ॐ नम् ॥ तत्पुरु॒षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचोदया᳚त् ॥
संवँर्ताग्नि तटित्प्रदीप्त कनक प्रस्पर्थि तेजोमयम् ।
गंभीरध्वनि सामवेदजनकं ताम्राधरं सुंदरम् ।
अर्धेंदुद्युति लोलपिंगल जटाभारप्रबद्धोरगम् ।
वंदे सिद्ध सुरासुरेंद्रनमितं पूर्वं मुखं शूलिनः ॥
ॐ नमो भगवते॑ रुद्रा॒य ॥ ॐ नम् ॥ पूर्व मुखाय॒ नमः ॥
अ॒घोरे᳚भ्योऽथघो॒रे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ॥ सर्वे᳚भ्यस्सर्व शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
कालाभ्रभ्रमरांजनद्युतिनिभं-व्याँवृत्त पिंगेक्षणम्
कर्णोद्भासित भोगिमस्तक मणिप्रोद्गीर्ण दंष्ट्रांकुरम् ।
सर्पप्रोत कपाल शुक्ति शकल व्याकीर्ण सच्छेखरम्
वंदे दक्षिणमीश्वरस्य कुटिल भ्रूभंग रौद्रं मुखम् ॥
ॐ नमो भगवते॑ रुद्रा॒य ॥ ॐ मम् ॥ दक्षिण मुखाय॒ नमः ॥
स॒द्यो जा॒तं प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ । भ॒वे भ॑वे॒ नाति॑ भवे भवस्व॒ माम् । भ॒वोद्-भ॑वाय॒ नमः॑ ॥
प्रालेयाचलमिंदुकुंद धवलं गोक्षीरफेनप्रभम्
भस्माभ्यक्तमनंग देह दहन ज्वालावली लोचनम् ।
ब्रह्मेंद्रादि मरुद्गणैस्पुतिपदै रभ्यर्चितं-योँगिभिः
वंदेऽहं सकलं कलंकरहितं स्थाणोर्मुखं पश्चिमम् ॥
ॐ नमो भगवते॑ रुद्रा॒य ॥ ॐ शिम् ॥ पश्चिम मुखाय॒ नमः ॥
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नमः॒ सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ॥
गौरं कुंकुम पंकिलं स्तिलकं-व्याँपांडु गंडस्थलम्
भ्रूविक्षेप कटाक्ष लसत्संसक्त कर्णोत्फलम् ।
स्निग्धं बिंबफलाधरं प्रहसितं नीलालकालं कृतम्
वंदे पूर्ण शशांक मंडलनिभं-वँक्त्रं हरस्योत्तरम् ॥
ॐ नमो भगवते॑ रुद्रा॒य ॥ ॐ-वाँम् ॥ उत्तर मुखाय॒ नमः ॥
ईशानः सर्व॑विद्या॒ना॒-मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒-र्ब्रह्म॒णो ऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥ (कनिष्ठिकाभ्यां नमः)
व्यक्ताव्यक्त गुणेतरं परतरं षट्त्रिंशतत्त्वात्मकम्
तस्मादुत्तम तत्त्वमक्षरमिदं ध्येयं सदा योगिभिः ।
ॐकारादि समस्त मंत्रजनकं सूक्ष्मादि सूक्ष्मं परं
शांतं पंचममीश्वरस्य वदनं खंव्याँप्ति तेजोमयम् ॥
ॐ नमो भगवते॑ रुद्रा॒य ॥ ॐ-वाँम् ॥ ऊर्ध्व मुखाय॒ नमः ॥
दिङ्नमस्कारः
पूर्वे पशुपतिः पातु । दक्षिणे पातु शंकरः ।
पश्चिमे पातु विश्वेशः । नीलकंठस्तदोत्तरे ॥
ईशान्यां पातु मे शर्वः । आग्नेयां पार्वतीपतिः ।
नैऋत्यां पातु मे रुद्रः । वायव्यां नीललोहितः ॥
ऊर्ध्वे त्रिलोचनः पातु । अधरायां महेश्वरः ।
एताभ्यो दश दिग्भ्यस्तु । सर्वतः पातु शंकरः ॥
(ना रुद्रो रुद्रमर्चये᳚त् ।
न्यासपूर्वकं जपहोमार्चनाऽभिषेकविधि व्याख्यास्यामः ।)