View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री महान्यासम् - 5.4. षोडशांग रौद्रीकरणं

ॐ भूर्भुव॒स्सुवः॑ । ॐ अम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
वि॒भूर॑सि प्र॒वाह॑णो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । अं ओम् ।
शिखास्थाने रुद्राय नमः ॥ 1 ॥ (तै.सं.1-3-3-5)

ॐ भूर्भुव॒स्सुवः॑ । ॐ आम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
वह्नि॑रसि हव्य॒वाह॑नो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । आं ओम् ।
शिरस्थाने रुद्राय नमः ॥ 2 ॥ (तै.सं.1-3-3-5)

ॐ भूर्भुव॒स्सुवः॑ । ॐ इम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
श्वा॒त्रो॑सि॒ प्रचे॑ता॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । इं ओम् ।
मूर्ध्निस्थाने रुद्राय नमः ॥ 3 ॥ (तै.सं.1-3-3-5)

ॐ भूर्भुव॒स्सुवः॑ । ॐ ईम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
तु॒थो॑सि वि॒श्ववे॑दा॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । ईं ओम् ।
ललाटस्थाने रुद्राय नमः ॥ 4 ॥ (तै.सं.1-3-3-5)

ॐ भूर्भुव॒स्सुवः॑ । ॐ उम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
उ॒शिग॑सिक॒वी रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । उं ओम् ।
नेत्रयोस्थाने रुद्राय नमः ॥ 5 ॥ (तै.सं.1-3-3-5)

ॐ भूर्भुव॒स्सुवः॑ । ॐ ऊम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अंघा॑रिरसि॒ बंभा॑री॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । ऊं ओम् ।
कर्णयोस्थाने रुद्राय नमः ॥ 6 ॥ (तै.सं.1-3-3-5)

ॐ भूर्भुव॒स्सुवः॑ । ॐ ऋम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अ॒व॒स्युर॑सि॒ दुव॑स्वा॒न् रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । ऋं ओम् ।
मुखस्थाने रुद्राय नमः ॥ 7 ॥ (तै.सं.1-3-3-5)

ॐ भूर्भुव॒स्सुवः॑ । ॐ ॠम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
शुं॒ध्यूर॑सि मार्जा॒लीयो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । ॠं ओम् ।
कंठस्थाने रुद्राय नमः ॥ 8 ॥ (तै.सं.1-3-3-5)

ॐ भूर्भुव॒स्सुवः॑ । ॐ ऌम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
स॒म्राड॑सि कृ॒शानू॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । ऌं ओम् ।
बाह्वोस्थाने रुद्राय नमः ॥ 9 ॥ (तै.सं.1-3-3-5)

ॐ भूर्भुव॒स्सुवः॑ । ॐ ॡम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
प॒रि॒षद्यो॑सि॒ पव॑मानो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । ॡं ओम् ।
हृदिस्थाने रुद्राय नमः ॥ 10 ॥ (तै.सं.1-3-3-5)

ॐ भूर्भुव॒स्सुवः॑ । ॐ एम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
प्र॒तक्वा॑ऽसि॒ नभ॑स्वा॒न् रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । एं ओम् ।
नाभिस्थाने रुद्राय नमः ॥ 11 ॥ (तै.सं.1-3-3-5)

ॐ भूर्भुव॒स्सुवः॑ । ॐ ऐम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
असं॑मृष्टोसि हव्य॒सूदो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । ऐं ओम् ।
कटिस्थाने रुद्राय नमः ॥ 12 ॥ (तै.सं.1-3-3-5)

ॐ भूर्भुव॒स्सुवः॑ । ॐ ओम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ऋ॒तधा॑माऽसि॒ सुव॑र्ज्योती॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । ॐ ओम् ।
ऊरुस्थाने रुद्राय नमः ॥ 13 ॥ (तै.सं.1-3-3-5)

ॐ भूर्भुव॒स्सुवः॑ । ॐ औम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ब्रह्म॑ज्योतिरसि॒ सुव॑र्धामा॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । औं ओम् ।
जानुस्थाने रुद्राय नमः ॥ 14 ॥ (तै.सं.1-3-3-5)

ॐ भूर्भुव॒स्सुवः॑ । ॐ अम् ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अ॒जो᳚ऽस्येक॑पा॒त् रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । अं ओम् ।
जंघास्थाने रुद्राय नमः ॥ 15 ॥ (तै.सं.1-3-3-5)

ॐ भूर्भुव॒स्सुवः॑ । ॐ अः ।
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अहि॑रसि बु॒ध्नियो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॒ नमः॑ शंक॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ॐ नमो भगवते॑ रुद्रा॒य । अः ओम् ।
पादयोः स्थाने रुद्राय नमः ॥ 16 ॥ (तै.सं.1-3-3-5)
[अप उपस्पृश्य]

त्वगस्थिगतैः सर्वपापैः प्रमुच्यते । सर्वभूतेष्वपराजितो भवति । ततो भूतप्रेत पिशाच बद्ध ब्रह्मराक्षस यक्ष यमदूत शाकिनी डाकिनी हाकिनी शत्रु सर्प श्वापद तस्कर ज्वराद्युपद्रवजोपघाताः सर्वे ज्वलंतं पश्यंतु ।
[कर्तस्य वचनम्] मां रक्षंतु ॥
[पुरोहित वचनम्] यजमानग्ं रक्षंतु ॥

-----------इति तृतीयः न्यासः------------
पादाति मूर्धांतं पंचांग न्यासः




Browse Related Categories: