यं यं यं यक्षरूपं दशदिशिविदितं भूमिकंपायमानं
सं सं संहारमूर्तिं शिरमुकुटजटा शेखरं चंद्रबिंबम् ।
दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमं करालं
पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 1 ॥
रं रं रं रक्तवर्णं कटिकटिततनुं तीक्ष्णदंष्ट्राकरालं
घं घं घं घोष घोषं घघघघ घटितं घर्जरं घोरनादम् ।
कं कं कं कालपाशं धृक धृक धृकितं ज्वालितं कामदाहं
तं तं तं दिव्यदेहं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 2 ॥
लं लं लं लं वदंतं लललल ललितं दीर्घजिह्वा करालं
धूं धूं धूं धूम्रवर्णं स्फुटविकटमुखं भास्करं भीमरूपम् ।
रुं रुं रुं रुंडमालं रवितमनियतं ताम्रनेत्रं करालं
नं नं नं नग्नभूषं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 3 ॥
वं वं वं वायुवेगं नतजनसदयं ब्रह्मसारं परंतं
खं खं खं खड्गहस्तं त्रिभुवनविलयं भास्करं भीमरूपम् ।
चं चं चं चलित्वाऽचल चल चलिताच्चालितं भूमिचक्रं
मं मं मं मायिरूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 4 ॥
शं शं शं शंखहस्तं शशिकरधवलं मोक्ष संपूर्ण तेजं
मं मं मं मं महांतं कुलमकुलकुलं मंत्रगुप्तं सुनित्यम् ।
यं यं यं भूतनाथं किलिकिलिकिलितं बालकेलिप्रधानं
अं अं अं अंतरिक्षं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 5 ॥
खं खं खं खड्गभेदं विषममृतमयं कालकालं करालं
क्षं क्षं क्षं क्षिप्रवेगं दहदहदहनं तप्तसंदीप्यमानम् ।
हौं हौं हौंकारनादं प्रकटितगहनं गर्जितैर्भूमिकंपं
वं वं वं वाललीलं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 6 ॥
सं सं सं सिद्धियोगं सकलगुणमखं देवदेवं प्रसन्नं
पं पं पं पद्मनाभं हरिहरमयनं चंद्रसूर्याग्निनेत्रम् ।
ऐं ऐं ऐं ऐश्वर्यनाथं सततभयहरं पूर्वदेवस्वरूपं
रौं रौं रौं रौद्ररूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 7 ॥
हं हं हं हंसयानं हसितकलहकं मुक्तयोगाट्टहासं
नं नं नं नेत्ररूपं शिरमुकुटजटाबंधबंधाग्रहस्तम् । [धंधंधं]
टं टं टं टंकारनादं त्रिदशलटलटं कामगर्वापहारं
भुं भुं भुं भूतनाथं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ 8 ॥
इत्येवं कामयुक्तं प्रपठति नियतं भैरवस्याष्टकं यो
निर्विघ्नं दुःखनाशं सुरभयहरणं डाकिनीशाकिनीनाम् ।
नश्येद्धि व्याघ्रसर्पौ हुतवह सलिले राज्यशंसस्य शून्यं
सर्वा नश्यंति दूरं विपद इति भृशं चिंतनात्सर्वसिद्धिम् ॥ 9 ॥
भैरवस्याष्टकमिदं षाण्मासं यः पठेन्नरः
स याति परमं स्थानं यत्र देवो महेश्वरः ॥ 10 ॥
सिंदूरारुणगात्रं च सर्वजन्मविनिर्मितम् ।
मुकुटाग्र्यधरं देवं भैरवं प्रणमाम्यहम् ॥ 11 ॥
नमो भूतनाथं नमो प्रेतनाथं
नमः कालकालं नमः रुद्रमालम् ।
नमः कालिकाप्रेमलोलं करालं
नमो भैरवं काशिकाक्षेत्रपालम् ॥
इति तीक्ष्णदंष्ट्र कालभैरवाष्टकम् ॥