View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री दुर्गा स्तोत्रम् (युधिष्ठिर कृतं)

विराटनगरं रम्यं गच्छमानो युधिष्ठिरः ।
अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ 1 ॥

यशोदागर्भसंभूतां नारायणवरप्रियाम् ।
नंदगोपकुले जातां मंगल्यां कुलवर्धिनीम् ॥ 2 ॥

कंसविद्रावणकरीमसुराणां क्षयंकरीम् ।
शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् ॥ 3 ॥

वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम् ।
दिव्यांबरधरां देवीं खड्गखेटकधारिणीम् ॥ 4 ॥

भारावतरणे पुण्ये ये स्मरंति सदाशिवाम् ।
तान् वै तारयते पापात् पंके गामिव दुर्बलाम् ॥ 5 ॥

स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः ।
आमंत्र्य दर्शनाकांक्षी राजा देवीं सहानुजः ॥ 6 ॥

नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि ।
बालार्कसदृशाकारे पूर्णचंद्रनिभानने ॥ 7 ॥

चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे ।
मयूरपिच्छवलये केयूरांगदधारिणि ॥ 8 ॥

भासि देवि यथा पद्मा नारायणपरिग्रहः ।
स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥ 9 ॥

कृष्णच्छविसमा कृष्णा संकर्षणसमानना ।
बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ॥ 10 ॥

पात्री च पंकजी घंटी स्त्रीविशुद्धा च या भुवि ।
पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥ 11 ॥

कुंडलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता ।
चंद्रविस्पर्धिना देवि मुखेन त्वं विराजसे ॥ 12 ॥

मुकुटेन विचित्रेण केशबंधेन शोभिना ।
भुजंगाभोगवासेन श्रोणिसूत्रेण राजता ॥ 13 ॥

विभ्राजसे चाबद्धेन भोगेनेवेह मंदरः ।
ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ॥ 14 ॥

कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया ।
तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥ 15 ॥

त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि ।
प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥ 16 ॥

जया त्वं विजया चैव संग्रामे च जयप्रदा ।
ममापि विजयं देहि वरदा त्वं च सांप्रतम् ॥ 17 ॥

विंध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम् ।
कालि कालि महाकालि शीधुमांसपशुप्रिये ॥ 18 ॥

कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी ।
भारावतारे ये च त्वां संस्मरिष्यंति मानवाः ॥ 19 ॥

प्रणमंति च ये त्वां हि प्रभाते तु नरा भुवि ।
न तेषां दुर्लभं किंचित् पुत्रतो धनतोऽपि वा ॥ 20 ॥

दुर्गात् तारयसे दुर्गे तत् त्वं दुर्गा स्मृता जनैः ।
कांतारेष्ववसन्नानां मग्नानां च महार्णवे ।
दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ॥ 21 ॥

जलप्रतरणे चैव कांतारेष्वटवीषु च ।
ये स्मरंति महादेवि न च सीदंति ते नराः ॥ 22 ॥

त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या संततिर्मतिः ।
संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिः क्षमा दया ॥ 23 ॥

नृणां च बंधनं मोहं पुत्रनाशं धनक्षयम् ।
व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥ 24 ॥

सोऽहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् ।
प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥ 25 ॥

त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः ।
शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥ 26 ॥

एवं स्तुता हि सा देवी दर्शयामास पांडवम् ।
उपगम्य तु राजानामिदं वचनमब्रवीत् ॥ 27 ॥

देव्युवाच ।
शृणु राजन् महाबाहो मदीयं वचनं प्रभो ।
भविष्यत्यचिरादेव संग्रामे विजयस्तव ॥ 28 ॥

मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् ।
राज्यं निष्कंटकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥ 29 ॥

भात्रृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् ।
मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥ 30 ॥

ये च संकीर्तयिष्यंति लोके विगतकल्मषाः ।
तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ॥ 31 ॥

प्रवासे नगरे चापि संग्रामे शत्रुसंकटे ।
अटव्यां दुर्गकांतारे सागरे गहने गिरौ ॥ 32 ॥

ये स्मरिष्यंति मां राजन् यथाऽहं भवता स्मृता ।
न तेषां दुर्लभं किंचिदस्मिल्लोके भविष्यति ॥ 33 ॥

इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा ।
तस्य सर्वाणि कार्याणि सिद्धिं यास्यंति पांडवाः ॥ 34 ॥

मत्प्रसादाच्च वः सर्वान्विराटनगरे स्थितान् ।
न प्रज्ञास्यंति कुरवो नरा वा तन्निवासिनः ॥ 35 ॥

इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम् ।
रक्षां कृत्वा च पांडूनां तत्रैवांतरधीयत ॥ 36 ॥

इति श्रीमन्महाभारते विराटपर्वणि अष्टमोऽध्याये युधिष्ठिर कृत श्री दुर्गा स्तोत्रम् ।




Browse Related Categories: