View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

4 - प्रवर्ग्य मन्त्राः - कृष्ण यजुर्वेद तैत्तिरीय आरण्यक पाठः - युञ्जते मनः

कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके चतुर्थः प्रपाठकः - प्रवर्ग्य मन्त्राः

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अनुवाकं 1
नमो॑ वा॒चे या चो॑दि॒ता या चानु॑दिता॒ तस्यै॑ वा॒चे नमो॒ नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये॒ नम॒ ऋषि॑भ्यो मन्त्र॒कृद्भ्यो॒ मन्त्र॑पतिभ्यो॒ मा मामृष॑यो मन्त्र॒कृतो॑ मन्त्र॒पत॑यः॒ परा॑दु॒र्मा-ऽहमृषी᳚-न्मन्त्र॒कृतो॑ मन्त्र॒पती॒-न्परा॑दां-वैँश्वदे॒वीं-वाँच॑मुद्यासग्ं शि॒वामद॑स्ता॒-ञ्जुष्टा᳚-न्दे॒वेभ्य॒-श्शर्म॑ मे॒ द्यौ-श्शर्म॑ पृथि॒वी शर्म॒ विश्व॑मि॒द-ञ्जग॑त् ।
शर्म॑ च॒न्द्रश्च॒ सूर्य॑श्च॒ शर्म॑ ब्रह्मप्रजाप॒ती ॥
भू॒तं-वँ॑दिष्ये॒ भुव॑नं-वँदिष्ये॒ तेजो॑ वदिष्ये॒ यशो॑ वदिष्ये॒ तपो॑ वदिष्ये॒ ब्रह्म॑ वदिष्ये स॒त्यं-वँ॑दिष्ये॒ तस्मा॑ अ॒हमि॒द-मु॑प॒स्तर॑ण॒-मुप॑स्तृण उप॒स्तर॑ण-म्मे प्र॒जायै॑ पशू॒ना-म्भू॑या-दुप॒स्तर॑णम॒ह-म्प्र॒जायै॑ पशू॒ना-म्भू॑यास॒-म्प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒-म्प्राणा॑पानौ॒ मा मा॑ हासिष्ट॒-म्मधु॑ मनिष्ये॒ मधु॑ जनिष्ये॒ मधु॑ वक्ष्यामि॒ मधु॑ वदिष्यामि॒ मधु॑मती-न्दे॒वेभ्यो॒ वाच॑मुद्यासग्ं शुश्रू॒षेण्या᳚-म्मनु॒ष्ये᳚भ्य॒स्त-म्मा॑ दे॒वा अ॑वन्तु शो॒भायै॑ पि॒तरो-ऽनु॑मदन्तु ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ 1 ॥ (अ. 1)

अनुवाकं 2
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियः॑ । विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ । वि होत्रा॑ दधे वयुना॒विदेक॒ इत् । म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚-र्बा॒हुभ्या᳚म् ।
पू॒ष्णो हस्ता᳚भ्या॒माद॑दे ॥ अभ्रि॑रसि॒ नारि॑रसि ।
अ॒द्ध्व॒र॒कृ-द्दे॒वेभ्यः॑ । उत्ति॑ष्ठ ब्रह्मणस्पते ॥ 2 ॥

दे॒व॒यन्त॑स्त्वेमहे । उप॒ प्रय॑न्तु म॒रुत॑-स्सु॒दान॑वः । इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा᳚ ॥ प्रैतु॒ ब्रह्म॑ण॒स्पतिः॑ । प्र दे॒व्ये॑तु सू॒नृता᳚ ।
अच्छा॑ वी॒रन्नर्य॑-म्प॒ङ्क्तिरा॑धसम् । दे॒वा य॒ज्ञन्न॑यन्तु नः ॥ देवी᳚ द्यावापृथिवी॒ अनु॑ मे मग्ंसाथाम् । ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑ ॥ 3 ॥

म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्​ष्णे ॥ इय॒त्यग्र॑ आसीः ।
ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑ । म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्​ष्णे ॥ देवी᳚-र्वम्रीर॒स्य भू॒तस्य॑ प्रथमजा ऋतावरीः ॥ ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑ ॥ 4 ॥

म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्​ष्णे ॥ इन्द्र॒स्यौजो॑-ऽसि ।
ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑ । म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्​ष्णे ॥ अ॒ग्नि॒जा अ॑सि प्र॒जाप॑ते॒ रेतः॑ । ऋ॒द्ध्यास॑म॒द्य । म॒खस्य॒ शिरः॑ ॥ 5 ॥

म॒खाय॑ त्वा । म॒खस्य॑ त्वा शी॒र्​ष्णे ॥ आयु॑-र्धेहि प्रा॒ण-न्धे॑हि । अ॒पा॒न-न्धे॑हि व्या॒न-न्धे॑हि । चक्षु॑-र्धेहि॒ श्रोत्र॑-न्धेहि । मनो॑ धेहि॒ वाच॑-न्धेहि । आ॒त्मान॑-न्धेहि प्रति॒ष्ठा-न्धे॑हि ।
मा-न्धे॑हि॒ मयि॑ धेहि ॥ मधु॑ त्वा मधु॒ला क॑रोतु ।
म॒खस्य॒ शिरो॑-ऽसि ॥ 6 ॥

य॒ज्ञस्य॑ प॒दे स्थः॑ । गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा करोमि । त्रैष्टु॑भेन त्वा॒ छन्द॑सा करोमि । जाग॑तेन त्वा॒ छन्द॑सा करोमि ॥ म॒खस्य॒ रास्ना॑-ऽसि । अदि॑तिस्ते॒ बिल॑ङ्गृह्णातु । पाङ्क्ते॑न॒ छन्द॑सा ।
सूर्य॑स्य॒ हर॑सा श्राय । म॒खो॑-ऽसि ॥ 7 ॥
(प॒ते॒ - शिर॑ - ऋतावरीर्-ऋद्ध्यास॑म॒द्य म॒खस्य॒ शिरः॒ - शिरः॒ - शिरो॑-ऽसि॒ - +नव॑ च) (अ. 2)

(इय॑ति॒ देवी॒रिन्द्र॒स्यौजो᳚-ऽस्यग्नि॒जा अ॒स्यायु॑र्धेहि प्रा॒ण-म्पञ्च॑)

अनुवाकं 3
वृष्णो॒ अश्व॑स्य नि॒ष्पद॑सि । वरु॑णस्त्वा धृ॒तव्र॑त॒ आधू॑पयतु । मि॒त्रावरु॑णयोर्
ध्रु॒वेण॒ धर्म॑णा ॥ अ॒र्चिषे᳚ त्वा । शो॒चिषे᳚ त्वा ।
ज्योति॑षे त्वा । तप॑से त्वा ॥ अ॒भीम-म्म॑हि॒ना दिव᳚म् ।
मि॒त्रो ब॑भूव स॒प्रथाः᳚ । उ॒त श्रव॑सा पृथि॒वीम् ॥ 8 ॥
मि॒त्रस्य॑ चर्​षणी॒धृतः॑ ।
श्रवो॑ दे॒वस्य॑ सान॒सिम् । द्यु॒म्नञ्चि॒त्रश्र॑वस्तमम् ॥ सिद्ध्यै᳚ त्वा । दे॒वस्त्वा॑ सवि॒तोद्व॑पतु ।
सु॒पा॒णि-स्स्व॑ङ्गु॒रिः । सु॒बा॒हुरु॒त शक्त्या᳚ ॥ अप॑द्यमानः पृथि॒व्याम् । आशा॒ दिश॒ आ पृ॑ण । उत्ति॑ष्ठ बृ॒ह-न्भ॑व ॥ 9 ॥

ऊ॒र्ध्वस्ति॑ष्ठ ध्रु॒वस्त्वम् ॥ सूर्य॑स्य त्वा॒ चक्षु॒षा-ऽन्वी᳚क्षे । ऋ॒जवे᳚ त्वा । सा॒धवे᳚ त्वा । सु॒क्षि॒त्यै त्वा॒ भूत्यै᳚ त्वा ॥
इ॒दम॒हम॒मुमा॑मुष्याय॒णं-विँ॒शा प॒शुभि॑-र्ब्रह्मवर्च॒सेन॒ पर्यू॑हामि ।
गा॒य॒त्रेण॑ त्वा॒ छन्द॒सा ऽऽच्छृ॑णद्मि । त्रैष्टु॑भेन त्वा॒ छन्द॒सा ऽऽच्छृ॑णद्मि ।
जाग॑तेन त्वा॒ छन्द॒सा ऽऽच्छृ॑णद्मि । छृ॒णत्तु॑ त्वा॒ वाक् । छृ॒णत्तु॒ त्वोर्क् । छृ॒णत्तु॑ त्वा ह॒विः ।
छृ॒न्धि वाच᳚म् । छृ॒न्ध्यूर्ज᳚म् । छृ॒न्धि ह॒विः ॥
देव॑ पुरश्चर स॒घ्यास॑न्त्वा ॥ 10 ॥
(पृ॒थि॒वीम् - भ॑व॒ - वा-ख्षट्च॑) (अ. 3)

अनुवाकं 4
ब्रह्म॑-न्प्रव॒र्ग्ये॑ण॒ प्रच॑रिष्यामः ।
होत॑-र्घ॒र्मम॒भिष्टु॑हि । अग्नी॒द्रौहि॑णौ पुरो॒डाशा॒वधि॑श्रय । प्रति॑प्रस्थात॒र्विह॑र ।
प्रस्तो॑त॒-स्सामा॑नि गाय ॥ यजु॑र्युक्त॒ग्ं॒ साम॑भि॒राक्त॑खन्त्वा । विश्वै᳚-र्दे॒वैरनु॑मत-म्म॒रुद्भिः॑ । दक्षि॑णाभिः॒ प्रत॑त-म्पारयि॒ष्णुम् ।
स्तुभो॑ वहन्तु सुमन॒स्यमा॑नम् । स नो॒ रुच॑न्धे॒ह्यहृ॑णीयमानः । भूर्भुव॒स्सुवः॑ ।
ओमिन्द्र॑वन्तः॒ प्रच॑रत ॥ 11 ॥
(अहृ॑णीयमानो॒ द्वे च॑) (अ. 4)

अनुवाकं 5
ब्रह्म॒-न्प्रच॑रिष्यामः । होत॑-र्घ॒र्मम॒भिष्टु॑हि ॥ य॒माय॑ त्वा म॒खाय॑ त्वा । सूर्य॑स्य॒ हर॑से त्वा ॥ प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहा॑ ऽपा॒नाय॒ स्वाहा᳚ ।
चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा᳚ । मन॑से॒ स्वाहा॑ वा॒चे सर॑स्वत्यै॒ स्वाहा᳚ । दक्षा॑य॒ स्वाहा॒ क्रत॑वे॒ स्वाहा᳚ । ओज॑से॒ स्वाहा॒ बला॑य॒ स्वाहा᳚ ॥
दे॒वस्त्वा॑ सवि॒ता मद्ध्वा॑-ऽनक्तु ॥ 12 ॥

पृ॒थि॒वी-न्तप॑सस्त्रायस्व । अ॒र्चिर॑सि शो॒चिर॑सि॒ ज्योति॑रसि॒ तपो॑-ऽसि । सग्ंसी॑दस्व म॒हाग्ं अ॑सि । शोच॑स्व देव॒वीत॑मः । वि धू॒मम॑ग्ने अरु॒ष-म्मि॑येद्ध्य । सृ॒ज प्र॑शस्त दर्​श॒तम् ॥
अ॒ञ्जन्ति॒ य-म्प्र॒थय॑न्तो॒ न विप्राः᳚ । व॒पाव॑न्त॒न्नाग्निना॒ तप॑न्तः ।
पि॒तुर्न पु॒त्र उप॑सि॒ प्रेष्ठः॑ । आ घ॒र्मो अ॒ग्निमृ॒तय॑न्नसादीत् ॥ 13 ॥

अ॒ना॒धृ॒ष्या पु॒रस्ता᳚त् । अ॒ग्नेराधि॑पत्ये ।
आयु॑र्मे दाः । पु॒त्रव॑ती दक्षिण॒तः । इन्द्र॒स्याधि॑पत्ये । प्र॒जा-म्मे॑ दाः । सु॒षदा॑ प॒श्चात् । दे॒वस्य॑ सवि॒तुराधि॑पत्ये । प्रा॒ण-म्मे॑ दाः । आश्रु॑तिरुत्तर॒तः ॥ 14 ॥

मि॒त्रावरु॑णयो॒राधि॑पत्ये । श्रोत्र॑-म्मे दाः । विधृ॑तिरु॒परि॑ष्टात् । बृह॒स्पते॒राधि॑पत्ये ।
ब्रह्म॑ मे दाः, क्ष॒त्र-म्मे॑ दाः । तेजो॑ मे धा॒ वर्चो॑ मे धाः । यशो॑ मे धा॒ स्तपो॑ मे धाः ।
मनो॑ मे धाः ॥ मनो॒रश्वा॑-ऽसि॒ भूरि॑पुत्रा ।
विश्वा᳚भ्यो मा ना॒ष्ट्राभ्यः॑ पाहि ॥ 15 ॥

सू॒प॒सदा॑ मे भूया॒ मा मा॑ हिग्ंसीः ॥ तपो॒ ष्व॑ग्ने॒ अन्त॑राग्ं अ॒मित्रान्॑ ।
तपा॒शग्ंस॑मर॒रुषः॒ पर॑स्य । तपा॑ वसो चिकिता॒नो अ॒चित्तान्॑ । वि ते॑ तिष्ठन्ताम॒जरा॑ अ॒यासः॑ ॥ चित॑-स्स्थ परि॒चितः॑ । स्वाहा॑ म॒रुद्भिः॒ परि॑श्रयस्व । मा अ॑सि । प्र॒मा अ॑सि । प्र॒ति॒मा अ॑सि ॥ 16 ॥

स॒म्मा अ॑सि । वि॒मा अ॑सि । उ॒न्मा अ॑सि । अ॒न्तरि॑क्षस्यान्त॒र्धिर॑सि ॥
दिव॒न्तप॑सस्त्रायस्व । आ॒भि-र्गी॒र्भि-र्यदतो॑ न ऊ॒नम् ।
आप्या॑यय हरिवो॒ वर्ध॑मानः । य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ । भू॒यि॒ष्ठ॒भाजो॒ अध॑ ते स्याम ॥ शु॒क्रन्ते॑ अ॒न्य-द्य॑ज॒तन्ते॑ अ॒न्यत् ॥ 17 ॥

विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि । विश्वा॒ हि मा॒या अव॑सि स्वधावः । भ॒द्रा ते॑ पूषन्नि॒ह रा॒तिर॑स्तु ॥ अर्​ह॑-न्बिभर्​षि॒ साय॑कानि॒ धन्व॑ । अर्​ह॑न्नि॒ष्कं-यँ॑ज॒तं-विँ॒श्वरू॑पम् । अर्​ह॑न्नि॒द-न्द॑यसे॒ विश्व॒-मब्भु॑वम् । न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥ गा॒य॒त्रम॑सि । त्रैष्टु॑भमसि । जाग॑तमसि । मधु॒ मधु॒ मधु॑ ॥ 18 ॥
(अ॒न॒ - क्त्व॒सा॒दी॒ - दु॒त्त॒र॒तः - पा॑हि - प्रति॒मा अ॑सि - यज॒तन्ते॑ अ॒न्यज् - जाग॑तम॒स्येक॑-ञ्च) (अ. 5)

अनुवाकं 6
दश॒ प्राची॒र्दश॑ भासि दक्षि॒णा । दश॑ प्र॒तीची॒र्दश॑ भा॒स्युदी॑चीः । दशो॒र्ध्वा भा॑सि सुमन॒स्यमा॑नः । स नो॒ रुच॑न्धे॒ह्यहृ॑णीयमानः ॥
अ॒ग्निष्ट्वा॒ वसु॑भिः पु॒रस्ता᳚-द्रोचयतु गाय॒त्रेण॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑चय ॥ इन्द्र॑स्त्वा रु॒द्रै-र्द॑क्षिण॒तो रो॑चयतु॒ त्रैष्टु॑भेन॒ छन्द॑सा ।
स मा॑ रुचि॒तो रो॑चय । वरु॑णस्त्वा-ऽऽदि॒त्यैः प॒श्चा-द्रो॑चयतु॒ जाग॑तेन॒ छन्द॑सा ।
स मा॑ रुचि॒तो रो॑चय ॥ 19 ॥

द्यु॒ता॒नस्त्वा॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तो रो॑चय॒त्वानु॑ष्टुभेन॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑चय । बृह॒स्पति॑स्त्वा॒ विश्वै᳚-र्दे॒वैरु॒परि॑ष्टा-द्रोचयतु॒ पाङ्क्ते॑न॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑चय ॥ रो॒चि॒तस्त्व-न्दे॑व घर्म दे॒वेष्वसि॑ ।
रो॒चि॒षी॒याह-म्म॑नु॒ष्ये॑षु ॥
सम्रा᳚ड् घर्म रुचि॒तस्त्वं ए॒वेष्वायु॑ष्माग्​स्तेज॒स्वी ब्र॑ह्मवर्च॒स्य॑सि । रु॒चि॒तो॑-ऽह-म्म॑नु॒ष्ये᳚ष्वायु॑ष्माग्​-स्तेज॒स्वी ब्र॑ह्मवर्च॒सी भू॑यासम् ॥ रुग॑सि । रुच॒-म्मयि॑ धेहि ॥ 20 ॥

मयि॒ रुक् ॥ दश॑ पु॒रस्ता᳚-द्रोचसे । दश॑ दक्षि॒णा । दश॑ प्र॒त्यम्म् । दशोदङ्ङ्॑ । दशो॒र्ध्वो भा॑सि सुमन॒स्यमा॑नः । स न॑-स्सम्रा॒डिष॒मूर्ज॑-न्धेहि । वा॒जी वा॒जिने॑ पवस्व । रो॒चि॒तो घ॒र्मो रु॑ची॒य ॥ 21 ॥
(रो॒च॒य॒ - धे॒हि॒ - +नव॑ च) (अ. 6)

अनुवाकं 7
अप॑श्यङ्गो॒पामनि॑पद्यमानम् । आ च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒द्ध्रीची॒-स्स विषू॑ची॒र्वसा॑नः । आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥ अत्र॑ प्रा॒वीः । मधु॒ माद्ध्वी᳚भ्या॒-म्मधु॒ माधू॑चीभ्याम् । अनु॑ वा-न्दे॒ववी॑तये ॥ सम॒ग्निर॒ग्निना॑ गत । स-न्दे॒वेन॑ सवि॒त्रा । सग्ं सूर्ये॑ण रोचते ॥ 22 ॥

स्वाहा॒ सम॒ग्निस्तप॑सा गत । स-न्दे॒वेन॑ सवि॒त्रा ।
सग्ं सूर्ये॑णारोचिष्ट ॥ ध॒र्ता दि॒वो विभा॑सि॒ रज॑सः । पृ॒थि॒व्या ध॒र्ता । उ॒रोर॒न्तरि॑क्षस्य ध॒र्ता । ध॒र्ता दे॒वो दे॒वाना᳚म् । अम॑र्त्यस्तपो॒जाः ॥ हृ॒दे त्वा॒ मन॑से त्वा । दि॒वे त्वा॒ सूर्या॑य त्वा ॥ 23 ॥

ऊ॒र्ध्वमि॒म-म॑द्ध्व॒रङ्कृ॑धि । दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ ॥ विश्वा॑सा-म्भुवा-म्पते । विश्व॑स्य भुवनस्पते । विश्व॑स्य मनसस्पते । विश्व॑स्य वचसस्पते । विश्व॑स्य तपसस्पते । विश्व॑स्य ब्रह्मणस्पते । दे॒व॒श्रूस्त्वन्दे॑व घर्म दे॒वा-न्पा॑हि ॥ त॒पो॒जां-वाँच॑म॒स्मे निय॑च्छ देवा॒युव᳚म् ॥ 24 ॥

गर्भो॑ दे॒वाना᳚म् ॥ पि॒ता म॑ती॒नाम् ॥
पतिः॑ प्र॒जाना᳚म् ॥ मतिः॑ कवी॒नाम् ॥
सन्दे॒वो दे॒वेन॑ सवि॒त्रा-ऽय॑तिष्ट । सग्ं सूर्ये॑णारुक्त ॥ आ॒यु॒र्दास्त्वम॒स्मभ्य॑-ङ्घर्म वर्चो॒दा अ॑सि ॥ पि॒ता नो॑-ऽसि पि॒ता नो॑ बोध ॥ आ॒यु॒र्धास्त॑नू॒धाः प॑यो॒धाः ।
व॒र्चो॒दा व॑रिवो॒दा द्र॑विणो॒दाः ॥ 25 ॥

अ॒न्त॒रि॒क्ष॒प्र॒ उ॒रोर्वरी॑यान् । अ॒शी॒महि॑ त्वा॒ मा मा॑ हिग्ंसीः ॥ त्वम॑ग्ने गृ॒हप॑ति-र्वि॒शाम॑सि । विश्वा॑सा॒-म्मानु॑षीणाम् । श॒त-म्पू॒र्भिर्य॑विष्ठ पा॒ह्यग्ंह॑सः । स॒मे॒द्धारग्ं॑ श॒तग्ं हिमाः᳚ ।
त॒-न्द्रा॒विणग्ं॑ हार्दिवा॒नम् । इ॒हैव रा॒तय॑-स्सन्तु ॥ त्वष्टी॑मती ते सपेय । सु॒रेता॒ रेतो॒ दधा॑ना ।
वी॒रं-विँ॑देय॒ तव॑ स॒न्दृशि॑ ।
मा-ऽहग्ं रा॒यस्पोषे॑ण॒ वि यो॑षम् ॥ 26 ॥
(रो॒च॒ते॒-सूर्य॑य त्वा - देवा॒युवं॑ - द्रविणो॒दा - दधा॑ना॒ द्वे च॑) (अ. 7)

अनुवाकं 8
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚-र्बा॒हुभ्या᳚म् ।
पू॒ष्णो हस्ता᳚भ्या॒मा द॑दे ॥ अदि॑त्यै॒ रास्ना॑-ऽसि । इड॒ एहि॑ । अदि॑त॒ एहि॑ । सर॑स्व॒त्येहि॑ । असा॒वेहि॑ ।
असा॒वेहि॑ । असा॒वेहि॑ ॥ 27 ॥

अदि॑त्या उ॒ष्णीष॑मसि । वा॒युर॑स्यै॒डः । पू॒षा त्वो॒पाव॑सृजतु । अ॒श्विभ्या॒-म्प्र दा॑पय । यस्ते॒ स्तन॑-श्शश॒यो यो म॑यो॒भूः । येन॒ विश्वा॒ पुष्य॑सि॒ वार्या॑णि । यो र॑त्न॒धा व॑सु॒विद्य-स्सु॒दत्रः॑ ।
सर॑स्वति॒ तमि॒ह धात॑वे-ऽकः ॥ उस्र॑ घ॒र्मग्ं शिग्ं॑ष । उस्र॑ घ॒र्म-म्पा॑हि ॥ 28 ॥

घ॒र्माय॑ शिग्ंष । बृह॒स्पति॒स्त्वोप॑सीदतु । दान॑व-स्स्थ॒ पेर॑वः । वि॒ष्व॒ग्वृतो॒ लोहि॑तेन । अ॒श्विभ्या᳚-म्पिन्वस्व । सर॑स्वत्यै पिन्वस्व ।
पू॒ष्णे पि॑न्वस्व । बृह॒स्पत॑ये पिन्वस्व । इन्द्रा॑य पिन्वस्व । इन्द्रा॑य पिन्वस्व ॥ 29 ॥

गा॒य॒त्रो॑-ऽसि । त्रैष्टु॑भो-ऽसि । जाग॑तमसि । स॒होर्जो भा॒गेनोप॒ मेहि॑ । इन्द्रा᳚श्विना॒ मधु॑न-स्सार॒घस्य॑ । घ॒र्म-म्पा॑त वसवो॒ यज॑ता॒ वट् । स्वाहा᳚ त्वा॒ सूर्य॑स्य र॒श्मये॑ वृष्टि॒वन॑ये जुहोमि । मधु॑ ह॒विर॑सि । सूर्य॑स्य॒ तप॑स्तप । द्यावा॑पृथि॒वीभ्या᳚-न्त्वा॒ परि॑गृह्णामि ॥ 30 ॥

अ॒न्तरि॑क्षेण॒ त्वोप॑यच्छामि । दे॒वाना᳚-न्त्वा पितृ॒णामनु॑मतो॒ भर्तुग्ं॑ शकेयम् । तेजो॑-ऽसि ।
तेजो-ऽनु॒प्रेहि॑ । दि॒वि॒स्पृम्मा मा॑ हिग्ंसीः ।
अ॒न्त॒रि॒क्ष॒स्पृम्मा मा॑ हिग्ंसीः । पृ॒थि॒वि॒स्पृम्मा मा॑ हिग्ंसीः ।
सुव॑रसि॒ सुव॑र्मे यच्छ ।
दिवं॑-यँच्छ दि॒वो मा॑ पाहि ॥ 31 ॥
(एहि॑ - पाहि - पिन्वस्व - गृह्णामि॒ - +नव॑ च) (अ. 8)

अनुवाकं 9
स॒मु॒द्राय॑ त्वा॒ वाता॑य॒ स्वाहा᳚ । स॒लि॒लाय॑ त्वा॒ वाता॑य॒ स्वाहा᳚ । अ॒ना॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा᳚ । अ॒प्र॒ति॒धृ॒ष्याय॑ त्वा॒ वाता॑य॒ स्वाहा᳚ ।
अ॒व॒स्यवे᳚ त्वा॒ वाता॑य॒ स्वाहा᳚ । दुव॑स्वते त्वा॒ वाता॑य॒ स्वाहा᳚ । शिमि॑द्वते त्वा॒ वाता॑य॒ स्वाहा᳚ । अ॒ग्नये᳚ त्वा॒ वसु॑मते॒ स्वाहा᳚ ।
सोमा॑य त्वा रु॒द्रव॑ते॒ स्वाहा᳚ ।
वरु॑णाय त्वा-ऽऽदि॒त्यव॑ते॒ स्वाहा᳚ ॥ 32 ॥

बृह॒स्पत॑ये त्वा वि॒श्वदे᳚व्यावते॒ स्वाहा᳚ ।
स॒वि॒त्रे त्व॑र्भु॒मते॑ विभु॒मते᳚ प्रभु॒मते॒ वाज॑वते॒ स्वाहा᳚ । य॒माय॒ त्वा-ऽङ्गि॑रस्वते पितृ॒मते॒ स्वाहा᳚ ॥ विश्वा॒ आशा॑ दक्षिण॒सत् । विश्वा᳚-न्दे॒वान॑याडि॒ह । स्वाहा॑कृतस्य घ॒र्मस्य॑ । मधोः᳚ पिबतमश्विना ।
स्वाहा॒-ऽग्नये॑ य॒ज्ञिया॑य । शं-यँजु॑र्भिः ॥
अश्वि॑ना घ॒र्म-म्पा॑तग्ं हार्दिवा॒नम् ॥ 33 ॥

अह॑-र्दि॒वाभि॑-रू॒तिभिः॑ । अनु॑ वा॒-न्द्यावा॑पृथि॒वी मग्ं॑साताम् । स्वाहेन्द्रा॑य ॥ स्वाहेन्द्रा॒वट् । घ॒र्मम॑पातमश्विना हार्दिवा॒नम् ।
अह॑-र्दि॒वाभि॑रू॒तिभिः॑ । अनु॑ वा॒-न्द्यावा॑पृथि॒वी अ॑मग्ंसाताम् । त-म्प्रा॒व्यं॑-यँथा॒ वट् । नमो॑ दि॒वे । नमः॑ पृथि॒व्यै ॥ 34 ॥

दि॒वि धा॑ इ॒मं-यँ॒ज्ञम् । य॒ज्ञमि॒म-न्दि॒वि धाः᳚ । दिव॑ङ्गच्छ । अ॒न्तरि॑क्षङ्गच्छ । पृ॒थि॒वीङ्ग॑च्छ । पञ्च॑ प्र॒दिशो॑ गच्छ । दे॒वा-न्घ॑र्म॒पा-न्ग॑च्छ । पि॒तॄ-न्घ॑र्म॒पा-न्ग॑च्छ ॥ 35 ॥
(आ॒दि॒त्यव॑ते॒ स्वाहा॑-हार्दिवा॒नम्-पृ॑थि॒व्या-+अ॒ष्टौ च॑) (अ. 9)

अनुवाकं 10
इ॒षे पी॑पिहि । ऊ॒र्जे पी॑पिहि । ब्रह्म॑णे पीपिहि । क्ष॒त्राय॑ पीपिहि । अ॒द्भ्यः पी॑पिहि । ओष॑धीभ्यः पीपिहि । वन॒स्पति॑भ्यः पीपिहि । द्यावा॑पृथि॒वीभ्या᳚-म्पीपिहि । सु॒भू॒ताय॑ पीपिहि । ब्र॒ह्म॒व॒र्च॒साय॑ पीपिहि ॥ 36 ॥

यज॑मानाय पीपिहि । मह्य॒ञ्ज्यैष्ठ्या॑य पीपिहि ॥ त्विष्यै᳚ त्वा । द्यु॒म्नाय॑ त्वा । इ॒न्द्रि॒याय॑ त्वा॒ भूत्यै᳚ त्वा । धर्मा॑-ऽसि सु॒धर्मा मे᳚ न्य॒स्मे । ब्रह्मा॑णि धारय । क्ष॒त्राणि॑ धारय । विश॑न्धारय ।
नेत्त्वा॒ वात॑-स्स्क॒न्दया᳚त् ॥ 37 ॥

अ॒मुष्य॑ त्वा प्रा॒णे सा॑दयामि । अ॒मुना॑ स॒ह नि॑र॒र्थङ्ग॑च्छ । यो᳚-ऽस्मा-न्द्वेष्टि॑ ।
यञ्च॑ व॒य-न्द्वि॒ष्मः ॥ पू॒ष्णे शर॑से॒ स्वाहा᳚ ।
ग्राव॑भ्य॒-स्स्वाहा᳚ । प्र॒ति॒रेभ्य॒-स्स्वाहा᳚ । द्यावा॑पृथि॒वीभ्या॒ग्॒ स्वाहा᳚ ।
पि॒तृभ्यो॑ घर्म॒पेभ्य॒-स्स्वाहा᳚ ॥
रु॒द्राय॑ रु॒द्रहो᳚त्रे॒ स्वाहा᳚ ॥ 38 ॥

अह॒-र्ज्योतिः॑ के॒तुना॑ जुषताम् । सु॒ज्यो॒ति-र्ज्योति॑षा॒ग्॒ स्वाहा᳚ । रात्रि॒र्ज्योतिः॑ के॒तुना॑ जुषताम् । सु॒ज्यो॒ति-र्ज्योति॑षा॒ग्॒ स्वाहा᳚ । अपी॑परो॒ मा-ऽह्नो॒ रात्रि॑यै मा पाहि । ए॒षा ते॑ अग्ने स॒मित् । तया॒ समि॑द्ध्यस्व । आयु॑र्मे दाः । वर्च॑सा मा-ऽञ्जीः । अपी॑परो मा॒ रात्रि॑या॒ अह्नो॑ मा पाहि ॥ 39 ॥

ए॒षा ते॑ अग्ने स॒मित् । तया॒ समि॑द्ध्यस्व । आयु॑र्मे दाः । वर्च॑सा मा-ऽञ्जीः । अ॒ग्नि-र्ज्योति॒-र्ज्योति॑र॒ग्नि-स्स्वाहा᳚ ।
सूर्यो॒ ज्योति॒-र्ज्योति॒-स्सूर्य॒-स्स्वाहा᳚ । भू-स्स्वाहा᳚ । हु॒तग्ं ह॒विः । मधु॑ ह॒विः । इन्द्र॑तमे॒-ऽग्नौ ॥ 40 ॥

पि॒ता नो॑-ऽसि॒ मा मा॑ हिग्ंसीः । अ॒श्याम॑ ते देवघर्म ।
मधु॑मतो॒ वाज॑वतः पितु॒मतः॑ । अङ्गि॑रस्वत-स्स्वधा॒विनः॑ । अ॒शी॒महि॑ त्वा॒ मा मा॑ हिग्ंसीः ॥ स्वाहा᳚ त्वा॒ सूर्य॑स्य र॒श्मिभ्यः॑ । स्वाहा᳚ त्वा॒ नक्ष॑त्रेभ्यः ॥ 41 ॥
(ब्र॒ह्म॒व॒र्च॒साय॑ पीपिहि - स्क॒न्दया᳚-द्- रु॒द्राय॑ रु॒द्रहो᳚त्रे॒ स्वाहा - ऽह्नो॑ मा पाह् - य॒ग्नौ - +स॒प्त च॑) (अ. 10)

अनुवाकं 11
घर्म॒ या ते॑ दि॒वि शुक् । या गा॑य॒त्रे छन्द॑सि । या ब्रा᳚ह्म॒णे । या ह॑वि॒र्धाने᳚ । तान्त॑ ए॒तेनाव॑यजे॒ स्वाहा᳚ ॥ घर्म॒ या ते॒-ऽन्तरि॑क्षे॒ शुक् ।
या त्रैष्टु॑भे॒ छन्द॑सि । या रा॑ज॒न्ये᳚ । या-ऽऽग्नी᳚द्ध्रे ।
तान्त॑ ए॒तेनाव॑यजे॒ स्वाहा᳚ ॥ 42 ॥

घर्म॒ या ते॑ पृथि॒व्याग्ं शुक् । या जाग॑ते॒ छन्द॑सि । या वैश्ये᳚ । या सद॑सि । तान्त॑ ए॒तेनाव॑यजे॒ स्वाहा᳚ ॥ अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑ता-न्दा॒शुषे॒ मयः॑ ॥ अन्विद॑नुमते॒ त्व-म्मन्या॑सै॒ शञ्च॑नः कृधि । क्रत्वे॒ दक्षा॑य नो हिनु॒ प्रण॒ आयूग्ं॑षि तारिषः ॥ दि॒वस्त्वा॑ पर॒स्पायाः᳚ । अ॒न्तरि॑क्षस्य त॒नुवः॑ पाहि । पृ॒थि॒व्यास्त्वा॒ धर्म॑णा ॥ 43 ॥

व॒यमनु॑क्रामाम सुवि॒ताय॒ नव्य॑से ॥ ब्रह्म॑णस्त्वा पर॒स्पायाः᳚ । क्ष॒त्रस्य॑ त॒नुवः॑ पाहि । वि॒शस्त्वा॒ धर्म॑णा । व॒यमनु॑क्रामाम सुवि॒ताय॒ नव्य॑से ॥ प्रा॒णस्य॑ त्वा पर॒स्पायै᳚ । चक्षु॑षस्त॒नुवः॑ पाहि । श्रोत्र॑स्य त्वा॒ धर्म॑णा । व॒यमनु॑क्रामाम सुवि॒ताय॒ नव्य॑से ॥ व॒ल्गुर॑सि शं॒-युँधा॑याः ॥ 44 ॥

शिशु॒-र्जन॑धायाः ॥ शञ्च॒ वक्षि॒ परि॑ च॒ वक्षि॑ ।
चतु॑-स्स्रक्ति॒र्नाभि॑र्-ऋ॒तस्य॑ । सदो॑ वि॒श्वायु॒-श्शर्म॑ स॒प्रथाः᳚ । अप॒ द्वेषो॒ अप॒ ह्वरः॑ । अ॒न्यद्व्र॑तस्य सश्चिम । घर्मै॒त-त्ते-ऽन्न॑मे॒त-त्पुरी॑षम् । तेन॒ वर्ध॑स्व॒ चा च॑ प्यायस्व । व॒र्धि॒षी॒महि॑ च व॒यम् । आ च॑ प्यासिषी॒महि॑ ॥ 45 ॥

रन्ति॒-र्नामा॑सि दि॒व्यो ग॑न्ध॒र्वः । तस्य॑ ते प॒द्वद्ध॑वि॒र्धान᳚म् । अ॒ग्निरद्ध्य॑क्षाः । रु॒द्रो-ऽधि॑पतिः ॥ सम॒हमायु॑षा । स-म्प्रा॒णेन॑ ।
सं-वँर्च॑सा । स-म्पय॑सा । सङ्गौ॑प॒त्येन॑ । सग्ं रा॒यस्पोषे॑ण ॥ 46 ॥

व्य॑सौ । यो᳚-ऽस्मा-न्द्वेष्टि॑ । यञ्च॑ व॒य-न्द्वि॒ष्मः ॥
अचि॑क्रद॒द्वृषा॒ हरिः॑ । म॒हा-न्मि॒त्रो न द॑र्​श॒तः । सग्ं सूर्ये॑ण रोचते ॥ चिद॑सि समु॒द्रयो॑निः । इन्दु॒-र्दक्ष॑-श्श्ये॒न ऋ॒तावा᳚ । हिर॑ण्यपक्ष-श्शकु॒नो भु॑र॒ण्युः । म॒हान्-थ्स॒धस्थे᳚ ध्रु॒व आनिष॑त्तः ॥ 47 ॥

नम॑स्ते अस्तु॒ मा मा॑ हिग्ंसीः ॥ वि॒श्वाव॑सुग्ं सोम गन्ध॒र्वम् । आपो॑ ददृ॒शुषीः᳚ । तदृ॒तेना॒ व्या॑यन्न् । तद॒न्ववै᳚त् । इन्द्रो॑ रारहा॒ण आ॑साम् । परि॒ सूर्य॑स्य परि॒धीग्ं र॑पश्यत् ॥ वि॒श्वाव॑सुर॒भि तन्नो॑ गृणातु । दि॒व्यो ग॑न्ध॒र्वो रज॑सो वि॒मानः॑ ।
यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म ॥ 48 ॥

धियो॑ हिन्वा॒नो धिय॒ इन्नो॑ अव्यात् ॥ सस्नि॑मविन्द॒च्चर॑णे न॒दीना᳚म् ।
अपा॑वृणो॒-द्दुरो॒ अश्म॑व्रजानाम् । प्रासा᳚-न्गन्ध॒र्वो अ॒मृता॑नि वोचत् । इन्द्रो॒ दक्ष॒-म्परि॑जानाद॒हीन᳚म् ॥ ए॒तत्त्व-न्दे॑व घर्म दे॒वो दे॒वानुपा॑गाः ।
इ॒दम॒ह-म्म॑नु॒ष्यो॑ मनु॒ष्यान्॑ । सोम॑पी॒थानु॒ मेहि॑ । स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑ण ॥
सु॒मि॒त्रा न॒ आप॒ ओष॑धय-स्सन्तु ॥ 49 ॥

दु॒र्मि॒त्रास्तस्मै॑ भूयासुः । यो᳚-ऽस्मा-न्द्वेष्टि॑ ।
यञ्च॑ व॒य-न्द्वि॒ष्मः ॥ उद्व॒य-न्तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒व-न्दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ उदु॒ त्य-ञ्जा॒तवे॑दस-न्दे॒वं-वँ॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य᳚म् । चि॒त्र-न्दे॒वाना॒-मुद॑गा॒दनी॑क॒-ञ्चक्षु॑ र्मि॒त्रस्य॒ वरु॑णस्या॒-ऽग्नेः ॥ इ॒ममू॒ षु त्यम॒स्मभ्यग्ं॑ स॒निम् । गा॒य॒त्रन्नवी॑याग्ंसम् ।
अग्ने॑ दे॒वेषु॒ प्रवो॑चः ॥ 50 ॥
(या-ऽऽग्नी᳚द्ध्रे॒ तान्ता॑ ए॒तेनाव॑यजे॒ स्वाहा॒ - धर्म॑णा - शं॒-युँधा॑याः - प्यासिषी॒महि॒-पोषे॑ण॒-निष॑त्तो-वि॒द्म-स॑न्-+त्व॒ष्टौ च॑) (अ. 11)

अनुवाकं 12
म॒ही॒ना-म्पयो॑-ऽसि॒ विहि॑त-न्देव॒त्रा ।
ज्यो॒ति॒र्भा अ॑सि॒ वन॒स्पती॑ना॒मोष॑धीना॒ग्ं॒ रसः॑ ।
वा॒जिन॑-न्त्वा वा॒जिनो-ऽव॑ नयामः ।
ऊ॒र्ध्व-म्मन॑-स्सुव॒र्गम् ॥ 51 ॥ (अ. 12)

अनुवाकं 13
अस्का॒-न्द्यौः पृ॑थि॒वीम् । अस्का॑नृष॒भो युवा॒ गाः ।
स्क॒न्नेमा विश्वा॒ भुव॑ना । स्क॒न्नो य॒ज्ञः प्रज॑नयतु ॥ अस्का॒नज॑नि॒ प्राज॑नि । आ स्क॒न्नाज्जा॑यते॒ वृषा᳚ ।
स्क॒न्ना-त्प्रज॑निषीमहि ॥ 52 ॥ (अ. 13)
अनुवाकं 14
या पु॒रस्ता᳚-द्वि॒द्युदाप॑तत् । तान्त॑ ए॒तेनाव॑ यजे॒ स्वाहा᳚ । या द॑क्षिण॒तः । या प॒श्चात् । योत्त॑र॒तः । योपरि॑ष्टा-द्वि॒द्युदाप॑तत् । तान्त॑ ए॒तेनाव॑ यजे॒ स्वाहा᳚ ॥ 53 ॥ (अ. 14)

अनुवाकं 15
प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहा॑ ऽपा॒नाय॒ स्वाहा᳚ ।
चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा᳚ ।
मन॑से॒ स्वाहा॑ वा॒चे सर॑स्वत्यै॒ स्वाहा᳚ ॥ 54 ॥ (अ. 15)

अनुवाकं 16
पू॒ष्णे स्वाहा॑ पू॒ष्णे शर॑से॒ स्वाहा᳚ ।
पू॒ष्णे प्र॑प॒त्थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहा᳚ । पू॒ष्णे-ऽङ्घृ॑णये॒ स्वाहा॑ पू॒ष्णे न॒रुणा॑य॒ स्वाहा᳚ ।
पू॒ष्णे सा॑के॒ताय॒ स्वाहा᳚ ॥ 55 ॥ (अ. 16)

अनुवाकं 17
उद॑स्य॒ शुष्मा᳚-द्भा॒नुर्नार्त॒ बिभ॑र्ति । भा॒र-म्पृ॑थि॒वी न भूम॑ । प्र शु॒क्रैतु॑ दे॒वी म॑नी॒षा । अ॒स्म-थ्सुत॑ष्टो॒ रथो॒ न वा॒जी । अर्च॑न्त॒ एके॒ महि॒ साम॑ मन्वत । तेन॒ सूर्य॑मधारयन्न् ।
तेन॒ सूर्य॑मरोचयन्न् । घ॒र्म-श्शिर॒स्तद॒यम॒ग्निः ।
पुरी॑षमसि॒ सम्प्रि॑य-म्प्र॒जया॑ प॒शुभि॑र्भुवत् । प्र॒जापति॑स्त्वा सादयतु । तया॑ दे॒वत॑या ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 56 ॥ (अ. 17)

अनुवाकं 18
यास्ते॑ अग्न आ॒र्द्रा योन॑यो॒ याः कु॑ला॒यिनीः᳚ ।
ये ते॑ अग्न॒ इन्द॑वो॒ या उ॒ नाभ॑यः । यास्ते॑ अग्ने त॒नुव॒ ऊर्जो॒ नाम॑ । ताभि॒स्त्वमु॒भयी॑भि-स्सं​विँदा॒नः । प्र॒जाभि॑रग्ने॒ द्रवि॑णे॒ह सी॑द ।
प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 57 ॥ (अ. 18)

अनुवाकं 19
अ॒ग्निर॑सि वैश्वान॒रो॑-ऽसि । सं॒​वँ॒थ्स॒रो॑-ऽसि परिवथ्स॒रो॑-ऽसि । इ॒दा॒व॒थ्स॒रो॑-ऽसीदुवथ्स॒रो॑-ऽसि । इ॒द्व॒थ्स॒रो॑-ऽसि वथ्स॒रो॑-ऽसि । तस्य॑ ते वस॒न्त-श्शिरः॑ । ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र्॒षाः पुच्छ᳚म् ।
श॒रदुत्त॑रः प॒क्षः । हे॒म॒न्तो मद्ध्य᳚म् । पू॒र्व॒प॒क्षाश्चित॑यः । अ॒प॒र॒प॒क्षाः पुरी॑षम् । अ॒हो॒रा॒त्राणीष्ट॑काः । तस्य॑ ते॒ मासा᳚श्चार्धमा॒साश्च॑ कल्पन्ताम् ।
ऋ॒तव॑स्ते कल्पन्ताम् । सं॒​वँ॒थ्स॒रस्ते॑ कल्पताम् ।
अ॒हो॒रा॒त्राणि॑ ते कल्पन्ताम् । एति॒ प्रेति॒ वीति॒ समित्युदिति॑ ।
प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 58 ॥
(चित॑यो॒ नव॑ च) (अ. 19)

अनुवाकं 20
भूर्भुव॒स्सुवः॑ । ऊ॒र्ध्व ऊ॒ षुण॑ ऊ॒तये᳚ । ऊ॒र्ध्वो नः॑ पा॒ह्यग्ंह॑सः ॥
वि॒धुन्द॑द्रा॒णग्ं सम॑ने बहू॒नाम् । युवा॑न॒ग्ं॒ सन्त॑-म्पलि॒तो ज॑गार । दे॒वस्य॑ पश्य॒ काव्य॑-म्महि॒त्वा-ऽद्या म॒मार॑ । स ह्य॒-स्समा॑न ॥
यदृ॒ते चि॑दभि॒श्रिषः॑ । पु॒रा ज॒र्तृभ्य॑ आ॒तृदः॑ ।
सन्धा॑ता स॒न्धि-म्म॒घवा॑ पुरो॒वसुः॑ ॥ 59 ॥

निष्क॑र्ता॒ विह्रु॑त॒-म्पुनः॑ ॥ पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षा-ऽऽयु॑षा । पुन॑र्नः पाहि वि॒श्वतः॑ ॥ स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या । वि॒श्वफ्स्नि॑या वि॒श्वत॒स्परि॑ ॥ मा नो॑ घर्म व्यथि॒तो वि॑व्यथो नः । मा नः॒ पर॒मध॑र॒म्मा रजो॑-ऽनैः । मोष्व॑स्माग्​ स्तम॑स्यन्त॒रा धाः᳚ । मा रु॒द्रिया॑सो अ॒भिगु॑र्वृ॒धानः॑ ॥ मा नः॒ क्रतु॑भिर्-हीडि॒तेभि॑र॒स्मान् । द्विषा॑ सुनीते॒ मा परा॑दाः ।
मा नो॑ रु॒द्रो निर्-ऋ॑ति॒र्मा नो॒ अस्ता᳚ ।
मा द्यावा॑पृथि॒वी ही॑डिषाताम् ॥ 60 ॥

उप॑ नो मित्रावरुणावि॒हाव॑तम् । अ॒न्वादी᳚द्ध्याथामि॒ह न॑-स्सखाया । आ॒दि॒त्याना॒-म्प्रसि॑तिर्​हे॒तिः । उ॒ग्रा श॒तापा᳚ष्ठा घ॒ विषा॒ परि॑णो वृणक्तु ॥
इ॒म-म्मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय । त्वाम॑व॒स्युरा च॑के ॥ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒-स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ । अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शग्ंस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥ त्व-न्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वा-न्दे॒वस्य॒ हेडो-ऽव॑ यासि सीष्ठाः । यजि॑ष्ठो॒ वह्नि॑ तम॒-श्शोशु॑चानो॒ विश्वा॒ द्वेषाग्ं॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥
स त्वन्नो॑ अन्गे-ऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ । अव॑ यक्ष्व नो॒ वरु॑ण॒ग्ं॒ ररा॑णो वी॒हि मृ॑डी॒कग्ं सु॒हवो॑ न एधि ॥ त्वम॑ग्ने अ॒या-ऽसि॑ । अ॒या सन्मन॑सा हि॒तः । अ॒या सनःअ॒व्यमू॑हिषे । अ॒या नो॑ धेहि भेष॒जम् । इ॒ष्टो अ॒ग्निराहु॑तः । स्वाहा॑कृतः पिपर्तु नः । स्व॒गा दे॒वेभ्य॑ इ॒द-न्नमः॑ ॥
उद्व॒य-न्तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒व-न्दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ उदु॒ त्य-ञ्जा॒तवे॑दस-न्दे॒वं-वँ॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य᳚म् । चि॒त्र-न्दे॒वाना॒-मुद॑गा॒दनी॑क॒-ञ्चक्षु॑ र्मि॒त्रस्य॒ वरु॑णस्या॒-ऽग्नेः ॥
वय॑-स्सुप॒र्णा उप॑सेदु॒रिन्द्र᳚म् । प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः । अप॑ ध्वा॒न्तमू᳚र्णु॒हि पू॒र्धि चक्षुः॑ । मु॒मु॒ग्ध्य॑स्मा-न्नि॒धये॑व ब॒द्धान् ॥ 61 ॥
(पु॒रो॒वसु॑र्​हीडिषाताग्ं सुप॒र्णाः) (अ. 20)

अनुवाकं 21
भूर्भुव॒स्सुवः॑ । मयि॒ त्यदि॑न्द्रि॒य-म्म॒हत् । मयि॒ दक्षो॒ मयि॒ क्रतुः॑ । मयि॑ धायि सु॒वीर्य᳚म् । त्रिशु॑ग्घ॒र्मो विभा॑तु मे । आकू᳚त्या॒ मन॑सा स॒ह ।
वि॒राजा॒ ज्योति॑षा स॒ह । य॒ज्ञेन॒ पय॑सा स॒ह । ब्रह्म॑णा॒ तेज॑सा स॒ह । क्ष॒त्रेण॒ यश॑सा स॒ह । स॒त्येन॒ तप॑सा स॒ह । तस्य॒ दोह॑मशीमहि ।
तस्य॑ सु॒म्नम॑शीमहि । तस्य॑ भ॒क्षम॑शीमहि ।
तस्य॑ त॒ इन्द्रे॑ण पी॒तस्य॒ मधु॑मतः ।
उप॑हूत॒स्योप॑हूतो भक्षयामि ॥ 62 ॥
(यश॑सा स॒ह षट्च॑) (अ. 21)

अनुवाकं 22
यास्ते॑ अग्ने घो॒रास्त॒नुवः॑ । क्षुच्च॒ तृष्णा॑ च । अस्नु॒क्चाना॑हुतिश्च । अ॒श॒न॒या च॑ पिपा॒सा च॑ । से॒दिश्चाम॑तिश्च । ए॒तास्ते॑ अग्ने घो॒रास्त॒नुवः॑ ।
ताभि॑र॒मुङ्ग॑च्छ । यो᳚-ऽस्मा-न्द्वेष्टि॑ ।
यञ्च॑ व॒य-न्द्वि॒ष्मः ॥ 63 ॥ (अ. 22)

अनुवाकं 23
स्निक्च॒ स्नीहि॑तिश्च॒ स्निहि॑तिश्च । उ॒ष्णा च॑ शी॒ता च॑ ।
उ॒ग्रा च॑ भी॒मा च॑ । स॒दाम्नी॑ से॒दिरनि॑रा । ए॒तास्ते॑ अग्ने घो॒रास्त॒नुवः॑ । ताभि॑र॒मुङ्ग॑च्छ । यो᳚-ऽस्मा-न्द्वेष्टि॑ । यञ्च॑ व॒य-न्द्वि॒ष्मः ॥ 64 ॥ (अ. 23)

अनुवाकं 24
धुनि॑श्च ध्वा॒न्तश्च॑ ध्व॒नश्च॑ ध्व॒नयग्ग्॑श्च ।
नि॒लि॒म्पश्च॑ विलि॒म्पश्च॑ विक्षि॒पः ॥ 65 ॥ (अ. 24)

अनुवाकं 25
उ॒ग्रश्च॒ धुनि॑श्च ध्वा॒न्तश्च॑ ध्व॒नश्च॑ ध्व॒नयग्ग्॑श्च । स॒ह॒स॒ह्वाग्​श्च॒ सह॑मानश्च॒ सह॑स्वाग्​श्च॒ सही॑याग्​श्च ।
एत्य॒ प्रेत्य॑ विक्षि॒पः ॥ 66 ॥ (अ. 25)

अनुवाकं 26
अ॒हो॒रा॒त्रे त्वोदी॑रयताम् । अ॒र्ध॒मा॒सास्त्वोदी᳚-ञ्जयन्तु । मासा᳚स्त्वा श्रपयन्तु । ऋ॒तव॑स्त्वा पचन्तु ।
सं॒​वँ॒थ्स॒रस्त्वा॑ हन्त्वसौ ॥ 67 ॥ (अ. 26)

अनुवाकं 27
खट् फ-ड्ज॒हि । छि॒न्धी भि॒न्धी ह॒न्धी कट् ।
इति॒ वाचः॑ क्रूरा॒णि ॥ 68 ॥ (अ. 27)

अनुवाकं 28
विगा इ॑न्द्र वि॒चर᳚न्-थ्स्पाशयस्व । स्व॒पन्त॑मिन्द्र पशु॒मन्त॑मिच्छ । वज्रे॑णा॒मु-म्बो॑धय दुर्वि॒दत्र᳚म् । स्व॒प॒तो᳚-ऽस्य॒ प्रह॑र॒ भोज॑नेभ्यः ॥
अग्ने॑ अ॒ग्निना॒ सं​वँ॑दस्व । मृत्यो॑ मृ॒त्युना॒ सं​वँ॑दस्व । नम॑स्ते अस्तु भगवः ॥ स॒कृत्ते॑ अग्ने॒ नमः॑ । द्विस्ते॒ नमः॑ । त्रिस्ते॒ नमः॑ । च॒तुस्ते॒ नमः॑ । प॒ञ्च॒कृत्व॑स्ते॒ नमः॑ ।
द॒श॒कृत्व॑स्ते॒ नमः॑ । श॒त॒कृत्व॑स्ते॒ नमः॑ । आ॒स॒ह॒स्र॒कृत्व॑स्ते॒ नमः॑ । अ॒प॒रि॒मि॒त॒कृत्व॑स्ते॒ नमः॑ । नम॑स्ते अस्तु॒ मा मा॑ हिग्ंसीः ॥ 69 ॥
(त्रिस्ते॒ नम॑-स्स॒प्त च॑) (अ. 28)

अनुवाकं 29
असृ॑-न्मुखो रुधि॒रेणा॒व्य॑क्तः । य॒मस्य॑ दू॒त-श्श्वपा॒-द्विधा॑वसि । गृद्ध्र॑-स्सुप॒र्णः कु॒णप॒न्निषे॑वसे ।
य॒मस्य॑ दू॒तः प्रहि॑तो भ॒वस्य॑ चो॒भयोः᳚ ॥ 70 ॥ (अ. 29)

अनुवाकं 30
यदे॒त-द्वृ॑क॒सो भू॒त्वा । वाग् दे᳚व्यभि॒राय॑सि । द्वि॒षन्त॑-म्मे॒-ऽभिरा॑य । त-म्मृ॑त्यो मृ॒त्यवे॑ नय । स आर्त्या-ऽऽर्ति॒मार्च्छ॑तु ॥ 71 ॥ (अ. 30)

अनुवाकं 31
यदी॑षि॒तो यदि॑ वा स्वका॒मी । भ॒येड॑को॒ वद॑ति॒ वाच॑मे॒ताम् । तामि॑न्द्रा॒ग्नी ब्रह्म॑णा सं​विँदा॒नौ ।
शि॒वाम॒स्मभ्य॑-ङ्कृणुतङ्गृ॒हेषु॑ ॥ 72 ॥ (अ. 31)

अनुवाकं 32
दीर्घ॑मुखि॒ दुर्​ह॑णु । मा स्म॑ दक्षिण॒तो व॑दः ।
यदि॑ दक्षिण॒तो वदा᳚-द्द्वि॒षन्त॒-म्मे-ऽव॑ बाधासै ॥ 73 ॥ (अ. 32)

अनुवाकं 33
इ॒त्थादुलू॑क॒ आप॑प्तत् । हि॒र॒ण्या॒क्षो अयो॑मुखः ।
रक्ष॑सान्दू॒त आग॑तः । तमि॒तो ना॑शयाग्ने ॥ 74 ॥ (अ. 33)

अनुवाकं 34
यदे॒त-द्भू॒तान्य॑न्वा॒विश्य॑ । दैवीं॒-वाँचं॑-वँ॒दसि॑ । द्वि॒षतो॑ नः॒ परा॑वद । ता-न्मृ॑त्यो मृ॒त्यवे॑ नय । त आर्त्या-ऽऽर्ति॒मार्च्छ॑न्तु ।
अ॒ग्निना॒-ऽग्नि-स्सं​वँ॑दताम् ॥ 75 ॥ (अ. 34)
अनुवाकं 35
प्र॒सार्य॑ स॒क्थ्यौ॑ पत॑सि । स॒व्यमक्षि॑ नि॒पेपि॑ च ।
मेह क॑स्यच॒नाम॑मत् ॥ 76 ॥ (अ. 35)

अनुवाकं 36
अत्रि॑णा त्वा क्रिमे हन्मि । कण्वे॑न ज॒मद॑ग्निना ।
वि॒श्वाव॑सो॒-र्ब्रह्म॑णा ह॒तः । क्रिमी॑णा॒ग्ं॒ राजा᳚ ।
अप्ये॑षाग्​ स्थ॒पति॑र्​ह॒तः । अथो॑ मा॒ता-ऽथो॑ पि॒ता ।
अथो᳚ स्थू॒रा अथो᳚ क्षु॒द्राः । अथो॑ कृ॒ष्णा अथो᳚ श्वे॒ताः । अथो॑ आ॒शाति॑का ह॒ताः ।
श्वे॒ताभि॑-स्स॒ह सर्वे॑ ह॒ताः ॥ 77 ॥ (अ. 36)

अनुवाकं 37
आह॒राव॑द्य । शृ॒तस्य॑ ह॒विषो॒ यथा᳚ । त-थ्स॒त्यम् ।
यद॒मुं-यँ॒मस्य॒ जम्भ॑योः । आद॑धामि॒ तथा॒ हि तत् । खण्फण्म्रसि॑ ॥ 78 ॥ (अ. 37)

अनुवाकं 38
ब्रह्म॑णा त्वा शपामि । ब्रह्म॑णस्त्वा श॒पथे॑न शपामि । घो॒रेण॑ त्वा॒ भृगू॑णा॒ञ्चक्षु॑षा॒ प्रेक्षे᳚ । रौ॒द्रेण॒ त्वाङ्गि॑रसा॒-म्मन॑सा ध्यायामि ।
अ॒घस्य॑ त्वा॒ धार॑या विद्ध्यामि ।
अध॑रो॒ म-त्प॑द्यस्वासौ ॥ 79 ॥ (अ. 38)

अनुवाकं 39
उत्तु॑द शिमिजावरि । तल्पे॑जे॒ तल्प॒ उत्तु॑द । गि॒रीग्ं रनु॒ प्रवे॑शय । मरी॑ची॒रुप॒ सन्नु॑द ।
याव॑दि॒तः पु॒रस्ता॑दु॒दया॑ति॒ सूर्यः॑ ।
ताव॑दि॒तो॑-ऽमुन्ना॑शय । यो᳚-ऽस्मा-न्द्वेष्टि॑ ।
यञ्च॑ व॒य-न्द्वि॒ष्मः ॥ 80 ॥ (अ. 39)

अनुवाकं 40
भूर्भुव॒स्सुवो॒ भूर्भुव॒स्सुवो॒ भूर्भुव॒स्सुवः॑ ।
भुवो᳚-ऽद्धायि॒ भुवो᳚-ऽद्धायि॒ भुवो᳚-ऽद्धायि ।
नृ॒म्णायि नृ॒म्ण-न्नृ॒म्णायि नृ॒म्ण-न्नृ॒म्णायि नृ॒म्णम् । नि॒धा य्यो॑-ऽवायि नि॒धा य्यो॑-ऽवायि नि॒धा य्यो॑-ऽवायि । ए अ॒स्मे अ॒स्मे । सुव॒र्न ज्योतीः᳚ ॥ 81 ॥ (अ. 40)

अनुवाकं 41
पृ॒थि॒वी स॒मित् । ताम॒ग्नि-स्समि॑न्धे । सा-ऽग्निग्ं समि॑न्धे । ताम॒हग्ं समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग्॒ स्वाहा᳚ ॥
अ॒न्तरि॑क्षग्ं स॒मित् ॥ 82 ॥

तां-वाँ॒यु-स्समि॑न्धे । सा वा॒युग्ं समि॑न्धे । ताम॒हग्ं समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग्॒ स्वाहा᳚ ।
द्यौ-स्स॒मित् । तामा॑दि॒त्य-स्समि॑न्धे ॥ 83 ॥

सा-ऽऽदि॒त्यग्ं समि॑न्धे । ताम॒हग्ं समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग्॒ स्वाहा᳚ ॥ प्रा॒जा॒प॒त्या मे॑ स॒मिद॑सि सपत्न॒क्षय॑णी ।
भ्रा॒तृ॒व्य॒हा मे॑-ऽसि॒ स्वाहा᳚ ॥ अग्ने᳚ व्रतपते व्र॒तञ्च॑रिष्यामि ॥ 84 ॥

तच्छ॑केय॒-न्तन्मे॑ राद्ध्यताम् । वायो᳚ व्रतपत॒ आदि॑त्य व्रतपते । व्र॒तानां᳚-व्रँतपते व्र॒तञ्च॑रिष्यामि । तच्छ॑केय॒-न्तन्मे॑ राद्ध्यताम् ॥ द्यौ-स्स॒मित् । तामा॑दि॒त्य-स्समि॑न्धे । सा-ऽऽदि॒त्यग्ं समि॑न्धे ।
ताम॒हग्ं समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा ॥ 85 ॥

वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग्॒ स्वाहा᳚ ।
अ॒न्तरि॑क्षग्ं स॒मित् । तां-वाँ॒यु-स्समि॑न्धे । सा वा॒युग्ं समि॑न्धे । ताम॒हग्ं समि॑न्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या ॥ 86 ॥

यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग्॒ स्वाहा᳚ । पृ॒थि॒वी स॒मित् । ताम॒ग्नि-स्समि॑न्धे । सा-ऽग्निग्ं समि॑न्धे । ताम॒हग्ं समि॑न्धे ।
सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या ।
यश॑सा ब्रह्मवर्च॒सेन॑ ॥ 87 ॥

अ॒न्नाद्ये॑न॒ समि॑न्ता॒ग्॒ स्वाहा᳚ । प्रा॒जा॒प॒त्या मे॑ स॒मिद॑सि सपत्न॒क्षय॑णी । भ्रा॒तृ॒व्य॒हा मे॑-ऽसि॒ स्वाहा᳚ । आदि॑त्य व्रतपते व्र॒तम॑चारिषम् ।
तद॑शक॒-न्तन्मे॑-ऽराधि । वायो᳚ व्रतप॒ते-ऽग्ने᳚ व्रतपते । व्र॒तानां᳚-व्रँतपते व्र॒तम॑चारिषम् । तद॑शक॒-न्तन्मे॑-ऽराधि ॥ 88 ॥
(स॒मिथ् - समि॑न्धे - व्र॒तञ्च॑रिष्या॒ - म्यायु॑षा॒ तेज॑सा॒ - वर्च॑सा श्रि॒या - यश॑सा ब्रह्मवर्च॒सेना॒ - +ष्टौ च॑) (अ. 41)

अनुवाकं 42
शन्नो॒ वातः॑ पवता-म्मात॒रिश्वा॒ शन्न॑स्तपतु॒ सूर्यः॑ । अहा॑नि॒ श-म्भ॑वन्तु न॒-श्शग्ं रात्रिः॒ प्रति॑धीयताम् ॥ शमु॒षा नो॒ व्यु॑च्छतु॒ शमा॑दि॒त्य उदे॑तु नः । शि॒वा न॒-श्शन्त॑मा भव सुमृडी॒का सर॑स्वति । मा ते॒ व्यो॑म स॒न्दृशि॑ ॥
इडा॑यै॒ वास्त्व॑सि वास्तु॒म-द्वा᳚स्तु॒मन्तो॑ भूयास्म॒ मा वास्तो᳚-श्छिथ्स्मह्य वा॒स्तु-स्स भू॑या॒-द्यो᳚-ऽस्मा-न्द्वेष्टि॒ यञ्च॑ व॒य-न्द्वि॒ष्मः ॥
प्र॒ति॒ष्ठा-ऽसि॑ प्रति॒ष्ठाव॑न्तो भूयास्म॒ मा प्र॑ति॒ष्ठाया᳚- श्छिथ्स्मह्य प्रति॒ष्ठः
स भू॑या॒-द्यो᳚-ऽस्मा-न्द्वेष्टि॒ यञ्च॑ व॒य-न्द्वि॒ष्मः ॥ आ वा॑त वाहि भेष॒जम् ँवि वा॑त वाहि॒ यद्रपः॑ ।
त्वग्ं हि वि॒श्वभे॑षजो दे॒वाना᳚-न्दू॒त ईय॑से ॥
द्वावि॒मौ वातौ॑ वात॒ आ सिन्धा॒रा प॑रा॒वतः॑ ॥ 89 ॥

दक्ष॑-म्मे अ॒न्य आ॒वातु॒ परा॒-ऽन्यो वा॑तु॒ य-द्रपः॑ ॥
यद॒दो वा॑त ते गृ॒हे॑-ऽमृत॑स्य नि॒धिर्​हि॒तः ।
ततो॑ नो देहि जी॒वसे॒ ततो॑ नो धेहि भेष॒जम् ॥
ततो॑ नो॒ मह॒ आव॑ह॒ वात॒ आवा॑तु भेष॒जम् ।
श॒म्भू-र्म॑यो॒भूर्नो॑ हृ॒दे प्र ण॒ आयूग्ं॑षि तारिषत् ॥ इन्द्र॑स्य गृ॒हो॑-ऽसि॒ त-न्त्वा॒ प्रप॑द्ये॒ सगु॒स्साश्वः॑ । स॒ह यन्मे॒ अस्ति॒ तेन॑ ॥
भूः प्रप॑द्ये॒ भुवः॒ प्रप॑द्ये॒ सुवः॒ प्रप॑द्ये॒ भूर्भुव॒स्सुवः॒ प्रप॑द्ये वा॒युम्
प्रप॒द्ये-ऽना᳚र्ता-न्दे॒वता॒-म्प्रप॒द्ये ऽश्मा॑नमाख॒ण-म्प्रप॑द्ये प्र॒जाप॑तेर्
ब्रह्मको॒श-म्ब्रह्म॒ प्रप॑द्य॒ ओ-म्प्रप॑द्ये ॥
अ॒न्तरि॑क्ष-म्म उ॒र्व॑न्तर॑-म्बृ॒हद॒ग्नयः॒ पर्व॑ताश्च॒ यया॒ वात॑-स्स्व॒स्त्या स्व॑स्ति॒मान्तया᳚ स्व॒स्त्या स्व॑स्ति॒ मान॑सानि ॥
प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒-म्प्राणा॑पानौ॒ मा मा॑ हासिष्ट॒-म्मयि॑ मे॒धा-म्मयि॑ प्र॒जा-म्मय्य॒ग्नि स्तेजो॑ दधातु॒ मयि॑ मे॒धा-म्मयि॑ प्र॒जा-म्मयीन्द्र॑ इन्द्रि॒य-न्द॑धातु॒ मयि॑ मे॒धा-म्मयि॑ प्र॒जा-म्मयि॒ सूर्यो॒
भ्राजो॑ दधातु ॥ 90 ॥

द्यु॒भिर॒क्तुभिः॒ परि॑पात-म॒स्मानरि॑ष्टेभि-रश्विना॒ सौभ॑गेभिः । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒ मदि॑ति॒-स्सिन्धुः॑ पृथि॒वी उ॒त द्यौः ॥
कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑ध॒-स्सखा᳚ । कया॒ शचि॑ष्ठया वृ॒ता ॥ कस्त्वा॑ स॒त्यो मदा॑ना॒-म्मग्ंहि॑ष्ठो मथ्स॒दन्ध॑सः ।
दृ॒ढा चि॑दा॒रुजे॒ वसु॑ ॥ अ॒भी षु ण॒-स्सखी॑नामवि॒ता ज॑रितॄ॒णाम् । श॒त-म्भ॑वास्यू॒तिभिः॑ ॥
वय॑-स्सुप॒र्णा उप॑सेदु॒रिन्द्र॑-म्प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।
अप॑ ध्वा॒न्तमू᳚र्णु॒हि पू॒र्धि चक्षु॑-र्मुमु॒ग्ध्य॑स्मा-न्नि॒धये॑व ब॒द्धान् ॥ 91 ॥

शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ । शं-योँर॒भिस्र॑वन्तु नः ॥ ईशा॑ना॒ वार्या॑णा॒-ङ्क्षय॑न्तीश्चर्​षणी॒नाम् । अ॒पो या॑चामि भेष॒जम् ॥
सु॒मि॒त्रा न॒ आप॒ ओष॑धय-स्सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒-र्यो᳚-ऽस्मान्-द्वेष्टि॒ यञ्च॑ व॒य-न्द्वि॒ष्मः ॥
आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ यो व॑-श्शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥
तस्मा॒ अर॑-ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ॥ 92 ॥

आपो॑ ज॒नय॑था च नः ॥
पृ॒थि॒वी शा॒न्ता सा-ऽग्निना॑ शा॒न्ता सा मे॑ शा॒न्ता शुचग्ं॑ शमयतु ॥ अ॒न्तरि॑क्षग्ं शा॒न्त-न्त-द्वा॒युना॑ शा॒न्त-न्तन्मे॑ शा॒न्तग्ं शुचग्ं॑ शमयतु ।
द्यौ-श्शा॒न्ता सा-ऽऽदि॒त्येन॑ शा॒न्ता सा मे॑ शा॒न्ता शुचग्ं॑ शमयतु ॥ पृ॒थि॒वी शान्ति॑र॒न्तरि॑क्ष॒ग्ं॒ शान्ति॒-र्द्यौ-श्शान्ति॒-र्दिश॒-श्शान्ति॑ रवान्तरदि॒शा-श्शान्ति॑ र॒ग्नि-श्शान्ति॑-र्वा॒यु-श्शान्ति॑ रादि॒त्य-श्शान्ति॑
श्च॒न्द्रमा॒-श्शान्ति॒-र्नक्ष॑त्राणि॒ शान्ति॒ राप॒-श्शान्ति॒ रोष॑धय॒-श्शान्ति॒-र्वन॒स्पत॑य॒-श्शान्ति॒-र्गौ-श्शान्ति॑ र॒जा शान्ति॒ रश्व॒-श्शान्तिः॒ पुरु॑ष॒-श्शान्ति॒-र्ब्रह्म॒ शान्ति॑-र्ब्राह्म॒ण-श्शान्ति॒-श्शान्ति॑रे॒व शान्ति॒-श्शान्ति॑र्मे अस्तु॒ शान्तिः॑ ॥
तया॒-ऽहग्ं शा॒न्त्या स॑र्वशा॒न्त्या मह्य॑-न्द्वि॒पदे॒ चतु॑ष्पदे च॒ शान्ति॑-ङ्करोमि॒ शान्ति॑र्मे अस्तु॒ शान्तिः॑ ॥
एह॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्य-न्धर्म॑श्चै॒तानि॒ मोत्ति॑ष्ठन्त॒-मनूत्ति॑ष्ठन्तु॒ मा मा॒ग्॒ श्रीश्च॒ ह्रीश्च॒ धृति॑श्च॒ तपो॑ मे॒धा प्र॑ति॒ष्ठा श्र॒द्धा स॒त्य-न्धर्म॑श्चै॒तानि॑ मा॒ मा हा॑सिषुः ॥
उदायु॑षा स्वा॒युषोदोष॑धीना॒ग्ं॒ रसे॒नो-त्प॒र्जन्य॑स्य॒ शुष्मे॒णोद॑स्था-म॒मृता॒ग्ं॒ अनु॑ ॥ तच्चक्षु॑-र्दे॒वहि॑त-म्पु॒रस्ता᳚ च्छु॒क्रमु॒च्चर॑त् ।
पश्ये॑म श॒रद॑-श्श॒त-ञ्जीवे॑म श॒रद॑-श्श॒त-न्नन्दा॑म श॒रद॑-श्श॒त-म्मोदा॑म श॒रद॑-श्श॒त-म्भवा॑म श॒रद॑-श्श॒तग्ं शृ॒णवा॑म श॒रद॑-श्श॒त-म्प्रब्र॑वाम श॒रद॑-श्श॒त मजी॑ता-स्स्याम श॒रद॑-श्श॒त-ञ्ज्योक्च॒ सूर्य॑-न्दृ॒शे ॥ 93 ॥

य उद॑गा-न्मह॒तो-ऽर्णवा᳚-द्वि॒भ्राज॑मान-स्सरि॒रस्य॒ मद्ध्या॒थ्स मा॑ वृष॒भो लो॑हिता॒क्ष-स्सूर्यो॑ विप॒श्चि-न्मन॑सा पुनातु ॥ ब्रह्म॑ण॒-श्श्चोत॑न्यसि॒ ब्रह्म॑ण आ॒णी स्थो॒ ब्रह्म॑ण आ॒वप॑नमसि धारि॒तेय-म्पृ॑थि॒वी ब्रह्म॑णा म॒ही धा॑रि॒तमे॑नेन म॒हद॒न्तरि॑क्ष॒-न्दिव॑-न्दाधार पृथि॒वीग्ं सदे॑वां॒-यँद॒हं-वेँद॒ तद॒ह-न्धा॑रयाणि॒ मा मद्वेदो-ऽधि॒ विस्र॑सत् ॥ मे॒धा॒म॒नी॒षे मा-ऽऽवि॑शताग्ं स॒मीची॑ भू॒तस्य॒ भव्य॒स्याव॑रुद्ध्यै॒ सर्व॒मायु॑रयाणि॒
सर्व॒मायु॑रयाणि ॥ आ॒भि-र्गी॒र्भि-र्यदतो॑ न ऊ॒नमाप्या॑यय हरिवो॒ वर्ध॑मानः ।
य॒दा स्तो॒तृभ्यो॒ महि॑ गो॒त्रा रु॒जासि॑ भूयिष्ठ॒भाजो॒ अध॑ ते स्याम ॥ ब्रह्म॒ प्रावा॑दिष्म॒ तन्नो॒ मा हा॑सीत् ॥ ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ 94 ॥
(प॒रा॒वतो॑-दधातु-ब॒द्धान्-जिन्व॑थ-दृ॒शे-+स॒प्त च॑) (अ. 42)

(नमो॑ - यु॒ञ्जते॒ - वृष्णो॒ अश्व॑स्य॒ - ब्रह्म॑-न्प्रव॒र्ग्ये॑ण॒ - ब्रह्म॒-न्प्रच॑रिष्यामो॒ - दश॒ प्राची॒ - रप॑श्यङ्गो॒पाम् - दे॒वस्य॑ - समु॒द्रा - ये॒षे पी॑पिहि॒ - घर्म॒ या ते॑ - मही॒ना-ञ्च॒त्वा - र्यस्का॒न्॒. - या पु॒रस्ता᳚-थ्स॒प्त स॑प्त - प्रा॒णाय॒ त्रीणि॑ - पू॒ष्णे च॒त्वा-र्यु - द॒स्यैका॑दश॒ - यास्ते॑ स॒प्ता - ग्नि-र्ध्रु॒वसीः॒ दैका॒न्न विग्ं॑शति॒--र् भूरू॒र्ध्व स्त्रि॒ग्ं॒शत-द्- भू-र्मयि॒ षोड॑श॒ - यास्ते॑ घो॒रा नव॒ - स्निक्चा॒ष्टौ - धुनि॑श्च॒ द्वे - उ॒ग्रश्च॒ त्रीण्य॑ - होरा॒त्रे पञ्च॒ - ख-ट्त्रीणि॒ - विगा-स्स॒प्तद॒शा - सृ॑-न्मुख-श्च॒त्वारि॒ - यदे॒त-द्वृ॑क॒सः पञ्च॒ - यदी॑षि॒त श्च॒त्वारि॒ - दीर्घ॑मुखि॒ त्रीणी॒ - त्था च्च॒त्वारि॒ - यदे॒त-द्भू॒तानि॒ षट् - प्र॒सार्य॒ त्रीण्य - त्रि॑णा॒ दशा- ह॒राव॑द्य॒ - ब्रह्म॑णा॒ षट्-थ्षड् - उत्तु॑दा॒ष्टौ - भू-ष्षट् - पृ॑थि॒व्य॑ष्ट ष॑ष्टिः॒ - शन्न॑-स्स॒प्तप॑ञ्चा॒श-द्द्विच॑त्वारिग्ंशत् )

(नमो॑ वा॒चे - ब्रह्म॑-न्प्रव॒र्ग्ये॑ण॒ - मयि॒ रु - ग॒न्तरि॑क्षेण - पि॒ता नो॑-ऽसि - मही॒ना - मुप॑ नो॒ - यदे॒त-द्- भू--र् द्यू॒भि श्चतु॑-र्नवतिः)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके चतुर्थः प्रपाठक-स्समाप्तः ॥




Browse Related Categories: