View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री महान्यासम् - 5.1. हंस गायत्री

अस्य श्री हंसगायत्री महामंत्रस्य, अव्यक्त परब्रह्म ऋषिः,
अनुष्टुप् छंदः, परमहंसो देवता ।
हंसां बीजं, हंसीं शक्तिः । हंसूं कीलकम् ।
परमहंस प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ 1

करन्यासः -
हंसां अगुंष्ठाभ्यां नमः । हंसीं तर्जनीभ्यां नमः ।
हंसूं - मद्ध्यमाभ्यां नमः । हंसैं - अनामिकाभ्यां नमः ।
हंसौं - कनिष्ठिकाभ्यां नमः । हंसः-करतल करपृष्ठाभ्यां नमः । 2

हृदयादि न्यासः -
हंसां - हृदयाय नमः । हंसीं - शिरसे स्वाहा ।
हंसूं - शिखायै वषट् । हंसैं - कवचाय हुम् ।
हंसौं - नेत्रत्रयाय वौषट् । हंसः - अस्त्राय फट् ॥
ॐ भूर्भुव॒स्सुव॒रोमिति दिग्बंधः । 3

ध्यानं -
गमागमस्थं गमनादिशून्यं चि-द्रूपदीपं तिमिरापहारम् ।
पश्यामि ते सर्वजनांतरस्थं नमामि हंसं परमात्मरूपम् ॥ 4

देहो देवालयः प्रोक्तो जीवो देवः सनातनः ।
त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् ॥

हं॒स हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि ।
तन्नो॑ हंसः प्रचो॒दया᳚त् ॥ 5
(इति त्रिवारं जपित्वा)

हंस हं॒सेति यो ब्रूया-धंसो (ब्रूयाद्धंसो) नाम सदाशिवः ।
एवं न्यास विधिं कृत्वा ततः संपुटमारभेत् ॥ 6




Browse Related Categories: