View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री दक्षिणामूर्थि सहस्र नामावलि

ॐ देवदेवाय नमः ।
ॐ महादेवाय नमः ।
ॐ देवानामपि देशिकाय नमः ।
ॐ दक्षिणामूर्तये नमः ।
ॐ ईशानाय नमः ।
ॐ दयापूरितदिङ्मुखाय नमः ।
ॐ कैलासशिखरोत्तुंगकमनीयनिजाकृतये नमः ।
ॐ वटद्रुमतटीदिव्यकनकासनसंस्थिताय नमः ।
ॐ कटीतटपटीभूतकरिचर्मोज्ज्वलाकृतये नमः ।
ॐ पाटीरपांडुराकारपरिपूर्णसुधाधिपाय नमः ।
ॐ जटाकोटीरघटितसुधाकरसुधाप्लुताय नमः ।
ॐ पश्यल्ललाटसुभगसुंदरभ्रूविलासवते नमः ।
ॐ कटाक्षसरणीनिर्यत्करुणापूर्णलोचनाय नमः ।
ॐ कर्णालोलतटिद्वर्णकुंडलोज्ज्वलगंडभुवे नमः ।
ॐ तिलप्रसूनसंकाशनासिकापुटभासुराय नमः ।
ॐ मंदस्मितस्फुरन्मुग्धमहनीयमुखांबुजाय नमः ।
ॐ कुंदकुड्मलसंस्पर्धिदंतपंक्तिविराजिताय नमः ।
ॐ सिंदूरारुणसुस्निग्धकोमलाधरपल्लवाय नमः ।
ॐ शंखाटोपगलद्दिव्यगलवैभवमंजुलाय नमः ।
ॐ करकंदलितज्ञानमुद्रारुद्राक्षमालिकाय नमः । 20

ॐ अन्यहस्ततलन्यस्तवीणापुस्तोल्लसद्वपुषे नमः ।
ॐ विशालरुचिरोरस्कवलिमत्पल्लवोदराय नमः ।
ॐ बृहत्कटिनितंबाढ्याय नमः ।
ॐ पीवरोरुद्वयान्विताय नमः ।
ॐ जंघाविजिततूणीराय नमः ।
ॐ तुंगगुल्फयुगोज्ज्वलाय नमः ।
ॐ मृदुपाटलपादाब्जाय नमः ।
ॐ चंद्राभनखदीधितये नमः ।
ॐ अपसव्योरुविन्यस्तसव्यपादसरोरुहाय नमः ।
ॐ घोरापस्मारनिक्षिप्तधीरदक्षपदांबुजाय नमः ।
ॐ सनकादिमुनिध्येयाय नमः ।
ॐ सर्वाभरणभूषिताय नमः ।
ॐ दिव्यचंदनलिप्तांगाय नमः ।
ॐ चारुहासपरिष्कृताय नमः ।
ॐ कर्पूरधवलाकाराय नमः ।
ॐ कंदर्पशतसुंदराय नमः ।
ॐ कात्यायनीप्रेमनिधये नमः ।
ॐ करुणारसवारिधये नमः ।
ॐ कामितार्थप्रदाय नमः ।
ॐ श्रीमत्कमलावल्लभप्रियाय नमः । 40

ॐ कटाक्षितात्मविज्ञानाय नमः ।
ॐ कैवल्यानंदकंदलाय नमः ।
ॐ मंदहाससमानेंदवे नमः ।
ॐ छिन्नाज्ञानतमस्ततये नमः ।
ॐ संसारानलसंतप्तजनतामृतसागराय नमः ।
ॐ गंभीरहृदयांभोजनभोमणिनिभाकृतये नमः ।
ॐ निशाकरकराकारवशीकृतजगत्त्रयाय नमः ।
ॐ तापसाराध्यपादाब्जाय नमः ।
ॐ तरुणानंदविग्रहाय नमः ।
ॐ भूतिभूषितसर्वांगाय नमः ।
ॐ भूताधिपतये नमः ।
ॐ ईश्वराय नमः ।
ॐ वदनेंदुस्मितज्योत्स्नानिलीनत्रिपुराकृतये नमः ।
ॐ तापत्रयतमोभानवे नमः ।
ॐ पापारण्यदवानलाय नमः ।
ॐ संसारसागरोद्धर्त्रे नमः ।
ॐ हंसाग्र्योपास्यविग्रहाय नमः ।
ॐ ललाटहुतभुग्दग्धमनोभवशुभाकृतये नमः ।
ॐ तुच्छीकृतजगज्जालाय नमः ।
ॐ तुषारकरशीतलाय नमः । 60

ॐ अस्तंगतसमस्तेच्छाय नमः ।
ॐ निस्तुलानंदमंथराय नमः ।
ॐ धीरोदात्तगुणाधाराय नमः ।
ॐ उदारवरवैभवाय नमः ।
ॐ अपारकरुणामूर्तये नमः ।
ॐ अज्ञानध्वांतभास्कराय नमः ।
ॐ भक्तमानसहंसाग्र्याय नमः ।
ॐ भवामयभिषक्तमाय नमः ।
ॐ योगींद्रपूज्यपादाब्जाय नमः ।
ॐ योगपट्टोल्लसत्कटये नमः ।
ॐ शुद्धस्फटिकसंकाशाय नमः ।
ॐ बद्धपन्नगभूषणाय नमः ।
ॐ नानामुनिसमाकीर्णाय नमः ।
ॐ नासाग्रन्यस्तलोचनाय नमः ।
ॐ वेदमूर्धैकसंवेद्याय नमः ।
ॐ नादध्यानपरायणाय नमः ।
ॐ धराधरेंदवे नमः ।
ॐ आनंदसंदोहरससागराय नमः ।
ॐ द्वैतबृंदविमोहांध्यपराकृतदृगद्भुताय नमः ।
ॐ प्रत्यगात्मने नमः । 80

ॐ परस्मैज्योतये नमः ।
ॐ पुराणाय नमः ।
ॐ परमेश्वराय नमः ।
ॐ प्रपंचोपशमाय नमः ।
ॐ प्राज्ञाय नमः ।
ॐ पुण्यकीर्तये नमः ।
ॐ पुरातनाय नमः ।
ॐ सर्वाधिष्ठानसन्मात्राय नमः ।
ॐ स्वात्मबंधहराय नमः ।
ॐ हराय नमः ।
ॐ सर्वप्रेमनिजाहासाय नमः ।
ॐ सर्वानुग्रहकृते नमः ।
ॐ शिवाय नमः ।
ॐ सर्वेंद्रियगुणाभासाय नमः ।
ॐ सर्वभूतगुणाश्रयाय नमः ।
ॐ सच्चिदानंदपूर्णात्मने नमः ।
ॐ सर्वभूतगुणाश्रयाय नमः ।
ॐ सर्वभूतांतराय नमः ।
ॐ साक्षिणे नमः ।
ॐ सर्वज्ञाय नमः । 100

ॐ सर्वकामदाय नमः ।
ॐ सनकादिमहायोगिसमाराधितपादुकाय नमः ।
ॐ आदिदेवाय नमः ।
ॐ दयासिंधवे नमः ।
ॐ शिक्षितासुरविग्रहाय नमः ।
ॐ यक्षकिन्नरगंधर्वस्तूयमानात्मवैभवाय नमः ।
ॐ ब्रह्मादिदेवविनुताय नमः ।
ॐ योगमायानियोजकाय नमः ।
ॐ शिवयोगिने नमः ।
ॐ शिवानंदाय नमः ।
ॐ शिवभक्तसमुद्धराय नमः ।
ॐ वेदांतसारसंदोहाय नमः ।
ॐ सर्वसत्त्वावलंबनाय नमः ।
ॐ वटमूलाश्रयाय नमः ।
ॐ वाग्मिने नमः ।
ॐ मान्याय नमः ।
ॐ मलयजप्रियाय नमः ।
ॐ सुशीलाय नमः ।
ॐ वांछितार्थज्ञाय नमः ।
ॐ प्रसन्नवदनेक्षणाय नमः । 120

ॐ नृत्तगीतकलाभिज्ञाय नमः ।
ॐ कर्मविदे नमः ।
ॐ कर्ममोचकाय नमः ।
ॐ कर्मसाक्षिणे नमः ।
ॐ कर्ममयाय नमः ।
ॐ कर्मणां फलप्रदाय नमः ।
ॐ ज्ञानदात्रे नमः ।
ॐ सदाचाराय नमः ।
ॐ सर्वोपद्रवमोचकाय नमः ।
ॐ अनाथनाथाय नमः ।
ॐ भगवते नमः ।
ॐ आश्रितामरपादपाय नमः ।
ॐ वरप्रदाय नमः ।
ॐ प्रकाशात्मने नमः ।
ॐ सर्वभूतहिते रताय नमः ।
ॐ व्याघ्रचर्मासनासीनाय नमः ।
ॐ आदिकर्त्रे नमः ।
ॐ महेश्वराय नमः ।
ॐ सुविक्रमाय नमः ।
ॐ सर्वगताय नमः । 140

ॐ विशिष्टजनवत्सलाय नमः ।
ॐ चिंताशोकप्रशमनाय नमः ।
ॐ जगदानंदकारकाय नमः ।
ॐ रश्मिमते नमः ।
ॐ भुवनेशाय नमः ।
ॐ देवासुरसुपूजिताय नमः ।
ॐ मृत्युंजयाय नमः ।
ॐ व्योमकेशाय नमः ।
ॐ षट्त्रिंशत्तत्त्वसंग्रहाय नमः ।
ॐ अज्ञातसंभवाय नमः ।
ॐ भिक्षवे नमः ।
ॐ अद्वितीयाय नमः ।
ॐ दिगंबराय नमः ।
ॐ समस्तदेवतामूर्तये नमः ।
ॐ सोमसूर्याग्निलोचनाय नमः ।
ॐ सर्वसाम्राज्यनिपुणाय नमः ।
ॐ धर्ममार्गप्रवर्तकाय नमः ।
ॐ विश्वाधिकाय नमः ।
ॐ पशुपतये नमः ।
ॐ पशुपाशविमोचकाय नमः । 160

ॐ अष्टमूर्तये नमः ।
ॐ दीप्तमूर्तये नमः ।
ॐ नामोच्चारणमुक्तिदाय नमः ।
ॐ सहस्रादित्यसंकाशाय नमः ।
ॐ सदाषोडशवार्षिकाय नमः ।
ॐ दिव्यकेलीसमायुक्ताय नमः ।
ॐ दिव्यमाल्यांबरावृताय नमः ।
ॐ अनर्घरत्नसंपूर्णाय नमः ।
ॐ मल्लिकाकुसुमप्रियाय नमः ।
ॐ तप्तचामीकराकाराय नमः ।
ॐ जितदावानलाकृतये नमः ।
ॐ निरंजनाय नमः ।
ॐ निर्विकाराय नमः ।
ॐ निजावासाय नमः ।
ॐ निराकृतये नमः ।
ॐ जगद्गुरवे नमः ।
ॐ जगत्कर्त्रे नमः ।
ॐ जगदीशाय नमः ।
ॐ जगत्पतये नमः ।
ॐ कामहंत्रे नमः । 180

ॐ काममूर्तये नमः ।
ॐ कल्याणवृषवाहनाय नमः ।
ॐ गंगाधराय नमः ।
ॐ महादेवाय नमः ।
ॐ दीनबंधविमोचकाय नमः ।
ॐ धूर्जटये नमः ।
ॐ खंडपरशवे नमः ।
ॐ सद्गुणाय नमः ।
ॐ गिरिजासखाय नमः ।
ॐ अव्ययाय नमः ।
ॐ भूतसेनेशाय नमः ।
ॐ पापघ्नाय नमः ।
ॐ पुण्यदायकाय नमः ।
ॐ उपदेष्ट्रे नमः ।
ॐ दृढप्रज्ञाय नमः ।
ॐ रुद्राय नमः ।
ॐ रोगविनाशनाय नमः ।
ॐ नित्यानंदाय नमः ।
ॐ निराधाराय नमः ।
ॐ हराय नमः । 200

ॐ देवशिखामणये नमः ।
ॐ प्रणतार्तिहराय नमः ।
ॐ सोमाय नमः ।
ॐ सांद्रानंदाय नमः ।
ॐ महामतये नमः ।
ॐ आश्चर्यवैभवाय नमः ।
ॐ देवाय नमः ।
ॐ संसारार्णवतारकाय नमः ।
ॐ यज्ञेशाय नमः ।
ॐ राजराजेशाय नमः ।
ॐ भस्मरुद्राक्षलांछनाय नमः ।
ॐ अनंताय नमः ।
ॐ तारकाय नमः ।
ॐ स्थाणवे नमः ।
ॐ सर्वविद्येश्वराय नमः ।
ॐ हरये नमः ।
ॐ विश्वरूपाय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ प्रभवे नमः ।
ॐ परिबृढाय नमः । 220

ॐ दृढाय नमः ।
ॐ भव्याय नमः ।
ॐ जितारिषड्वर्गाय नमः ।
ॐ महोदाराय नमः ।
ॐ विषाशनाय नमः ।
ॐ सुकीर्तये नमः ।
ॐ आदिपुरुषाय नमः ।
ॐ जरामरणवर्जिताय नमः ।
ॐ प्रमाणभूताय नमः ।
ॐ दुर्ज्ञेयाय नमः ।
ॐ पुण्याय नमः ।
ॐ परपुरंजयाय नमः ।
ॐ गुणाकराय नमः ।
ॐ गुणश्रेष्ठाय नमः ।
ॐ सच्चिदानंदविग्रहाय नमः ।
ॐ सुखदाय नमः ।
ॐ कारणाय नमः ।
ॐ कर्त्रे नमः ।
ॐ भवबंधविमोचकाय नमः ।
ॐ अनिर्विण्णाय नमः । 240

ॐ गुणग्राहिणे नमः ।
ॐ निष्कलंकाय नमः ।
ॐ कलंकघ्ने नमः ।
ॐ पुरुषाय नमः ।
ॐ शाश्वताय नमः ।
ॐ योगिने नमः ।
ॐ व्यक्ताव्यक्ताय नमः ।
ॐ सनातनाय नमः ।
ॐ चराचरात्मने नमः ।
ॐ सूक्ष्मात्मने नमः ।
ॐ विश्वकर्मणे नमः ।
ॐ तमोपहृते नमः ।
ॐ भुजंगभूषणाय नमः ।
ॐ भर्गाय नमः ।
ॐ तरुणाय नमः ।
ॐ करुणालयाय नमः ।
ॐ अणिमादिगुणोपेताय नमः ।
ॐ लोकवश्यविधायकाय नमः ।
ॐ योगपट्टधराय नमः ।
ॐ मुक्ताय नमः । 260

ॐ मुक्तानां परमायै गतये नमः ।
ॐ गुरुरूपधराय नमः ।
ॐ श्रीमत्परमानंदसागराय नमः ।
ॐ सहस्रबाहवे नमः ।
ॐ सर्वेशाय नमः ।
ॐ सहस्रावयवान्विताय नमः ।
ॐ सहस्रमूर्ध्ने नमः ।
ॐ सर्वात्मने नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ सहस्रपदे नमः ।
ॐ निराभासाय नमः ।
ॐ सूक्ष्मतनवे नमः ।
ॐ हृदि ज्ञाताय नमः ।
ॐ परात्पराय नमः ।
ॐ सर्वात्मगाय नमः ।
ॐ सर्वसाक्षिणे नमः ।
ॐ निःसंगाय नमः ।
ॐ निरुपद्रवाय नमः ।
ॐ निष्कलाय नमः ।
ॐ सकलाध्यक्षाय नमः । 280

ॐ चिन्मयाय नमः ।
ॐ तमसः पराय नमः ।
ॐ ज्ञानवैराग्यसंपन्नाय नमः ।
ॐ योगानंदमयाय शिवाय नमः ।
ॐ शाश्वतैश्वर्यसंपूर्णाय नमः ।
ॐ महायोगीश्वरेश्वराय नमः ।
ॐ सहस्रशक्तिसंयुक्ताय नमः ।
ॐ पुण्यकायाय नमः ।
ॐ दुरासदाय नमः ।
ॐ तारकब्रह्मसंपूर्णाय नमः ।
ॐ तपस्विजनसंवृताय नमः ।
ॐ विधींद्रामरसंपूज्याय नमः ।
ॐ ज्योतिषां ज्योतिषे नमः ।
ॐ उत्तमाय नमः ।
ॐ निरक्षराय नमः ।
ॐ निरालंबाय नमः ।
ॐ स्वात्मारामाय नमः ।
ॐ विकर्तनाय नमः ।
ॐ निरवद्याय नमः ।
ॐ निरातंकाय नमः । 300

ॐ भीमाय नमः ।
ॐ भीमपराक्रमाय नमः ।
ॐ वीरभद्राय नमः ।
ॐ पुरारातये नमः ।
ॐ जलंधरशिरोहराय नमः ।
ॐ अंधकासुरसंहर्त्रे नमः ।
ॐ भगनेत्रभिदे नमः ।
ॐ अद्भुताय नमः ।
ॐ विश्वग्रासाय नमः ।
ॐ अधर्मशत्रवे नमः ।
ॐ ब्रह्मज्ञानैकमंथराय नमः ।
ॐ अग्रेसराय नमः ।
ॐ तीर्थभूताय नमः ।
ॐ सितभस्मावकुंठनाय नमः ।
ॐ अकुंठमेधसे नमः ।
ॐ श्रीकंठाय नमः ।
ॐ वैकुंठपरमप्रियाय नमः ।
ॐ ललाटोज्ज्वलनेत्राब्जाय नमः ।
ॐ तुषारकरशेखराय नमः ।
ॐ गजासुरशिरश्छेत्त्रे नमः । 320

ॐ गंगोद्भासितमूर्धजाय नमः ।
ॐ कल्याणाचलकोदंडाय नमः ।
ॐ कमलापतिसायकाय नमः ।
ॐ वारांशेवधितूणीराय नमः ।
ॐ सरोजासनसारथये नमः ।
ॐ त्रयीतुरंगसंक्रांताय नमः ।
ॐ वासुकिज्याविराजिताय नमः ।
ॐ रवींदुचरणाचारिधरारथविराजिताय नमः ।
ॐ त्रय्यंतप्रग्रहोदारचारुघंटारवोज्ज्वलाय नमः ।
ॐ उत्तानपर्वलोमाढ्याय नमः ।
ॐ लीलाविजितमन्मथाय नमः ।
ॐ जातुप्रपन्नजनताजीवनोपायनोत्सुकाय नमः ।
ॐ संसारार्णवनिर्मग्नसमुद्धरणपंडिताय नमः ।
ॐ मदद्विरदधिक्कारिगतिमंजुलवैभवाय नमः ।
ॐ मत्तकोकिलमाधुर्यरसनिर्भरगीर्गणाय नमः ।
ॐ कैवल्योदधिकल्लोललीलातांडवपंडिताय नमः ।
ॐ विष्णवे नमः ।
ॐ जिष्णवे नमः ।
ॐ वासुदेवाय नमः ।
ॐ प्रभविष्णवे नमः । 340

ॐ पुरातनाय नमः ।
ॐ वर्धिष्णवे नमः ।
ॐ वरदाय नमः ।
ॐ वैद्याय नमः ।
ॐ हरये नमः ।
ॐ नारायणाय नमः ।
ॐ अच्युताय नमः ।
ॐ अज्ञानवनदावाग्नये नमः ।
ॐ प्रज्ञाप्रासादभूपतये नमः ।
ॐ सर्पभूषितसर्वांगाय नमः ।
ॐ कर्पूरोज्ज्वलिताकृतये नमः ।
ॐ अनादिमध्यनिधनाय नमः ।
ॐ गिरीशाय नमः ।
ॐ गिरिजापतये नमः ।
ॐ वीतरागाय नमः ।
ॐ विनीतात्मने नमः ।
ॐ तपस्विने नमः ।
ॐ भूतभावनाय नमः ।
ॐ देवासुरगुरुध्येयाय नमः ।
ॐ देवासुरनमस्कृताय नमः । 360

ॐ देवादिदेवाय नमः ।
ॐ देवर्षये नमः ।
ॐ देवासुरवरप्रदाय नमः ।
ॐ सर्वदेवमयाय नमः ।
ॐ अचिंत्याय नमः ।
ॐ देवात्मने नमः ।
ॐ आत्मसंभवाय नमः ।
ॐ निर्लेपाय नमः ।
ॐ निष्प्रपंचात्मने नमः ।
ॐ निर्विघ्नाय नमः ।
ॐ विघ्ननाशकाय नमः ।
ॐ एकज्योतिषे नमः ।
ॐ निरातंकाय नमः ।
ॐ व्याप्तमूर्तये नमः ।
ॐ अनाकुलाय नमः ।
ॐ निरवद्यपदोपाधये नमः ।
ॐ विद्याराशये नमः ।
ॐ अनुत्तमाय नमः ।
ॐ नित्यानंदाय नमः ।
ॐ सुराध्यक्षाय नमः । 380

ॐ निःसंकल्पाय नमः ।
ॐ निरंजनाय नमः ।
ॐ निष्कलंकाय नमः ।
ॐ निराकाराय नमः ।
ॐ निष्प्रपंचाय नमः ।
ॐ निरामयाय नमः ।
ॐ विद्याधराय नमः ।
ॐ वियत्केशाय नमः ।
ॐ मार्कंडेयवरप्रदाय नमः ।
ॐ भैरवाय नमः ।
ॐ भैरवीनाथाय नमः ।
ॐ कामदाय नमः ।
ॐ कमलासनाय नमः ।
ॐ वेदवेद्याय नमः ।
ॐ सुरानंदाय नमः ।
ॐ लसज्ज्योतिषे नमः ।
ॐ प्रभाकराय नमः ।
ॐ चूडामणये नमः ।
ॐ सुराधीशाय नमः ।
ॐ यज्ञगेयाय नमः । 400

ॐ हरिप्रियाय नमः ।
ॐ निर्लेपाय नमः ।
ॐ नीतिमते नमः ।
ॐ सूत्रिणे नमः ।
ॐ श्रीहालाहलसुंदराय नमः ।
ॐ धर्मदक्षाय नमः ।
ॐ महाराजाय नमः ।
ॐ किरीटिने नमः ।
ॐ वंदिताय नमः ।
ॐ गुहाय नमः ।
ॐ माधवाय नमः ।
ॐ यामिनीनाथाय नमः ।
ॐ शंबराय नमः ।
ॐ शबरीप्रियाय नमः ।
ॐ संगीतवेत्त्रे नमः ।
ॐ लोकज्ञाय नमः ।
ॐ शांताय नमः ।
ॐ कलशसंभवाय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ वरदाय नमः । 420

ॐ नित्याय नमः ।
ॐ शूलिने नमः ।
ॐ गुरुवराय हराय नमः ।
ॐ मार्तांडाय नमः ।
ॐ पुंडरीकाक्षाय नमः ।
ॐ लोकनायकविक्रमाय नमः ।
ॐ मुकुंदार्च्याय नमः ।
ॐ वैद्यनाथाय नमः ।
ॐ पुरंदरवरप्रदाय नमः ।
ॐ भाषाविहीनाय नमः ।
ॐ भाषाज्ञाय नमः ।
ॐ विघ्नेशाय नमः ।
ॐ विघ्ननाशनाय नमः ।
ॐ किन्नरेशाय नमः ।
ॐ बृहद्भानवे नमः ।
ॐ श्रीनिवासाय नमः ।
ॐ कपालभृते नमः ।
ॐ विजयाय नमः ।
ॐ भूतभावज्ञाय नमः ।
ॐ भीमसेनाय नमः । 440

ॐ दिवाकराय नमः ।
ॐ बिल्वप्रियाय नमः ।
ॐ वसिष्ठेशाय नमः ।
ॐ सर्वमार्गप्रवर्तकाय नमः ।
ॐ ओषधीशाय नमः ।
ॐ वामदेवाय नमः ।
ॐ गोविंदाय नमः ।
ॐ नीललोहिताय नमः ।
ॐ षडर्धनयनाय नमः ।
ॐ श्रीमन्महादेवाय नमः ।
ॐ वृषध्वजाय नमः ।
ॐ कर्पूरदीपिकालोलाय नमः ।
ॐ कर्पूररसचर्चिताय नमः ।
ॐ अव्याजकरुणामूर्तये नमः ।
ॐ त्यागराजाय नमः ।
ॐ क्षपाकराय नमः ।
ॐ आश्चर्यविग्रहाय नमः ।
ॐ सूक्ष्माय नमः ।
ॐ सिद्धेशाय नमः ।
ॐ स्वर्णभैरवाय नमः । 460

ॐ देवराजाय नमः ।
ॐ कृपासिंधवे नमः ।
ॐ अद्वयाय नमः ।
ॐ अमितविक्रमाय नमः ।
ॐ निर्भेदाय नमः ।
ॐ नित्यसत्वस्थाय नमः ।
ॐ निर्योगक्षेमाय नमः ।
ॐ आत्मवते नमः ।
ॐ निरपायाय नमः ।
ॐ निरासंगाय नमः ।
ॐ निःशब्दाय नमः ।
ॐ निरुपाधिकाय नमः ।
ॐ भवाय नमः ।
ॐ सर्वेश्वराय नमः ।
ॐ स्वामिने नमः ।
ॐ भवभीतिविभंजनाय नमः ।
ॐ दारिद्र्यतृणकूटाग्नये नमः ।
ॐ दारितासुरसंततये नमः ।
ॐ मुक्तिदाय नमः ।
ॐ मुदिताय नमः । 480

ॐ अकुब्जाय नमः ।
ॐ धार्मिकाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ अभ्यासातिशयज्ञेयाय नमः ।
ॐ चंद्रमौलये नमः ।
ॐ कलाधराय नमः ।
ॐ महाबलाय नमः ।
ॐ महावीर्याय नमः ।
ॐ विभवे नमः ।
ॐ श्रीशाय नमः ।
ॐ शुभप्रदाय नमः ।
ॐ सिद्धाय नमः ।
ॐ पुराणपुरुषाय नमः ।
ॐ रणमंडलभैरवाय नमः ।
ॐ सद्योजाताय नमः ।
ॐ वटारण्यवासिने नमः ।
ॐ पुरुषवल्लभाय नमः ।
ॐ हरिकेशाय नमः ।
ॐ महात्रात्रे नमः ।
ॐ नीलग्रीवाय नमः । 500

ॐ सुमंगलाय नमः ।
ॐ हिरण्यबाहवे नमः ।
ॐ तीक्ष्णांशवे नमः ।
ॐ कामेशाय नमः ।
ॐ सोमविग्रहाय नमः ।
ॐ सर्वात्मने नमः ।
ॐ सर्वकर्त्रे नमः ।
ॐ तांडवाय नमः ।
ॐ मुंडमालिकाय नमः ।
ॐ अग्रगण्याय नमः ।
ॐ सुगंभीराय नमः ।
ॐ देशिकाय नमः ।
ॐ वैदिकोत्तमाय नमः ।
ॐ प्रसन्नदेवाय नमः ।
ॐ वागीशाय नमः ।
ॐ चिंतातिमिरभास्कराय नमः ।
ॐ गौरीपतये नमः ।
ॐ तुंगमौलये नमः ।
ॐ मखराजाय नमः ।
ॐ महाकवये नमः । 520

ॐ श्रीधराय नमः ।
ॐ सर्वसिद्धेशाय नमः ।
ॐ विश्वनाथाय नमः ।
ॐ दयानिधये नमः ।
ॐ अंतर्मुखाय नमः ।
ॐ बहिर्दृष्टये नमः ।
ॐ सिद्धवेषमनोहराय नमः ।
ॐ कृत्तिवाससे नमः ।
ॐ कृपासिंधवे नमः ।
ॐ मंत्रसिद्धाय नमः ।
ॐ मतिप्रदाय नमः ।
ॐ महोत्कृष्टाय नमः ।
ॐ पुण्यकराय नमः ।
ॐ जगत्साक्षिणे नमः ।
ॐ सदाशिवाय नमः ।
ॐ महाक्रतवे नमः ।
ॐ महायज्वने नमः ।
ॐ विश्वकर्मणे नमः ।
ॐ तपोनिधये नमः ।
ॐ छंदोमयाय नमः । 540

ॐ महाज्ञानिने नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ देववंदिताय नमः ।
ॐ सार्वभौमाय नमः ।
ॐ सदानंदाय नमः ।
ॐ करुणामृतवारिधये नमः ।
ॐ कालकालाय नमः ।
ॐ कलिध्वंसिने नमः ।
ॐ जरामरणनाशकाय नमः ।
ॐ शितिकंठाय नमः ।
ॐ चिदानंदाय नमः ।
ॐ योगिनीगणसेविताय नमः ।
ॐ चंडीशाय नमः ।
ॐ शुकसंवेद्याय नमः ।
ॐ पुण्यश्लोकाय नमः ।
ॐ दिवस्पतये नमः ।
ॐ स्थायिने नमः ।
ॐ सकलतत्त्वात्मने नमः ।
ॐ सदासेवकवर्धनाय नमः ।
ॐ रोहिताश्वाय नमः । 560

ॐ क्षमारूपिणे नमः ।
ॐ तप्तचामीकरप्रभाय नमः ।
ॐ त्रियंबकाय नमः ।
ॐ वररुचये नमः ।
ॐ देवदेवाय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ विश्वंभराय नमः ।
ॐ विचित्रांगाय नमः ।
ॐ विधात्रे नमः ।
ॐ पुरशासनाय नमः ।
ॐ सुब्रह्मण्याय नमः ।
ॐ जगत्स्वामिने नमः ।
ॐ रोहिताक्षाय नमः ।
ॐ शिवोत्तमाय नमः ।
ॐ नक्षत्रमालाभरणाय नमः ।
ॐ मघवते नमः ।
ॐ अघनाशनाय नमः ।
ॐ विधिकर्त्रे नमः ।
ॐ विधानज्ञाय नमः ।
ॐ प्रधानपुरुषेश्वराय नमः । 580

ॐ चिंतामणये नमः ।
ॐ सुरगुरवे नमः ।
ॐ ध्येयाय नमः ।
ॐ नीराजनप्रियाय नमः ।
ॐ गोविंदाय नमः ।
ॐ राजराजेशाय नमः ।
ॐ बहुपुष्पार्चनप्रियाय नमः ।
ॐ सर्वानंदाय नमः ।
ॐ दयारूपिणे नमः ।
ॐ शैलजासुमनोहराय नमः ।
ॐ सुविक्रमाय नमः ।
ॐ सर्वगताय नमः ।
ॐ हेतुसाधनवर्जिताय नमः ।
ॐ वृषांकाय नमः ।
ॐ रमणीयांगाय नमः ।
ॐ सदंघ्रये नमः ।
ॐ सामपारगाय नमः ।
ॐ मंत्रात्मने नमः ।
ॐ कोटिकंदर्पसौंदर्यरसवारिधये नमः ।
ॐ यज्ञेशाय नमः । 600

ॐ यज्ञपुरुषाय नमः ।
ॐ सृष्टिस्थित्यंतकारणाय नमः ।
ॐ परहंसैकजिज्ञास्याय नमः ।
ॐ स्वप्रकाशस्वरूपवते नमः ।
ॐ मुनिमृग्याय नमः ।
ॐ देवमृग्याय नमः ।
ॐ मृगहस्ताय नमः ।
ॐ मृगेश्वराय नमः ।
ॐ मृगेंद्रचर्मवसनाय नमः ।
ॐ नरसिंहनिपातनाय नमः ।
ॐ मुनिवंद्याय नमः ।
ॐ मुनिश्रेष्ठाय नमः ।
ॐ मुनिबृंदनिषेविताय नमः ।
ॐ दुष्टमृत्यवे नमः ।
ॐ अदुष्टेहाय नमः ।
ॐ मृत्युघ्ने नमः ।
ॐ मृत्युपूजिताय नमः ।
ॐ अव्यक्ताय नमः ।
ॐ अंबुजजन्मादिकोटिकोटिसुपूजिताय नमः ।
ॐ लिंगमूर्तये नमः । 620

ॐ अलिंगात्मने नमः ।
ॐ लिंगात्मने नमः ।
ॐ लिंगविग्रहाय नमः ।
ॐ यजुर्मूर्तये नमः ।
ॐ साममूर्तये नमः ।
ॐ ऋङ्मूर्तये नमः ।
ॐ मूर्तिवर्जिताय नमः ।
ॐ विश्वेशाय नमः ।
ॐ गजचर्मैकचेलांचितकटीतटाय नमः ।
ॐ पावनांतेवसद्योगिजनसार्थसुधाकराय नमः ।
ॐ अनंतसोमसूर्याग्निमंडलप्रतिमप्रभाय नमः ।
ॐ चिंताशोकप्रशमनाय नमः ।
ॐ सर्वविद्याविशारदाय नमः ।
ॐ भक्तविज्ञप्तिसंधात्रे नमः ।
ॐ कर्त्रे नमः ।
ॐ गिरिवराकृतये नमः ।
ॐ ज्ञानप्रदाय नमः ।
ॐ मनोवासाय नमः ।
ॐ क्षेम्याय नमः ।
ॐ मोहविनाशनाय नमः । 640

ॐ सुरोत्तमाय नमः ।
ॐ चित्रभानवे नमः ।
ॐ सदावैभवतत्पराय नमः ।
ॐ सुहृदग्रेसराय नमः ।
ॐ सिद्धज्ञानमुद्राय नमः ।
ॐ गणाधिपाय नमः ।
ॐ आगमाय नमः ।
ॐ चर्मवसनाय नमः ।
ॐ वांछितार्थफलप्रदाय नमः ।
ॐ अंतर्हिताय नमः ।
ॐ असमानाय नमः ।
ॐ देवसिंहासनाधिपाय नमः ।
ॐ विवादहंत्रे नमः ।
ॐ सर्वात्मने नमः ।
ॐ कालाय नमः ।
ॐ कालविवर्जिताय नमः ।
ॐ विश्वातीताय नमः ।
ॐ विश्वकर्त्रे नमः ।
ॐ विश्वेशाय नमः ।
ॐ विश्वकारणाय नमः । 660

ॐ योगिध्येयाय नमः ।
ॐ योगनिष्ठाय नमः ।
ॐ योगात्मने नमः ।
ॐ योगवित्तमाय नमः ।
ॐ ॐकाररूपाय नमः ।
ॐ भगवते नमः ।
ॐ बिंदुनादमयाय शिवाय नमः ।
ॐ चतुर्मुखादिसंस्तुत्याय नमः ।
ॐ चतुर्वर्गफलप्रदाय नमः ।
ॐ सह्याचलगुहावासिने नमः ।
ॐ साक्षान्मोक्षरसामृताय नमः ।
ॐ दक्षाध्वरसमुच्छेत्त्रे नमः ।
ॐ पक्षपातविवर्जिताय नमः ।
ॐ ॐकारवाचकाय नमः ।
ॐ शंभवे नमः ।
ॐ शंकराय नमः ।
ॐ शशिशीतलाय नमः ।
ॐ पंकजासनसंसेव्याय नमः ।
ॐ किंकरामरवत्सलाय नमः ।
ॐ नतदौर्भाग्यतूलाग्नये नमः । 680

ॐ कृतकौतुकमंगलाय नमः ।
ॐ त्रिलोकमोहनाय नमः ।
ॐ श्रीमत्त्रिपुंड्रांकितमस्तकाय नमः ।
ॐ क्रौंचारिजनकाय नमः ।
ॐ श्रीमद्गणनाथसुतान्विताय नमः ।
ॐ अद्भुतानंतवरदाय नमः ।
ॐ अपरिच्छिनात्मवैभवाय नमः ।
ॐ इष्टापूर्तप्रियाय नमः ।
ॐ शर्वाय नमः ।
ॐ एकवीराय नमः ।
ॐ प्रियंवदाय नमः ।
ॐ ऊहापोहविनिर्मुक्ताय नमः ।
ॐ ॐकारेश्वरपूजिताय नमः ।
ॐ रुद्राक्षवक्षसे नमः ।
ॐ रुद्राक्षरूपाय नमः ।
ॐ रुद्राक्षपक्षकाय नमः ।
ॐ भुजगेंद्रलसत्कंठाय नमः ।
ॐ भुजंगाभरणप्रियाय नमः ।
ॐ कल्याणरूपाय नमः ।
ॐ कल्याणाय नमः । 700

ॐ कल्याणगुणसंश्रयाय नमः ।
ॐ सुंदरभ्रुवे नमः ।
ॐ सुनयनाय नमः ।
ॐ सुललाटाय नमः ।
ॐ सुकंधराय नमः ।
ॐ विद्वज्जनाश्रयाय नमः ।
ॐ विद्वज्जनस्तव्यपराक्रमाय नमः ।
ॐ विनीतवत्सलाय नमः ।
ॐ नीतिस्वरूपाय नमः ।
ॐ नीतिसंश्रयाय नमः ।
ॐ अतिरागिणे नमः ।
ॐ वीतरागिणे नमः ।
ॐ रागहेतवे नमः ।
ॐ विरागविदे नमः ।
ॐ रागघ्ने नमः ।
ॐ रागशमनाय नमः ।
ॐ रागदाय नमः ।
ॐ रागिरागविदे नमः ।
ॐ मनोन्मनाय नमः ।
ॐ मनोरूपाय नमः । 720

ॐ बलप्रमथनाय नमः ।
ॐ बलाय नमः ।
ॐ विद्याकराय नमः ।
ॐ महाविद्याय नमः ।
ॐ विद्याविद्याविशारदाय नमः ।
ॐ वसंतकृते नमः ।
ॐ वसंतात्मने नमः ।
ॐ वसंतेशाय नमः ।
ॐ वसंतदाय नमः ।
ॐ प्रावृट्कृते नमः ।
ॐ प्रावृडाकाराय नमः ।
ॐ प्रावृट्कालप्रवर्तकाय नमः ।
ॐ शरन्नाथाय नमः ।
ॐ शरत्कालनाशकाय नमः ।
ॐ शरदाश्रयाय नमः ।
ॐ कुंदमंदारपुष्पौघलसद्वायुनिषेविताय नमः ।
ॐ दिव्यदेहप्रभाकूटसंदीपितदिगंतराय नमः ।
ॐ देवासुरगुरुस्तव्याय नमः ।
ॐ देवासुरनमस्कृताय नमः ।
ॐ वामांगभागविलसच्छ्यामलावीक्षणप्रियाय नमः । 740

ॐ कीर्त्याधाराय नमः ।
ॐ कीर्तिकराय नमः ।
ॐ कीर्तिहेतवे नमः ।
ॐ अहेतुकाय नमः ।
ॐ शरणागतदीनार्तपरित्राणपरायणाय नमः ।
ॐ महाप्रेतासनासीनाय नमः ।
ॐ जितसर्वपितामहाय नमः ।
ॐ मुक्तादामपरीतांगाय नमः ।
ॐ नानागानविशारदाय नमः ।
ॐ विष्णुब्रह्मादिवंद्यांघ्रये नमः ।
ॐ नानादेशैकनायकाय नमः ।
ॐ धीरोदात्ताय नमः ।
ॐ महाधीराय नमः ।
ॐ धैर्यदाय नमः ।
ॐ धैर्यवर्धकाय नमः ।
ॐ विज्ञानमयाय नमः ।
ॐ आनंदमयाय नमः ।
ॐ प्राणमयाय नमः ।
ॐ अन्नदाय नमः ।
ॐ भवाब्धितरणोपायाय नमः । 760

ॐ कवये नमः ।
ॐ दुःस्वप्ननाशनाय नमः ।
ॐ गौरीविलाससदनाय नमः ।
ॐ पिशचानुचरावृताय नमः ।
ॐ दक्षिणाप्रेमसंतुष्टाय नमः ।
ॐ दारिद्र्यवडवानलाय नमः ।
ॐ अद्भुतानंतसंग्रामाय नमः ।
ॐ ढक्कावादनतत्पराय नमः ।
ॐ प्राच्यात्मने नमः ।
ॐ दक्षिणाकाराय नमः ।
ॐ प्रतीच्यात्मने नमः ।
ॐ उत्तराकृतये नमः ।
ॐ ऊर्ध्वाद्यन्यदिगाकाराय नमः ।
ॐ मर्मज्ञाय नमः ।
ॐ सर्वशिक्षकाय नमः ।
ॐ युगावहाय नमः ।
ॐ युगाधीशाय नमः ।
ॐ युगात्मने नमः ।
ॐ युगनायकाय नमः ।
ॐ जंगमाय नमः । 780

ॐ स्थावराकाराय नमः ।
ॐ कैलासशिखरप्रियाय नमः ।
ॐ हस्तराजत्पुंडरीकाय नमः ।
ॐ पुंडरीकनिभेक्षणाय नमः ।
ॐ लीलाविडंबितवपुषे नमः ।
ॐ भक्तमानसमंडिताय नमः ।
ॐ बृंदारकप्रियतमाय नमः ।
ॐ बृंदारकवरार्चिताय नमः ।
ॐ नानाविधानेकरत्नलसत्कुंडलमंडिताय नमः ।
ॐ निःसीममहिम्ने नमः ।
ॐ नित्यलीलाविग्रहरूपधृते नमः ।
ॐ चंदनद्रवदिग्धांगाय नमः ।
ॐ चांपेयकुसुमार्चिताय नमः ।
ॐ समस्तभक्तसुखदाय नमः ।
ॐ परमाणवे नमः ।
ॐ महाह्रदाय नमः ।
ॐ अलौकिकाय नमः ।
ॐ दुष्प्रधर्षाय नमः ।
ॐ कपिलाय नमः ।
ॐ कालकंधराय नमः । 800

ॐ कर्पूरगौराय नमः ।
ॐ कुशलाय नमः ।
ॐ सत्यसंधाय नमः ।
ॐ जितेंद्रियाय नमः ।
ॐ शाश्वतैश्वर्यविभवाय नमः ।
ॐ पोषकाय नमः ।
ॐ सुसमाहिताय नमः ।
ॐ महर्षिनाथिताय नमः ।
ॐ ब्रह्मयोनये नमः ।
ॐ सर्वोत्तमोत्तमाय नमः ।
ॐ भूमिभारार्तिसंहर्त्रे नमः ।
ॐ षडूर्मिरहिताय नमः ।
ॐ मृडाय नमः ।
ॐ त्रिविष्टपेश्वराय नमः ।
ॐ सर्वहृदयांबुजमध्यगाय नमः ।
ॐ सहस्रदलपद्मस्थाय नमः ।
ॐ सर्ववर्णोपशोभिताय नमः ।
ॐ पुण्यमूर्तये नमः ।
ॐ पुण्यलभ्याय नमः ।
ॐ पुण्यश्रवणकीर्तनाय नमः । 820

ॐ सूर्यमंडलमध्यस्थाय नमः ।
ॐ चंद्रमंडलमध्यगाय नमः ।
ॐ सद्भक्तध्याननिगलाय नमः ।
ॐ शरणागतपालकाय नमः ।
ॐ श्वेतातपत्ररुचिराय नमः ।
ॐ श्वेतचामरवीजिताय नमः ।
ॐ सर्वावयवसंपूर्णाय नमः ।
ॐ सर्वलक्षणलक्षिताय नमः ।
ॐ सर्वमंगलमांगल्याय नमः ।
ॐ सर्वकारणकारणाय नमः ।
ॐ आमोदाय नमः ।
ॐ मोदजनकाय नमः ।
ॐ सर्पराजोत्तरीयकाय नमः ।
ॐ कपालिने नमः ।
ॐ कोविदाय नमः ।
ॐ सिद्धकांतिसंवलिताननाय नमः ।
ॐ सर्वसद्गुरुसंसेव्याय नमः ।
ॐ दिव्यचंदनचर्चिताय नमः ।
ॐ विलासिनीकृतोल्लासाय नमः ।
ॐ इच्छाशक्तिनिषेविताय नमः । 840

ॐ अनंतानंदसुखदाय नमः ।
ॐ नंदनाय नमः ।
ॐ श्रीनिकेतनाय नमः ।
ॐ अमृताब्धिकृतावासाय नमः ।
ॐ नित्यक्लीबाय नमः ।
ॐ निरामयाय नमः ।
ॐ अनपायाय नमः ।
ॐ अनंतदृष्टये नमः ।
ॐ अप्रमेयाय नमः ।
ॐ अजराय नमः ।
ॐ अमराय नमः ।
ॐ तमोमोहप्रतिहतये नमः ।
ॐ अप्रतर्क्याय नमः ।
ॐ अमृताय नमः ।
ॐ अक्षराय नमः ।
ॐ अमोघबुद्धये नमः ।
ॐ आधाराय नमः ।
ॐ आधाराधेयवर्जिताय नमः ।
ॐ ईषणात्रयनिर्मुक्ताय नमः ।
ॐ इहामुत्रविवर्जिताय नमः । 860

ॐ ऋग्यजुःसामनयनाय नमः ।
ॐ बुद्धिसिद्धिसमृद्धिदाय नमः ।
ॐ औदार्यनिधये नमः ।
ॐ आपूर्णाय नमः ।
ॐ ऐहिकामुष्मिकप्रदाय नमः ।
ॐ शुद्धसन्मात्रसंविद्धीस्वरूपसुखविग्रहाय नमः ।
ॐ दर्शनप्रथमाभासाय नमः ।
ॐ दृष्टिदृश्यविवर्जिताय नमः ।
ॐ अग्रगण्याय नमः ।
ॐ अचिंत्यरूपाय नमः ।
ॐ कलिकल्मषनाशनाय नमः ।
ॐ विमर्शरूपाय नमः ।
ॐ विमलाय नमः ।
ॐ नित्यरूपाय नमः ।
ॐ निराश्रयाय नमः ।
ॐ नित्यशुद्धाय नमः ।
ॐ नित्यबुद्धाय नमः ।
ॐ नित्यमुक्ताय नमः ।
ॐ अपराकृताय नमः ।
ॐ मैत्र्यादिवासनालभ्याय नमः । 880

ॐ महाप्रलयसंस्थिताय नमः ।
ॐ महाकैलासनिलयाय नमः ।
ॐ प्रज्ञानघनविग्रहाय नमः ।
ॐ श्रीमते नमः ।
ॐ व्याघ्रपुरावासाय नमः ।
ॐ भुक्तिमुक्तिप्रदायकाय नमः ।
ॐ जगद्योनये नमः ।
ॐ जगत्साक्षिणे नमः ।
ॐ जगदीशाय नमः ।
ॐ जगन्मयाय नमः ।
ॐ जपाय नमः ।
ॐ जपपराय नमः ।
ॐ जप्याय नमः ।
ॐ विद्यासिंहासनप्रभवे नमः ।
ॐ तत्त्वानां प्रकृतये नमः ।
ॐ तत्त्वाय नमः ।
ॐ तत्त्वंपदनिरूपिताय नमः ।
ॐ दिक्कालाद्यनवच्छिन्नाय नमः ।
ॐ सहजानंदसागराय नमः ।
ॐ प्रकृतये नमः । 900

ॐ प्राकृतातीताय नमः ।
ॐ विज्ञानैकरसाकृतये नमः ।
ॐ निःशंकमतिदूरस्थाय नमः ।
ॐ चैत्यचेतनचिंतनाय नमः ।
ॐ तारकानां हृदंतस्थाय नमः ।
ॐ तारकाय नमः ।
ॐ तारकांतकाय नमः ।
ॐ ध्यानैकप्रकटाय नमः ।
ॐ ध्येयाय नमः ।
ॐ ध्यानिने नमः ।
ॐ ध्यानविभूषणाय नमः ।
ॐ परस्मै व्योम्ने नमः ।
ॐ परस्मै धाम्ने नमः ।
ॐ परमात्मने नमः ।
ॐ परस्मै पदाय नमः ।
ॐ पूर्णानंदाय नमः ।
ॐ सदानंदाय नमः ।
ॐ नादमध्यप्रतिष्ठिताय नमः ।
ॐ प्रमाविपर्ययातीताय नमः ।
ॐ प्रणताज्ञाननाशकाय नमः । 920

ॐ बाणार्चितांघ्रये नमः ।
ॐ बहुदाय नमः ।
ॐ बालकेलिकुतूहलिने नमः ।
ॐ ब्रह्मरूपिणे नमः ।
ॐ ब्रह्मपदाय नमः ।
ॐ ब्रह्मविदे नमः ।
ॐ ब्राह्मणप्रियाय नमः ।
ॐ भूक्षेपदत्तलक्ष्मीकाय नमः ।
ॐ भ्रूमध्यध्यानलक्षिताय नमः ।
ॐ यशस्कराय नमः ।
ॐ रत्नगर्भाय नमः ।
ॐ महाराज्यसुखप्रदाय नमः ।
ॐ शब्दब्रह्मणे नमः ।
ॐ शमप्राप्याय नमः ।
ॐ लाभकृते नमः ।
ॐ लोकविश्रुताय नमः ।
ॐ शास्त्रे नमः ।
ॐ शिवाद्रिनिलयाय नमः ।
ॐ शरण्याय नमः ।
ॐ याजकप्रियाय नमः । 940

ॐ संसारवैद्याय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सभेषजविभेषजाय नमः ।
ॐ मनोवचोभिरग्राह्याय नमः ।
ॐ पंचकोशविलक्षणाय नमः ।
ॐ अवस्थात्रयनिर्मुक्ताय नमः ।
ॐ अवस्थासाक्षितुर्यकाय नमः ।
ॐ पंचभूतादिदूरस्थाय नमः ।
ॐ प्रत्यगेकरसाय नमः ।
ॐ अव्ययाय नमः ।
ॐ षट्चक्रांतर्गतोल्लासिने नमः ।
ॐ षड्विकारविवर्जिताय नमः ।
ॐ विज्ञानघनसंपूर्णाय नमः ।
ॐ वीणावादनतत्पराय नमः ।
ॐ नीहाराकारगौरांगाय नमः ।
ॐ महालावण्यवारिधये नमः ।
ॐ पराभिचारशमनाय नमः ।
ॐ षडध्वोपरिसंस्थिताय नमः ।
ॐ सुषुम्नामार्गसंचारिणे नमः ।
ॐ बिसतंतुनिभाकृतये नमः । 960

ॐ पिनाकिने नमः ।
ॐ लिंगरूपश्रिये नमः ।
ॐ मंगलावयवोज्ज्वलाय नमः ।
ॐ क्षेत्राधिपाय नमः ।
ॐ सुसंवेद्याय नमः ।
ॐ श्रीप्रदाय नमः ।
ॐ विभवप्रदाय नमः ।
ॐ सर्ववश्यकराय नमः ।
ॐ सर्वदोषघ्ने नमः ।
ॐ पुत्रपौत्रदाय नमः ।
ॐ तैलदीपप्रियाय नमः ।
ॐ तैलपक्वान्नप्रीतमानसाय नमः ।
ॐ तैलाभिषेकसंतुष्टाय नमः ।
ॐ तिलभक्षणतत्पराय नमः ।
ॐ आपादकणिकामुक्ताभूषाशतमनोहराय नमः ।
ॐ शाणोल्लीढमणिश्रेणीरम्यांघ्रिनखमंडलाय नमः ।
ॐ मणिमंजीरकिरणकिंजल्कितपदांबुजाय नमः ।
ॐ अपस्मारोपरिन्यस्तसव्यपादसरोरुहाय नमः ।
ॐ कंदर्पतूणाभजंघाय नमः ।
ॐ गुल्फोदंचितनूपुराय नमः । 980

ॐ करिहस्तोपमेयोरवे नमः ।
ॐ आदर्शोज्ज्वलजानुभृते नमः ।
ॐ विशंकटकटिन्यस्तवाचालमणिमेखलाय नमः ।
ॐ आवर्तनाभिरोमालिवलिमत्पल्लवोदराय नमः ।
ॐ मुक्ताहारलसत्तुंगविपुलोरस्करंजिताय नमः ।
ॐ वीरासनसमासीनाय नमः ।
ॐ वीणापुस्तोल्लसत्कराय नमः ।
ॐ अक्षमालालसत्पाणये नमः ।
ॐ चिन्मुद्रितकरांबुजाय नमः ।
ॐ माणिक्यकंकणोल्लासिकरांबुजविराजिताय नमः ।
ॐ अनर्घरत्नग्रैवेयविलसत्कंबुकंधराय नमः ।
ॐ अनाकलितसादृश्यचिबुकश्रीविराजिताय नमः ।
ॐ मुग्धस्मितपरीपाकप्रकाशितरदांकुराय नमः ।
ॐ चारुचांपेयपुष्पाभनासिकापुटरंजिताय नमः ।
ॐ वरवज्रशिलादर्शपरिभाविकपोलभुवे नमः ।
ॐ कर्णद्वयोल्लसद्दिव्यमणिकुंडलमंडिताय नमः ।
ॐ करुणालहरीपूर्णकर्णांतायतलोचनाय नमः ।
ॐ अर्धचंद्राभनिटिलपाटीरतिलकोज्ज्वलाय नमः ।
ॐ चारुचामीकराकारजटाचर्चितचंदनाय नमः ।
ॐ कैलासशिखरस्फर्धिकमनीयनिजाकृतये नमः । 1000

इति श्री दक्षिणामूर्ति सहस्रनामावलिः ॥

गमनिक: पैन इव्वबडिन स्तोत्रमु, ई पुस्तकमुलो कूडा उन्नदि.




Browse Related Categories: