View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री दक्षिणामूर्थि अष्टोत्तर शत नामावलिः

ॐ विद्यारूपिणे नमः ।
ॐ महायोगिने नमः ।
ॐ शुद्धज्ञानिने नमः ।
ॐ पिनाकधृते नमः ।
ॐ रत्नालंकृतसर्वांगाय नमः ।
ॐ रत्नमालिने नमः ।
ॐ जटाधराय नमः ।
ॐ गंगाधारिणे नमः ।
ॐ अचलावासिने नमः ।
ॐ सर्वज्ञानिने नमः । 10 ।

ॐ समाधिधृते नमः ।
ॐ अप्रमेयाय नमः ।
ॐ योगनिधये नमः ।
ॐ तारकाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ ब्रह्मरूपिणे नमः ।
ॐ जगद्व्यापिने नमः ।
ॐ विष्णुमूर्तये नमः ।
ॐ पुरांतकाय नमः ।
ॐ उक्षवाहाय नमः । 20 ।

ॐ चर्मवाससे नमः ।
ॐ पीतांबरविभूषणाय नमः ।
ॐ मोक्षसिद्धये नमः ।
ॐ मोक्षदायिने नमः ।
ॐ दानवारये नमः ।
ॐ जगत्पतये नमः ।
ॐ विद्याधारिणे नमः ।
ॐ शुक्लतनवे नमः ।
ॐ विद्यादायिने नमः ।
ॐ गणाधिपाय नमः । 30 ।

ॐ पापापस्मृतिसंहर्त्रे नमः ।
ॐ शशिमौलये नमः ।
ॐ महास्वनाय नमः ।
ॐ सामप्रियाय नमः ।
ॐ स्वयं साधवे नमः ।
ॐ सर्वदेवैर्नमस्कृताय नमः ।
ॐ हस्तवह्निधराय नमः ।
ॐ श्रीमते नमः ।
ॐ मृगधारिणे नमः ।
ॐ शंकराय नमः । 40 ।

ॐ यज्ञनाथाय नमः ।
ॐ क्रतुध्वंसिने नमः ।
ॐ यज्ञभोक्त्रे नमः ।
ॐ यमांतकाय नमः ।
ॐ भक्तानुग्रहमूर्तये नमः ।
ॐ भक्तसेव्याय नमः ।
ॐ वृषध्वजाय नमः ।
ॐ भस्मोद्धूलितसर्वांगाय नमः ।
ॐ अक्षमालाधराय नमः ।
ॐ महते नमः । 50 ।

ॐ त्रयीमूर्तये नमः ।
ॐ परस्मै ब्रह्मणे नमः ।
ॐ नागराजैरलंकृताय नमः ।
ॐ शांतरूपाय नमः ।
ॐ महाज्ञानिने नमः ।
ॐ सर्वलोकविभूषणाय नमः ।
ॐ अर्धनारीश्वराय नमः ।
ॐ देवाय नमः ।
ॐ मुनिसेव्याय नमः ।
ॐ सुरोत्तमाय नमः । 60 ।

ॐ व्याख्यानदेवाय नमः ।
ॐ भगवते नमः ।
ॐ अग्निचंद्रार्कलोचनाय नमः ।
ॐ जगत्स्रष्ट्रे नमः ।
ॐ जगद्गोप्त्रे नमः ।
ॐ जगद्ध्वंसिने नमः ।
ॐ त्रिलोचनाय नमः ।
ॐ जगद्गुरवे नमः ।
ॐ महादेवाय नमः ।
ॐ महानंदपरायणाय नमः । 70 ।

ॐ जटाधारिणे नमः ।
ॐ महावीराय नमः ।
ॐ ज्ञानदेवैरलंकृताय नमः ।
ॐ व्योमगंगाजलस्नाताय नमः ।
ॐ सिद्धसंघसमर्चिताय नमः ।
ॐ तत्त्वमूर्तये नमः ।
ॐ महायोगिने नमः ।
ॐ महासारस्वतप्रदाय नमः ।
ॐ व्योममूर्तये नमः ।
ॐ भक्तानामिष्टकामफलप्रदाय नमः । 80 ।

ॐ वीरमूर्तये नमः ।
ॐ विरूपिणे नमः ।
ॐ तेजोमूर्तये नमः ।
ॐ अनामयाय नमः ।
ॐ वेदवेदांगतत्त्वज्ञाय नमः ।
ॐ चतुष्षष्टिकलानिधये नमः ।
ॐ भवरोगभयध्वंसिने नमः ।
ॐ भक्तानामभयप्रदाय नमः ।
ॐ नीलग्रीवाय नमः ।
ॐ ललाटाक्षाय नमः । 90 ।

ॐ गजचर्मणे नमः ।
ॐ ज्ञानदाय नमः ।
ॐ अरोगिणे नमः ।
ॐ कामदहनाय नमः ।
ॐ तपस्विने नमः ।
ॐ विष्णुवल्लभाय नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ संन्यासिने नमः ।
ॐ गृहस्थाश्रमकारणाय नमः ।
ॐ दांतशमवतां श्रेष्ठाय नमः । 100 ।

ॐ सत्त्वरूपदयानिधये नमः ।
ॐ योगपट्टाभिरामाय नमः ।
ॐ वीणाधारिणे नमः ।
ॐ विचेतनाय नमः ।
ॐ मंत्रप्रज्ञानुगाचाराय नमः ।
ॐ मुद्रापुस्तकधारकाय नमः ।
ॐ रागहिक्कादिरोगाणां विनिहंत्रे नमः ।
ॐ सुरेश्वराय नमः । 108 ।

इति श्री दक्षिणामूर्त्यष्टोत्तरशतनामावलिः ॥




Browse Related Categories: