कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके पञ्चमः प्रपाठकः - प्रवर्ग्य ब्राह्मणम्
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
अनुवाकं 1
दे॒वा वै स॒त्रमा॑सत । ऋद्धि॑परिमित॒म् ँयश॑स्कामाः । ते᳚-ऽब्रुवन्न् । यन्नः॑ प्रथ॒मं-यँश॑ ऋ॒च्छात् । सर्वे॑षा-न्न॒स्त-थ्स॒हास॒दिति॑ ।
तेषा᳚-ङ्कुरुक्षे॒त्रं-वेँदि॑रासीत् । तस्यै॑ खाण्ड॒वो द॑क्षिणा॒र्ध आ॑सीत् । तूर्घ्न॑मुत्तरा॒र्धः । प॒री॒णज्ज॑घना॒र्धः । म॒रव॑ उत्क॒रः ॥ 1 ॥
तेषा᳚-म्म॒खं-वैँ᳚ष्ण॒वं-यँश॑ आर्च्छत् । तन्न्य॑कामयत । तेनापा᳚क्रामत् । त-न्दे॒वा अन्वा॑यन्न् । यशो॑-ऽव॒रुरु॑थ्समानाः । तस्या॒न्वाग॑तस्य ।
स॒व्याद्धनु॒रजा॑यत । दक्षि॑णा॒दिष॑वः । तस्मा॑दिषुध॒न्व-म्पुण्य॑जन्म ।
य॒ज्ञज॑न्मा॒ हि ॥ 2 ॥
तमेक॒ग्ं॒ सन्त᳚म् । ब॒हवो॒ नाभ्य॑धृष्णुवन्न् । तस्मा॒देक॑मिषुध॒न्विन᳚म् । ब॒हवो॑-ऽनिषुध॒न्वा नाभिधृ॑ष्णुवन्ति । सो᳚-ऽस्मयत । एक॑-म्मा॒ सन्त॑-म्ब॒हवो॒ नाभ्य॑धर्षिषु॒रिति॑ ।
तस्य॑ सिष्मिया॒णस्य॒ तेजो-ऽपा᳚क्रामत् । त-द्दे॒वा ओष॑धीषु॒ न्य॑मृजुः । ते श्या॒माका॑ अभवन्न् । स्म॒याका॒ वै नामै॒ते ॥ 3 ॥
त-थ्स्म॒याका॑नाग् स्मयाक॒त्वम् । तस्मा᳚-द्दीक्षि॒तेना॑पि॒गृह्य॑ स्मेत॒व्य᳚म् । तेज॑सो॒ धृत्यै᳚ । स धनुः॑ प्रति॒ष्कभ्या॑तिष्ठत् । ता उ॑प॒दीका॑ अब्रुव॒न्-वर॑म् ँवृणामहै । अथ॑ व इ॒मग्ं र॑न्धयाम ।
यत्र॒ क्व॑ च॒ खना॑म । तद॒पो॑-ऽभितृ॑णदा॒मेति॑ ।
तस्मा॑दुप॒दीका॒ यत्र॒ क्व॑ च॒ खन॑न्ति । तद॒पो॑-ऽभितृ॑न्दन्ति ॥ 4 ॥
वारे॑वृत॒ग्ग्॒ ह्या॑साम् । तस्य॒ ज्यामप्या॑दन्न् ।
तस्य॒ धनु॑र्वि॒प्रव॑माण॒ग्ं॒ शिर॒ उद॑वर्तयत् ।
त-द्द्यावा॑पृथि॒वी अनु॒प्राव॑र्तत । य-त्प्राव॑र्तत ।
त-त्प्र॑व॒र्ग्य॑स्य प्रवर्ग्य॒त्वम् । यद्घ्राँ(4) इत्यप॑तत् ।
तद्ध॒र्मस्य॑ घर्म॒त्वम् ।
म॒ह॒तो वी॒र्य॑मपप्त॒दिति॑ । त-न्म॑हावी॒रस्य॑ महावीर॒त्वम् ॥ 5 ॥
यद॒स्या-स्स॒मभ॑रन्न् । त-थ्स॒म्राज्ञः॑ सम्रा॒ट्त्वम् ।
तग्ग् स्तृ॒त-न्दे॒वता᳚स्त्रे॒धा व्य॑गृह्णत । अ॒ग्निः प्रा॑तस्सव॒नम् । इन्द्रो॒ माद्ध्य॑न्दिन॒ग्ं॒ सव॑नम् । विश्वे॑ दे॒वास्तृ॑तीयसव॒नम् । तेनाप॑शीर्ष्णा य॒ज्ञेन॒ यज॑मानाः । नाशिषो॒-ऽवारु॑न्धत ।
न सु॑व॒र्गं-लोँ॒कम॒भ्य॑जयन्न् ।
ते दे॒वा अ॒श्विना॑वब्रुवन्न् ॥ 6 ॥
भि॒षजौ॒ वै स्थः॑ । इ॒दं-यँ॒ज्ञस्य॒ शिरः॒ प्रति॑धत्त॒मिति॑ । ताव॑ब्रूतां॒-वँर॑म् ँवृणावहै । ग्रह॑ ए॒व ना॒वत्रापि॑ गृह्यता॒मिति॑ ।
ताभ्या॑-मे॒तमा᳚श्वि॒न-म॑गृह्णन्न् ।
तावे॒त-द्य॒ज्ञस्य॒ शिरः॒ प्रत्य॑धत्ताम् ।
य-त्प्र॑व॒र्ग्यः॑ । तेन॒ सशी᳚र्ष्णा य॒ज्ञेन॒ यज॑मानाः । अवा॒शिषो-ऽरु॑न्धत ।
अ॒भि सु॑व॒र्गं-लोँ॒कम॑जयन्न् । य-त्प्र॑व॒र्ग्य॑-म्प्रवृ॒णक्ति॑ । य॒ज्ञस्यै॒व तच्छिरः॒ प्रति॑दधाति ।
तेन॒ सशी᳚र्ष्णा य॒ज्ञेन॒ यज॑मानः ।
अवा॒शिषो॑ रु॒न्धे । अ॒भि सु॑व॒र्गं-लोँ॒क-ञ्ज॑यति ।
तस्मा॑दे॒ष आ᳚श्वि॒नप्र॑वया इव । य-त्प्र॑व॒र्ग्यः॑ ॥ 7 ॥
(उ॒त्क॒रो - ह्ये॑ - ते - तृ॑न्दन्ति - महावीर॒त्व - म॑ब्रुवन् - नजयन्-थ्स॒प्त च॑) (अ. 1)
अनुवाकं 2
सा॒वि॒त्र-ञ्जु॑होति॒ प्रसू᳚त्यै । च॒तु॒र्गृ॒ही॒तेन॑ जुहोति ।
चतु॑ष्पादः प॒शवः॑ । प॒शूने॒वाव॑रुन्धे । चत॑स्रो॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑तिष्ठति ।
छन्दाग्ं॑सि दे॒वेभ्यो-ऽपा᳚क्रामन्न् ।
न वो॑-ऽभा॒गानि॑ ह॒व्यं-वँ॑क्ष्याम॒ इति॑ ।
तेभ्य॑ ए॒त-च्च॑तुर्गृही॒त-म॑धारयन्न् । पु॒रो॒नु॒वा॒क्या॑यै या॒ज्या॑यै ॥ 8 ॥
दे॒वता॑यै वषट्का॒राय॑ । यच्च॑तुर्गृही॒त-ञ्जु॒होति॑ ।
छन्दाग्॑स्ये॒व त-त्प्री॑णाति । तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं-वँ॑हन्ति । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । हो॒त॒व्य॑-न्दीक्षि॒तस्य॑ गृ॒हा(3) इ न हो॑त॒व्या(3) मिति॑ । ह॒विर्वै दी᳚क्षि॒तः । यज्जु॑हु॒यात् । ह॒विष्कृ॑तं॒-यँज॑मानम॒ग्नौ प्रद॑द्ध्यात् ।
यन्न जु॑हु॒यात् ॥ 9 ॥
य॒ज्ञ॒प॒रुर॒न्तरि॑यात् । यजु॑रे॒व व॑देत् ।
न ह॒विष्कृ॑तं॒-यँज॑मानम॒ग्नौ प्र॒दधा॑ति । न य॑ज्ञप॒रुर॒न्तरे॑ति । गा॒य॒त्री छन्दा॒ग्॒स्यत्य॑मन्यत ।
तस्यै॑ वषट्का॒रो᳚-ऽभ्यय्य॒ शिरो᳚-ऽच्छिनत् ।
तस्यै᳚ द्वे॒धा रसः॒ परा॑-ऽपतत् । पृ॒थि॒वीम॒र्धः प्रावि॑शत् । प॒शून॒र्धः । यः पृ॑थि॒वी-म्प्रावि॑शत् ॥ 10 ॥
स ख॑दि॒रो॑-ऽभवत् । यः प॒शून् । सो॑-ऽजाम् । यत्खा॑दि॒र्यभ्रि॒-र्भव॑ति । छन्द॑सामे॒व रसे॑न य॒ज्ञस्य॒ शिर॒-स्सम्भ॑रति । यदौदु॑म्बरी ।
ऊर्ग्वा उ॑दु॒म्बरः॑ । ऊ॒र्जैव य॒ज्ञस्य॒ शिर॒-स्सम्भ॑रति । य-द्वै॑ण॒वी । तेजो॒ वै वेणुः॑ ॥ 11 ॥
तेज॑सै॒व य॒ज्ञस्य॒ शिर॒-स्सम्भ॑रति । य-द्वैक॑ङ्कती ।
भा ए॒वाव॑रुन्धे । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्यभ्रि॒माद॑त्ते॒ प्रसू᳚त्यै । अ॒श्विनो᳚-र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म् ।
पू॒ष्णो हस्ता᳚भ्या॒मित्याह॒ यत्यै᳚ । वज्र॑ इव॒ वा ए॒षा । यदभ्रिः॑ । अभ्रि॑रसि॒ नारि॑र॒सीत्या॑ह॒ शान्त्यै᳚ ॥ 12 ॥
अ॒द्ध्व॒र॒कृ-द्दे॒वेभ्य॒ इत्या॑ह । य॒ज्ञो वा अ॑द्ध्व॒रः । य॒ज्ञ॒कृ-द्दे॒वेभ्य॒ इति॒ वावैतदा॑ह । उत्ति॑ष्ठ ब्रह्मणस्पत॒ इत्या॑ह ।
ब्रह्म॑णै॒व य॒ज्ञस्य॒ शिरो-ऽच्छै॑ति ।
प्रैतु॒ ब्रह्म॑ण॒स्पति॒रित्या॑ह । प्रेत्यै॒व य॒ज्ञस्य॒ शिरो-ऽच्छै॑ति । प्र दे॒व्ये॑तु सू॒नृतेत्या॑ह ।
य॒ज्ञो वै सू॒नृता᳚ । अच्छा॑ वी॒रन्नर्य॑-म्प॒ङ्क्तिरा॑धस॒मित्या॑ह ॥ 13 ॥
पाङ्क्तो॒ हि य॒ज्ञः । दे॒वा य॒ज्ञन्न॑यन्तु न॒ इत्या॑ह ।
दे॒वाने॒व य॑ज्ञ॒नियः॑ कुरुते । देवी᳚ द्यावापृथिवी॒ अनु॑ मे मग्ंसाथा॒मित्या॑ह । आ॒भ्यामे॒वानु॑मतो य॒ज्ञस्य॒ शिर॒-स्सम्भ॑रति । ऋ॒द्ध्यास॑म॒द्य म॒खस्य॒ शिर॒ इत्या॑ह । य॒ज्ञो वै म॒खः ।
ऋ॒द्ध्यास॑म॒द्य य॒ज्ञस्य॒ शिर॒ इति॒ वावैतदा॑ह ।
म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्ण इत्या॑ह ।
नि॒र्दिश्यै॒वैन॑द्धरति ॥ 14 ॥
त्रिर्ह॑रति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञस्य॒ शिर॒-स्सम्भ॑रति । तू॒ष्णी-ञ्च॑तु॒र्थग्ं ह॑रति । अप॑रिमितादे॒व य॒ज्ञस्य॒ शिर॒-स्सम्भ॑रति ।
मृ॒त्ख॒नादग्रे॑ हरति । तस्मा᳚-न्मृत्ख॒नः क॑रु॒ण्य॑तमः । इय॒त्यग्र॑ आसी॒रित्या॑ह । अ॒स्यामे॒वाछ॑म्बट्कारं-यँ॒ज्ञस्य॒ शिर॒-स्सम्भ॑रति । ऊर्ज॒म् ँवा ए॒तग्ं रस॑-म्पृथि॒व्या उ॑प॒दीका॒ उद्दि॑हन्ति ॥ 15 ॥
य-द्व॒ल्मीक᳚म् । य-द्व॑ल्मीकव॒पा स॑म्भा॒रो भव॑ति ।
ऊर्ज॑मे॒व रस॑-म्पृथि॒व्या अव॑रुन्धे । अथो॒ श्रोत्र॑मे॒व । श्रोत्र॒ग्ग्॒ ह्ये॑त-त्पृ॑थि॒व्याः । य-द्व॒ल्मीकः॑ । अब॑धिरो भवति । य ए॒वं-वेँद॑ । इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् ।
स यत्र॑यत्र प॒राक्र॑मत ॥ 16 ॥
तन्नाद्ध्रि॑यत । स पू॑तीकस्त॒म्बे परा᳚क्रमत । सो᳚-ऽद्ध्रियत । सो᳚-ऽब्रवीत् । ऊ॒तिं-वैँ मे॑ धा॒ इति॑ । तदू॒तीका॑ना-मूतीक॒त्वम् । यदू॒तीका॒ भव॑न्ति ।
य॒ज्ञायै॒वोति-न्द॑धति । अ॒ग्नि॒जा अ॑सि प्र॒जाप॑ते॒ रेत॒ इत्या॑ह । य ए॒व रसः॑ प॒शू-न्प्रावि॑शत् ॥ 17 ॥
तमे॒वाव॑रुन्धे । पञ्चै॒ते स॑म्भा॒रा भ॑वन्ति । पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तस्य॒ शिर॒-स्सम्भ॑रति । यद्ग्रा॒म्याणा᳚-म्पशू॒नाञ्चर्म॑णा स॒म्भरे᳚त् । ग्रा॒म्या-न्प॒शूञ्छु॒चा-ऽर्प॑येत् । कृ॒ष्णा॒जि॒नेन॒ सम्भ॑रति । आ॒र॒ण्याने॒व प॒शूञ्छु॒चा-ऽर्प॑यति । तस्मा᳚-थ्स॒माव॑त्-पशू॒ना-म्प्र॒जाय॑मानानाम् ॥ 18 ॥
आ॒र॒ण्याः प॒शवः॒ कनी॑याग्ंसः । शु॒चा ह्यृ॑ताः ।
लो॒म॒त-स्सम्भ॑रति । अतो॒ ह्य॑स्य॒ मेद्ध्य᳚म् । प॒रि॒गृह्या य॑न्ति । रक्ष॑सा॒मप॑हत्यै ।
ब॒हवो॑ हरन्ति । अप॑चितिमे॒वास्मि॑-न्दधति ।
उद्ध॑ते॒ सिक॑तोपोप्ते॒ परि॑श्रिते॒ निद॑धति॒ शान्त्यै᳚ ।
मद॑न्तीभि॒रुप॑ सृजति ॥ 19 ॥
तेज॑ ए॒वास्मि॑-न्दधाति । मधु॑ त्वा मधु॒ला क॑रो॒त्वित्या॑ह । ब्रह्म॑णै॒वास्मि॒न् -तेजो॑ दधाति ।
यद्ग्रा॒म्याणा॒-म्पात्रा॑णा-ङ्क॒पालै᳚-स्सग्ंसृ॒जेत् ।
ग्रा॒म्याणि॒ पात्रा॑णि शु॒चा-ऽर्प॑येत् । अ॒र्म॒क॒पा॒लै-स्सग्ंसृ॑जति । ए॒तानि॒ वा अ॑नुपजीवनी॒यानि॑ । तान्ये॒व शु॒चा-ऽर्प॑यति ।
शर्क॑राभि॒-स्सग्ंसृ॑जति॒ धृत्यै᳚ । अथो॑ श॒न्त्वाय॑ । अ॒ज॒लो॒मै-स्सग्ंसृ॑जति । ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूः । यद॒जा । प्रि॒ययै॒वैन॑-न्त॒नुवा॒ सग्ंसृ॑जति । अथो॒ तेज॑सा । कृ॒ष्णा॒जि॒नस्य॒ लोम॑भि॒-स्सग्ंसृ॑जति । य॒ज्ञो वै कृ॑ष्णाजि॒नम् ।
य॒ज्ञेनै॒व य॒ज्ञग्ं सग्ंसृ॑जति ॥ 20 ॥
(या॒जा॑यै॒ - न जु॑हु॒या - दवि॑श॒-द्- वेणः॒ - शान्त्यै॑ - प॒ङ्क्तिरा॑धस॒मित्या॑ह - हरति - दिहन्ति - प॒राक्र॑म॒ - तावि॑शत् - प्र॒जाय॑मानानाग्ं - सृजति - श॒न्त्वाया॒ ष्टौ च॑) (अ. 2)
अनुवाकं 3
परि॑श्रिते करोति । ब्र॒ह्म॒व॒र्च॒सस्य॒ परि॑गृहीत्यै । न कु॒र्वन्न॒भि प्रा᳚ण्यात् । य-त्कु॒र्वन्न॑भि प्रा॒ण्यात् । प्रा॒णाञ्छु॒चा-ऽर्प॑येत् । अ॒प॒हाय॒ प्राणि॑ति ।
प्रा॒णाना᳚-ङ्गोपी॒थाय॑ । न प्र॑व॒र्ग्य॑म्-चादि॒त्यम्-चा॒न्तरे॑यात् । यद॑न्तरे॒यात् । दु॒श्चर्मा᳚ स्यात् ॥ 21 ॥
तस्मा॒न्नान्त॒राय्य᳚म् । आ॒त्मनो॑ गोपी॒थाय॑ । वेणु॑ना करोति । तेजो॒ वै वेणुः॑ । तेजः॑ प्रव॒र्ग्यः॑ । तेज॑सै॒व तेज॒-स्सम॑र्धयति । म॒खस्य॒ शिरो॒-ऽसीत्या॑ह । य॒ज्ञो वै म॒खः । तस्यै॒तच्छिरः॑ । य-त्प्र॑व॒र्ग्यः॑ ॥ 22 ॥
तस्मा॑दे॒वमा॑ह । य॒ज्ञस्य॑ प॒दे स्थ॒ इत्या॑ह । य॒ज्ञस्य॒ ह्ये॑ते प॒दे । अथो॒ प्रति॑ष्ठित्यै । गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा करो॒मीत्या॑ह ।
छन्दो॑भिरे॒वैन॑-ङ्करोति । त्र्यु॑द्धि-ङ्करोति । त्रय॑ इ॒मे लो॒काः । ए॒षाम् ँलो॒काना॒माप्त्यै᳚ । छन्दो॑भिः करोति ॥ 23 ॥
वी॒र्य॑म् ँवै छन्दाग्ं॑सि । वी॒र्ये॑णै॒वैन॑-ङ्करोति ।
यजु॑षा॒ बिल॑-ङ्करोति॒ व्यावृ॑यै । इय॑न्त-ङ्करोति ।
प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑तम् । इय॑न्त-ङ्करोति ।
य॒ज्ञ॒प॒रुषा॒ सम्मि॑तम् । इय॑न्त-ङ्करोति ।
ए॒ताव॒द्वै पुरु॑षे वी॒र्य᳚म् । वी॒र्य॑सम्मितम् ॥ 24 ॥
अप॑रिमित-ङ्करोति । अप॑रिमित॒स्याव॑रुद्ध्यै । प॒रि॒ग्री॒व-ङ्क॑रोति॒ धृत्यै᳚ । सूर्य॑स्य॒ हर॑सा श्रा॒येत्या॑ह । य॒था॒य॒जुरे॒वैतत् । अ॒श्व॒श॒केन॑ धूपयति । प्रा॒जा॒प॒त्यो वा अश्वः॑ सयोनि॒त्वाय॑ । वृष्णो॒ अश्व॑स्य नि॒ष्पद॒सीत्या॑ह ।
अ॒सौ वा आ॑दि॒त्यो वृषा-ऽश्वः॑ । तस्य॒ छन्दाग्ं॑सि नि॒ष्पत् ॥ 25 ॥
छन्दो॑भिरे॒वैन॑-न्धूपयति । अ॒र्चिषे᳚ त्वा शो॒चिषे॒ त्वेत्या॑ह । तेज॑ ए॒वास्मि॑-न्दधाति । वा॒रु॒णो॑-ऽभीद्धः॑ । मै॒त्रियोपै॑ति॒ शान्त्यै᳚ । सिद्ध्यै॒ त्वेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । दे॒वस्त्वा॑ सवि॒तोद्व॑प॒त्वित्या॑ह ।
स॒वि॒तृप्र॑सूत ए॒वैन॒-म्ब्रह्म॑णा दे॒वता॑भि॒रुद्व॑पति । अप॑द्यमानः पृथि॒व्यामाशा॒ दिश॒ आपृ॒णेत्या॑ह ॥ 26 ॥
तस्मा॑द॒ग्नि-स्सर्वा॒ दिशो-ऽनु॒ विभा॑ति ।
उत्ति॑ष्ठ बृ॒हन्-भ॑वो॒र्ध्वस्ति॑ष्ठ ध्रु॒वस्त्वमित्या॑ह॒ प्रति॑ष्ठित्यै ।
ई॒श्व॒रो वा ए॒षो᳚-ऽन्धो भवि॑तोः ।
यः प्र॑व॒र्ग्य॑म॒न्वीक्ष॑ते । सूर्य॑स्य त्वा॒ चक्षु॒षा-ऽन्वी᳚क्ष॒ इत्या॑ह ।
चक्षु॑षो गोपी॒थाय॑ । ऋ॒जवे᳚ त्वा सा॒धवे᳚ त्वा सुक्षि॒त्यै त्वा॒ भूत्यै॒ त्वेत्या॑ह । इ॒यं-वाँ ऋ॒जुः । अ॒न्तरि॑क्षग्ं सा॒धु । अ॒सौ सु॑क्षि॒तिः ॥ 27 ॥
दिशो॒ भूतिः॑ । इ॒माने॒वास्मै॑ लो॒कान् क॑ल्पयति । अथो॒ प्रति॑ष्ठित्यै । इ॒द-म॒ह-म॒मुमा॑मुष्याय॒णम् ँवि॒शा प॒शुभि॑-र्ब्रह्मवर्च॒सेन॒ पर्यू॑हा॒मीत्या॑ह ।
वि॒शैवैन॑-म्प॒शुभि॑-र्ब्रह्मवर्च॒सेन॒ पर्यू॑हति ।
वि॒शेति॑ राज॒न्य॑स्य ब्रूयात् । वि॒शैवैन॒-म्पर्यू॑हति । प॒शुभि॒रिति॒ वैश्य॑स्य । प॒शुभि॑रे॒वैन॒-म्पर्यू॑हति । अ॒सु॒र्य॑-म्पात्र॒मना᳚च्छृण्णम् ॥ 28 ॥
आच्छृ॑णत्ति । दे॒व॒त्रा-ऽकः॑ । अ॒ज॒क्षी॒रेणाच्छृ॑णत्ति ।
प॒र॒मं-वाँ ए॒त-त्पयः॑ । यद॑जक्षी॒रम् । प॒र॒मेणै॒वैन॒-म्पय॒सा-ऽऽच्छृ॑णत्ति ।
यजु॑षा॒ व्यावृ॑त्त्यै । छन्दो॑भि॒राच्छृ॑णत्ति । छन्दो॑भि॒र्वा ए॒ष क्रि॑यते । छन्दो॑भिरे॒व छन्दा॒ग्॒स्याच्छृ॑णत्ति । छृ॒न्धि वाच॒मित्या॑ह ।
वाच॑मे॒वाव॑रुन्धे । छृ॒न्ध्यूर्ज॒मित्या॑ह । ऊर्ज॑मे॒वाव॑रुन्धे । छृ॒न्धि ह॒विरित्या॑ह । ह॒विरे॒वाकः॑ । देव॑ पुरश्चर स॒घ्यास॒न्त्वेत्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ॥ 29 ॥
(स्या॒-द्य-त्प्र॑व॒र्ग्यः॑ - छन्दो॑भिः करोति - वी॒र्य॑ सम्मित॒म् - छन्दाग्ं॑सि नि॒ष्पत् - पृ॒णेत्या॑ह - सुक्षि॒ति - रना᳚च्छृण्ण॒म् - छन्दा॒ग्॒स्याच्छृ॑ण त्त्य॒ष्टौ च॑) (अ. 3)
अनुवाकं 4
ब्रह्म॒-न्प्रच॑रिष्यामो॒ होत॑-र्घ॒र्मम॒भिष्टु॒हीत्या॑ह ।
ए॒ष वा ए॒तर्हि॒ बृह॒स्पतिः॑ । यद्ब्र॒ह्मा ।
तस्मा॑ ए॒व प्र॑ति॒प्रोच्य॒ प्रच॑रति ।
आ॒त्मनो-ऽना᳚र्त्यै । य॒माय॑ त्वा म॒खाय॒ त्वेत्या॑ह ।
ए॒ता वा ए॒तस्य॑ दे॒वताः᳚ । ताभि॑रे॒वैन॒ग्ं॒ सम॑र्धयति । मद॑न्तीभिः॒ प्रोक्ष॑ति । तेज॑ ए॒वास्मि॑-न्दधाति ॥ 30 ॥
अ॒भि॒पू॒र्व-म्प्रोक्ष॑ति । अ॒भि॒पू॒र्व-मे॒वास्मि॒न्-तेजो॑ दधाति । त्रिः प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेद्ध्य॒त्वाय॑ । होता-ऽन्वा॑ह । रक्ष॑सा॒मप॑हत्यै । अन॑वानम् । प्रा॒णाना॒ग्ं॒ सन्त॑त्यै ।
त्रि॒ष्टुभः॑ स॒ती-र्गा॑य॒त्रीरि॒वान्वा॑ह ॥ 31 ॥
गा॒य॒त्रो हि प्रा॒णः । प्रा॒णमे॒व यज॑माने दधाति । सन्त॑त॒मन्वा॑ह । प्रा॒णाना॑म॒न्नाद्य॑स्य॒ सन्त॑त्यै । अथो॒ रक्ष॑सा॒मप॑हत्यै । य-त्परि॑मिता अनुब्रू॒यात् । परि॑मित॒मव॑रुन्धीत । अप॑रिमिता॒ अन्वा॑ह ।
अप॑रिमित॒स्याव॑रुद्ध्यै । शिरो॒ वा ए॒त-द्य॒ज्ञस्य॑ ॥ 32 ॥
य-त्प्र॑व॒र्ग्यः॑ । ऊंर्मुञ्जाः᳚ । य-न्मौ॒ञ्जो वे॒दो भव॑ति । ऊ॒र्जैव य॒ज्ञस्य॒ शिर॒-स्सम॑र्धयति । प्रा॒णा॒हु॒ती-र्जु॑होति । प्रा॒णाने॒व यज॑माने दधाति । स॒प्त जु॑होति । स॒प्त वै शी॑र्ष॒ण्याः᳚ प्रा॒णाः । प्रा॒णाने॒वास्मि॑-न्दधाति । दे॒वस्त्वा॑ सवि॒ता मद्ध्वा॑-ऽन॒क्त्वित्या॑ह ॥ 33 ॥
तेज॑सै॒वैन॑मनक्ति । पृ॒थि॒वी-न्तप॑सस्त्राय॒स्वेति॒ हिर॑ण्य॒मुपा᳚स्यति । अ॒स्या अन॑तिदाहाय । शिरो॒ वा ए॒त-द्य॒ज्ञस्य॑ । य-त्प्र॑व॒र्ग्यः॑ । अ॒ग्नि-स्सर्वा॑ दे॒वताः᳚ । प्र॒ल॒वाना॒दीप्योपा᳚स्यति । दे॒वता᳚स्वे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति । अप्र॑तिशीर्णाग्र-म्भवति ।
ए॒त-द्ब॑र्हि॒र्ह्ये॑षः ॥ 34 ॥
अ॒र्चिर॑सि शो॒चिर॒सीत्या॑ह । तेज॑ ए॒वास्मि॑-न्ब्रह्मवर्च॒स-न्द॑धाति । सग्ंसी॑दस्व म॒हाग्ं अ॒सीत्या॑ह । म॒हान्. ह्ये॑षः । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
ए॒ते वाव त ऋ॒त्विजः॑ । ये द॑र्शपूर्णमा॒सयोः᳚ ।
अथ॑ क॒था होता॒ यज॑मानाया॒शिषो॒ नाशा᳚स्त॒ इति॑ ।
पु॒रस्ता॑दाशीः॒ खलु॒ वा अ॒न्यो य॒ज्ञः । उ॒परि॑ष्टादाशीर॒न्यः ॥ 35 ॥
अ॒ना॒धृ॒ष्या पु॒रस्ता॒दिति॒ यदे॒तानि॒ यजू॒ग्॒ष्याह॑ । शी॒र्॒ष॒त ए॒व य॒ज्ञस्य॒ यज॑मान आ॒शिषो-ऽव॑रुन्धे । आयुः॑ पु॒रस्ता॑दाह । प्र॒जा-न्द॑क्षिण॒तः । प्रा॒ण-म्प॒श्चात् ।
श्रोत्र॑मुत्तर॒तः । विधृ॑तिमु॒परि॑ष्टात् । प्रा॒णाने॒वास्मै॑ स॒मीचो॑ दधाति ।
ई॒श्व॒रो वा ए॒ष दिशो-ऽनून्म॑दितोः ।
यन्दिशो-ऽनु॑ व्यास्था॒पय॑न्ति ॥ 36 ॥
मनो॒रश्वा॑-ऽसि॒ भूरि॑पु॒त्रेती॒मा-म॒भिमृ॑शति ।
इ॒यं-वैँ मनो॒रश्वा॒ भूरि॑पुत्रा । अ॒स्यामे॒व प्रति॑तिष्ठ॒त्यनु॑न्मादाय । सू॒प॒सदा॑ मे भूया॒ मा मा॑ हिग्ंसी॒रित्या॒हाहिग्ं॑सायै ।
चितः॑ स्थ परि॒चित॒ इत्या॑ह । अप॑चितिमे॒वास्मि॑-न्दधाति । शिरो॒ वा ए॒त-द्य॒ज्ञस्य॑ । य-त्प्र॑व॒र्ग्यः॑ ।
अ॒सौ खलु॒ वा आ॑दि॒त्यः प्र॑व॒र्ग्यः॑ । तस्य॑ म॒रुतो॑ र॒श्मयः॑ ॥ 37 ॥
स्वाहा॑ म॒रुद्भिः॒ परि॑श्रय॒स्वेत्या॑ह । अ॒मुमे॒वादि॒त्यग्ं र॒श्मिभिः॒ पर्यू॑हति ।
तस्मा॑-द॒सावा॑दि॒त्यो॑-ऽमुष्मि॑न् ँलो॒के र॒श्मिभिः॒ पर्यू॑ढः । तस्मा॒-द्राजा॑ वि॒शा पर्यू॑ढः । तस्मा᳚-द्ग्राम॒णी-स्स॑जा॒तैः पर्यू॑ढः । अ॒ग्ने-स्सृ॒ष्टस्य॑ य॒तः । विक॑ङ्कत॒-म्भा आ᳚र्च्छत् ।
य-द्वैक॑ङ्कताः परि॒धयो॒ भव॑न्ति ।
भा ए॒वाव॑रुन्धे । द्वाद॑श भवन्ति ॥ 38 ॥
द्वाद॑श॒ मासा᳚-स्संवँथ्स॒रः । सं॒वँ॒थ्स॒रमे॒वाव॑रुन्धे ।
अस्ति॑ त्रयोद॒शो मास॒ इत्या॑हुः । य-त्त्र॑योद॒शः प॑रि॒धिर्भव॑ति । तेनै॒व त्र॑योद॒श-म्मास॒मव॑रुन्धे । अ॒न्तरि॑क्षस्यान्त॒-र्धिर॒सीत्या॑ह॒ व्यावृ॑त्त्यै । दिव॒-न्तप॑सस्त्राय॒स्वे-त्यु॒परि॑ष्टा॒-द्धिर॑ण्य॒मधि॒ निद॑धाति । अ॒मुष्या॒ अन॑तिदाहाय । अथो॑ आ॒भ्यामे॒वैन॑मुभ॒यतः॒ परि॑गृह्णाति ।
अर्ह॑-न्बिभर्षि॒ साय॑कानि॒ धन्वेत्या॑ह ॥ 39 ॥
स्तौत्ये॒वैन॑मे॒तत् । गा॒य॒त्रम॑सि॒ त्रैष्टु॑भमसि॒ जाग॑तम॒सीति॑ ध॒वित्रा॒ण्याद॑त्ते । छन्दो॑भिरे॒वैना॒न्याद॑त्ते । मधु॒ मद्ध्विति॑ धूनोति । प्रा॒णो वै मधु॑ । प्रा॒णमे॒व यज॑माने दधाति । त्रिः परि॑यन्ति । त्रि॒वृद्धि प्रा॒णः ।
त्रिः परि॑यन्ति । त्र्या॑वृ॒द्धि य॒ज्ञः ॥ 40 ॥
अथो॒ रक्ष॑सा॒मप॑हत्यै । त्रिः पुनः॒ परि॑यन्ति ।
षट्-थ्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुष्वे॒व प्रति॑तिष्ठन्ति । यो वै घ॒र्मस्य॑ प्रि॒यान्-त॒नुव॑मा॒क्राम॑ति । दु॒श्चर्मा॒ वै स भ॑वति ।
ए॒ष ह॒ वा अ॑स्य प्रि॒या-न्त॒नुव॒माक्रा॑मति ।
य स्त्रिः प॒रीत्य॑ चतु॒र्थ-म्पर्ये॑ति ।
ए॒ताग्ं ह॒ वा अ॑स्यो॒ग्रदे॑वो॒ राज॑नि॒राच॑क्राम ॥ 41 ॥
ततो॒ वै स दु॒श्चर्मा॑-ऽभवत् । तस्मा॒-त्त्रिः प॒रीत्य॒ न च॑तु॒र्थ-म्परी॑यात् । आ॒त्मनो॑ गोपी॒थाय॑ । प्रा॒णा वै ध॒वित्रा॑णि । अव्य॑तिषङ्ग-न्धून्वन्ति ।
प्रा॒णाना॒-मव्य॑तिषङ्गाय॒ क्लृप्त्यै᳚ । वि॒नि॒षद्य॑ धून्वन्ति । दि॒क्ष्वे॑व प्रति॑तिष्ठन्ति । ऊ॒र्ध्वन्धू᳚न्वन्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । स॒र्वतो॑ धून्वन्ति ।
तस्मा॑द॒यग्ं स॒र्वतः॑ पवते ॥ 42 ॥
(द॒धा॒- ती॒वान्वा॑ह - य॒ज्ञ - स्या॑है॒ - ष - उ॒परि॑ष्टादाशीर॒न्यो - व्या᳚स्था॒पय॑न्ति - र॒श्मयो॑ - भवन्ति॒ - धन्वेत्या॑ह - य॒ज्ञ - श्च॑क्राम॒ - सम॑ष्ट्यै॒ द्वे च॑) (अ. 4)
अनुवाकं 5
अ॒ग्निष्ट्वा॒ वसु॑भिः पु॒रस्ता᳚-द्रोचयतु गाय॒त्रेण॒ छन्द॒सेत्या॑ह । अ॒ग्निरे॒वैनं॒-वँसु॑भिः पु॒रस्ता᳚-द्रोचयति गाय॒त्रेण॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ।
इन्द्र॑स्त्वा रु॒द्रै-र्द॑क्षिण॒तो रो॑चयतु॒ त्रैष्टु॑भेन॒
छन्द॒सेत्या॑ह । इन्द्र॑ ए॒वैनग्ं॑ रु॒द्रै-र्द॑क्षिण॒तो रो॑चयति॒ त्रैष्टु॑भेन॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ।
वरु॑णस्त्वा-ऽऽदि॒त्यैः प॒श्चा-द्रो॑चयतु॒ जाग॑तेन॒ छन्द॒सेत्या॑ह । वरु॑ण ए॒वैन॑मादि॒त्यैः प॒श्चा-द्रो॑चयति॒ जाग॑तेन॒ छन्द॑सा ॥ 43 ॥
स मा॑ रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ।
द्यु॒ता॒नस्त्वा॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तो रो॑चय॒त्वानु॑ष्टुभेन॒ छन्द॒सेत्या॑ह ।
द्यु॒ता॒न ए॒वैन॑-म्मारु॒तो म॒रुद्भि॑रुत्तर॒तो रो॑चय॒त्यानु॑ष्टुभेन॒ छन्द॑सा ।
स मा॑ रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ।
बृह॒स्पति॑स्त्वा॒ विश्वै᳚-र्दे॒वैरु॒परि॑ष्टा-द्रोचयतु॒ पाङ्क्ते॑न॒ छन्द॒सेत्या॑ह ।
बृह॒स्पति॑रे॒वैन॒म् ँविश्वै᳚-र्दे॒वैरु॒परि॑ष्टा-द्रोचयति॒ पाङ्क्ते॑न॒ छन्द॑सा ।
स मा॑ रुचि॒तो रो॑च॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ॥ 44 ॥
रो॒चि॒तस्त्व-न्दे॑व घर्म दे॒वेष्वसीत्या॑ह । रो॒चि॒तो ह्ये॑ष दे॒वेषु॑ । रो॒चि॒षी॒याह-म्म॑नु॒ष्ये᳚ष्वित्या॑ह । रोच॑त ए॒वैष म॑नु॒ष्ये॑षु । सम्रा᳚ड् घर्म रुचि॒तस्त्व-न्दे॒वेष्वायु॑ष्माग् स्तेज॒स्वी ब्र॑ह्मवर्च॒स्य॑सीत्या॑ह ।
रु॒चि॒तो ह्ये॑ष दे॒वेष्वायु॑ष्माग् स्तेज॒स्वी ब्र॑ह्मवर्च॒सी ।
रु॒चि॒तो॑-ऽह-म्म॑नु॒ष्ये᳚ष्वायु॑ष्माग् स्तेज॒स्वी ब्र॑ह्मवर्च॒सी भू॑यास॒मित्या॑ह ।
रु॒चि॒त ए॒वैष म॑नु॒ष्ये᳚ष्वायु॑ष्माग् स्तेज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति । रुग॑सि॒ रुच॒-म्मयि॑ धेहि॒ मयि॒ रुगित्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ।
तं-यँदे॒तै-र्यजु॑र्भि॒ररो॑चयित्वा । रु॒चि॒तो घ॒र्म इति॑ प्रब्रू॒यात् । अरो॑चुको-ऽद्ध्व॒र्यु-स्स्यात् ।
अरो॑चुको॒ यज॑मानः । अथ॒ यदे॑नमे॒तैर्यजु॑र्भी रोचयि॒त्वा । रु॒चि॒तो घर्म॒ इति॒ प्राह॑ । रोचु॑को-ऽद्ध्व॒र्यु-र्भव॑ति । रोचु॑को॒ यज॑मानः ॥ 45 ॥
(प॒श्चा-द्रो॑चयति॒ जग॑तेन॒ छन्द॑सा॒ - पाङ्क्ते॑न॒ छन्द॑सा॒ स मा॑ रुचि॒तो रो॑च॒येत्या॑हा॒शिष॑मे॒वैतामाशा᳚स्ते - शास्ते॒ ऽष्टौ च॑) (अ. 5)
अनुवाकं 6
शिरो॒ वा ए॒त-द्य॒ज्ञस्य॑ । य-त्प्र॑व॒र्ग्यः॑ । ग्री॒वा उ॑प॒सदः॑ । पु॒रस्ता॑दुप॒सदा᳚-म्प्रव॒र्ग्य॑-म्प्रवृ॑णक्ति । ग्री॒वास्वे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति । त्रिः प्रवृ॑णक्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञस्य॒ शिरो-ऽव॑रुन्धे ।
षट्-थ्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ ॥ 46 ॥
ऋ॒तुभ्य॑ ए॒व य॒ज्ञस्य॒ शिरो-ऽव॑रुन्धे । द्वाद॑श॒ कृत्वः॒ प्रवृ॑णक्ति । द्वाद॑श॒ मासा᳚-स्संवँथ्स॒रः । सं॒वँ॒थ्स॒रादे॒व य॒ज्ञस्य॒ शिरो-ऽव॑रुन्धे । चतु॑र्विग्ंशति॒-स्सम्प॑द्यन्ते । चतु॑र्विग्ंशतिरर्धमा॒साः ।
अ॒र्ध॒मा॒सेभ्य॑ ए॒व य॒ज्ञस्य॒ शिरो-ऽव॑रुन्धे । अथो॒ खलु॑ । स॒कृदे॒व प्र॒वृज्यः॑ । एक॒ग्ं॒ हि शिरः॑ ॥ 47 ॥
अ॒ग्नि॒ष्टो॒मे प्रवृ॑णक्ति । ए॒तावा॒न्॒. वै य॒ज्ञः । यावा॑नग्निष्टो॒मः । यावा॑ने॒व य॒ज्ञः । तस्य॒ शिरः॒ प्रति॑दधाति । नोक्थ्ये᳚ प्रवृ॑ञ्ज्यात् ।
प्र॒जा वै प॒शव॑ उ॒क्थानि॑ । यदु॒क्थ्ये᳚ प्रवृ॒ञ्ज्यात् ।
प्र॒जा-म्प॒शून॑स्य॒ निर्द॑हेत् । वि॒श्व॒जिति॒ सर्व॑पृष्ठे॒ प्रवृ॑णक्ति ॥ 48 ॥
पृ॒ष्ठानि॒ वा अच्यु॑तञ्च्यावयन्ति ।
पृ॒ष्ठैरे॒वास्मा॒ अच्यु॑तञ्च्यावयि॒त्वा-ऽव॑रुन्धे । अप॑श्य-ङ्गो॒पामित्या॑ह । प्रा॒णो वै गो॒पाः । प्रा॒णमे॒व प्र॒जासु॒ विया॑तयति ।
अप॑श्य-ङ्गो॒पामित्या॑ह । अ॒सौ वा आ॑दि॒त्यो गो॒पाः । स हीमाः प्र॒जा गो॑पा॒यति॑ । तमे॒व प्र॒जाना᳚-ङ्गो॒प्तार॑-ङ्कुरुते । अनि॑पद्यमान॒मित्या॑ह ॥ 49 ॥
न ह्ये॑ष नि॒पद्य॑ते । आ च॒ परा॑ च प॒थिभि॒श्चर॑न्त॒मित्या॑ह । आ च॒ ह्ये॑ष परा॑ च प॒थिभि॒श्चर॑ति । स स॒द्ध्रीची॒-स्स विषू॑ची॒र्वसा॑न॒ इत्या॑ह । स॒द्ध्रीची᳚श्च॒ ह्ये॑ष विषू॑चीश्च॒ वसा॑नः प्र॒जा अ॒भि वि॒पश्य॑ति । आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तरित्या॑ह । आ ह्ये॑ष व॑री॒वर्ति॒ भुव॑नेष्व॒न्तः । अत्र॑ प्रा॒वीर्मधु॒ माद्ध्वी᳚भ्या॒-म्मधु॒ माधू॑चीभ्या॒मित्या॑ह ।
वास॑न्तिकावे॒वास्मा॑ ऋ॒तू क॑ल्पयति ।
सम॒ग्निर॒ग्निना॑ ग॒तेत्या॑ह ॥ 50 ॥
ग्रैष्मा॑वे॒वास्मा॑ ऋ॒तू क॑ल्पयति । सम॒ग्निर॒ग्निना॑ ग॒तेत्या॑ह । अ॒ग्निर्ह्ये॑वैषो᳚-ऽग्निना॑ स॒ङ्गच्छ॑ते । स्वाहा॒ सम॒ग्निस्तप॑सा ग॒तेत्या॑ह ।
पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भिगृ॑णाति ।
ध॒र्ता दि॒वो विभा॑सि॒ रज॑सः पृथि॒व्या इत्या॑ह ।
वार्षि॑कावे॒वास्मा॑ ऋ॒तू क॑ल्पयति ।
हृ॒दे त्वा॒ मन॑से॒ त्वेत्या॑ह । शा॒र॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति ॥ 51 ॥
दि॒वि दे॒वेषु॒ होत्रा॑ य॒च्छेत्या॑ह । होत्रा॑भिरे॒वेमान् ँलो॒कान्-थ्स-न्द॑धाति । विश्वा॑सा-म्भुवा-म्पत॒ इत्या॑ह । हैम॑न्तिकावे॒वास्मा॑ ऋ॒तू क॑ल्पयति ।
दे॒व॒श्रूस्त्व-न्दे॑व घर्म दे॒वा-न्पा॒हीत्या॑ह ।
शै॒शि॒रावे॒वास्मा॑ ऋ॒तू क॑ल्पयति ।
त॒पो॒जां-वाँच॑म॒स्मे निय॑च्छ देवा॒युव॒मित्या॑ह ।
या वै मेद्ध्या॒ वाक् । सा त॑पो॒जाः । तामे॒वाव॑रुन्धे ॥ 52 ॥
गर्भो॑ दे॒वाना॒मित्या॑ह । गर्भो॒ ह्ये॑ष दे॒वाना᳚म् । पि॒ता म॑ती॒नामित्या॑ह । प्र॒जा वै म॒तयः॑ । तासा॑मे॒ष ए॒व पि॒ता । य-त्प्र॑व॒र्ग्यः॑ ।
तस्मा॑दे॒वमा॑ह । पतिः॑ प्र॒जाना॒मित्या॑ह । पति॒र्ह्ये॑ष प्र॒जाना᳚म् । मतिः॑ कवी॒नामित्या॑ह ॥ 53 ॥
मति॒र्ह्ये॑ष क॑वी॒नाम् । स-न्दे॒वो दे॒वेन॑ सवि॒त्रा ऽय॑तिष्ट॒ सग्ं सूर्ये॑णारु॒क्तेत्या॑ह ।
अ॒मुञ्चै॒वादि॒त्य-म्प्र॑व॒र्ग्य॑ञ्च॒ सग्ंशा᳚स्ति ।
आ॒यु॒र्दास्त्वम॒स्मभ्य॑-ङ्घर्म वर्चो॒दा अ॒सीत्या॑ह ।
आ॒शिष॑मे॒वैतामाशा᳚स्ते । पि॒ता नो॑-ऽसि पि॒ता नो॑ बो॒धेत्या॑ह । बो॒धय॑त्ये॒वैन᳚म् । न वै॒ ते॑-ऽवका॒शा भ॑वन्ति । पत्नि॑यै दश॒मः ।
नव॒ वै पुरु॑षे प्रा॒णाः ॥ 54 ॥
नाभि॑र्दश॒मी । प्रा॒णाने॒व यज॑माने दधाति । अथो॒ दशा᳚क्षरा वि॒राट् । अन्नं॑-विँ॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । य॒ज्ञस्य॒ शिरो᳚-ऽच्छिद्यत । त-द्दे॒वा होत्रा॑भिः॒ प्रत्य॑दधुः । ऋ॒त्विजो-ऽवे᳚क्षन्ते । ए॒ता वै होत्राः᳚ । होत्रा॑भिरे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति ॥ 55 ॥
रु॒चि॒तमवे᳚क्षन्ते । रु॒चि॒ताद्वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत । प्र॒जाना॒ग्ं॒ सृष्ट्यै᳚ । रु॒चि॒तमवे᳚क्षन्ते । रु॒चि॒ताद्वै प॒र्जन्यो॑ वर्षति । वर्षु॑कः प॒र्जन्यो॑ भवति । स-म्प्र॒जा ए॑धन्ते । रु॒चि॒तमवे᳚क्षन्ते । रु॒चि॒तम् ँवै ब्र॑ह्मवर्च॒सम् । ब्र॒ह्म॒व॒र्च॒सिनो॑ भवन्ति ॥ 56 ॥
अ॒धी॒यन्तो-ऽवे᳚क्षन्ते । सर्व॒मायु॑र्यन्ति । न पत्न्यवे᳚क्षेत । य-त्पन्त्य॒वेक्षे॑त । प्रजा॑येत । प्र॒जान्त्व॑स्यै॒ निर्द॑हेत् । यन्नावेक्षे॑त । न प्रजा॑येत ।
नास्यै᳚ प्र॒जान्निर्द॑हेत् । ति॒र॒स्कृत्य॒ यजु॑-र्वाचयति । प्रजा॑यते । नास्यै᳚ प्र॒जान्निर्द॑हति । त्वष्टी॑मती ते सपे॒येत्या॑ह । सपा॒द्धि प्र॒जाः प्र॒जाय॑न्ते ॥ 57 ॥
(ऋ॒तवो॒ - हि शिरः॒ - सर्व॑पृष्ठे॒ प्रवृ॑ण॒ - क्त्यनि॑पद्यमान॒मित्या॑ह - ग॒तेत्या॑ह - शार॒दावे॒वास्मा॑ ऋ॒तू क॑ल्पयति - रुन्धे - कवि॒नामित्या॑ह - प्रा॒णाः - प्रति॑दधाति - भवन्ति - वाचयति च॒त्वारि॑ च) (अ. 6)
अनुवाकं 7
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ रश॒नामाद॑त्ते॒ प्रसू᳚त्यै । अ॒श्विनो᳚-र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ । आद॒दे-ऽदि॑त्यै॒ रास्ना॒-ऽसीत्या॑ह॒ यजु॑ष्कृत्यै । इड॒ एह्यदि॑त॒ एहि॒ सर॑स्व॒त्येहीत्या॑ह । ए॒तानि॒ वा अ॑स्यै देवना॒मानि॑ ।
दे॒व॒ना॒मैरे॒वैना॒-माह्व॑यति । असा॒वेह्य-सा॒वेह्य-सा॒वेहीत्या॑ह । ए॒तानि॒ वा अ॑स्यै मनुष्यना॒मानि॑ ॥ 58 ॥
म॒नु॒ष्य॒ना॒मैरे॒वैना॒माह्व॑यति ।
षट्-थ्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ ।
ऋ॒तुभि॑रे॒वैना॒माह्व॑यति । अदि॑त्या उ॒ष्णीष॑म॒सीत्या॑ह । य॒था॒य॒जुरे॒वैतत् ।
वा॒युर॑स्यै॒ड इत्या॑ह । वा॒यु॒दे॒व॒त्यो॑ वै व॒थ्सः ।
पू॒षा त्वो॒पाव॑सृज॒त्वित्या॑ह । पौ॒ष्णा वै दे॒वत॑या प॒शवः॑ ॥ 59 ॥
स्वयै॒वैन॑-न्दे॒वत॑यो॒पाव॑सृजति । अ॒श्विभ्या॒-म्प्रदा॑प॒येत्या॑ह । अ॒श्विनौ॒ वै दे॒वाना᳚-म्भि॒षजौ᳚ । ताभ्या॑मे॒वास्मै॑ भेष॒ज-ङ्क॑रोति । यस्ते॒ स्तनः॑ शश॒य इत्या॑ह । स्तौत्ये॒वैना᳚म् । उस्र॑ घ॒र्मग्ं शि॒ग्ं॒षोस्र॑ घ॒र्म-म्पा॑हि घ॒र्माय॑ शि॒ग्ं॒षेत्या॑ह । यथा᳚ ब्रू॒याद॒मुष्मै॑ दे॒हीति॑ । ता॒दृगे॒व तत् । बृह॒स्पति॒स्त्वोप॑सीद॒त्वित्या॑ह ॥ 60 ॥
ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पतिः॑ । ब्रह्म॑णै॒वैना॒मुप॑सीदति ।
दान॑व-स्स्थ॒ पेर॑व॒ इत्या॑ह । मेद्ध्या॑ने॒वैना᳚न्करोति ।
वि॒ष्व॒ग्वृतो॒ लोहि॑ते॒नेत्या॑ह॒ व्यावृ॑त्त्यै ।
अ॒श्विभ्या᳚-म्पिन्वस्व॒ सर॑स्वत्यै पिन्वस्व पू॒ष्णे पि॑न्वस्व॒ बृह॒स्पत॑ये पिन्व॒स्वेत्या॑ह ।
ए॒ताभ्यो॒ ह्ये॑षा दे॒वता᳚भ्यः॒ पिन्व॑ते ।
इन्द्रा॑य पिन्व॒स्वेन्द्रा॑य पिन्व॒स्वेत्या॑ह ।
इन्द्र॑मे॒व भा॑ग॒धेये॑न॒ सम॑र्धयति । द्विरिन्द्रा॒येत्या॑ह ॥ 61 ॥
तस्मा॒दिन्द्रो॑ दे॒वता॑ना-म्भूयिष्ठ॒भाक्त॑मः ।
गा॒य॒त्रो॑-ऽसि॒ त्रैष्टु॑भो-ऽसि॒ जाग॑तम॒सीति॑ शफोपय॒मानाद॑त्ते ।
छन्दो॑भिरे॒वैना॒नाद॑त्ते । स॒होर्जो भा॒गेनोप॒मेहीत्या॑ह ।
ऊ॒र्ज ए॒वैन॑-म्भा॒गम॑कः ।
अ॒श्विनौ॒ वा ए॒त-द्य॒ज्ञस्य॒ शिरः॑ प्रति॒दध॑तावब्रूताम् ।
आ॒वाभ्या॑मे॒व पूर्वा᳚भ्यां॒-वँष॑ट्क्रियाता॒ इति॑ ।
इन्द्रा᳚श्विना॒ मधु॑न-स्सार॒घस्येत्या॑ह ।
अ॒श्विभ्या॑मे॒व पूर्वा᳚भ्यां॒-वँष॑ट्करोति ।
अथो॑ अ॒श्विना॑वे॒व भा॑ग॒धेये॑न॒ सम॑र्धयति ॥ 62 ॥
घ॒र्म-म्पा॑त वसवो॒ यज॑ता॒ वडित्या॑ह ।
वसू॑ने॒व भा॑ग॒धेये॑न॒ सम॑र्धयति । य-द्व॑षट्कु॒र्यात् । या॒तया॑मा-ऽस्य वषट्का॒र-स्स्या᳚त् ।
यन्न व॑षट्कु॒र्यात् । रक्षाग्ं॑सि य॒ज्ञग्ं ह॑न्युः । वडित्या॑ह । प॒रोक्ष॑मे॒व वष॑ट्करोति । नास्य॑ या॒तया॑मा वषट्का॒रो भव॑ति ।
न य॒ज्ञग्ं रक्षाग्ं॑सि घ्नन्ति ॥ 63 ॥
स्वाहा᳚ त्वा॒ सूर्य॑स्य र॒श्मये॑ वृष्टि॒वन॑ये जुहो॒मीत्या॑ह । यो वा अ॑स्य॒ पुण्यो॑ र॒श्मिः । स वृ॑ष्टि॒वनिः॑ । तस्मा॑ ए॒वैन॑-ञ्जुहोति ।
मधु॑ ह॒विर॒सीत्या॑ह । स्व॒दय॑त्ये॒वैन᳚म् । सूर्य॑स्य॒ तप॑स्त॒पेत्या॑ह ।
य॒था॒य॒जुरे॒वैतत् । द्यावा॑पृथि॒वीभ्या᳚-न्त्वा॒ परि॑गृह्णा॒मीत्या॑ह ।
द्यावा॑पृथि॒वीभ्या॑-मे॒वैन॒-म्परि॑गृह्णाति ॥ 64 ॥
अ॒न्तरि॑क्षेण॒ त्वोप॑यच्छा॒मीत्या॑ह । अ॒न्तरि॑क्षेणै॒वैन॒-मुप॑यच्छति ।
न वा ए॒त-म्म॑नु॒ष्यो॑ भर्तु॑मर्हति ।
दे॒वाना᳚-न्त्वा पितृ॒णामनु॑मतो॒ भर्तुग्ं॑ शकेय॒मित्या॑ह । दे॒वैरे॒वैन॑-म्पि॒तृभि॒रनु॑मत॒ आद॑त्ते । वि वा ए॑नमे॒तद॑र्धयन्ति । य-त्प॒श्चा-त्प्र॒वृज्य॑ पु॒रो जुह्व॑ति । तेजो॑-ऽसि॒ तेजो-ऽनु॒ प्रेहीत्या॑ह । तेज॑ ए॒वास्मि॑-न्दधाति । दि॒वि॒स्पृम्मा मा॑ हिग्ंसी-रन्तरिक्ष॒स्पृम्मा मा॑ हिग्ंसीः
पृथिवि॒स्पृम्मा मा॑ हिग्ंसी॒रित्या॒हाहिग्ं॑सायै ॥ 65 ॥
सुव॑रसि॒ सुव॑र्मे यच्छ॒ दिवं॑-यँच्छ दि॒वो मा॑ पा॒हीत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । शिरो॒ वा ए॒त-द्य॒ज्ञस्य॑ । य-त्प्र॑व॒र्ग्यः॑ ।
आ॒त्मा वा॒युः । उ॒द्यत्य॑ वातना॒मान्या॑ह ।
आ॒त्मन्ने॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति ।
अन॑वानम् । प्रा॒णाना॒ग्ं॒ सन्त॑त्यै । पञ्चा॑ह ॥ 66 ॥
पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तस्य॒ शिरः॒ प्रति॑दधाति । अ॒ग्नये᳚ त्वा॒ वसु॑मते॒ स्वाहेत्या॑ह ।
अ॒सौ वा आ॑दि॒त्यो᳚-ऽग्नि-र्वसु॑मान् । तस्मा॑ ए॒वैन॑ञ्जुहोति । सोमा॑य त्वा रु॒द्रव॑ते॒ स्वाहेत्या॑ह ।
च॒न्द्रमा॒ वै सोमो॑ रु॒द्रवान्॑ । तस्मा॑ ए॒वैन॑ञ्जुहोति । वरु॑णाय त्वा-ऽऽदि॒त्यव॑ते॒ स्वाहेत्या॑ह ॥ 67 ॥
अ॒फ्सु वै वरु॑ण आदि॒त्यवान्॑ । तस्मा॑ ए॒वैन॑ञ्जुहोति ।
बृह॒स्पत॑ये त्वा वि॒श्वदे᳚व्यावते॒ स्वाहेत्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पतिः॑ ।
ब्रह्म॑ण ए॒वैन॑ञ्जुहोति ।
स॒वि॒त्रे त्व॑र्भु॒मते॑ विभु॒मते᳚ प्रभु॒मते॒ वाज॑वते॒ स्वाहेत्या॑ह । सं॒वँ॒थ्स॒रो वै स॑वि॒तर्भु॒मान्. वि॑भु॒मा-न्प्र॑भु॒मान्. वाज॑वान् । तस्मा॑ ए॒वैन॑ञ्जुहोति । य॒माय॒ त्वा-ऽङ्गि॑रस्वते पितृ॒मते॒ स्वाहेत्या॑ह ।
प्रा॒णो वै य॒मो-ऽङ्गि॑रस्वा-न्पितृ॒मान् ॥ 68 ॥
तस्मा॑ ए॒वैन॑ञ्जुहोति । ए॒ताभ्य॑ ए॒वैन॑-न्दे॒वता᳚भ्यो जुहोति । दश॒ सम्प॑द्यन्ते । दशा᳚क्षरा वि॒राट् । अन्नं॑-विँ॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे । रौ॒हि॒णाभ्यां॒-वैँ दे॒वा-स्सु॑व॒र्गं-लोँ॒कमा॑यन्न् । त-द्रौ॑हि॒णयो॑ रौहिण॒त्वम् । य-द्रौ॑हि॒णौ भव॑तः । रौ॒हि॒णाभ्या॑मे॒व त-द्यज॑मान-स्सुव॒र्गं-लोँ॒कमे॑ति ।
अह॒र्ज्योतिः॑ के॒तुना॑ जुषताग्ं सुज्यो॒तिर्ज्योति॑षा॒ग्॒ स्वाहा॒ रात्रि॒र्ज्योतिः॑ के॒तुना॑ जुषताग्ं सुज्यो॒तिर्ज्योति॑षा॒ग्॒ स्वाहेत्या॑ह ।
आ॒दि॒त्यमे॒व तद॒मुष्मि॑न् ँलो॒के-ऽह्ना॑ प॒रस्ता᳚-द्दाधार । रात्रि॑या अ॒वस्ता᳚त् ।
तस्मा॑द॒सावा॑दि॒त्यो॑ ऽमुष्मि॑न् ँलो॒के॑-ऽहोरा॒त्राभ्या᳚-न्धृ॒तः ॥ 69 ॥
(म॒नु॒ष्य॒ना॒मानि॑ - प॒शवः॑ - सीद॒त्वित्या॒ - हेन्द्रा॒येत्या॑हा - र्धयति - घ्नन्ति - गृह्णा॒ - त्यहिग्ं॑सायै॒ - पञ्चा॑हा - दि॒त्यव॑ते॒ स्वाहेत्या॑ह - पितृ॒मा - ने॑ति च॒त्वारि॑ च) (अ. 7)
अनुवाकं 8
विश्वा॒ आशा॑ दक्षिण॒सदित्या॑ह । विश्वा॑ने॒व दे॒वा-न्प्री॑णाति । अथो॒ दुरि॑ष्ट्या ए॒वैन॑-म्पाति । विश्वा᳚-न्दे॒वान॑याडि॒हेत्या॑ह । विश्वा॑ने॒व दे॒वा-न्भा॑ग॒धेये॑न॒ सम॑र्धयति । स्वाहा॑कृतस्य घ॒र्मस्य॒ मधोः᳚ पिबतमश्वि॒नेत्या॑ह ।
अ॒श्विना॑वे॒व भा॑ग॒धेये॑न॒ सम॑र्धयति ।
स्वाहा॒-ऽग्नये॑ य॒ज्ञिया॑य॒ शंयँजु॑र्भि॒रित्या॑ह । अ॒भ्ये॑वैन॑-ङ्घारयति । अथो॑ ह॒विरे॒वाकः॑ ॥ 70 ॥
अश्वि॑ना घ॒र्म-म्पा॑तग्ं हार्दिवा॒न-मह॑र्दि॒वाभि॑-रू॒तिभि॒रित्या॑ह । अ॒श्विना॑वे॒व भा॑ग॒धेये॑न॒ सम॑र्धयति । अनु॑ वा॒-न्द्यावा॑पृथि॒वी मग्ं॑साता॒मित्या॒हानु॑मत्यै ।
स्वाहेन्द्रा॑य॒ स्वाहेन्द्रा॒ वडित्या॑ह ।
इन्द्रा॑य॒ हि पु॒रो हू॒यते᳚ । आ॒श्राव्या॑ह घ॒र्मस्य॑ य॒जेति॑ । वष॑ट्कृते जुहोति । रक्ष॑सा॒मप॑हत्यै । अनु॑यजति स्व॒गाकृ॑त्यै ।
घ॒र्मम॑पातमश्वि॒नेत्या॑ह ॥ 71 ॥
पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भिगृ॑णाति ।
अनु॑ वा॒न्-द्यावा॑पृथि॒वी अ॑मग्ंसाता॒मित्या॒हानु॑मत्यै ।
त-म्प्रा॒व्य॑म् ँयथा॒वण्णमो॑ दि॒वे नमः॑ पृथि॒व्या इत्या॑ह । य॒था॒य॒जुरे॒वैतत् । दि॒वि धा॑ इ॒मं-यँ॒ज्ञं-यँ॒ज्ञमि॒म-न्दि॒वि धा॒ इत्या॑ह ।
सु॒व॒र्गमे॒वैन॑म् ँलो॒क-ङ्ग॑मयति ।
दिव॑-ङ्गच्छा॒न्तरि॑क्ष-ङ्गच्छ पृथि॒वी-ङ्ग॒च्छेत्या॑ह ।
ए॒ष्वे॑वैन॑म् ँलो॒केषु॒ प्रति॑ष्ठापयति । पञ्च॑ प्र॒दिशो॑ ग॒च्छेत्या॑ह ॥ 72 ॥
दि॒क्ष्वे॑वैन॒-म्प्रति॑ष्ठापयति ।
दे॒वा-न्घ॑र्म॒पा-न्ग॑च्छ पि॒तॄ-न्घ॑र्म॒पा-न्ग॒च्छेत्या॑ह । उ॒भये᳚ष्वे॒वैन॒-म्प्रति॑ष्ठापयति । य-त्पिन्व॑ते । वर्षु॑कः प॒र्जन्यो॑ भवति । तस्मा॒-त्पिन्व॑मानः॒ पुण्यः॑ । य-त्प्राम्पिन्व॑ते । त-द्दे॒वाना᳚म् । य-द्द॑क्षि॒णा । तत्-पि॑तृ॒णाम् ॥ 73 ॥
य-त्प्र॒त्यक् । त-न्म॑नु॒ष्या॑णाम् । यदुदङ्ङ्॑ । त-द्रु॒द्राणा᳚म् । प्राञ्च॒मुद॑ञ्च-म्पिन्वयति । दे॒व॒त्रा-ऽकः॑ । अथो॒ खलु॑ । सर्वा॒ अनु॒ दिशः॑ पिन्वयति । सर्वा॒ दिश॒-स्समे॑धन्ते । अ॒न्तः॒प॒रि॒धि पि॑न्वयति ॥ 74 ॥
तेज॒सो-ऽस्क॑न्दाय । इ॒षे पी॑पिह्यू॒र्जे पी॑पि॒हीत्या॑ह ।
इष॑मे॒वोर्जं॒-यँज॑माने दधाति । यज॑मानाय पीपि॒हीत्या॑ह । यज॑मानायै॒वैता-मा॒शिष॒माशा᳚स्ते ।
मह्य॒ञ्ज्यैष्ठ्या॑य पीपि॒हीत्या॑ह ।
आ॒त्मन॑ ए॒वैतामा॒शिष॒माशा᳚स्ते ।
त्विष्यै᳚ त्वा द्यु॒म्नाय॑ त्वेन्द्रि॒याय॑ त्वा॒ भूत्यै॒ त्वेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । धर्मा॑-ऽसि सु॒धर्मा मे᳚ न्य॒स्मे ब्रह्मा॑णि धार॒येत्या॑ह ॥ 75 ॥
ब्रह्म॑न्ने॒वैन॒-म्प्रति॑ष्ठापयति । नेत्त्वा॒ वातः॑ स्क॒न्दया॒दिति॒ यद्य॑भि॒चरे᳚त् । अ॒मुष्य॑ त्वा प्रा॒णे सा॑दयाम्य॒मुना॑ स॒ह नि॑र॒र्थ-ङ्ग॒च्छेति॑ ब्रूया॒-द्य-न्द्वि॒ष्यात् । यमे॒व द्वेष्टि॑ । तेनै॑नग्ं स॒ह नि॑र॒र्थ-ङ्ग॑मयति । पू॒ष्णे शर॑से॒ स्वाहेत्या॑ह । या ए॒व दे॒वता॑ हु॒तभा॑गाः । ताभ्य॑ ए॒वैन॑ञ्जुहोति । ग्राव॑भ्य॒-स्स्वाहेत्या॑ह । या ए॒वान्तरि॑क्षे॒ वाचः॑ ॥ 76 ॥
ताभ्य॑ ए॒वैन॑ञ्जुहोति । प्र॒ति॒रेभ्य॒-स्स्वाहेत्या॑ह । प्रा॒णा वै दे॒वाः प्र॑ति॒राः । तेभ्य॑ ए॒वैन॑ञ्जुहोति । द्यावा॑पृथि॒वीभ्या॒ग्॒ स्वाहेत्या॑ह ।
द्यावा॑पृथि॒वीभ्या॑-मे॒वैन॑ञ्जुहोति । पि॒तृभ्यो॑ घर्म॒पेभ्य॒-स्स्वाहेत्या॑ह । ये वै यज्वा॑नः । ते पि॒तरो॑ घर्म॒पाः । तेभ्य॑ ए॒वैन॑ञ्जुहोति ॥ 77 ॥
रु॒द्राय॑ रु॒द्रहो᳚त्रे॒ स्वाहेत्या॑ह । रु॒द्रमे॒व भा॑ग॒धेये॑न॒ सम॑र्धयति । स॒र्वत॒-स्सम॑नक्ति । स॒र्वत॑ ए॒व रु॒द्रन्नि॒रव॑दयते । उद॑ञ्च॒न्निर॑स्यति ।
ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रन्नि॒रव॑दयते । अ॒प उप॑स्पृशति मेद्ध्य॒त्वाय॑ । नान्वी᳚क्षेत । यद॒न्वीक्षे॑त ॥ 78 ॥
चक्षु॑रस्य प्र॒मायु॑कग्ग् स्यात् । तस्मा॒न्नान्वीक्ष्यः॑ ।
अपी॑परो॒ मा-ऽह्नो॒ रात्रि॑यै मा पाह्ये॒षा ते॑ अग्ने स॒मित्तया॒ समि॑द्ध्य॒स्वायु॑र्मे दा॒ वर्च॑सा मा-ऽञ्जी॒रित्या॑ह । आयु॑रे॒वास्मि॒न् वर्चो॑ दधाति ।
अपी॑परो मा॒ रात्रि॑या॒ अह्नो॑ मा पाह्ये॒षा ते॑ अग्ने स॒मित्तया॒ समि॑द्ध्य॒स्वायु॑र्मे दा॒ वर्च॑सा मा-ऽञ्जी॒रित्या॑ह । आयु॑रे॒वास्मि॒न् वर्चो॑ दधाति ।
अ॒ग्नि-र्ज्योति॒-र्ज्योति॑र॒ग्नि-स्स्वाहा॒ सूर्यो॒ ज्योति॒र्ज्योति॒-स्सूर्य॒-स्स्वाहेत्या॑ह । य॒था॒य॒जुरे॒वैतत् । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । हो॒त॒व्य॑मग्निहो॒त्रा(3) न्न हो॑त॒व्या(3) मिति॑ ॥ 79 ॥
य-द्यजु॑षा जुहु॒यात् । अय॑थापूर्व॒माहु॑ती जुहुयात् । यन्न जु॑हु॒यात् । अ॒ग्निः परा॑भवेत् । भू-स्स्वाहेत्ये॒व हो॑त॒व्य᳚म् । य॒था॒पू॒र्वमाहु॑ती जु॒होति॑ । नाग्निः परा॑भवति । हु॒तग्ं ह॒विर्मधु॑ ह॒विरित्या॑ह ।
स्व॒दय॑त्ये॒वैन᳚म् । इन्द्र॑तमे॒-ऽग्नावित्या॑ह ॥ 80 ॥
प्रा॒णो वा इन्द्र॑तमो॒-ऽग्निः ।
प्रा॒ण ए॒वैन॒मिन्द्र॑तमे॒-ऽग्नौ जु॑होति ।
पि॒ता नो॑-ऽसि॒ मा मा॑ हिग्ंसी॒रित्या॒हाहिग्ं॑सायै ।
अ॒श्याम॑ ते देव घर्म॒ मधु॑मतो॒ वाज॑वतः पितु॒मत॒ इत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ।
स्व॒धा॒विनो॑-ऽशी॒महि॑ त्वा॒ मा मा॑ हिग्ंसी॒-रित्या॒हाहिग्ं॑सायै । तेज॑सा॒ वा ए॒ते व्यृ॑द्ध्यन्ते । ये प्र॑व॒र्ग्ये॑ण॒ चर॑न्ति । प्राश्ञ॑न्ति ।
तेज॑ ए॒वात्मन्-द॑धते ॥ 81 ॥
सं॒वँ॒थ्स॒रन्न मा॒ग्ं॒सम॑श्ञीयात् । न रा॒मामुपे॑यात् । न मृ॒न्मये॑न पिबेत् । नास्य॑ रा॒म उच्छि॑ष्ट-म्पिबेत् । तेज॑ ए॒व तथ्सग्ंश्य॑ति ।
दे॒वा॒सु॒रा-स्संयँ॑त्ता आसन्न् । ते दे॒वा वि॑ज॒यमु॑प॒यन्तः॑ । वि॒भ्राजि॑ सौ॒र्ये ब्रह्म॒ सन्न्य॑दधत । य-त्किञ्च॑ दिवाकी॒र्त्य᳚म् ।
तदे॒तेनै॒व व्र॒तेना॑गोपायत् । तस्मा॑दे॒त-द्व्र॒त-ञ्चा॒र्य᳚म् । तेज॑सो गोपी॒थाय॑ । तस्मा॑दे॒तानि॒ यजूग्ं॑षि वि॒भ्राजः॑ सौ॒र्यस्येत्या॑हुः ।
स्वाहा᳚ त्वा॒ सूर्य॑स्य र॒श्मिभ्य॒ इति॑ प्रा॒त-स्सग्ंसा॑दयति । स्वाहा᳚ त्वा॒ नक्ष॑त्रेभ्य॒ इति॑ सा॒यम् ।
ए॒ता वा ए॒तस्य॑ दे॒वताः᳚ । ताभि॑रे॒वैन॒ग्ं॒ सम॑र्धयति ॥ 82 ॥
(अ॒क॒ - र॒श्वि॒नेत्या॑ह - प्र॒दिशो॑ ग॒च्छेत्या॑ह - पितृ॒णा - म॑न्तः परि॒धि पि॑न्वयति - धार॒येत्या॑ह॒ - वाचो॑ - धर्म॒पा स्तेभ्य॑ ए॒वैन॑-ञ्जुहो - त्य॒न्वीक्षे॑त - होत॒व्या (3) मि - त्य॒ग्रावित्या॑ह - दधते - ऽगोपाय-थ्स॒प्त च॑) (अ. 8)
अनुवाकं 9
घर्म॒ या ते॑ दि॒वि शुगिति॑ ति॒स्र आहु॑ती-र्जुहोति ।
छन्दो॑भिरे॒वास्यै॒भ्यो लो॒केभ्य॒-श्शुच॒मव॑ यजते । इय॒त्यग्रे॑ जुहोति । अथेय॒त्यथेय॑ति । त्रय॑ इ॒मे लो॒काः ।
ए॒भ्य ए॒व लो॒केभ्य॒-श्शुच॒मव॑ यजते ।
अनु॑ नो॒-ऽद्यानु॑मति॒रित्या॒हानु॑मत्यै । दि॒वस्त्वा॑ पर॒स्पाया॒ इत्या॑ह । दि॒व ए॒वेमान् ँलो॒का-न्दा॑धार ।
ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह ॥ 83 ॥
ए॒ष्वे॑व लो॒केषु॑ प्र॒जा दा॑धार । प्रा॒णस्य॑ त्वा पर॒स्पाया॒ इत्या॑ह । प्र॒जास्वे॒व प्रा॒णा-न्दा॑धार । शिरो॒ वा ए॒त-द्य॒ज्ञस्य॑ । य-त्प्र॑व॒र्ग्यः॑ । अ॒सौ खलु॒ वा आ॑दि॒त्यः प्र॑व॒र्ग्यः॑ । तं-यँ-द्द॑क्षि॒णा प्र॒त्यञ्च॒-मुद॑ञ्च-मुद्वा॒सये᳚त् ।
जि॒ह्मं-यँ॒ज्ञस्य॒ शिरो॑ हरेत् ।
प्राञ्च॒मुद्वा॑सयति । पु॒रस्ता॑दे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति ॥ 84 ॥
प्राञ्च॒मुद्वा॑सयति । तस्मा॑द॒सावा॑दि॒त्यः पु॒रस्ता॒दुदे॑ति । श॒फो॒प॒य॒मान्ध॒वित्रा॑णि॒ धृष्टी॒ इत्य॒न्वव॑हरन्ति ।
सात्मा॑नमे॒वैन॒ग्ं॒ सत॑नु-ङ्करोति । सात्मा॒-ऽमुष्मि॑न् ँलो॒के भ॑वति ।
य ए॒वं-वेँद॑ । औदु॑म्बराणि भवन्ति । ऊर्ग्वा उ॑दु॒म्बरः॑ । ऊर्ज॑मे॒वाव॑रुन्धे । वर्त्म॑ना॒ वा अ॒न्वित्य॑ ॥ 85 ॥
य॒ज्ञग्ं रक्षाग्ं॑सि जिघाग्ंसन्ति । साम्ना᳚ प्रस्तो॒ता-ऽन्ववै॑ति । साम॒ वै र॑क्षो॒हा । रक्ष॑सा॒मप॑हत्यै । त्रिर्नि॒धन॒मुपै॑ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒व लो॒केभ्यो॒ रक्षा॒ग्॒स्यप॑हन्ति । पुरु॑षःपुरुषो नि॒धन॒मुपै॑ति । पुरु॑षःपुरुषो॒ हि र॑क्ष॒स्वी । रक्ष॑सा॒मप॑हत्यै ॥ 86 ॥
य-त्पृ॑थि॒व्यामु॑द्वा॒सये᳚त् । पृ॒थि॒वीग्ं शु॒चा-ऽर्प॑येत् । यद॒फ्सु । अ॒प-श्शु॒चार्प॑येत् । यदोष॑धीषु । ओष॑धी-श्शु॒चा-ऽर्प॑येत् ।
य-द्वन॒स्पति॑षु । वन॒स्पती᳚ञ्छु॒चा-ऽर्प॑येत् । हिर॑ण्यन्नि॒धायोद्वा॑सयति ।
अ॒मृतं॒-वैँ हिर॑ण्यम् ॥ 87 ॥
अ॒मृत॑ ए॒वैन॒-म्प्रति॑ष्ठापयति ।
व॒ल्गुर॑सि शं॒-युँधा॑या॒ इति॒ त्रिः प॑रिषि॒ञ्चन्पर्ये॑ति । त्रि॒वृद्वा अ॒ग्निः । यावा॑ने॒वाग्निः । तस्य॒ शुचग्ं॑ शमयति । त्रिः पुनः॒ पर्ये॑ति । षट्-थ्सम्प॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वास्य॒ शुचग्ं॑ शमयति । चतुः॑ स्रक्ति॒र्नाभि॑र्-ऋ॒तस्येत्या॑ह ॥ 88 ॥
इ॒यं-वाँ ऋ॒तम् । तस्या॑ ए॒ष ए॒व नाभिः॑ । य-त्प्र॑व॒र्ग्यः॑ । तस्मा॑दे॒वमा॑ह । सदो॑ वि॒श्वायु॒रित्या॑ह । सदो॒ हीयम् । अप॒ द्वेषो॒ अप॒ ह्वर॒ इत्या॑ह॒ भ्रातृ॑व्यापनुत्त्यै । घर्मै॒तत्ते-ऽन्न॑मे॒त-त्पुरी॑ष॒मिति॑ द॒द्ध्ना म॑धुमि॒श्रेण॑ पूरयति ।
ऊर्ग्वा अ॒न्नाद्य॒न्दधि॑ । ऊ॒र्जैवैन॑म॒न्नाद्ये॑न॒ सम॑र्धयति ॥ 89 ॥
अन॑शनायुको भवति । य ए॒वं-वेँद॑ ।
रन्ति॒र्नामा॑सि दि॒व्यो ग॑न्ध॒र्व इत्या॑ह ।
रू॒पमे॒वास्यै॒-त-न्म॑हि॒मान॒ग्ं॒ रन्ति॑-म्ब॒न्धुतां॒-व्याँच॑ष्टे । सम॒हमायु॑षा॒ स-म्प्रा॒णेनेत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ।
व्य॑सौ यो᳚-ऽस्मा-न्द्वेष्टि॒ यञ्च॑ व॒य-न्द्वि॒ष्म इत्या॑ह । अ॒भि॒चा॒र ए॒वास्यै॒षः । अचि॑क्रद॒-द्वृषा॒ हरि॒रित्या॑ह । वृषा॒ ह्ये॑षः ॥ 90 ॥
वृषा॒ हरिः॑ । म॒हा-न्मि॒त्रो न द॑र्श॒त इत्या॑ह । स्तौत्ये॒वैन॑मे॒तत् । चिद॑सि समु॒द्रयो॑नि॒रित्या॑ह । स्वामे॒वैनं॒-योँनि॑ङ्गमयति ।
नम॑स्ते अस्तु॒ मा मा॑ हिग्ंसी॒रित्या॒हाहिग्ं॑सायै ।
वि॒श्वाव॑सुग्ं सोमगन्ध॒र्वमित्या॑ह । यदे॒वास्य॑ क्रि॒यमा॑णस्यान्त॒र्यन्ति॑ । तदे॒वास्यै॒तेना प्या॑ययति ।
वि॒श्वाव॑सुर॒भि तन्नो॑ गृणा॒त्वित्या॑ह ॥ 91 ॥
पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भिगृ॑णाति ।
धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्या॒दित्या॑ह । ऋ॒तूने॒वास्मै॑ कल्पयति । प्रासा᳚-ङ्गन्ध॒र्वो अ॒मृता॑नि वोच॒दित्या॑ह । प्रा॒णा वा अ॒मृताः᳚ ।
प्रा॒णाने॒वास्मै॑ कल्पयति । ए॒तत्त्वन्दे॑व घर्म दे॒वो दे॒वानुपा॑गा॒ इत्या॑ह । दे॒वो ह्ये॑ष सन्दे॒वानु॒पैति॑ । इ॒दम॒ह-म्म॑नु॒ष्यो॑ मनु॒ष्या॑नित्या॑ह ॥ 92 ॥
म॒नु॒ष्यो॑ हि । ए॒ष स-न्म॑नु॒ष्या॑नु॒पैति॑ ।
ई॒श्व॒रो वै प्र॑व॒र्ग्य॑मुद्वा॒सयन्न्॑ । प्र॒जा-म्प॒शून्-थ्सो॑मपी॒थम॑नू॒द्वास॒-स्सोम॑पी॒थानु॒मेहि॑ । स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॒णेत्या॑ह । प्र॒जामे॒व प॒शून्-थ्सो॑मपी॒थमा॒त्म-न्ध॑त्ते । सु॒मि॒त्रा न॒ आप॒ ओष॑धय-स्स॒न्त्वित्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ।
दु॒र्मि॒त्रास्तस्मै॑ भूयासु॒-र्यो᳚-ऽस्मान्-द्वेष्टि॒ यञ्च॑ व॒य-न्द्वि॒ष्म इत्या॑ह । अ॒भि॒चा॒र ए॒वास्यै॒षः । प्र वा ए॒षो᳚-ऽस्मा-ल्लो॒काच्च्य॑वते ।
यः प्र॑व॒र्ग्य॑मुद्वा॒सय॑ति । उदु॒ त्य-ञ्चि॒त्रमिति॑ सौ॒रीभ्या॑मृ॒ग्भ्या-म्पुन॒रेत्य॒ गार्ह॑पत्ये जुहोति ।
अ॒यम् ँवै लो॒को गार्ह॑पत्यः । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ।
अ॒सौ खलु॒ वा आ॑दि॒त्य-स्सु॑व॒र्गो लो॒कः ।
य-थ्सौ॒री भव॑तः । तेनै॒व सु॑व॒र्गा-ल्लो॒कान्नैति॑ ॥ 93 ॥
(ब्रह्म॑णस्त्वा पर॒स्पाया॒ इत्या॑ह - दधा - त्य॒न्वित्य॑ - रक्ष॒स्वी रक्ष॑सा॒मप॑हत्यै॒ - वै हिर॑ण्य - माहा - र्धयति॒ - ह्ये॑ष - गृ॑णा॒त्वित्या॑ह - मनु॒ष्या॑नित्या॑हा - स्यै॒षो᳚ ऽष्टौ च॑) (अ. 9)
अनुवाकं 10
प्र॒जाप॑तिं॒-वैँ दे॒वा-श्शु॒क्र-म्पयो॑-ऽदुह्रन्न् । तदे᳚भ्यो॒ न व्य॑भवत् । तद॒ग्निर्व्य॑करोत् । तानि॒ शुक्रि॑याणि॒ सामा᳚न्यभवन्न् । तेषां॒-योँ रसो॒-ऽत्यक्ष॑रत् । तानि॑ शुक्रय॒जूग्ष्य॑भवन्न् ।
शुक्रि॑याणां॒-वाँ ए॒तानि॒ शुक्रि॑याणि । सा॒म॒प॒य॒संवाँ ए॒तयो॑र॒न्यत् ।
दे॒वाना॑म॒न्यत्पयः॑ । यद्गोः पयः॑ ॥ 94 ॥
त-थ्साम्नः॒ पयः॑ । यद॒जायै॒ पयः॑ । त-द्दे॒वाना॒-म्पयः॑ । तस्मा॒-द्यत्रै॒तै-र्यजु॑र्भि॒श्चर॑न्ति । त-त्पय॑सा चरन्ति । प्र॒जाप॑तिमे॒व त-द्दे॒वान्पय॑सा॒-ऽन्नाद्ये॑न॒ सम॑र्धयन्ति । ए॒ष ह॒ त्वै सा॒क्षा-त्प्र॑व॒र्ग्य॑-म्भक्षयति । यस्यै॒वं-विँ॒दुषः॑ प्रव॒र्ग्यः॑ प्रवृ॒ज्यते᳚ । उ॒त्त॒र॒वे॒द्या-मुद्वा॑सये॒त्-तेज॑स्कामस्य । तेजो॒ वा उ॑त्तरवे॒दिः ॥ 95 ॥
तेजः॑ प्रव॒र्ग्यः॑ । तेज॑सै॒व तेज॒-स्सम॑र्धयति ।
उ॒त्त॒र॒वे॒द्या-मुद्वा॑सये॒-दन्न॑कामस्य । शिरो॒ वा ए॒त-द्य॒ज्ञस्य॑ । य-त्प्र॑व॒र्ग्यः॑ । मुख॑मुत्तरवे॒दिः ।
शी॒र्ष्णैव मुख॒ग्ं॒ सन्द॑धात्य॒न्नाद्या॑य । अ॒न्ना॒द ए॒व भ॑वति । यत्र॒ खलु॒ वा ए॒तमुद्वा॑सितं॒-वँयाग्ं॑सि प॒र्यास॑ते । परि॒ वै ताग्ं समा᳚-म्प्र॒जा वयाग्॑स्यासते ॥ 96 ॥
तस्मा॑-दुत्तरवे॒द्या-मे॒वोद्वा॑सयेत् । प्र॒जाना᳚-ङ्गोपी॒थाय॑ । पु॒रो वा॑ प॒श्चाद्वोद्वा॑सयेत् । पु॒रस्ता॒द्वा ए॒तज्ज्योति॒रुदे॑ति । त-त्प॒श्चान्निम्रो॑चति । स्वामे॒वैन॒म् ँयोनि॒मनूद्वा॑सयति ।
अ॒पा-म्मद्ध्य॒ उद्वा॑सयेत् । अ॒पां-वाँ ए॒तन्मद्ध्या॒-ज्ज्योति॑रजायत । ज्योतिः॑ प्रव॒र्ग्यः॑ । स्व ए॒वैनं॒-योँनौ॒ प्रति॑ष्ठापयति ॥ 97 ॥
य-न्द्वि॒ष्यात् । यत्र॒ स स्यात् । तस्या᳚-न्दि॒श्युद्वा॑सयेत् ।
ए॒ष वा अ॒ग्नि-र्वै᳚श्वान॒रः । यत्-प्र॑व॒र्ग्यः॑ ।
अ॒ग्निनै॒वैनं॑-वैँश्वान॒रेणा॒भि प्रव॑र्तयति ।
औदु॑म्बर्या॒ग्ं॒ शाखा॑या॒मुद्वा॑सयेत् ।
ऊर्ग्वा उ॑दु॒म्बरः॑ । अन्न॑-म्प्रा॒णः । शुग्घ॒र्मः ॥ 98 ॥
इ॒दम॒ह-म॒मुष्या॑मुष्याय॒णस्य॑ शु॒चा प्रा॒णमपि॑ दहा॒मीत्या॑ह । शु॒चैवास्य॑ प्रा॒णमपि॑ दहति । ता॒जगार्ति॒मार्च्छ॑ति । यत्र॑ द॒र्भा उ॑प॒दीक॑सन्तता॒-स्स्युः । तदुद्वा॑सये॒-द्वृष्टि॑कामस्य । ए॒ता वा अ॒पाम॑नू॒ज्झाव॑र्यो॒ नाम॑ ।
य-द्द॒र्भाः । अ॒सौ खलु॒ वा आ॑दि॒त्य इ॒तो वृष्टि॒मुदी॑रयति । अ॒सावे॒वास्मा॑ आदि॒त्यो वृष्टि॒न्निय॑च्छति । ता आपो॒ निय॑ता॒ धन्व॑ना यन्ति ॥ 99 ॥
(गोः पय॑ - उत्तरवे॒दि - रा॑सते - स्थापयति - घ॒र्मो - य॑न्ति) (अ. 10)
अनुवाकं 11
प्र॒जाप॑ति-स्सम्भ्रि॒यमा॑णः । स॒म्राट्-थ्सम्भृ॑तः । घ॒र्मः प्रवृ॑क्तः । म॒हा॒वी॒र उद्वा॑सितः । अ॒सौ खलु॒ वावैष आ॑दि॒त्यः । य-त्प्र॑व॒र्ग्यः॑ ।
स ए॒तानि॒ नामा᳚न्यकुरुत । य ए॒वं-वेँद॑ । वि॒दुरे॑न॒न्नाम्ना᳚ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ॥ 100 ॥
यो वै वसी॑याग्ं संयँथाना॒ममु॑प॒चर॑ति ।
पुण्या᳚र्तिं॒-वैँ स तस्मै॑ कामयते । पुण्या᳚र्तिमस्मै कामयन्ते । य ए॒वं-वेँद॑ । तस्मा॑दे॒वं-विँ॒द्वान् । घ॒र्म इति॒ दिवा-ऽऽच॑क्षीत । स॒म्राडिति॒ नक्त᳚म् । ए॒ते वा ए॒तस्य॑ प्रि॒ये त॒नुवौ᳚ । ए॒ते अ॑स्य प्रि॒ये नाम॑नी । प्रि॒ययै॒वैन॑-न्त॒नुवा᳚ ॥ 101 ॥
प्रि॒येण॒ नाम्ना॒ सम॑र्धयति । की॒र्तिर॑स्य॒ पूर्वा ग॑च्छति ज॒नता॑माय॒तः । गा॒य॒त्री दे॒वेभ्यो-ऽपा᳚क्रामत् । तान्दे॒वाः प्र॑व॒र्ग्ये॑णै॒वानु॒ व्य॑भवन्न् ।
प्र॒व॒र्ग्ये॑णाप्नुवन्न् । यच्च॑तुर्विग्ंशतिः॒ कृत्वः॑ प्रव॒र्ग्य॑-म्प्रवृ॒णक्ति॑ । गा॒य॒त्रीमे॒व तदनु॒ विभ॑वति । गा॒य॒त्रीमा᳚प्नोति । पूर्वा᳚-ऽस्य॒ जनं॑-यँ॒तः की॒र्तिर्ग॑च्छति । वै॒श्व॒दे॒व-स्सग्ंस॑न्नः ॥ 102 ॥
वस॑वः॒ प्रवृ॑क्तः । सोमो॑-ऽभिकी॒र्यमा॑णः । आ॒श्वि॒नः पय॑स्यानी॒यमा॑ने ।
मारु॒तः क्वथन्न्॑ । पौ॒ष्ण उद॑न्तः । सा॒र॒स्व॒तो वि॒ष्यन्द॑मानः । मै॒त्र-श्शरो॑ गृहीतः । तेज॒ उद्य॑तो वा॒युः । ह्रि॒यमा॑णः प्र॒जाप॑तिः ।
हू॒यमा॑नो॒ वाघु॒तः ॥ 103 ॥
अ॒सौ खलु॒ वावैष आ॑दि॒त्यः । य-त्प्र॑व॒र्ग्यः॑ ।
स ए॒तानि॒ नामा᳚न्यकुरुत । य ए॒वं-वेँद॑ । वि॒दुरे॑न॒न्नाम्ना᳚ । ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
यन्मृ॒न्मय॒-माहु॑ति॒न्नाश्ञु॒ते-ऽथ॑ । कस्मा॑दे॒षो᳚-ऽश्ञुत॒ इति॑ । वागे॒ष इति॑ ब्रूयात् । वा॒च्ये॑व वाच॑-न्दधाति ॥ 104 ॥
तस्मा॑दश्ञुते । प्र॒जाप॑ति॒र्वा ए॒ष द्वा॑दश॒धा विहि॑तः । य-त्प्र॑व॒र्ग्यः॑ । य-त्प्राग॑वका॒शेभ्यः॑ । तेन॑ प्र॒जा अ॑सृजत । अ॒व॒का॒शै-र्दे॑वासु॒रान॑सृजत । यदू॒र्ध्वम॑वका॒शेभ्यः॑ ।
तेनान्न॑मसृजत । अन्न॑-म्प्र॒जाप॑तिः । प्र॒जाप॑ति॒र्वावैषः ॥ 105 ॥
(व॒द॒न्ति॒ - त॒नुवा॒ - सग्ंस॑न्नो - हू॒यमा॑नो॒ वाघु॒तो - द॑धा - त्ये॒षः) (अ. 11)
अनुवाकं 12
स॒वि॒ता भू॒त्वा प्र॑थ॒मे-ऽह॒-न्प्रवृ॑ज्यते । तेन॒ कामाग्ं॑ एति । य-द्द्वि॒तीये-ऽह॑न्-प्रवृ॒ज्यते᳚ । अ॒ग्नि-र्भू॒त्वा दे॒वाने॑ति । यत्-तृ॒तीये-ऽह॑न्-प्रवृ॒ज्यते᳚ । वा॒यु-र्भू॒त्वा प्रा॒णाने॑ति ।
यच्च॑तु॒र्थे-ऽह॑न्-प्रवृ॒ज्यते᳚ । आ॒दि॒त्यो भू॒त्वा र॒श्मीने॑ति । य-त्प॑ञ्च॒मे-ऽह॑न्-प्रवृ॒ज्यते᳚ । च॒न्द्रमा॑ भू॒त्वा नक्ष॑त्राण्येति ॥ 106 ॥
य-थ्ष॒ष्ठे-ऽह॑न्-प्रवृ॒ज्यते᳚ । ऋ॒तु-र्भू॒त्वा सं॑वँथ्स॒रमे॑ति । य-थ्स॑प्त॒मे-ऽह॑न्-प्रवृ॒ज्यते᳚ । धा॒ता भू॒त्वा शक्व॑रीमेति । यद॑ष्ट॒मे-ऽह॑न्-प्रवृ॒ज्यते᳚ । बृह॒स्पति॑-र्भू॒त्वा गा॑य॒त्रीमे॑ति ।
य-न्न॑व॒मे-ऽह॑न्-प्रवृ॒ज्यते᳚ । मि॒त्रो भू॒त्वा त्रि॒वृत॑ इ॒मान् ँलो॒काने॑ति । य-द्द॑श॒मे-ऽह॑न्-प्रवृ॒ज्यते᳚ । वरु॑णो भू॒त्वा वि॒राज॑मेति ॥ 107 ॥
यदे॑काद॒शे-ऽह॑न्-प्रवृ॒ज्यते᳚ । इन्द्रो॑ भू॒त्वा त्रि॒ष्टुभ॑मेति । य-द्द्वा॑द॒शे-ऽह॑न्-प्रवृ॒ज्यते᳚ । सोमो॑ भू॒त्वा सु॒त्यामे॑ति । यत्-पु॒रस्ता॑दुप॒सदा᳚-म्प्रवृ॒ज्यते᳚ । तस्मा॑दि॒तः परां॑अ॒मूं-लोँ॒काग्स्तप॑न्नेति । यदु॒परि॑ष्टा-दुप॒सदा᳚-म्प्रवृ॒ज्यते᳚ । तस्मा॑द॒मुतो॒-ऽर्वांइ॒मां-लोँ॒काग्स्तप॑न्नेति । य ए॒वं-वेँद॑ ।
ऐव त॑पति ॥ 108 ॥
(नक्ष॑त्राण्येति - वि॒राज॑मेति - तपति) (अ. 12)
दे॒वा वै स॒त्रग्ं - सा॑वि॒त्रम् - परि॑श्रिते॒ - ब्रह्म॒-न्प्रच॑रिष्यामो॒ - ऽग्निष्ट्वा॒ - शिरो᳚ ग्री॒वा - दे॒वस्य॑ रश॒नां - ँविश्वा॒ आशा॒ - धर्म॒ या त᳚ - प्र॒जाप॑तिग्ं शु॒क्रम् - प्र॒जाप॑ति-स्सम्भ्रि॒यमा॑णः -
सवि॒ता भू॒त्वा द्वाद॑श)
(दे॒वा वै स॒त्रग्ं - स ख॑दि॒रः - परि॑श्रिते - ऽभिपू॒र्व - मथो॒ रक्ष॑सा॒म् - ग्रैष्मा॑वे॒वास्मै॒ - ब्रह्म॒ वै दे॒वाना॒ - मश्वि॑ना घ॒र्म-म्पा॑तम् - प्रा॒णो वै - वृषा॒ हरि॒--र् यो वै वसी॑याग्ं संयँथाना॒म
म॒ष्टोत्त॑रश॒तम्)
(दे॒वा वै स॒त्र - मैव त॑पति)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके पञ्चमः प्रपाठक-स्समाप्तः ॥