View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री महान्यासम् - 7.2. पुरुष सूक्तं

(तै. अर. 3.12.1 - तै. अर. 3.12.7)

स॒हस्र॑शीर्​षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठ-द्दशांगु॒लम् । पुरु॑ष ए॒वेदग्ं सर्व᳚म् । य-द्भू॒तं-यँच्च॒ भव्य᳚म् ।
उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑ना-ति॒रोह॑ति ।
ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्ग्॑श्च॒ पूरु॑षः ॥ 1

पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒-मृतं॑ दि॒वि । त्रि॒पादू॒र्ध्व उदै॒त् पुरु॑षः । पादो᳚ ऽस्ये॒हाऽऽभ॑वा॒त् पुनः॑ ।
ततो॒ विष्वं॒-व्यँ॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ॥ तस्मा᳚-द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चा-द्भूमि॒मथो॑ पु॒रः ॥ 2

यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत । व॒सं॒तो अ॑स्यासी॒दाज्य᳚म् । ग्री॒ष्म इ॒द्ध्म श्श॒रद्ध॒विः । स॒प्तास्या॑सन् परि॒धयः॑ । त्रिः स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वाय-द्य॒ज्ञं त॑न्वा॒नाः । अब॑ध्न॒न् पुरु॑षं प॒शुम् ॥
तं-यँ॒ज्ञं ब॒र्​हिषि॒ प्रौक्षन्न्॑ । पुरु॑षं जा॒तम॑ग्र॒तः ॥ 3

तेन॑ दे॒वा अय॑जंत । सा॒द्ध्या ऋष॑यश्च॒ ये ।
तस्मा᳚-द्य॒ज्ञात् स॑र्व॒हुतः॑ । संभृ॑तं पृषदा॒ज्यम् । प॒शूग्ग्​स्ताग्ग्​श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान् ग्रा॒म्याश्च॒ ये । तस्मा᳚-द्य॒ज्ञात् स॑र्व॒हुतः॑ । ऋचः॒ सामा॑नि जज्ञिरे ।
छंदाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑-दजायत ॥ 4

तस्मा॒दश्वा॑ अजायंत । ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ ।
यत्पुरु॑षं॒-व्यँ॑दधुः । क॒ति॒धा व्य॑कल्पयन्न् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते । ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ॥ 5

ऊ॒रू तद॑स्य॒ य-द्वैश्यः॑ । प॒द्भ्याग्ं शू॒द्रो अ॑जायत । चं॒द्रमा॒ मन॑सो जा॒तः । चक्षोः॒ सूर्यो॑ अजायत । मुखा॒-दिंद्र॑श्चा॒ग्निश्च॑ ।
प्रा॒णा-द्वा॒युर॑जायत । नाभ्या॑ आसीदं॒तरि॑क्षम् । शी॒र्​ष्णो द्यौः सम॑वर्तत । प॒द्भ्यां भूमि॒ र्दिशः॒ श्रोत्रा᳚त् । तथा॑ लो॒काग्ं अ॑कल्पयन्न् ॥ 6

वेदा॒हमे॒तं पुरु॑षं म॒हांत᳚म् । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाभि॒वद॒न् यदास्ते᳚ । धा॒ता पु॒रस्ता॒-द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान् प्र॒दिश॒श्चत॑स्रः । तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पंथा॒ अय॑नाय विद्यते ।
य॒ज्ञेन॑ य॒ज्ञम॑यजंत दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् । ते ह॒ नाकं॑ महि॒मान॑-स्सचंते । यत्र॒ पूर्वे॑ सा॒द्ध्याः संति॑ दे॒वाः ॥ 7

ॐ नमो भगवते॑ रुद्रा॒य ॥ पुरुषसूक्तग्ं शिरसे स्वाहा ॥




Browse Related Categories: