भृगुरुवाच
चतुर्वक्त्र जगन्नाथ स्तोत्रं वद मयि प्रभो ।
यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् ॥ 1 ॥
ब्रह्मोवाच
सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् ।
गुह्याद्गुह्यतरं गुह्यं सुंदर्याः परिकीर्तितम् ॥ 2 ॥
अस्य श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य शंभुरृषिः अनुष्टुप् छंदः श्रीषोडशी देवता धर्मार्थकाममोक्षसिद्ध्यर्थे जपे विनियोगः ।
त्रिपुरा षोडशी माता त्र्यक्षरा त्रितया त्रयी ।
सुंदरी सुमुखी सेव्या सामवेदपरायणा ॥ 3 ॥
शारदा शब्दनिलया सागरा सरिदंबरा ।
शुद्धा शुद्धतनुः साध्वी शिवध्यानपरायणा ॥ 4 ॥
स्वामिनी शंभुवनिता शांभवी च सरस्वती ।
समुद्रमथिनी शीघ्रगामिनी शीघ्रसिद्धिदा ॥ 5 ॥
साधुसेव्या साधुगम्या साधुसंतुष्टमानसा ।
खट्वांगधारिणी खर्वा खड्गखर्परधारिणी ॥ 6 ॥
षड्वर्गभावरहिता षड्वर्गपरिचारिका ।
षड्वर्गा च षडंगा च षोढा षोडशवार्षिकी ॥ 7 ॥
क्रतुरूपा क्रतुमती ऋभुक्षक्रतुमंडिता ।
कवर्गादिपवर्गांता अंतस्थाऽनंतरूपिणी ॥ 8 ॥
अकाराकाररहिता कालमृत्युजरापहा ।
तन्वी तत्त्वेश्वरी तारा त्रिवर्षा ज्ञानरूपिणी ॥ 9 ॥
काली कराली कामेशी छाया संज्ञाप्यरुंधती ।
निर्विकल्पा महावेगा महोत्साहा महोदरी ॥ 10 ॥
मेघा बलाका विमला विमलज्ञानदायिनी ।
गौरी वसुंधरा गोप्त्री गवां पतिनिषेविता ॥ 11 ॥
भगांगा भगरूपा च भक्तिभावपरायणा ।
छिन्नमस्ता महाधूमा तथा धूम्रविभूषणा ॥ 12 ॥
धर्मकर्मादिरहिता धर्मकर्मपरायणा ।
सीता मातंगिनी मेधा मधुदैत्यविनाशिनी ॥ 13 ॥
भैरवी भुवना माताऽभयदा भवसुंदरी ।
भावुका बगला कृत्या बाला त्रिपुरसुंदरी ॥ 14 ॥
रोहिणी रेवती रम्या रंभा रावणवंदिता ।
शतयज्ञमयी सत्त्वा शतक्रतुवरप्रदा ॥ 15 ॥
शतचंद्रानना देवी सहस्रादित्यसन्निभा ।
सोमसूर्याग्निनयना व्याघ्रचर्मांबरावृता ॥ 16 ॥
अर्धेंदुधारिणी मत्ता मदिरा मदिरेक्षणा ।
इति ते कथितं गोप्यं नाम्नामष्टोत्तरं शतम् ॥ 17 ॥
सुंदर्याः सर्वदं सेव्यं महापातकनाशनम् ।
गोपनीयं गोपनीयं गोपनीयं कलौ युगे ॥ 18 ॥
सहस्रनामपाठस्य फलं यद्वै प्रकीर्तितम् ।
तस्मात्कोटिगुणं पुण्यं स्तवस्यास्य प्रकीर्तनात् ॥ 19 ॥
पठेत्सदा भक्तियुतो नरो यो
निशीथकालेऽप्यरुणोदये वा ।
प्रदोषकाले नवमीदिनेऽथवा
लभेत भोगान्परमाद्भुतान्प्रियान् ॥ 20 ॥
इति ब्रह्मयामले पूर्वखंडे षोडश्यष्टोत्तरशतनाम स्तोत्रम् ।