View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

कठोपनिषद् - अध्याय 2, वल्ली 2

अध्याय 2
वल्ली 2

पुरमेकादशद्वारमजस्यावक्रचेतसः।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते। एतद्वै तत्‌ ॥1॥

हंस-श्शुचिषद्वसुरान्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्‌।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋत-म्बृहत्‌ ॥2॥

ऊर्ध्व-म्प्राणमुन्नयत्यपान-म्प्रत्यगस्यति।
मध्ये वामनमासीनं-विँश्वे देवा उपासते ॥3॥

अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते। एतद्वै तत्‌ ॥4॥

न प्राणेन नापानेन मर्त्यो जीवति कश्चन।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥5॥

हन्त त इद-म्प्रवक्ष्यामि गुह्य-म्ब्रह्म सनातनम्‌।
यथा च मरण-म्प्राप्य आत्मा भवति गौतम ॥6॥

योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः।
स्थाणुमन्ये-ऽनुसं​यँन्ति यथाकर्म यथाश्रुतम्‌ ॥7॥

य एष सुप्तेषु जागर्ति काम-ङ्काम-म्पुरुषो निर्मिमाणः।
तदेव शुक्र-न्तद् ब्रह्म तदेवामृतमुच्यते।
तस्मिं​ल्लोँका-श्श्रिता-स्सर्वे तदु नात्येति कश्चन। एतद्वै तत्‌ ॥8॥

अग्निर्यथैको भुवन-म्प्रविष्टो रूपं रूप-म्प्रतिरूपो बभूव।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूप-म्प्रतिरूपो बहिश्च ॥9॥

वायुर्यथैको भुवन-म्प्रविष्टो रूपं रूप-म्प्रतिरूपो बभूव।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूप-म्प्रतिरूपो बहिश्च ॥10॥

सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बह्यिदोषैः।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥11॥

एको वशी सर्वभूतान्तरात्मा एकं रूप-म्बहुधा यः करोति।
तमात्मस्थं-येँ-ऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वत-न्नेतरेषाम्‌ ॥12॥

नित्यो-ऽनित्याना-ञ्चेतनश्चेतनानामेको बहूनां-योँ विदधाति कामान्‌।
तमात्मस्थं-येँ-ऽनुपश्यन्ति धीरास्तेषां शान्ति-श्शाश्वती नेतरेषाम्‌ ॥13॥

तदेतदिति मन्यन्ते-ऽनिर्देश्य-म्परमं सुखम्‌।
कथ-न्नु तद्विजानीया-ङ्किमु भाति विभाति वा ॥14॥

न तत्र सूर्यो भाति न चन्द्रतारक-न्नेमा विद्युतो भान्ति कुतो-ऽयमग्निः।
तमेव भान्तमनुभाति सर्व-न्तस्य भासा सर्वमिदं-विँभाति ॥15॥




Browse Related Categories: