View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री दक्षिणामूर्थि सहस्रनाम स्तोत्रम्

अस्य श्रीदक्षिणामूर्ति सहस्रनामस्तोत्रस्य ब्रह्मा ऋषिः अनुष्टुप् छंदः श्रीदक्षिणामूर्तिर्देवता ॐ बीजं स्वाहा शक्तिः नमः कीलकं मेधादक्षिणामूर्ति प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ह्रामित्यादिना न्यासः ॥

ध्यानं
सिद्धितोयनिधेर्मध्ये रत्नग्रैवे मनोरमे ।
कदंबवनिकामध्ये श्रीमद्वटतरोरधः ॥ 1 ॥

आसीनमाद्यं पुरुषमादिमध्यांतवर्जितम् ।
शुद्धस्फटिकगोक्षीरशरत्पूर्णेंदुशेखरम् ॥ 2 ॥

दक्षिणे चाक्षमालां च वह्निं वै वामहस्तके ।
जटामंडलसंलग्नशीतांशुकरमंडितम् ॥ 3 ॥

नागहारधरं चारुकंकणैः कटिसूत्रकैः ।
विराजमानवृषभं व्याघ्रचर्मांबरावृतम् ॥ 4 ॥

चिंतामणिमहाबृंदैः कल्पकैः कामधेनुभिः ।
चतुःषष्टिकलाविद्यामूर्तिभिः श्रुतिमस्तकैः ॥ 5 ॥

रत्नसिंहासने साधुद्वीपिचर्मसमायुते ।
तत्राष्टदलपद्मस्य कर्णिकायां सुशोभने ॥ 6 ॥

वीरासने समासीनं लंबदक्षपदांबुजम् ।
ज्ञानमुद्रां पुस्तकं च वराभीतिधरं हरम् ॥ 7 ॥

पादमूलसमाक्रांतमहापस्मारवैभवम् ।
रुद्राक्षमालाभरणभूषितं भूतिभासुरम् ॥ 8 ॥

गजचर्मोत्तरीयं च मंदस्मितमुखांबुजम् ।
सिद्धबृंदैर्योगिबृंदैर्मुनिबृंदैर्निषेवितम् ॥ 9 ॥

आराध्यमानवृषभमग्नींदुरविलोचनम् ।
पूरयंतं कृपादृष्ट्या पुमर्थानाश्रिते जने ॥ 10 ॥

एवं विभावयेदीशं सर्वविद्याकलानिधिम् ॥ 11 ॥

लमित्यादि पंचोपचाराः ॥

स्तोत्रं
ओम् । देवदेवो महादेवो देवानामपि देशिकः ।
दक्षिणामूर्तिरीशानो दयापूरितदिङ्मुखः ॥ 1 ॥

कैलासशिखरोत्तुंगकमनीयनिजाकृतिः ।
वटद्रुमतटीदिव्यकनकासनसंस्थितः ॥ 2 ॥

कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतिः ।
पाटीरपांडुराकारपरिपूर्णसुधाधिपः ।3 ॥

जटाकोटीरघटितसुधाकरसुधाप्लुतः ।
पश्यल्ललाटसुभगसुंदरभ्रूविलासवान् ॥ 4 ॥

कटाक्षसरणीनिर्यत्करुणापूर्णलोचनः ।
कर्णालोलतटिद्वर्णकुंडलोज्ज्वलगंडभूः ॥ 5 ॥

तिलप्रसूनसंकाशनासिकापुटभासुरः ।
मंदस्मितस्फुरन्मुग्धमहनीयमुखांबुजः ॥ 6 ॥

कुंदकुड्मलसंस्पर्धिदंतपंक्तिविराजितः ।
सिंदूरारुणसुस्निग्धकोमलाधरपल्लवः ॥ 7 ॥

शंखाटोपगलद्दिव्यगलवैभवमंजुलः ।
करकंदलितज्ञानमुद्रारुद्राक्षमालिकः ॥ 8 ॥

अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुः ।
विशालरुचिरोरस्कवलिमत्पल्लवोदरः ॥ 9 ॥

बृहत्कटिनितंबाढ्यः पीवरोरुद्वयान्वितः ।
जंघाविजिततूणीरस्तुंगगुल्फयुगोज्ज्वलः ॥ 10 ॥

मृदुपाटलपादाब्जश्चंद्राभनखदीधितिः ।
अपसव्योरुविन्यस्तसव्यपादसरोरुहः ॥ 11 ॥

घोरापस्मारनिक्षिप्तधीरदक्षपदांबुजः ।
सनकादिमुनिध्येयः सर्वाभरणभूषितः ॥ 12 ॥

दिव्यचंदनलिप्तांगश्चारुहासपरिष्कृतः ।
कर्पूरधवलाकारः कंदर्पशतसुंदरः ॥ 13 ॥

कात्यायनीप्रेमनिधिः करुणारसवारिधिः ।
कामितार्थप्रदः श्रीमत्कमलावल्लभप्रियः ॥ 14 ॥

कटाक्षितात्मविज्ञानः कैवल्यानंदकंदलः ।
मंदहाससमानेंदुश्छिन्नाज्ञानतमस्ततिः ॥ 15 ॥

संसारानलसंतप्तजनतामृतसागरः ।
गंभीरहृदयांभोजनभोमणिनिभाकृतिः ॥ 16 ॥

निशाकरकराकारवशीकृतजगत्त्रयः ।
तापसाराध्यपादाब्जस्तरुणानंदविग्रहः ॥ 17 ॥

भूतिभूषितसर्वांगो भूताधिपतिरीश्वरः ।
वदनेंदुस्मितज्योत्स्नानिलीनत्रिपुराकृतिः ॥ 18 ॥

तापत्रयतमोभानुः पापारण्यदवानलः ।
संसारसागरोद्धर्ता हंसाग्र्योपास्यविग्रहः ॥ 19 ॥

ललाटहुतभुग्दग्धमनोभवशुभाकृतिः ।
तुच्छीकृतजगज्जालस्तुषारकरशीतलः ॥ 20 ॥

अस्तंगतसमस्तेच्छो निस्तुलानंदमंथरः ।
धीरोदात्तगुणाधार उदारवरवैभवः ॥ 21 ॥

अपारकरुणामूर्तिरज्ञानध्वांतभास्करः ।
भक्तमानसहंसाग्र्यो भवामयभिषक्तमः ॥ 22 ॥

योगींद्रपूज्यपादाब्जो योगपट्टोल्लसत्कटिः ।
शुद्धस्फटिकसंकाशो बद्धपन्नगभूषणः ॥ 23 ॥

नानामुनिसमाकीर्णो नासाग्रन्यस्तलोचनः ।
वेदमूर्धैकसंवेद्यो नादध्यानपरायणः ॥ 24 ॥

धराधरेंदुरानंदसंदोहरससागरः ।
द्वैतबृंदविमोहांध्यपराकृतदृगद्भुतः ॥ 25 ॥

प्रत्यगात्मा परंज्योतिः पुराणः परमेश्वरः ।
प्रपंचोपशमः प्राज्ञः पुण्यकीर्तिः पुरातनः ॥ 26 ॥

सर्वाधिष्ठानसन्मात्रः स्वात्मबंधहरो हरः ।
सर्वप्रेमनिजाहासः सर्वानुग्रहकृच्छिवः ॥ 27 ॥

सर्वेंद्रियगुणाभासः सर्वभूतगुणाश्रयः ।
सच्चिदानंदपूर्णात्मा सर्वभूतगुणाश्रयः ॥ 28 ॥

सर्वभूतांतरः साक्षी सर्वज्ञः सर्वकामदः ।
सनकादिमहायोगिसमाराधितपादुकः ॥ 29 ॥

आदिदेवो दयासिंधुः शिक्षितासुरविग्रहः ।
यक्षकिन्नरगंधर्वस्तूयमानात्मवैभवः ॥ 30 ॥

ब्रह्मादिदेवविनुतो योगमायानियोजकः ।
शिवयोगी शिवानंदः शिवभक्तसमुद्धरः ॥ 31 ॥

वेदांतसारसंदोहः सर्वसत्त्वावलंबनः ।
वटमूलाश्रयो वाग्मी मान्यो मलयजप्रियः ॥ 32 ॥

सुशीलो वांछितार्थज्ञः प्रसन्नवदनेक्षणः ।
नृत्तगीतकलाभिज्ञः कर्मवित्कर्ममोचकः ॥ 33 ॥

कर्मसाक्षी कर्ममयः कर्मणां च फलप्रदः ।
ज्ञानदाता सदाचारः सर्वोपद्रवमोचकः ॥ 34 ॥

अनाथनाथो भगवानाश्रितामरपादपः ।
वरप्रदः प्रकाशात्मा सर्वभूतहिते रतः ॥ 35 ॥

व्याघ्रचर्मासनासीन आदिकर्ता महेश्वरः ।
सुविक्रमः सर्वगतो विशिष्टजनवत्सलः ॥ 36 ॥

चिंताशोकप्रशमनो जगदानंदकारकः ।
रश्मिमान् भुवनेशश्च देवासुरसुपूजितः ॥ 37 ॥

मृत्युंजयो व्योमकेशः षट्त्रिंशत्तत्त्वसंग्रहः ।
अज्ञातसंभवो भिक्षुरद्वितीयो दिगंबरः ॥ 38 ॥

समस्तदेवतामूर्तिः सोमसूर्याग्निलोचनः ।
सर्वसाम्राज्यनिपुणो धर्ममार्गप्रवर्तकः ॥ 39 ॥

विश्वाधिकः पशुपतिः पशुपाशविमोचकः ।
अष्टमूर्तिर्दीप्तमूर्तिर्नामोच्चारणमुक्तिदः ॥ 40 ॥

सहस्रादित्यसंकाशः सदाषोडशवार्षिकः ।
दिव्यकेलीसमायुक्तो दिव्यमाल्यांबरावृतः ॥ 41 ॥

अनर्घरत्नसंपूर्णो मल्लिकाकुसुमप्रियः ।
तप्तचामीकराकारो जितदावानलाकृतिः ॥ 42 ॥

निरंजनो निर्विकारो निजावासो निराकृतिः ।
जगद्गुरुर्जगत्कर्ता जगदीशो जगत्पतिः ॥ 43 ॥

कामहंता काममूर्तिः कल्याणवृषवाहनः ।
गंगाधरो महादेवो दीनबंधविमोचकः ॥ 44 ॥

धूर्जटिः खंडपरशुः सद्गुणो गिरिजासखः ।
अव्ययो भूतसेनेशः पापघ्नः पुण्यदायकः ॥ 45 ॥

उपदेष्टा दृढप्रज्ञो रुद्रो रोगविनाशनः ।
नित्यानंदो निराधारो हरो देवशिखामणिः ॥ 46 ॥

प्रणतार्तिहरः सोमः सांद्रानंदो महामतिः ।
आश्चर्यवैभवो देवः संसारार्णवतारकः ॥ 47 ॥

यज्ञेशो राजराजेशो भस्मरुद्राक्षलांछनः ।
अनंतस्तारकः स्थाणुः सर्वविद्येश्वरो हरिः ॥ 48 ॥

विश्वरूपो विरूपाक्षः प्रभुः परिबृढो दृढः ।
भव्यो जितारिषड्वर्गो महोदारो विषाशनः ॥ 49 ॥

सुकीर्तिरादिपुरुषो जरामरणवर्जितः ।
प्रमाणभूतो दुर्ज्ञेयः पुण्यः परपुरंजयः ॥ 50 ॥

गुणाकरो गुणश्रेष्ठः सच्चिदानंदविग्रहः ।
सुखदः कारणं कर्ता भवबंधविमोचकः ॥ 51 ॥

अनिर्विण्णो गुणग्राही निष्कलंकः कलंकहा ।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ 52 ॥

चराचरात्मा सूक्ष्मात्मा विश्वकर्मा तमोपहृत् ।
भुजंगभूषणो भर्गस्तरुणः करुणालयः ॥ 53 ॥

अणिमादिगुणोपेतो लोकवश्यविधायकः ।
योगपट्टधरो मुक्तो मुक्तानां परमा गतिः ॥ 54 ॥

गुरुरूपधरः श्रीमत्परमानंदसागरः ।
सहस्रबाहुः सर्वेशः सहस्रावयवान्वितः ॥ 55 ॥

सहस्रमूर्धा सर्वात्मा सहस्राक्षः सहस्रपात् ।
निराभासः सूक्ष्मतनुर्हृदि ज्ञातः परात्परः ॥ 56 ॥

सर्वात्मगः सर्वसाक्षी निःसंगो निरुपद्रवः ।
निष्कलः सकलाध्यक्षश्चिन्मयस्तमसः परः ॥ 57 ॥

ज्ञानवैराग्यसंपन्नो योगानंदमयः शिवः ।
शाश्वतैश्वर्यसंपूर्णो महायोगीश्वरेश्वरः ॥ 58 ॥

सहस्रशक्तिसंयुक्तः पुण्यकायो दुरासदः ।
तारकब्रह्मसंपूर्णस्तपस्विजनसंवृतः ॥ 59 ॥

विधींद्रामरसंपूज्यो ज्योतिषां ज्योतिरुत्तमः ।
निरक्षरो निरालंबः स्वात्मारामो विकर्तनः ॥ 60 ॥

निरवद्यो निरातंको भीमो भीमपराक्रमः ।
वीरभद्रः पुरारातिर्जलंधरशिरोहरः ॥ 61 ॥

अंधकासुरसंहर्ता भगनेत्रभिदद्भुतः ।
विश्वग्रासोऽधर्मशत्रुर्ब्रह्मज्ञानैकमंथरः ॥ 62 ॥

अग्रेसरस्तीर्थभूतः सितभस्मावकुंठनः ।
अकुंठमेधाः श्रीकंठो वैकुंठपरमप्रियः ॥ 63 ॥

ललाटोज्ज्वलनेत्राब्जस्तुषारकरशेखरः ।
गजासुरशिरश्छेत्ता गंगोद्भासितमूर्धजः ॥ 64 ॥

कल्याणाचलकोदंडः कमलापतिसायकः ।
वारांशेवधितूणीरः सरोजासनसारथिः ॥ 65 ॥

त्रयीतुरंगसंक्रांतो वासुकिज्याविराजितः ।
रवींदुचरणाचारिधरारथविराजितः ॥ 66 ॥

त्रय्यंतप्रग्रहोदारचारुघंटारवोज्ज्वलः ।
उत्तानपर्वलोमाढ्यो लीलाविजितमन्मथः ॥ 67 ॥

जातुप्रपन्नजनताजीवनोपायनोत्सुकः ।
संसारार्णवनिर्मग्नसमुद्धरणपंडितः ॥ 68 ॥

मदद्विरदधिक्कारिगतिमंजुलवैभवः ।
मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणः ॥ 69 ॥

कैवल्योदधिकल्लोललीलातांडवपंडितः ।
विष्णुर्जिष्णुर्वासुदेवः प्रभविष्णुः पुरातनः ॥ 70 ॥

वर्धिष्णुर्वरदो वैद्यो हरिर्नारायणोऽच्युतः ।
अज्ञानवनदावाग्निः प्रज्ञाप्रासादभूपतिः ॥ 71 ॥

सर्पभूषितसर्वांगः कर्पूरोज्ज्वलिताकृतिः ।
अनादिमध्यनिधनो गिरीशो गिरिजापतिः ॥ 72 ॥

वीतरागो विनीतात्मा तपस्वी भूतभावनः ।
देवासुरगुरुध्येयो देवासुरनमस्कृतः ॥ 73 ॥

देवादिदेवो देवर्षिर्देवासुरवरप्रदः ।
सर्वदेवमयोऽचिंत्यो देवात्मा चात्मसंभवः ॥ 74 ॥

निर्लेपो निष्प्रपंचात्मा निर्विघ्नो विघ्ननाशकः ।
एकज्योतिर्निरातंको व्याप्तमूर्तिरनाकुलः ॥ 75 ॥

निरवद्यपदोपाधिर्विद्याराशिरनुत्तमः ।
नित्यानंदः सुराध्यक्षो निःसंकल्पो निरंजनः ॥ 76 ॥

निष्कलंको निराकारो निष्प्रपंचो निरामयः ।
विद्याधरो वियत्केशो मार्कंडेयवरप्रदः ॥ 77 ॥

भैरवो भैरवीनाथः कामदः कमलासनः ।
वेदवेद्यः सुरानंदो लसज्ज्योतिः प्रभाकरः ॥ 78 ॥

चूडामणिः सुराधीशो यज्ञगेयो हरिप्रियः ।
निर्लेपो नीतिमान् सूत्री श्रीहालाहलसुंदरः ॥ 79 ॥

धर्मदक्षो महाराजः किरीटी वंदितो गुहः ।
माधवो यामिनीनाथः शंबरः शबरीप्रियः ॥ 80 ॥

संगीतवेत्ता लोकज्ञः शांतः कलशसंभवः ।
ब्रह्मण्यो वरदो नित्यः शूली गुरुवरो हरः ॥ 81 ॥

मार्तांडः पुंडरीकाक्षो लोकनायकविक्रमः ।
मुकुंदार्च्यो वैद्यनाथः पुरंदरवरप्रदः ॥ 82 ॥

भाषाविहीनो भाषाज्ञो विघ्नेशो विघ्ननाशनः ।
किन्नरेशो बृहद्भानुः श्रीनिवासः कपालभृत् ॥ 83 ॥

विजयो भूतभावज्ञो भीमसेनो दिवाकरः ।
बिल्वप्रियो वसिष्ठेशः सर्वमार्गप्रवर्तकः ॥ 84 ॥

ओषधीशो वामदेवो गोविंदो नीललोहितः ।
षडर्धनयनः श्रीमन्महादेवो वृषध्वजः ॥ 85 ॥

कर्पूरदीपिकालोलः कर्पूररसचर्चितः ।
अव्याजकरुणामूर्तिस्त्यागराजः क्षपाकरः ॥ 86 ॥

आश्चर्यविग्रहः सूक्ष्मः सिद्धेशः स्वर्णभैरवः ।
देवराजः कृपासिंधुरद्वयोऽमितविक्रमः ॥ 87 ॥

निर्भेदो नित्यसत्वस्थो निर्योगक्षेम आत्मवान् ।
निरपायो निरासंगो निःशब्दो निरुपाधिकः ॥ 88 ॥

भवः सर्वेश्वरः स्वामी भवभीतिविभंजनः ।
दारिद्र्यतृणकूटाग्निर्दारितासुरसंततिः ॥ 89 ॥

मुक्तिदो मुदितोऽकुब्जो धार्मिको भक्तवत्सलः ।
अभ्यासातिशयज्ञेयश्चंद्रमौलिः कलाधरः ॥ 90 ॥

महाबलो महावीर्यो विभुः श्रीशः शुभप्रदः ।
सिद्धः पुराणपुरुषो रणमंडलभैरवः ॥ 91 ॥

सद्योजातो वटारण्यवासी पुरुषवल्लभः ।
हरिकेशो महात्राता नीलग्रीवः सुमंगलः ॥ 92 ॥

हिरण्यबाहुस्तीक्ष्णांशुः कामेशः सोमविग्रहः ।
सर्वात्मा सर्वकर्ता च तांडवो मुंडमालिकः ॥ 93 ॥

अग्रगण्यः सुगंभीरो देशिको वैदिकोत्तमः ।
प्रसन्नदेवो वागीशश्चिंतातिमिरभास्करः ॥ 94 ॥

गौरीपतिस्तुंगमौलिर्मखराजो महाकविः ।
श्रीधरः सर्वसिद्धेशो विश्वनाथो दयानिधिः ॥ 95 ॥

अंतर्मुखो बहिर्दृष्टिः सिद्धवेषमनोहरः ।
कृत्तिवासाः कृपासिंधुर्मंत्रसिद्धो मतिप्रदः ॥ 96 ॥

महोत्कृष्टः पुण्यकरो जगत्साक्षी सदाशिवः ।
महाक्रतुर्महायज्वा विश्वकर्मा तपोनिधिः ॥ 97 ॥

छंदोमयो महाज्ञानी सर्वज्ञो देववंदितः ।
सार्वभौमः सदानंदः करुणामृतवारिधिः ॥ 98 ॥

कालकालः कलिध्वंसी जरामरणनाशकः ।
शितिकंठश्चिदानंदो योगिनीगणसेवितः ॥ 99 ॥

चंडीशः शुकसंवेद्यः पुण्यश्लोको दिवस्पतिः ।
स्थायी सकलतत्त्वात्मा सदासेवकवर्धनः ॥ 100 ॥

रोहिताश्वः क्षमारूपी तप्तचामीकरप्रभः ।
त्रियंबको वररुचिर्देवदेवश्चतुर्भुजः ॥ 101 ॥

विश्वंभरो विचित्रांगो विधाता पुरशासनः ।
सुब्रह्मण्यो जगत्स्वामी रोहिताक्षः शिवोत्तमः ॥ 102 ॥

नक्षत्रमालाभरणो मघवान् अघनाशनः ।
विधिकर्ता विधानज्ञः प्रधानपुरुषेश्वरः ॥ 103 ॥

चिंतामणिः सुरगुरुर्ध्येयो नीराजनप्रियः ।
गोविंदो राजराजेशो बहुपुष्पार्चनप्रियः ॥ 104 ॥

सर्वानंदो दयारूपी शैलजासुमनोहरः ।
सुविक्रमः सर्वगतो हेतुसाधनवर्जितः ॥ 105 ॥

वृषांको रमणीयांगः सदंघ्रिः सामपारगः ।
मंत्रात्मा कोटिकंदर्पसौंदर्यरसवारिधिः ॥ 106 ॥

यज्ञेशो यज्ञपुरुषः सृष्टिस्थित्यंतकारणम् ।
परहंसैकजिज्ञास्यः स्वप्रकाशस्वरूपवान् ॥ 107 ॥

मुनिमृग्यो देवमृग्यो मृगहस्तो मृगेश्वरः ।
मृगेंद्रचर्मवसनो नरसिंहनिपातनः ॥ 108 ॥

मुनिवंद्यो मुनिश्रेष्ठो मुनिबृंदनिषेवितः ।
दुष्टमृत्युरदुष्टेहो मृत्युहा मृत्युपूजितः ॥ 109 ॥

अव्यक्तोऽंबुजजन्मादिकोटिकोटिसुपूजितः ।
लिंगमूर्तिरलिंगात्मा लिंगात्मा लिंगविग्रहः ॥ 110 ॥

यजुर्मूर्तिः साममूर्तिरृङ्मूर्तिर्मूर्तिवर्जितः ।
विश्वेशो गजचर्मैकचेलांचितकटीतटः ॥ 111 ॥

पावनांतेवसद्योगिजनसार्थसुधाकरः ।
अनंतसोमसूर्याग्निमंडलप्रतिमप्रभः ॥ 112 ॥

चिंताशोकप्रशमनः सर्वविद्याविशारदः ।
भक्तविज्ञप्तिसंधाता कर्ता गिरिवराकृतिः ॥ 113 ॥

ज्ञानप्रदो मनोवासः क्षेम्यो मोहविनाशनः ।
सुरोत्तमश्चित्रभानुः सदावैभवतत्परः ॥ 114 ॥

सुहृदग्रेसरः सिद्धज्ञानमुद्रो गणाधिपः ।
आगमश्चर्मवसनो वांछितार्थफलप्रदः ॥ 115 ॥

अंतर्हितोऽसमानश्च देवसिंहासनाधिपः ।
विवादहंता सर्वात्मा कालः कालविवर्जितः ॥ 116 ॥

विश्वातीतो विश्वकर्ता विश्वेशो विश्वकारणम् ।
योगिध्येयो योगनिष्ठो योगात्मा योगवित्तमः ॥ 117 ॥

ॐकाररूपो भगवान् बिंदुनादमयः शिवः ।
चतुर्मुखादिसंस्तुत्यश्चतुर्वर्गफलप्रदः ॥ 118 ॥

सह्याचलगुहावासी साक्षान्मोक्षरसामृतः ।
दक्षाध्वरसमुच्छेत्ता पक्षपातविवर्जितः ॥ 119 ॥

ॐकारवाचकः शंभुः शंकरः शशिशीतलः ।
पंकजासनसंसेव्यः किंकरामरवत्सलः ॥ 120 ॥

नतदौर्भाग्यतूलाग्निः कृतकौतुकमंगलः ।
त्रिलोकमोहनः श्रीमत्त्रिपुंड्रांकितमस्तकः ॥ 121 ॥

क्रौंचारिजनकः श्रीमद्गणनाथसुतान्वितः ।
अद्भुतानंतवरदोऽपरिच्छिनात्मवैभवः ॥ 122 ॥

इष्टापूर्तप्रियः शर्व एकवीरः प्रियंवदः ।
ऊहापोहविनिर्मुक्त ॐकारेश्वरपूजितः ॥ 123 ॥

रुद्राक्षवक्षा रुद्राक्षरूपो रुद्राक्षपक्षकः ।
भुजगेंद्रलसत्कंठो भुजंगाभरणप्रियः ॥ 124 ॥

कल्याणरूपः कल्याणः कल्याणगुणसंश्रयः ।
सुंदरभ्रूः सुनयनः सुललाटः सुकंधरः ॥ 125 ॥

विद्वज्जनाश्रयो विद्वज्जनस्तव्यपराक्रमः ।
विनीतवत्सलो नीतिस्वरूपो नीतिसंश्रयः ॥ 126 ॥

अतिरागी वीतरागी रागहेतुर्विरागवित् ।
रागहा रागशमनो रागदो रागिरागवित् ॥ 127 ॥

मनोन्मनो मनोरूपो बलप्रमथनो बलः ।
विद्याकरो महाविद्यो विद्याविद्याविशारदः ॥ 128 ॥

वसंतकृद्वसंतात्मा वसंतेशो वसंतदः ।
प्रावृट्कृत् प्रावृडाकारः प्रावृट्कालप्रवर्तकः ॥ 129 ॥

शरन्नाथो शरत्कालनाशकः शरदाश्रयः ।
कुंदमंदारपुष्पौघलसद्वायुनिषेवितः ॥ 130 ॥

दिव्यदेहप्रभाकूटसंदीपितदिगंतरः ।
देवासुरगुरुस्तव्यो देवासुरनमस्कृतः ॥ 131 ॥

वामांगभागविलसच्छ्यामलावीक्षणप्रियः ।
कीर्त्याधारः कीर्तिकरः कीर्तिहेतुरहेतुकः ॥ 132 ॥

शरणागतदीनार्तपरित्राणपरायणः ।
महाप्रेतासनासीनो जितसर्वपितामहः ॥ 133 ॥

मुक्तादामपरीतांगो नानागानविशारदः ।
विष्णुब्रह्मादिवंद्यांघ्रिर्नानादेशैकनायकः ॥ 134 ॥

धीरोदात्तो महाधीरो धैर्यदो धैर्यवर्धकः ।
विज्ञानमय आनंदमयः प्राणमयोऽन्नदः ॥ 135 ॥

भवाब्धितरणोपायः कविर्दुःस्वप्ननाशनः ।
गौरीविलाससदनः पिशचानुचरावृतः ॥ 136 ॥

दक्षिणाप्रेमसंतुष्टो दारिद्र्यवडवानलः ।
अद्भुतानंतसंग्रामो ढक्कावादनतत्परः ॥ 137 ॥

प्राच्यात्मा दक्षिणाकारः प्रतीच्यात्मोत्तराकृतिः ।
ऊर्ध्वाद्यन्यदिगाकारो मर्मज्ञः सर्वशिक्षकः ॥ 138 ॥

युगावहो युगाधीशो युगात्मा युगनायकः ।
जंगमः स्थावराकारः कैलासशिखरप्रियः ॥ 139 ॥

हस्तराजत्पुंडरीकः पुंडरीकनिभेक्षणः ।
लीलाविडंबितवपुर्भक्तमानसमंडितः ॥ 140 ॥

बृंदारकप्रियतमो बृंदारकवरार्चितः ।
नानाविधानेकरत्नलसत्कुंडलमंडितः ॥ 141 ॥

निःसीममहिमा नित्यलीलाविग्रहरूपधृत् ।
चंदनद्रवदिग्धांगश्चांपेयकुसुमार्चितः ॥ 142 ॥

समस्तभक्तसुखदः परमाणुर्महाह्रदः ।
अलौकिको दुष्प्रधर्षः कपिलः कालकंधरः ॥ 143 ॥

कर्पूरगौरः कुशलः सत्यसंधो जितेंद्रियः ।
शाश्वतैश्वर्यविभवः पोषकः सुसमाहितः ॥ 144 ॥

महर्षिनाथितो ब्रह्मयोनिः सर्वोत्तमोत्तमः ।
भूमिभारार्तिसंहर्ता षडूर्मिरहितो मृडः ॥ 145 ॥

त्रिविष्टपेश्वरः सर्वहृदयांबुजमध्यगः ।
सहस्रदलपद्मस्थः सर्ववर्णोपशोभितः ॥ 146 ॥

पुण्यमूर्तिः पुण्यलभ्यः पुण्यश्रवणकीर्तनः ।
सूर्यमंडलमध्यस्थश्चंद्रमंडलमध्यगः ॥ 147 ॥

सद्भक्तध्याननिगलः शरणागतपालकः ।
श्वेतातपत्ररुचिरः श्वेतचामरवीजितः ॥ 148 ॥

सर्वावयवसंपूर्णः सर्वलक्षणलक्षितः ।
सर्वमंगलमांगल्यः सर्वकारणकारणः ॥ 149 ॥

आमोदो मोदजनकः सर्पराजोत्तरीयकः ।
कपाली कोविदः सिद्धकांतिसंवलिताननः ॥ 150 ॥

सर्वसद्गुरुसंसेव्यो दिव्यचंदनचर्चितः ।
विलासिनीकृतोल्लास इच्छाशक्तिनिषेवितः ॥ 151 ॥

अनंतानंदसुखदो नंदनः श्रीनिकेतनः ।
अमृताब्धिकृतावासो नित्यक्लीबो निरामयः ॥ 152 ॥

अनपायोऽनंतदृष्टिरप्रमेयोऽजरोऽमरः ।
तमोमोहप्रतिहतिरप्रतर्क्योऽमृतोऽक्षरः ॥ 153 ॥

अमोघबुद्धिराधार आधाराधेयवर्जितः ।
ईषणात्रयनिर्मुक्त इहामुत्रविवर्जितः ॥ 154 ॥

ऋग्यजुःसामनयनो बुद्धिसिद्धिसमृद्धिदः ।
औदार्यनिधिरापूर्ण ऐहिकामुष्मिकप्रदः ॥ 155 ॥

शुद्धसन्मात्रसंविद्धीस्वरूपसुखविग्रहः ।
दर्शनप्रथमाभासो दृष्टिदृश्यविवर्जितः ॥ 156 ॥

अग्रगण्योऽचिंत्यरूपः कलिकल्मषनाशनः ।
विमर्शरूपो विमलो नित्यरूपो निराश्रयः ॥ 157 ॥

नित्यशुद्धो नित्यबुद्धो नित्यमुक्तोऽपराकृतः ।
मैत्र्यादिवासनालभ्यो महाप्रलयसंस्थितः ॥ 158 ॥

महाकैलासनिलयः प्रज्ञानघनविग्रहः ।
श्रीमान् व्याघ्रपुरावासो भुक्तिमुक्तिप्रदायकः ॥ 159 ॥

जगद्योनिर्जगत्साक्षी जगदीशो जगन्मयः ।
जपो जपपरो जप्यो विद्यासिंहासनप्रभुः ॥ 160 ॥

तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वंपदनिरूपितः ।
दिक्कालाद्यनवच्छिन्नः सहजानंदसागरः ॥ 161 ॥

प्रकृतिः प्राकृतातीतो विज्ञानैकरसाकृतिः ।
निःशंकमतिदूरस्थश्चैत्यचेतनचिंतनः ॥ 162 ॥

तारकानां हृदंतस्थस्तारकस्तारकांतकः ।
ध्यानैकप्रकटो ध्येयो ध्यानी ध्यानविभूषणः ॥ 163 ॥

परं व्योम परं धाम परमात्मा परं पदम् ।
पूर्णानंदः सदानंदो नादमध्यप्रतिष्ठितः ॥ 164 ॥

प्रमाविपर्ययातीतः प्रणताज्ञाननाशकः ।
बाणार्चितांघ्रिर्बहुदो बालकेलिकुतूहली ॥ 165 ॥

ब्रह्मरूपी ब्रह्मपदं ब्रह्मविद्ब्राह्मणप्रियः ।
भूक्षेपदत्तलक्ष्मीको भ्रूमध्यध्यानलक्षितः ॥ 166 ॥

यशस्करो रत्नगर्भो महाराज्यसुखप्रदः ।
शब्दब्रह्म शमप्राप्यो लाभकृल्लोकविश्रुतः ॥ 167 ॥

शास्ता शिवाद्रिनिलयः शरण्यो याजकप्रियः ।
संसारवैद्यः सर्वज्ञः सभेषजविभेषजः ॥ 168 ॥

मनोवचोभिरग्राह्यः पंचकोशविलक्षणः ।
अवस्थात्रयनिर्मुक्तस्त्ववस्थासाक्षितुर्यकः ॥ 169 ॥

पंचभूतादिदूरस्थः प्रत्यगेकरसोऽव्ययः ।
षट्चक्रांतर्गतोल्लासी षड्विकारविवर्जितः ॥ 170 ॥

विज्ञानघनसंपूर्णो वीणावादनतत्परः ।
नीहाराकारगौरांगो महालावण्यवारिधिः ॥ 171 ॥

पराभिचारशमनः षडध्वोपरिसंस्थितः ।
सुषुम्नामार्गसंचारी बिसतंतुनिभाकृतिः ॥ 172 ॥

पिनाकी लिंगरूपश्रीः मंगलावयवोज्ज्वलः ।
क्षेत्राधिपः सुसंवेद्यः श्रीप्रदो विभवप्रदः ॥ 173 ॥

सर्ववश्यकरः सर्वदोषहा पुत्रपौत्रदः ।
तैलदीपप्रियस्तैलपक्वान्नप्रीतमानसः ॥ 174 ॥

तैलाभिषेकसंतुष्टस्तिलभक्षणतत्परः ।
आपादकणिकामुक्ताभूषाशतमनोहरः ॥ 175 ॥

शाणोल्लीढमणिश्रेणीरम्यांघ्रिनखमंडलः ।
मणिमंजीरकिरणकिंजल्कितपदांबुजः ॥ 176 ॥

अपस्मारोपरिन्यस्तसव्यपादसरोरुहः ।
कंदर्पतूणाभजंघो गुल्फोदंचितनूपुरः ॥ 177 ॥

करिहस्तोपमेयोरुरादर्शोज्ज्वलजानुभृत् ।
विशंकटकटिन्यस्तवाचालमणिमेखलः ॥ 178 ॥

आवर्तनाभिरोमालिवलिमत्पल्लवोदरः ।
मुक्ताहारलसत्तुंगविपुलोरस्करंजितः ॥ 179 ॥

वीरासनसमासीनो वीणापुस्तोल्लसत्करः ।
अक्षमालालसत्पाणिश्चिन्मुद्रितकरांबुजः ॥ 180 ॥

माणिक्यकंकणोल्लासिकरांबुजविराजितः ।
अनर्घरत्नग्रैवेयविलसत्कंबुकंधरः ॥ 181 ॥

अनाकलितसादृश्यचिबुकश्रीविराजितः ।
मुग्धस्मितपरीपाकप्रकाशितरदांकुरः ॥ 182 ॥

चारुचांपेयपुष्पाभनासिकापुटरंजितः ।
वरवज्रशिलादर्शपरिभाविकपोलभूः ॥ 183 ॥

कर्णद्वयोल्लसद्दिव्यमणिकुंडलमंडितः ।
करुणालहरीपूर्णकर्णांतायतलोचनः ॥ 184 ॥

अर्धचंद्राभनिटिलपाटीरतिलकोज्ज्वलः ।
चारुचामीकराकारजटाचर्चितचंदनः ।
कैलासशिखरस्फर्धिकमनीयनिजाकृतिः ॥ 185 ॥

इति श्री दक्षिणामूर्ति सहस्रनाम स्तोत्रम् ॥




Browse Related Categories: