उ॒दीरा॑णा॒ अव॑रे॒ परे॑ च । अ॒ग्नि॒ष्वा॒त्ता ऋ॒तुभिः॑ संविँदा॒नाः । इन्द्र॑वन्तो ह॒विरि॒द-ञ्जु॑षन्ताम् ॥ यद॑ग्ने कव्यवाहन पि॒तॄन् यक्ष्यृ॑ता॒वृधः॑ । प्र च॑ ह॒व्यानि॑ वक्ष्यसि दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ॥, त्वम॑ग्न ईडि॒तो जा॑तवे॒दो-ऽवा᳚ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा । प्रादाः᳚ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्व-न्दे॑व॒ प्रय॑ता ह॒वीग्ंषि॑ । । मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒ र्बृह॒स्पति॒र्-ऋक्व॑भि र्वावृधा॒नः । याग्श्च॑ दे॒वा वा॑वृ॒धुर्ये च॑ दे॒वान्-थ्स्वाहा॒-ऽन्ये स्व॒धया॒-ऽन्ये म॑दन्ति ॥ ॥ ये ता॑तृ॒पुर्दे॑व॒त्रा जेह॑मानाः । हो॒त्रा॒वृध॒-स्स्तोम॑तष्टासो अ॒र्कैः । आ-ऽग्ने॑ याहि सुवि॒दत्रे॑भिर॒र्वाम् । स॒त्यैः क॒व्यैः पि॒तृभि॑-र्घर्म॒सद्भिः॑ ॥ ह॒व्य॒वाह॑म॒जर॑-म्पुरुप्रि॒यम् । अ॒ग्नि-ङ्घृ॒तेन॑ ह॒विषा॑ सप॒र्यन्न् । उपा॑सद-ङ्कव्य॒वाह॑-म्पितृ॒णाम् । स नः॑ प्र॒जां-वीँ॒रव॑ती॒ग्ं॒ समृ॑ण्वतु ॥ 76 ॥ अनुवाकं 17 - ऐन्द्रो पशौ एकादश प्रयाजाः शुचि॒मिन्द्रं॑-वँयो॒धस᳚म् । उ॒ष्णिह॒-ञ्छन्द॑ इन्द्रि॒यम् । दि॒त्य॒वाह॒-ङ्गां-वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्षदी॒डेन्य᳚म् । ई॒डि॒तं-वृँ॑त्र॒हन्त॑मम् । इडा॑भि॒रीड्य॒ग्ं॒ सहः॑ । सोम॒मिन्द्रं॑-वँयो॒धस᳚म् । अ॒नु॒ष्टुभ॒-ञ्छन्द॑ इन्द्रि॒यम् । त्रि॒व॒थ्स-ङ्गां-वँयो॒ दध॑त् ॥ 78 ॥ वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष-थ्सुबर्हि॒षद᳚म् । पू॒ष॒ण्वन्त॒-मम॑र्त्यम् । सीद॑न्त-म्ब॒र्॒हिषि॑ प्रि॒ये । अ॒मृतेन्द्रं॑-वँयो॒धस᳚म् । बृ॒ह॒ती-ञ्छन्द॑ इन्द्रि॒यम् । पञ्चा॑वि॒-ङ्गां-वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒-द्व्यच॑स्वतीः । सु॒प्रा॒य॒णा ऋ॑ता॒वृधः॑ ॥ 79 ॥ द्वारो॑ दे॒वीर्हि॑र॒ण्ययीः᳚ । ब्र॒ह्माण॒ इन्द्रं॑-वँयो॒धस᳚म् । प॒ङ्क्ति-ञ्छन्द॑ इ॒हेन्द्रि॒यम् । तु॒र्य॒वाह॒-ङ्गां-वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष-थ्सु॒पेश॑से । सु॒शि॒ल्पे बृ॑ह॒ती उ॒भे । नक्तो॒षासा॒ न द॑र्श॒ते । विश्व॒मिन्द्रं॑-वँयो॒धस᳚म् । त्रि॒ष्टुभ॒-ञ्छन्द॑ इन्द्रि॒यम् ॥ 80 ॥ प॒ष्ठ॒वाह॒-ङ्गां-वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒-त्प्रचे॑तसा । दे॒वाना॑मुत्त॒मं-यँशः॑ । होता॑रा॒ दैव्या॑ क॒वी । स॒युजेन्द्रं॑-वँयो॒धस᳚म् । जग॑ती॒-ञ्छन्द॑ इ॒हेन्द्रि॒यम् । अ॒न॒ड्वाह॒-ङ्गां-वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒-त्पेश॑स्वतीः ॥ 81 ॥ ति॒स्रो दे॒वीर्हि॑र॒ण्ययीः᳚ । भार॑ती-र्बृह॒तीर्म॒हीः । पति॒मिन्द्रं॑-वँयो॒धस᳚म् । वि॒राज॒-ञ्छन्द॑ इ॒हेन्द्रि॒यम् । धे॒नु-ङ्गा-न्न वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष-थ्सु॒रेत॑सम् । त्वष्टा॑र-म्पुष्टि॒वर्ध॑नम् । रू॒पाणि॒ बिभ्र॑त॒-म्पृथ॑क् । पुष्टि॒मिन्द्रं॑-वँयो॒धस᳚म् ॥ 82 ॥ द्वि॒पद॒-ञ्छन्द॑ इ॒हेन्द्रि॒यम् । उ॒क्षाण॒-ङ्गा-न्न वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्षच्छ॒तक्र॑तुम् । हिर॑ण्यपर्ण-मु॒क्थिन᳚म् । र॒श॒ना-म्बिभ्र॑तं-वँ॒शिम् । भग॒मिन्द्रं॑-वँयो॒धस᳚म् । क॒कुभ॒-ञ्छन्द॑ इ॒हेन्द्रि॒यम् । व॒शां-वेँ॒हत॒-ङ्गा-न्न वयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ होता॑ यक्ष॒-थ्स्वाहा॑कृतीः । अ॒ग्नि-ङ्गृ॒हप॑ति॒-म्पृथ॑क् । वरु॑ण-म्भेष॒ज-ङ्क॒विम् । क्ष॒त्रमिन्द्रं॑-वँयो॒धस᳚म् । अति॑च्छन्दस॒-ञ्छन्द॑ इन्द्रि॒यम् । बृ॒हदृ॑ष॒भ-ङ्गां-वँयो॒ दध॑त् । वेत्वाज्य॑स्य॒ होत॒र्यज॑ ॥ 83 ॥ इ॒डस्प॒दे᳚-ऽग्नि-ङ्गा॑य॒त्री-न्त्र्यवि᳚म् । शुचि॑व्रत॒ग्ं॒ शुचि॑मु॒ष्णिह॑-न्दित्य॒वाह᳚म् । ई॒डेन्य॒ग्ं॒ सोम॑-मन॒ष्टुभ॑-न्त्रिव॒थ्सम् । सु॒ब॒र॒ःइ॒षद॑म॒मृतेन्द्र॑-म्बृह॒ती-म्पञ्चा॑विम् । व्यच॑स्वती-स्सुप्राय॒णा द्वारो᳚ ब्रा॒ह्माणः॑ पा॒ङ्क्तिमि॒ह तु॑र्य॒वाह᳚म् । सु॒पेश॑से॒ विश्व॒मिन्द्र॑-न्त्रि॒ष्टुभ॑-म्पष्ठ॒वाह᳚म् । प्रचे॑तसा स॒युजेन्द्र॒-ञ्जग॑तीमि॒हान॒ड्वाह᳚म् । पेश॑स्वतीस्ति॒स्त्रो भार॑तीः॒ पतिं॑-विँ॒राज॑मि॒ह धे॒नु-न्न । सु॒रेत॑स॒-न्त्वष्टा॑र॒-म्पुष्टि॑-न्द्वि॒पद॑मि॒होक्षाण॒-न्न । श॒तक्र॑तु॒-म्भग॒मिन्द्र॑-ङ्क॒कुभ॑मि॒ह व॒शां-वेँ॒हत॒-ङ्गा-न्न । स्वाहा॑कृतीः, क्ष॒त्रमति॑च्छन्दस-म्बृ॒हदृ॑ष॒भ-ङ्गां-वँयः॑ । इ॒न्द्रि॒यमुषि॑वसु॒नव॑द॒शेहे᳚न्द्रिय॒मष्ट॑ नव दश॒ गा-न्न वयो॒ दध॒-थ्सर्व॑वेतु । अनुवाकं 18 - ऐन्द्रो पशौ प्रयाजयाज्याः अ॒नु॒ष्टुप्छन्द॑ इन्द्रि॒यम् । त्रि॒व॒थ्सो गौर्वयो॑ दधुः ॥ सु॒ब॒र्॒हिर॒ग्निः पू॑ष॒ण्वान् । स्ती॒र्ण-ब॑र्हि॒रम॑र्त्यः । बृ॒ह॒ती छन्द॑ इन्द्रि॒यम् । पञ्चा॑वि॒-र्गौर्वयो॑ दधुः ॥ दुरो॑ दे॒वीर्दिशो॑ म॒हीः । ब्र॒ह्मा दे॒वो बृह॒स्पतिः॑ । प॒ङ्क्ति-श्छन्द॑ इ॒हेन्द्रि॒यम् । तु॒र्य॒वाड् गौर्वयो॑ दधुः ॥ 85 ॥ उ॒षे य॒ह्वी सु॒पेश॑सा । विश्वे॑ दे॒वा अम॑र्त्याः । त्रि॒ष्टु-प्छन्द॑ इन्द्रि॒यम् । प॒ष्ठ॒वाद्गौर्वयो॑ दधुः ॥ दैव्या॑ होतारा भिषजा । इन्द्रे॑ण स॒युजा॑ यु॒जा । जग॑ती॒ छन्द॑ इ॒हेन्द्रि॒यम् । अ॒न॒ड्वान्-गौर्वयो॑ दधुः ॥ ति॒स्र इडा॒ सर॑स्वती । भार॑ती म॒रुतो॒ विशः॑ ॥ 86 ॥ वि॒राट्छन्द॑ इ॒हेन्द्रि॒यम् । धे॒नुर्गौर्न वयो॑ दधुः ॥ त्वष्टा॑ तु॒रीपो॒ अद्भु॑तः । इ॒न्द्रा॒ग्नी पु॑ष्टि॒वर्ध॑ना । द्वि॒पाच्छन्द॑ इ॒हेन्द्रि॒यम् । उ॒क्षा गौर्न वयो॑ दधुः ॥ श॒मि॒ता नो॒ वन॒स्पतिः॑ । स॒वि॒ता प्र॑सु॒वन्भग᳚म् । क॒कुच्छन्द॑ इ॒हेन्द्रि॒यम् । व॒शा वे॒हद्गौर्न वयो॑ दधुः ॥ स्वाहा॑ य॒ज्ञं-वँरु॑णः । सु॒क्ष॒त्रो भे॑ष॒ज-ङ्क॑रत् । अतिः॑ छन्दा॒-श्छन्द॑ इन्द्रि॒यम् । बृ॒हदृ॑ष॒भो गौर्वयो॑ दधुः ॥ 87 ॥ अनुवाकं 19 - ऐन्द्रो पशौ वपादीनां-यँज्यानुवाक्याः वै॒रू॒पेण॑ वि॒शौज॑सा । ह॒विरिन्द्रे॒ वयो॑ दधुः ॥ शा॒र॒देन॒र्तुना॑ दे॒वाः । ए॒क॒वि॒ग्ं॒श ऋ॒भवः॑ स्तु॒तम् । वै॒रा॒जेन॑ श्रि॒या श्रिय᳚म् । ह॒विरिन्द्रे॒ वयो॑ दधुः ॥ हे॒म॒न्तेन॒र्तुना॑ दे॒वाः । म॒रुत॑स्त्रिण॒वे स्तु॒तम् । बले॑न॒ शक्व॑री॒-स्सहः॑ । ह॒विरिन्द्रे॒ वयो॑ दधुः ॥ शै॒शि॒रेण॒र्तुना॑ दे॒वाः । त्र॒य॒स्त्रि॒ग्ं॒शे॑ ऽमृतग्ग्॑ स्तु॒तम् । स॒त्येन॑ रे॒वतीः᳚, क्ष॒त्रम् । ह॒विरिन्द्रे॒ वयो॑ दधुः ॥ 89 ॥ (व॒स॒न्तेन॑ ग्री॒ष्मेण॑ व॒र्॒षाभिः॑ शार॒देन॑ हेम॒न्तेन॑ शैशि॒रेण॒ षट् ) अनुवाकं 20 - ऐन्द्रो पशौ अनूयाजाना-म्मैत्रावरिणप्रैषाः दे॒वी दे॒वं-वँ॑यो॒धस᳚म् । उ॒षे इन्द्र॑मवर्धताम् । अ॒नु॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् । वाच॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒-यँज॑ ॥ दे॒वी जोष्ट्री॑ दे॒वमिन्द्रं॑-वँयो॒धस᳚म् । दे॒वी दे॒वम॑वर्धताम् । बृ॒ह॒त्या छन्द॑सेन्द्रि॒यम् । श्रोत्र॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒-यँज॑ ॥ 91 ॥ दे॒वी ऊ॒र्जाहु॑ती दे॒वमिन्द्रं॑-वँयो॒धस᳚म् । दे॒वी दे॒वम॑वर्धताम् । प॒ङ्क्त्या छन्द॑सेन्द्रि॒यम् । शु॒क्रमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒-यँज॑ ॥ दे॒वा दैव्या॒ होता॑रा दे॒वमिन्द्रं॑-वँयो॒धस᳚म् । दे॒वा दे॒वम॑वर्धताम् । त्रि॒ष्टुभा॒ छन्द॑सेन्द्रि॒यम् । त्विषि॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वीतां॒-यँज॑ ॥ 92 ॥ दे॒वी-स्ति॒स्र-स्ति॒स्रो दे॒वीर्व॑यो॒धस᳚म् । पति॒मिन्द्र॑-मवर्धयन्न् । जग॑त्या॒ छन्द॑सेन्द्रि॒यम् । बल॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वियन्तु॒ यज॑ ॥ दे॒वो नरा॒शग्ंसो॑ दे॒वमिन्द्रं॑-वँयो॒धस᳚म् । दे॒वो दे॒वम॑वर्धयत् । वि॒राजा॒ छन्द॑सेन्द्रि॒यम् । रेत॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥ 93 ॥ दे॒वो वन॒स्पति॑-र्दे॒वमिन्द्रं॑-वँयो॒धस᳚म् । दे॒वो दे॒वम॑वर्धयत् । द्वि॒पदा॒ छन्द॑सेन्द्रि॒यम् । भग॒मिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥ दे॒व-म्ब॒र्॒हिर्वारि॑तीना-न्दे॒वमिन्द्रं॑-वँयो॒धस᳚म् । दे॒वो (दे॒वं) दे॒वम॑वर्धयत् । क॒कुभा॒ छन्द॑सेन्द्रि॒यम् । यश॒ इन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥ दे॒वो अ॒ग्नि-स्स्वि॑ष्ट॒कृ-द्दे॒वमिन्द्रं॑-वँयो॒धस᳚म् । दे॒वो दे॒वम॑वर्धयत् । अति॑च्छन्दसा॒ छन्द॑सेन्द्रि॒यम् । क्ष॒त्रमिन्द्रे॒ वयो॒ दध॑त् । व॒सु॒वने॑ वसु॒धेय॑स्य वेतु॒ यज॑ ॥ 94 ॥ (दे॒व-म्ब॒र्॒हि-र्गा॑यत्रि॒या तेजः॑ । दे॒वीर्द्वार॑ उ॒ष्णिहा᳚ प्रा॒णम् । दे॒वी दे॒वमु॒षे अ॑नु॒ष्टुभा॒ वाच᳚म् । दे॒वी जोष्ट्री॑ बृह॒त्या श्रोत्र᳚म् । दे॒वी ऊ॒र्जाहू॑ती प॒ङ्क्त्या शु॒क्रम् । दे॒वा दैव्या॒ होता॑रा त्रि॒ष्टुभा॒ त्विषि᳚म् । दे॒वीस्ति॒स्रस्ति॒स्रो दे॒वीः पति॒-ञ्जग॑त्या॒ बल᳚म् । दे॒वो नरा॒शग्ंसो॑ वि॒राजा॒ रेतः॑ । दे॒वो वन॒स्पति॑-र्द्वि॒पदा॒ भग᳚म् । दे॒व-म्ब॒र्॒हि-र्वारि॑तीना-ङ्क॒कुभा॒ यशः॑ । दे॒वो अ॒ग्नि-स्स्वि॑ष्ट॒कृदति॑च्छन्दसा क्ष॒त्रम् । वे॒तु॒ वि॒य॒न्तु॒ च॒तु-र्वी॑ता॒मेको॑ वियन्तु च॒तुर्वे॑तु । अ॒व॒र्ध॒य॒द॒व॒र्ध॒य॒ग्ग्॒ श्च॒तुर॑वर्धता॒मेको॑ ऽवर्धयग्ग् श्च॒तुर॑वर्धयत् ।) (स्वा॒द्वी-न्त्वा॒ - सोमः॒ - सुरा॑वन्त॒ग्ं॒ - सीसे॑न - मि॒त्रो॑-ऽसि॒ - य-द्दे॑वा॒ - होता॑ यक्ष-थ्स॒मिधेन्द्र॒ग्ं॒ - समि॑द्ध॒ इन्द्र॒ - आच॑र्षणि॒प्रा - दे॒व-म्ब॒र्॒हिरिन्द्रग्ं॑ सुदे॒वग्ं - होता॑ यक्ष-थ्स॒मिधा॒-ऽग्निग्ं - समि॑द्धो अ॒ग्निर॑श्विना॒ - ऽश्विना॑ ह॒विरि॑न्द्रि॒यं - दे॒व-म्ब॒र्॒हि-स्सर॑स्व - त्या॒ग्निम॒ - द्योशन्तो॒ - होता॑ यक्षदि॒डस्प॒दे - समि॑द्धो अ॒ग्नि-स्स॒मिधा॑ - वस॒न्तेन॑ - दे॒व-म्ब॒र्॒हिरिन्द्रं॑-वँयो॒धसं॑-विँग्ंश॒तिः) (स्वा॒द्वी-न्त्वा-ऽ - मी॑ मदन्त पि॒तरः॒ - साम्रा᳚ज्याय - पू॒त-म्प॒वित्रे॑णे॒ वाज्य॑ - मु॒षासा॒नक्ता॒ - बद॑रै॒ - रधा॑ताम॒श्विना॑ - दे॒व इन्द्रो॒ वन॒स्पतिः॑ - पष्ठ॒वाह॒-ङ्गां - दे॒वी दे॒वं-वँ॑यो॒धस॒-ञ्चतु॑र्नवतिः ) (स्वा॒द्वीन्त्वा॑ - वेतु॒ यज॑) ॥ हरिः॑ ओम् ॥ ॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके षष्ठः प्रपाठक-स्समाप्तः ॥
|