View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री ललिता हृदयम्

अथश्रीललिताहृदयस्तोत्रम् ॥

श्रीललितांबिकायै नमः ।
देव्युवाच ।
देवदेव महादेव सच्चिदानंदविग्रहा ।
सुंदर्याहृदयं स्तोत्रं परं कौतूहलं विभो ॥ 1॥

ईश्वरौवाच ।

साधु साधुत्वया प्राज्ञे लोकानुग्रहकारकम् ।
रहस्यमपिवक्ष्यामि सावधानमनाःश‍ऋणु ॥ 2॥

श्रीविद्यां जगतां धात्रीं सर्ग्गस्थितिलयेश्वरीम् ।
नमामिललितां नित्यां भक्तानामिष्टदायिनीम् ॥ 3॥

बिंदुत्रिकोणसम्युक्तं वसुकोणसमन्वितम् ।
दशकोणद्वयोपेतं चतुर्द्दश समन्वितम् ॥ 4॥

दलाष्टकेसरोपेतं दलषोडशकान्वितम् ।
वृत्तत्रययान्वितंभूमिसदनत्रयभूषितम् ॥ 5॥

नमामि ललिताचक्रं भक्तानामिष्टदायकम् ।
अमृतांभोनिधिंतत्र रत्नद्वीपं नमाम्यहम् ॥ 6॥

नानावृक्षमहोद्यानं वंदेहं कल्पवाटिकाम् ।
संतानवाटिकांवंदे हरिचंदनवाटिकाम् ॥ 7॥

मंदारवाटिकां पारिजातवाटीं मुदा भजे ।
नमामितव देवेशि कदंबवनवाटिकाम् ॥ 8॥

पुष्यरागमहारत्नप्राकारं प्रणमाम्यहम् ।
पद्मरागादिमणिभिःप्राकारं सर्वदा भजे ॥ 9॥

गोमेदरत्नप्राकारं वज्रप्राकारमाश्रये ।
वैडूर्यरत्नप्राकारंप्रणमामि कुलेश्वरी ॥ 10॥

इंद्रनीलाख्यरत्नानां प्राकारं प्रणमाम्यहम् ।
मुक्ताफलमहारत्नप्राकारंप्रणमाम्यहम् ॥ 11॥

मरताख्यमहारत्नप्राकाराय नमोनमः ।
विद्रुमाख्यमहारत्नप्राकारंप्रणमाम्यहम् ॥ 12॥

माणिक्यमंडपं रत्नसहस्रस्तंभमंडपम् ।
ललिते!तवदेवेशि भजाम्यमृतवापिकाम् ॥ 13॥

आनंदवापिकां वंदेविमर्शवापिकां भजे ।
भजेबालातपोल्गारं चंद्रिकोगारिकां भजे ॥ 14॥

महाश‍ऋंगारपरिखां महापत्माटवीं भजे ।
चिंतामणिमहारत्नगृहराजं नमाम्यहम् ॥ 15॥

पूर्वांनायमयं पूर्व्वद्वारं देवि नमाम्यहम् ।
दक्षिणांनायरूपंतेदक्षिणद्वारमाश्रये ॥ 16॥

नमामि पश्चिमद्वारं पश्चिमाम्नाय रूपकम् ।
वंदेहमुत्तरद्वारमुत्तराम्नायरूपकम् ॥ 17॥

ऊर्द्ध्वाम्नायमयं वंदे ह्यूर्द्धद्वारं कुलेश्वरि ।
ललितेतव देवेशि महासिंहासनं भजे ॥ 18॥

ब्रह्मात्मकं मंचपादमेकं तव नमाम्यहम् ।
एकंविष्णुमयं मंचपादमन्यं नमाम्यहम् ॥ 19॥

एकं रुद्रमयं मंचपादमन्यं नमाम्यहम् ।
मंचपादंममाम्येकं तव देवीश्वरात्मकम् ॥ 20॥

मंचैकफलकं वंदे सदाशिवमयं शुभम् ।
नमामितेहंसतूलतल्पकं परमेश्वरी! ॥ 21॥

नमामिते हंसतूलमहोपाधानमुत्तमम् ।
कौस्तुभास्तरणंवंदे तव नित्यं कुलेश्वरी ॥ 22॥

महावितानिकां वंदे महायविनिकां भजे ।
एवं पूजागृहं ध्यात्वा श्रीचक्रे श्रीशिवां भजे ॥ 23॥

स्वदक्षिणे स्थापयामि भागे पुष्पाक्षतादिकान् ।
अमितांस्तेमहादेवि दीपान् संदर्शयाम्यहम् ॥ 24॥

मूलेन त्रिपुराचक्रं तव संपूज्ययाम्यहम् ।
त्रिभिःखंडैस्तवख्यातैः पूजयामि महेश्वरि! ॥ 25॥

वाय्वग्नि जलसम्युक्तं प्राणायामैरहं शिवै ।
शोषाणांदाहनं चैव करोमि प्लावनं तथा ॥ 26॥

त्रिवारं मूलमंत्रेण प्राणायामं करोम्यहम् ।
पाषंडकारिणोभूता भूमौये चांतरिक्षके ॥ 27॥

करोम्यनेन मंत्रेण तालत्रयमहं शिवे ।
नारायणोऽहंब्रह्माहं भैरवोऽहं शिवोस्म्यहम् ॥ 28॥

देवोहं परमानंदोऽस्म्यहं त्रिपुरसुंदरि ।
ध्यात्वावै वज्रकवचं न्यासं तव करोम्यहम् ॥ 29॥

कुमारीबीजसम्युक्तं महात्रिपुरसुंदरि! ।
मांरक्षरक्षेति हृदि करोम्यज्ञलिमीश्वरि! ॥ 30॥

महादेव्यासनायेति प्रकरोम्यासनं शिवे ।
चक्रासनंनमस्यामि सर्वमंत्रासनं शिवे ॥ 31॥

साद्ध्यसिद्धासनं मंत्रैरेभिर्युक्तं महेश्वरि ।
करोम्यस्मिंचक्रमंत्रैर्देवतासनमुत्तमम् ॥ 32॥

करोम्यथ षडंगाख्यं मातृकां च कलां न्यसे ।
श्रीकंटंकेशवं चैव प्रपंचं योगमातृकाम् ॥ 33॥

तत्त्वन्यासं ततः कूर्व्वे चतुष्पीटं यथाचरे ।
लघुषोढांततः कूर्व्वे शक्तिन्यासं महोत्तमम् ॥ 34॥

पीटन्यासं ततः कुर्वे देवतावाहनं प्रिये ।
कुंकुमन्यासकंचैव चक्रन्यासमथाचरे ॥ 35॥

चक्रन्यासं ततः कुर्व्वे न्यासं कामकलाद्वयम् ।
षोडशार्ण्णमहामंत्रैरंगन्यासंकरोम्यहम् ॥ 36॥

महाषोढां ततः कुर्व्वे शांभवं च महाप्रिये ।
ततोमूलंप्रजप्त्वाथ पादुकांच ततः परम् ॥ 37॥

गुरवे सम्यगर्च्याथ देवतां हृदिसंभजे ।
करोमिमंडलं वृत्तं चतुरश्रं शिवप्रिये ॥ 38॥

पुष्पैरभ्यर्च्च्यसाधारं शंखं संपूजयामहम् ।
अर्च्चयामिषडंगेन जलमापूरयाम्यहम् ॥ 39॥

ददामि चादिमं बिंदुं कुर्वे मूलाभिमंत्रितम् ।
तज्जलेनजगन्मातस्त्रिकोणं वृत्तसम्युतम् ॥ 40॥

षल्कोणं चतुरश्रंच मंडलं प्रणमाम्यहम् ।
विद्ययापूजयामीह त्रिखंडेन तु पूजनम् ॥ 41॥

बीजेनवृत्तषल्कोणं पूजयामि तवप्रिये ।
तस्मिंदेवीकलात्मानां मणिमंडलमाश्रये ॥ 42॥

धूम्रार्च्चिषं नमस्यामि ऊष्मां च ज्वलनीं तथा ।
ज्वालिनींच नमस्यामि वंदेहं विस्पुलिंगिनीम् ॥ 43॥

सुश्रियं च सुरूपांचकंपिलां प्रणमाम्यहम् ।
नौमिहव्यवहां नित्यां भजे कव्यवहां कलाम् ॥ 44॥

सूर्याग्निमंडलां तत्र सकलाद्वादशात्मकम् ।
अर्घ्यपाद्यमहंतत्र तपिनीं तापिनीं भजे ॥ 45॥

धूम्रां मरीचीं वंदेहं ज्वालिनीं मरुहं भजे ।
सुषुम्नांभोगदां वंदे भजे विश्वां च बोधिनीम् ॥ 46॥

धारिणीं च क्षमां वंदे सौरीरेताः कलाभजे ।
आश्रयेमण्मलं चांद्रं तल्कलाषोडशात्मकम् ॥ 47॥

अमृतां मानदां वंदे पूषां तुष्टीं भजाम्यहम् ।
पुष्टिंभजे महादेवि भजेऽहं च रतिं धृतिम् ॥ 48॥

रशनिं चंद्रिकां वंदे कांतीं जोत्सना श्रियं भजे ।
नेऔमिप्रीतिंचागतदांचपूर्ण्णिमाममृतांभजे ॥ 49॥

त्रिकोणलेखनं कुर्व्वे आकारादिसुरेखकम् ।
हलक्षवर्ण्णसम्युक्तंस्पीतं तं हंसभास्करम् ॥ 50॥

वाक्कामशक्ति संयुक्तं हंसमाराधयाम्यहम् ।
वृत्ताद्बहिःषडश्रस्यलेखनं प्रकरोम्यहम् ॥ 51॥

पुरतोग्न्यादिषल्ख़ओणं कखगेनार्च्चयाम्यहम् ।
श्रीविद्ययासप्तवारं करोम्यत्राभि मंत्रितम् ॥ 52॥

समर्प्पयामि देवेशि तस्मात् गंधाक्षतादिकम् ।
ध्यायामिपूजाद्रव्येषु तत् सर्वं विद्ययायुतम् ॥ 53॥

चतुर्न्नवतिसन्मंत्रान् स्पृष्ट्वा तत् प्रजपाम्यहम् ।
वह्नेर्द्दशकलाःसूर्यकलाद्वादशकं भजे ॥ 54॥

आश्रये शोडषकलास्तत्र चंद्रमसस्तदा ।
सृष्टिम्वृद्धिं स्मृतिं वंदे मेधां कांतीं तथैव च ॥ 55॥

लक्ष्मीं द्युथिं स्थितां वंदे स्थितिं सिद्धिं भजाम्यहम् ।
एताब्रह्मकलावंदे जरांथां पालिनीं भजे ॥ 56॥

शांतिं नमामीश्वरीं च रतीं वंदे च कारिकाम् ।
वरदांह्लादिनीं वंदे प्रीतिं दीर्घां भजाभम्यहम् ॥ 57॥

एता विष्णुअकलावंदे तीक्षणां रौद्रिं भयां भजे ।
निद्रांतंद्रीं क्षुधां वंदे नमामि क्रोधिनीं क्रियाम् ॥ 58॥

उल्कारीं मृत्युरूपां च एता रुद्रकला भजे ।
नीलांपीतां भजे श्वेतां वंदेहमरुणां कलाम् ॥ 59॥

अनंतख्यां कलांचेति ईश्वरस्य कलाभजे ।
निवृत्तिंचप्रतिष्ठांचविद्यांशांतिं भजाम्यहम् ॥ 60॥

रोधिकां दीपिकां वंदे रेचिकां मोचिकां भजे ।
परांसूक्षामृतां सूक्षां प्रणामि कुलेश्वरि! ॥ 61॥

ज्ञानाख्यांचनमस्यामि नौमिज्ञानामृतां कलाम् ।
आप्यायिनींव्यापिनीं च मोदिनीं प्रणमाम्यहम् ॥ 62॥

कलाः सदाशिवस्यैताः षोडश प्रणमाम्यहम् ।
विष्णुयोनिन्नमस्यामि मूलविद्यां नमाम्यहम् ॥ 63॥

त्रैयंबकं नमस्यामि तद्विष्णुं प्रणमाम्यहम् ।
विष्णुयोनिम्नमस्यामि मूलविद्यां नमाम्यहम् ॥ 64॥

अमृतं मंत्रितं वंदे चतुर्न्नवतिभिस्तथा ।
अखंडैकरसानंदकरेपरसुधात्मनि ॥ 65॥

स्वच्छंदस्पपुरणं मंत्रं नीधेहि कुलरूपिणि ।
अकुलस्थामृताकारेसिद्धिज्ञानकरेपरे ॥ 66॥

अमृतं निधेह्यस्मिन् वस्तुनिक्लिन्नरूपिणि ।
तद्रूपाणेकरस्यत्वंकृत्वाह्येतत्स्वरूपिणि ॥ 67॥

भूत्वा परामृताकारमयि चित् स्पुरणं कुरु ।
एभिर्म्मनूत्तमैर्वंदेमंत्रितं परमामृतम् ॥ 68॥

जोतिम्मयमिदं वंदे परमर्घ्यंच सुंदरि ।
तद्विंदुभिर्मेशिरसि गुरुं संतर्प्पयाम्यहम् ॥ 69॥

ब्रह्मास्मिन् तद्विंदुं कुंडलिन्यां जुहोम्यहम् ।
हृच्चक्रस्तां-महादेवीम्महात्रिपुरसुंदरीम् ॥ 70॥

निरस्तमोहतिमिरां साक्षात् संवित्स्वरूपिणीम् ।
नासापुटात्परकलामथनिर्ग्गमयाम्यहम् ॥ 71॥

नमामियोनिमद्ध्यास्थां त्रिखंडकुसुमांंजलिम् ।
जगन्मातर्महादेवियंत्रेत्वां स्थापयाम्यहम् ॥ 72॥

सुधाचैतन्यमूर्त्तीं ते कल्पयामिमनुं तव ।
अनेनदेविमंत्रयंत्रेत्वां स्थापयाम्यहम् ॥ 73॥

महापद्मवनांतस्थे कारणानंतविग्रहे ।
सर्वभूतहितेमातरेह्यपि परमेश्वरि ॥ 74॥

देवेशी भक्तसुलभे सर्वाभरणभूषिते ।
यावत्वंपूजयामीहतावत्त्वं सुस्थिराभव ॥ 75॥

अनेन मंत्रयुग्मेन त्वामत्रावाहयाम्यहम् ।
कल्पयामिनमः पादमर्घ्यं ते कल्पयाम्यहम् ॥ 76॥

गंधतैलाभ्यंजनंचमज्जशालाप्रवेशम् ।
कल्पयामिनमस्तस्मै मणिपीठोप्रवेशनम् ॥ 77॥

दिव्यस्नानीयमीशानि गृहाणोद्वर्त्तनं शुभे ।
गृहाणोष्णादकस्नानंकल्पयाम्यभिषेचनम् ॥ 78॥

हेमकुंभायुतैः स्निग्द्धैः कल्पयाम्यभिषेचनम् ।
कल्पयामिनमस्तुभ्यं धेऔतेन परिमार्ज्जनम् ॥ 79॥

बालभानु प्रतीकाशं दुकूलं परिधानकम् ।
अरुणेनदुकुलेनोत्तरीयं कल्पयाम्यहम् ॥ 80॥

प्रवेशनं कल्पयामि सर्वांगानि विलेपनम् ।
नमस्तेकल्पयाम्यत्र मणिपीठोपवेशनम् ॥ 81॥

अष्टगंधैः कल्पयामि तवलेखनमंबिके ।
कालागरुमहाधूपंकल्पयामि नमश्शिवे ॥ 82॥

मल्लिकामालातीजाति चंपकादि मनोरमैः ।
अर्च्चितांकुसुमैर्म्मालां कल्पयामि नमश्शिवे ॥ 83॥

प्रवेशनं कल्पयामि नमो भूषणमंडपे ।
उपवेश्यंरत्नपीठे तत्रते कल्पयाम्यहम् ॥ 84॥

नवमाणिक्यमकुटं तत्रते कल्पयाम्यहम् ।
शरच्चंद्रनिभंयुक्तं तच्चंद्रशकलं तव ॥ 85॥

तत सीमंतसिंदूरं कस्तूरीतिलकं तव ।
कालाज्ञनंकल्पयामि पालीयुगलमुत्तमम् ॥ 86॥

मणिकुंडलयुग्मंच नासाभरणमीश्वरी! ।
ताटंकयुगलंदेवि ललिते धारयाम्यहम् ॥ 87॥

अथाद्यां भूषणं कंठे महाचिंताकमुत्तमम् ।
पदकंते कल्पयामि महापदकमुत्तमम् ॥ 88॥

मुक्तावलीं कल्पयामि चैकावलि समन्विताम् ।
छन्नवीरंचकेयूरयुगलानां चतुष्टयम् ॥ 89॥

वलयावलिमालानीं चोर्मिकावलिमीश्वरि ।
कांचीदामकटीसूत्रंसौभग्याभरणं च ते ॥ 90॥

त्रिपुरे पादकटकं कल्पये रत्ननूपुरम् ।
पादांगुलीयकंतुभ्यं पाशमेकं करेतव ॥ 91॥

अन्ये करेंकुशं देवि पूंड्रेक्षुधनुषं तव ।
अपरेपुष्पबाणंच श्रीमन्माणिक्यपादुके ॥ 92॥

तदावरण देवेशि महामंचादिरोहणम् ।
कामेश्वरांकपर्यंकमुपवेशनमुत्तमम् ॥ 93॥

सुधया पूर्ण्णचषकं ततस्तत् पानमुत्तमम् ।
कर्प्पूरवीटिकांतुभ्यं कल्पयामि नमः शिवे ॥ 94॥

आनंदोल्लासविलसद्धंसं ते कल्पयाम्यहम् ।
मंगलारात्रिकंवंदे छत्रं ते कल्पयाम्यहम् ॥ 95॥

चामरं यूगलं देविदर्प्पणं कल्पयाम्यहम् ।
तालव्रिंतंकल्पयामिगंधपुष्पाक्षतैरपि ॥ 96॥

धूपं दीपश्चनैवेद्यं कल्पयामि शिवप्रिये ।
अथाहंबैंदवे चक्रे सर्वानंदमयात्मके ॥ 97॥

रत्नसिंहासने रम्ये समासीनां शिवप्रियाम् ।
उद्यद्भानुसहस्राभांजपापुष्पसमप्रभाम् ॥ 98॥

नवरत्नप्रभायुक्तमकुटेन विराजिताम् ।
चंद्ररेखासमोपेतांकस्तूरितिलकांकिताम् ॥ 99॥

कामकोदंडसौंदर्यनिर्ज्जितभ्रूलतायुताम् ।
अंजनांचितनेत्रांतुपद्मपत्रनिभेषणाम् ॥ 100॥

मणिकुंडलसम्युक्त कर्ण्णद्वयविराजिताम् ।
तांबूलपूरितमुखींसुस्मितास्यविराजिताम् ॥ 101॥

आद्यभूषणसम्युक्तां हेमचिंताकसंयुताम् ।
पदकेनसमोपेतां महापदकसंयुताम् ॥ 102॥

मुक्ताफलसमोपेतामेकावलिसमन्विताम् ।
कौसुभांगदसंयुक्तचतुर्बाहुसमन्विताम् ॥ 103॥

अष्टगंधसमोपेतां श्रीचंदनविराजिताम् ।
हेमकुंभोपमप्रख्यस्तनद्वंदविराजिताम् ॥ 104॥

रक्तवस्त्रपरीधानां रक्तकंचुकसंयुताम् ।
सूक्ष्मरोमावलियुक्ततनुमद्ध्यविराजिताम् ॥ 105॥

मुक्तामाणिक्यखचित कांचीयुतनितंबनीम् ।
सदाशिवाङकस्थबृहन्महाजघनमंडलाम् ॥ 106॥

कदलिस्तंभसंराजदूरुद्वयविराजिताम् ।
कपालीकांतिसंकाशजंघायुगलशोभिताम् ॥ 107॥

ग्रूढगुल्फद्वेयोपेतां रक्तपादसमन्विताम् ।
ब्रह्मविष्णुमहेशादिकिरीटस्फूर्ज्जितांघ्रिकाम् ॥ 108॥

कांत्या विराजितपदां भक्तत्राण परायणाम् ।
इक्षुकार्मुकपुष्पेषुपाशांकुशधरांशुभाम् ॥ 109॥

संवित्स्वरूपिणीं वंदे ध्यायामि परमेश्वरीम् ।
प्रदर्शयाम्यथशिवेदशामुद्राः फलप्रदाः ॥ 110॥

त्वां तर्प्पयामि त्रिपुरे त्रिधना पार्व्वति ।
अग्नौमहेशदिग्भागे नैरृत्र्यां मारुते तथा ॥ 111॥

इंद्राशावारुणी भागे षडंगान्यर्च्चये क्रमात् ।
आद्यांकामेश्वरीं वंदे नमामि भगमालिनीम् ॥ 112॥

नित्यक्लिन्नां नमस्यामि भेरुंडां प्रणमाम्यहम् ।
वह्निवासान्नमस्यामि महाविद्येश्वरीं भजे ॥ 113॥

शिवदूतिं नमस्यामि त्वरितां कुल सुंदरीम् ।
नित्यान्नीलपताकांच विजयां सर्वमंगलाम् ॥ 114॥

ज्वालामालांच चित्रांच महानित्यां च संस्तुवे ।
प्रकाशानंदनाथाख्यांपराशक्तिनमाम्यहम् ॥ 115॥

शुक्लदेवीं नमस्यामि प्रणमामि कुलेश्वरीम् ।
परशिवानंदनाथाख्यांपराशक्ति नमाम्यहम् ॥ 116॥

कौलेश्वरानंदनाथं नौमि कामेश्वरीं सदा ।
भोगानंदन्नमस्यामि सिद्धौघंच वरानने ॥ 117॥

क्लिन्नानंदं नमस्यामि समयानंदमेवच ।
सहजानंदनाथंचप्रणमामि मुहुर्मुहु ॥ 118॥

मानवौघं नमस्यामि गगनानंदगप्यहम् ।
विश्वानंदन्नमस्यामि विमलानंदमेवच ॥ 119॥

मदनानंदनाथंच भुवनानंदरूपिणीम् ।
लीलानंदन्नमस्यामि स्वात्मानंदं महेश्वरि ॥ 120॥

प्रणमामिप्रियानंदं सर्वकामफलप्रदम् ।
परमेष्टिगुरुंवंदे परमंगुरुमाश्रये ॥ 121॥

श्रीगुरुं प्रणमस्यामि मूर्द्ध्नि ब्रह्मबिलेश्वरीम् ।
श्रीमदानंदनाथाख्यश्रिगुरोपादुकां तथा ॥ 122॥

अथ प्राथमिके देवि चतुरश्रे कुलेश्वरि ।
अणिमांलखिमां वंदे महिमां प्रणमाम्यहम् ॥ 123॥

ईशित्वसिद्धिं कलये वशित्वं प्रणमाम्यहम् ।
प्राकाम्यसिद्धिंभुक्तिंच इच्छाप्राप्र्तिमहं भजे ॥ 124॥

सर्वकामप्रदां सर्वकामसिद्धिमहं भजे ।
मद्ध्यमेचतुरश्रेहं ब्राह्मीं माहेश्वरीं भजे ॥ 125॥

कौमारीं वैष्णवीं वंदे वाराहीं प्रणमाम्यहम् ।
माहेंद्रीमपिचामुंडाम्महालक्ष्मीमहं भजे ॥ 126॥

तृतीये चतुरश्रे तु सर्वसंक्षोभिणीं भजे ।
सर्वविद्रापिणीम्मुद्रां सर्वाकर्षिणिकां भजे ॥ 127॥

मुद्रां वशंकरीं वंदे सर्वोन्मादिनिकां भजे ।
भजेमहांकुशां मुद्रां खेचरीं प्रणमाम्यहम् ॥ 128॥

बीजामुद्रां योनिमुद्रां भजे सर्वत्रिखंडिनीम् ।
त्रैलोक्यमोहनंचक्रं नमामि ललिते तव ॥ 129॥

नमामि योगिनीं तत्र प्रखटाख्यामभीष्टदाम् ।
सुधार्ण्णवासनंवंदे तत्र ते परमेश्वरि ॥ 130॥

चक्रेश्वरि महं वंदे त्रिपुरां प्रणमाम्यहम् ।
सर्वसंक्षोभिणीम्मुद्रां ततोहं कलये शिवे ॥ 131॥

अथाहं षोडशदले कामाकर्षिणिकां भजे ।
बुद्ध्याकर्षिणिकां वंदेऽहंकाराकर्षिणीं भजे ॥ 132॥

शब्दाकर्षिणिकां वंदे स्पर्शाकर्षिणिकां भजे ।
रूपाकर्षिणिकांवंदे रसाकर्षिणिकां भजे ॥ 133॥

गंधाकर्षिणिकां वंदे चित्ताकर्षिणिकां भजे ।
धैर्याकर्षिणिकांवंदे स्मृत्याकर्षिणिकां भजे ॥ 134॥

नामाकर्षिणिकां वंदे बीजाकर्षिणिकां भजे ।
आत्माकर्षिणिकांवंदे अमृताकर्षिणिकां भजे ॥ 135॥

शरीराकर्षिणिकां वंदे नित्यां श्रीपरमेश्वरि ।
सर्वाशापूरकंवंदे कल्पयेहं तवेश्वरि ॥ 136॥

गुप्ताख्यां योगिनीं वंदे मातरं गुप्तपूज्यताम् ।
पोतांबुजासनंतत्र नमामि ललिते तव ॥ 137॥

त्रिपुरेशीं नमस्यामि भजामिष्टार्त्थसिद्धिदाम् ।
सर्वविद्राविणिमुद्रांतत्राहं ते विचंतये ॥ 138॥

सिवे तवाष्टपत्रेहमनंगकुसुमां भजे ।
अनंगमेखलांवंदे अनंगमदनां भजे ॥ 139॥

नमोहं प्रणस्यामि अनंगमदनातुराम् ।
अनंगरेखांकलये भजेनंगां च वेगिनीम् ॥ 140॥

अनंगाकुशवंदेऽहमनंगमालिनीं भजे ।
तत्राहंप्रणस्यामि देव्या आसनमुत्तमम् ॥ 141॥

नमामि जगतीशानीं तत्र त्रिपुरसुंदरीम् ।
सर्वाकर्षिणिकाम्मुद्रां तत्राह कल्पयामिते ॥ 142॥

भुवनाश्रये तव शिवे सर्वसंक्षोभिणीं भजे ।
सर्वविद्राविणींवंदे सर्वकर्षिणिकां भजे ॥ 143॥

सर्वह्लादिनीं वंदे सर्वसम्मोहिनीं भजे ।
सकलस्तंभिनीं वंदे कलये सर्वजृंभिणीम् ॥ 144॥

वशंकरीं नमस्यामि सर्वरज्ञिनिकां भजे ।
सकलोन्मदिनीं वंदे भजे सर्वार्थसाधके ॥ 145॥

संपत्तिपुरिकां वंदे सर्वमंत्रमयीं भजे ।
भजाम्येवततश्शक्तिं सर्वद्वंद्वक्ष्यंकरीम् ॥ 146॥

तत्राहं कलये चक्रं सर्वसौभाग्यदायकम् ।
नमामिजगतां धात्रीं संप्रदायाख्ययोगिनिम् ॥ 147॥

नमामि परमेशानीं महात्रिपुरवासिनिम् ।
कलयेहंतव शिवे मुद्रां सर्वशंकरीम् ॥ 148॥

बहिर्द्दशारे ते देवि सर्वसिद्धिप्रदां भजे ।
सर्वसंपत्प्रदां वंदे सर्वप्रियंकरीं भजे ॥ 149॥

नमाम्यहं ततो देवीं सर्वमंगलकारिणीम् ।
सर्वकामप्रदांवंदे सर्वदुःखविमोचिनिम् ॥ 150॥

सर्वमृत्युप्रशमनीं सर्वविघ्ननिवारिणीम् ।
सर्वांगसुंदरींवंदे सर्वसौभाग्यदायिनीम् ॥ 151॥

सर्वार्त्थसाधकं चक्रं तत्राहं ने विचिंतये ।
तत्राहंते नमस्यामि कुलोत्तीर्णाख्य योगिनीम् ॥ 152॥

सर्वमंत्रसनं वंदे त्रिपुराश्रियमाश्रये ।
कलयामिततो मुद्रां सर्वोन्मादन कारिणीम् ॥ 153॥

अंतर्द्दशारे ते देवि सर्वज्ञां प्रणमाम्यहम् ।
सर्वशक्तिन्नमस्यामि सर्वैश्वर्यप्रदां भजे ॥ 154॥

सर्वज्ञानमयीं वंदे सर्वव्याधिविनाशिनीम् ।
सर्वाधारस्वरूपांचसर्वपापहरांभजे ॥ 155॥

सर्वानंदमयिं वंदे सर्वरक्षास्वरूपिणीम् ।
प्रणमामिमहादेवीं सर्वेप्सित फलप्रदाम् ॥ 156॥

सर्वरक्षाकरं चक्रं सुंदरीं कलये सदा ।
निगर्भयोनींवंदे तत्राहं प्रणमाम्यहम् ॥ 157॥

साद्ध्यसिद्धासनं वंदे भजे त्रिपुरमालिनीम् ।
कलयामिततो देवीं मुद्रां सर्वमहांकुशाम् ॥ 158॥

अष्टारे वशिनीं वंदे महा कामेश्वरीं भजे ।
मोदिनींविमलांवंदे अरुणाजयिनीं भजे ॥ 159॥

सर्वेश्वरीं नमस्यामि कौलिनीं प्रणमाम्यहम् ।
सर्वरोगहरंचक्रं तत्राहं कलये सदा ॥ 160॥

नमामि त्रिपुरा सिद्धिं भजे मुद्रां च खेचरीम् ।
महात्रिकोणवत्बाहुचतुरश्रे कुलेश्वरि ॥ 161॥

नमामि जृंभणाबाणं सर्वसम्मोहिनीं भजे ।
पाशंचापं भजे नित्यं भजे स्तंभनमंकुशम् ॥ 162॥

त्रिकोणेहं जगद्धात्रीं महाकामेश्वरीं भजे ।
महावज्रेश्वरींवंदे महाश्रीभगमालिनीम् ॥ 163॥

महाश्रीसुंदरीं वंदे सर्वकामफलप्रदाम् ।
सर्वसिद्धिप्रदंचक्रं तवदेवि नमाम्यहम् ॥ 164॥

नमाम्यतिरहस्याख्यां योगिनीं तवकामदाम् ।
त्रिपुरांबान्नमस्यामि बीजामुद्रामहांभजे ॥ 165॥

मूलमंत्रेण ललिते तल्बिंदौ पूजयाम्यहम् ।
सर्वानंदमयंचक्रं तवदेवि भजाम्यहम् ॥ 166॥

परां पररहस्याख्यां योगिनीं तत्रकामदाम् ।
महाचक्रेश्वरींवंदे योनिमुद्रामहं भजे ॥ 167॥

धूपदीपादिकं सर्वमर्प्पितं कल्पयाम्यहम् ।
त्वल्प्रीतयेमहामुद्रां दर्शयामि ततश्शिवे ॥ 168॥

शाल्यन्नं मधुसम्युक्तं पायसापूप सम्युक्तम् ।
घृतसूपसमायुक्तंदधिक्षीरसमन्वितम् ॥ 169॥

सर्वभक्ष्यसमायुक्तं बहुशाकसमन्वितम् ।
निक्षिप्यकांचने पात्रे नैवेद्यं कल्पयामि ते ॥ 170॥

संकल्पबिंदुना चक्रं कुचौ बिंदुद्वयेन च ।
योनिश्चसपरार्द्धेन कृत्वा श्रीललिते तव ॥ 171॥

एतत् कामकला रूपं भक्तानां सर्वकामदम् ।
सर्वसौभाग्यदंवंदे तत्र त्रिपुरसुंदरीम् ॥ 172॥

वामभागे महेशानि वृत्तं च चतुरस्रकम् ।
कृत्वागंधाक्षताद्यैश्चाप्यर्च्चयामि महेश्वरीम् ॥ 173॥

वाग्दवाद्यं नमस्यामि तत्र व्यापकमंडलम् ।
जलयुक्तेनपाणौ च शुद्धमुद्रा समन्वितम् ॥ 174॥

तत्र मंत्रेण दास्यामि देवि ते बलिमुत्तमम् ।
नमस्तेदेवदेवेशि नम स्त्रैलोक्यवंदिते ॥ 175॥

नमश्शिववरांकस्थे नमस्त्रीपुरसुंदरि ।
प्रदक्षिणनमस्कारमनेनाहं करोमि ते ॥ 176॥

तत संकल्पमंत्राणां समाजं परमेश्वरि ।
प्रजपामिमहाविद्यां त्वत् प्रीत्यर्त्थमहं शिवे ॥ 177॥

तव विद्यां प्रजप्त्वाथ नौमि त्वां परमेश्वरि ।
महादेविमहेशानि महाशिवमये प्रिये ॥ 178॥

महानित्ये महासिद्धे त्वामहं शरणं शिवे ।
जयत्वंत्रिपुरे देवि ललिते परमेश्वरि ॥ 179॥

सदाशिव प्रियंकरि पाहिमां करुणानिधे ।
जगन्मातर्ज्जगद्रूपेजगदीश्वरवल्लभे ॥ 180॥

जगन्मयि जगत् स्तुत्ये गौरि त्वामहमाश्रये ।
अनाद्येसर्वलोकानामाद्ये भक्तेष्टदायिनि ॥ 181॥

गिरिराजेंद्रतनये नमस्तीपुरसुंदरि ।
जयारींजयदेवेशिब्रह्ममातर्महेश्वरि ॥ 182॥

विष्णुमातरमाद्यंते हरमातस्सुरेश्वरि ।
ब्रह्म्यादिमातृसंस्तुत्ये सर्वाभरण सम्युक्ते ॥ 183॥

ज्योतिर्मयि महारूपे पाहिमां त्रिपुरे सदा ।
लक्ष्मीवाण्यादिसं पूज्ये ब्रह्मविष्णुशिवप्रिय ॥ 184॥

भजामि तव पादाब्जं देवि त्रिपुरसुंदरि ।
त्वल्प्रीत्यर्त्थंयतः कांचीच्छक्तिं वैपूजयाम्यहम् ॥ 185॥

ततश्च केतनां शक्तिं तर्पयामि महेश्वरि ।
तथापित्वां भजंस्तोषं चिदग्नौ च ददाम्यहम् ॥ 186॥

त्वल्प्रीत्यर्थ्यं महादेवि ममाभीष्टार्त्थ सिद्धये ।
बद्ध्वात्वां खैचरीमुद्रां क्षमस्वोद्वासयाम्यहम् ॥ 187॥

तिष्ठमे हृदयेनित्यं त्रिपुरे परमेश्वरि ।
जगदंबमहाराज्ञि महाशक्ति शिवप्रिये ॥ 188॥

हृच्चक्रे तिष्तमे नित्यं महात्रिपुरसुंदरि ।
एतत्त्रिपुरसुंदर्या हृदयं सर्वकामदम् ॥ 189॥

महारहस्यं सततं दुर्ल्लभं दैवतैरपि ।
साक्षात्सदाशिवेनोक्तं गुह्यात् गुह्यमनुत्तमम् ॥ 190॥

यः पतेत् श्रद्धया नित्यं श‍ऋणुयाद्वा समाहितः ।
नित्यपूजाफलंदेव्यास्सलभेन्नात्र संशयः ॥ 191॥

पापैः समुच्यते सद्यः कायवाक्क् सित्तसंभवैः ।
पूर्वजन्मसमुत् भ्रदतैर्ज्ञानाज्ञकृतैरपि ॥ 192॥

सर्वक्रतुषुयत् पुण्यं सर्वतीर्त्थेषु यर्फलम् ।
तत्पुण्यं लभते नित्यं मानवो नात्र संशयः ॥ 193॥

अचलां लभते लक्ष्मीं त्रैलोक्येनाति दुर्लभाम् ।
साक्षाद्विष्णुर्महालक्ष्याशीघ्रमेव भविष्यति ॥ 194॥

अष्टैश्वर्य मवाप्नोति स शीघ्रं मानवोत्तमः ।
घंडिकापादुकासिद्ध्यादिष्टकंशीघ्रमश्नुते ॥ 195॥

श्रीमत्त्रिपुरांबिकायै नमः ।
॥ श्रीललिताहृदयस्तोत्रं संपूर्णम् ॥

ॐ तत् सत् ॥




Browse Related Categories: