View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

श्री भुवनॆश्वरी अष्टोत्तर शत नामा स्तोत्रं

कैलासशिखरे रम्ये नानारत्नोपशोभिते ।
नरनारीहितार्थाय शिवं पप्रच्छ पार्वती ॥ 1 ॥

देव्युवाच
भुवनेशी महाविद्या नाम्नामष्टोत्तरं शतम् ।
कथयस्व महादेव यद्यहं तव वल्लभा ॥ 2 ॥

ईश्वर उवाच
शृणु देवि महाभागे स्तवराजमिदं शुभम् ।
सहस्रनाम्नामधिकं सिद्धिदं मोक्षहेतुकम् ॥ 3 ॥

शुचिभिः प्रातरुत्थाय पठितव्यः समाहितैः ।
त्रिकालं श्रद्धया युक्तैः सर्वकामफलप्रदः ॥ 4 ॥

अस्य श्रीभुवनेश्वर्यष्टोत्तरशतनाम स्तोत्रमंत्रस्य शक्तिरृषिः गायत्री छंदः श्रीभुवनेश्वरी देवता चतुर्विधफल पुरुषार्थ सिद्ध्यर्थे जपे विनियोगः ॥

अथ स्तोत्रम्
ॐ महामाया महाविद्या महायोगा महोत्कटा ।
माहेश्वरी कुमारी च ब्रह्माणी ब्रह्मरूपिणी ॥ 5 ॥

वागीश्वरी योगरूपा योगिनीकोटिसेविता ।
जया च विजया चैव कौमारी सर्वमंगला ॥ 6 ॥

हिंगुला च विलासी च ज्वालिनी ज्वालरूपिणी ।
ईश्वरी क्रूरसंहारी कुलमार्गप्रदायिनी ॥ 7 ॥

वैष्णवी सुभगाकारा सुकुल्या कुलपूजिता ।
वामांगा वामचारा च वामदेवप्रिया तथा ॥ 8 ॥

डाकिनी योगिनीरूपा भूतेशी भूतनायिका ।
पद्मावती पद्मनेत्रा प्रबुद्धा च सरस्वती ॥ 9 ॥

भूचरी खेचरी माया मातंगी भुवनेश्वरी ।
कांता पतिव्रता साक्षी सुचक्षुः कुंडवासिनी ॥ 10 ॥

उमा कुमारी लोकेशी सुकेशी पद्मरागिणी ।
इंद्राणी ब्रह्मचंडाली चंडिका वायुवल्लभा ॥ 11 ॥

सर्वधातुमयीमूर्तिर्जलरूपा जलोदरी ।
आकाशी रणगा चैव नृकपालविभूषणा ॥ 12 ॥

नर्मदा मोक्षदा चैव धर्मकामार्थदायिनी ।
गायत्री चाऽथ सावित्री त्रिसंध्या तीर्थगामिनी ॥ 13 ॥

अष्टमी नवमी चैव दशम्यैकादशी तथा ।
पौर्णमासी कुहूरूपा तिथिमूर्तिस्वरूपिणी ॥ 14 ॥

सुरारिनाशकारी च उग्ररूपा च वत्सला ।
अनला अर्धमात्रा च अरुणा पीतलोचना ॥ 15 ॥

लज्जा सरस्वती विद्या भवानी पापनाशिनी ।
नागपाशधरा मूर्तिरगाधा धृतकुंडला ॥ 16 ॥

क्षत्ररूपा क्षयकरी तेजस्विनी शुचिस्मिता ।
अव्यक्ताव्यक्तलोका च शंभुरूपा मनस्विनी ॥ 17 ॥

मातंगी मत्तमातंगी महादेवप्रिया सदा ।
दैत्यघ्नी चैव वाराही सर्वशास्त्रमयी शुभा ॥ 18 ॥

य इदं पठते भक्त्या शृणुयाद्वा समाहितः ।
अपुत्रो लभते पुत्रं निर्धनो धनवान् भवेत् ॥ 19 ॥

मूर्खोऽपि लभते शास्त्रं चोरोऽपि लभते गतिम् ।
वेदानां पाठको विप्रः क्षत्रियो विजयी भवेत् ॥ 20 ॥

वैश्यस्तु धनवान् भूयाच्छूद्रस्तु सुखमेधते ।
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः ॥ 21 ॥

ये पठंति सदा भक्त्या न ते वै दुःखभागिनः ।
एककालं द्विकालं वा त्रिकालं वा चतुर्थकम् ॥ 22 ॥

ये पठंति सदा भक्त्या स्वर्गलोके च पूजिताः ।
रुद्रं दृष्ट्वा यथा देवाः पन्नगा गरुडं यथा ।
शत्रवः प्रपलायंते तस्य वक्त्रविलोकनात् ॥ 23 ॥

इति श्रीरुद्रयामले देवीश्वरसंवादे श्री भुवनेश्वर्यष्टोत्तरशतनाम स्तोत्रम् ।




Browse Related Categories: