View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

3 - चातुर्होत्रचयनम् - कृष्ण यजुर्वेद तैत्तिरीय आरण्यक पाठः - चित्तिः स्रुक्

कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके तृतीयः प्रपाठकः - चातुर्​होत्रचयनम्

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अनुवाकं 1
चित्ति॒-स्स्रुक् । चि॒त्तमाज्य᳚म् । वाग्वेदिः॑ । आधी॑त-म्ब॒र्॒हिः ।
केतो॑ अ॒ग्निः । विज्ञा॑तम॒ग्निः । वाक्प॑ति॒र्॒होता᳚ । मन॑ उपव॒क्ता । प्रा॒णो ह॒विः । सामा᳚द्ध्व॒र्युः ॥ वाच॑स्पते विधे नामन्न् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्व-म॒स्माक॒-न्नाम॑ । वा॒चस्पति॒-स्सोम॑-म्पिबतु । आ-ऽस्मासु॑ नृ॒म्ण-न्धा॒थ्स्वाहा᳚ ॥ 1 ॥
(अ॒द्ध्व॒र्युः पञ्च च) (अ. 1)

अनुवाकं 2
पृ॒थि॒वी होता᳚ । द्यौर॑द्ध्व॒र्युः । रु॒द्रो᳚-ऽग्नीत् । बृह॒स्पति॑रुपव॒क्ता ॥ वाच॑स्पते वा॒चो वी॒र्ये॑ण । सम्भृ॑तत-मे॒नाय॑क्ष्यसे । यज॑मानाय॒ वार्य᳚म् ।
आ सुव॒स्कर॑स्मै । वा॒चस्पति॒-स्सोम॑-म्पिबति ।
ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहा᳚ ॥ 2 ॥
(पृ॒थि॒वी होता॒ दश॑) (अ. 2)

अनुवाकं 3
अ॒ग्निर्-होता᳚ । अ॒श्विना᳚-ऽद्ध्व॒र्यू । त्वष्टा॒-ऽग्नीत् । मि॒त्र उ॑पव॒क्ता ॥ सोम॒-स्सोम॑स्य पुरो॒गाः । शु॒क्र-श्शु॒क्रस्य॑ पुरो॒गाः । श्रा॒तास्त॑ इन्द्र॒ सोमाः᳚ । वाता॑पेर्-हवन॒श्रुत॒-स्स्वाहा᳚ ॥ 3 ॥
(अ॒ग्निर्-होता॒-ऽष्टौ) (अ. 3)

अनुवाकं 4
सूर्य॑-न्ते॒ चक्षुः॑ । वात॑-म्प्रा॒णः ।
द्या-म्पृ॒ष्ठम् । अ॒न्तरि॑क्षमा॒त्मा ।
अङ्गै᳚-र्य॒ज्ञम् । पृ॒थि॒वीग्ं शरी॑रैः ॥ वाच॑स्प॒ते-ऽच्छि॑द्रया वा॒चा । अच्छि॑द्रया जु॒ह्वा᳚ । दि॒वि दे॑वा॒वृध॒ग्ं॒ होत्रा॒ मेर॑यस्व॒ स्वाहा᳚ ॥ 4 ॥
(सूर्य॑-न्ते॒ नव॑) (अ. 4)

अनुवाकं 5
म॒हाह॑वि॒र्॒ होता᳚ । स॒त्यह॑विरद्ध्व॒र्युः । अच्यु॑तपाजा अ॒ग्नीत् । अच्यु॑तमना उपव॒क्ता । अ॒ना॒धृ॒ष्यश्चा᳚ प्रतिधृ॒ष्यश्च॑ य॒ज्ञस्या॑भिग॒रौ । अ॒यास्य॑ उद्गा॒ता ॥ वाच॑स्पते हृद्विधे नामन्न् । वि॒धेम॑ ते॒ नाम॑ ।
वि॒धेस्त्वम॒स्माक॒-न्नाम॑ । वा॒चस्पति॒-स्सोम॑मपात् । मा दैव्य॒स्तन्तु॒-श्छेदि॒ मा म॑नु॒ष्यः॑ । नमो॑ दि॒वे । नमः॑ पृथि॒व्यै स्वाहा᳚ ॥ 5 ॥
(अ॒पा॒-त्त्रीणि॑ च) (अ. 5)

अनुवाकं 6
वाघोता᳚ । दी॒क्षा पत्नी᳚ । वातो᳚-ऽद्ध्व॒र्युः । आपो॑-ऽभिग॒रः । मनो॑ ह॒विः । तप॑सि जुहोमि ॥
भूर्भुव॒स्सुवः॑ । ब्रह्म॑ स्वय॒म्भु ।
ब्रह्म॑णे स्वय॒म्भुवे॒ स्वाहा᳚ ॥ 6 ॥
(वाघोता॒ नव॑) (अ. 6)

अनुवाकं 7
ब्रा॒ह्म॒ण एक॑होता । स य॒ज्ञः । स मे॑ ददातु प्र॒जा-म्प॒शू-न्पुष्टिं॒-यँशः॑ । य॒ज्ञश्च॑ मे भूयात् ॥ अ॒ग्नि-र्द्विहो॑ता । स भ॒र्ता । स मे॑ ददातु प्र॒जा-म्प॒शू-न्पुष्टिं॒-यँशः॑ । भ॒र्ता च॑ मे भूयात् ॥
पृ॒थि॒वी त्रिहो॑ता । स प्र॑ति॒ष्ठा ॥ 7 ॥

स मे॑ ददातु प्र॒जा-म्प॒शू-न्पुष्टिं॒-यँशः॑ । प्र॒ति॒ष्ठा च॑ मे भूयात् ॥ अ॒न्तरि॑क्ष॒-ञ्चतु॑र्​होता । स वि॒ष्ठाः । स मे॑ ददातु प्र॒जा-म्प॒शू-न्पुष्टिं॒-यँशः॑ । वि॒ष्ठाश्च॑ मे भूयात् ॥
वा॒युः पञ्च॑होता । स प्रा॒णः ।
स मे॑ ददातु प्र॒जा-म्प॒शू-न्पुष्टिं॒-यँशः॑ । प्रा॒णश्च॑ मे भूयात् ॥ 8 ॥

च॒न्द्रमा॒-ष्षड्ढो॑ता । स ऋ॒तून् क॑ल्पयाति ।
स मे॑ ददातु प्र॒जा-म्प॒शू-न्पुष्टिं॒-यँशः॑ । ऋ॒तव॑श्च मे कल्पन्ताम् ॥ अन्नग्ं॑ स॒प्तहो॑ता । स प्रा॒णस्य॑ प्रा॒णः । स मे॑ ददातु प्र॒जा-म्प॒शू-न्पुष्टिं॒-यँशः॑ । प्रा॒णस्य॑ च मे प्रा॒णो भू॑यात् ॥ द्यौर॒ष्टहो॑ता । सो॑-ऽनाधृ॒ष्यः ॥ 9 ॥

स मे॑ ददातु प्र॒जा-म्प॒शू-न्पुष्टिं॒-यँशः॑ । अ॒ना॒धृ॒ष्यश्च॑ भूयासम् ॥
आ॒दि॒त्यो नव॑होता । स ते॑ज॒स्वी ।
स मे॑ ददातु प्र॒जा-म्प॒शू-न्पुष्टिं॒-यँशः॑ । ते॒ज॒स्वी च॑ भूयासम् ॥ प्र॒जाप॑ति॒-र्दश॑होता । स इ॒दग्ं सर्व᳚म् । स मे॑ ददातु प्र॒जा-म्प॒शू-न्पुष्टिं॒-यँशः॑ । सर्व॑-ञ्च मे भूयात् ॥ 10 ॥
(प्र॒ति॒ष्ठा-प्रा॒णश्च॑ मे भूया-दनाधृ॒ष्यः-सर्व॑-ञ्च मे भूयात्) (अ. 7)

(ब्रा॒ह्म॒णो य॒ज्ञो᳚-ऽग्निर्भ॒र्ता पृ॑थि॒वी प्र॑ति॒ष्ठा-ऽन्तरि॑क्षं-विँ॒ष्ठा वा॒युः
प्रा॒णश्च॒न्द्रमा॑ ऋ॒तूनन्न॒ग्ं॒ स प्रा॒णस्य॑ प्रा॒णो द्यौर॑नाधृ॒ष्य आ॑दि॒त्यः
स ते॑ज॒स्वी प्र॒जाप॑ति॒-स्स इ॒दग्ं सर्व॒ग्ं॒ सर्व॑-ञ्च मे भूयात्)

अनुवाकं 8
अ॒ग्नि-र्यजु॑र्भिः । स॒वि॒ता स्तोमैः᳚ । इन्द्र॑ उक्थाम॒दैः ।
मि॒त्रावरु॑णावा॒शिषा᳚ । अङ्गि॑रसो॒ धिष्णि॑यैर॒ग्निभिः॑ । म॒रुत॑-स्सदोहविर्धा॒नाभ्या᳚म् । आपः॒ प्रोक्ष॑णीभिः ।
ओष॑धयो ब॒र्॒हिषा᳚ । अदि॑ति॒र्वेद्या᳚ । सोमो॑ दी॒क्षया᳚ ॥ 11 ॥

त्वष्टे॒द्ध्मेन॑ । विष्णु॑-र्य॒ज्ञेन॑ । वस॑व॒ आज्ये॑न । आ॒दि॒त्या दक्षि॑णाभिः । विश्वे॑ दे॒वा ऊ॒र्जा ।
पू॒षा स्व॑गाका॒रेण॑ । बृह॒स्पतिः॑ पुरो॒धया᳚ ।
प्र॒जाप॑तिरुद्गी॒थेन॑ । अ॒न्तरि॑क्ष-म्प॒वित्रे॑ण । वा॒युः पात्रैः᳚ । अ॒हग्ग्​ श्र॒द्धया᳚ ॥ 12 ॥
(दी॒क्षया॒ - पात्रै॒रेक॑-ञ्च) (अ. 8)

अनुवाकं 9
सेनेन्द्र॑स्य । धेना॒ बृह॒स्पतेः᳚ । प॒त्थ्या॑ पू॒ष्णः । वाग्वा॒योः । दी॒क्षा सोम॑स्य । पृ॒थि॒व्य॑ग्नेः । वसू॑ना-ङ्गाय॒त्री । रु॒द्राणा᳚-न्त्रि॒ष्टुक् । आ॒दि॒त्याना॒-ञ्जग॑ती । विष्णो॑रनु॒ष्टुक् ॥ 13 ॥

वरु॑णस्य वि॒राट् । य॒ज्ञस्य॑ प॒ङ्क्तिः । प्र॒जाप॑ते॒रनु॑मतिः । मि॒त्रस्य॑ श्र॒द्धा । स॒वि॒तुः प्रसू॑तिः । सूर्य॑स्य॒ मरी॑चिः । च॒न्द्रम॑सो रोहि॒णी । ऋषी॑णामरुन्ध॒ती । प॒र्जन्य॑स्य वि॒द्युत् ।
चत॑स्रो॒ दिशः॑ । चत॑स्रो-ऽवान्तरदि॒शाः । अह॑श्च॒ रात्रि॑श्च । कृ॒षिश्च॒ वृष्टि॑श्च ।
त्विषि॒श्चाप॑चितिश्च । आप॒श्चौष॑धयश्च ।
ऊर्क्च॑ सू॒नृता॑ च दे॒वाना॒-म्पत्न॑यः ॥ 14 ॥
(अ॒नु॒ष्टुग् - दिश॒-ष्षट्च॑) (अ. 9)

अनुवाकं 10
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚-र्बा॒हुभ्या᳚म् ।
पू॒ष्णो हस्ता᳚भ्या॒-म्प्रति॑गृह्णामि ।
राजा᳚ त्वा॒ वरु॑णो नयतु देवि दक्षिणे॒-ऽग्नये॒ हिर॑ण्यम् । तेना॑मृत॒त्वम॑श्याम् । वयो॑ दा॒त्रे । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे । क इ॒द-ङ्कस्मा॑ अदात् । कामः॒ कामा॑य । कामो॑ दा॒ता ॥ 15 ॥

कामः॑ प्रतिग्रही॒ता । कामग्ं॑ समु॒द्रमावि॑श । कामे॑न त्वा॒ प्रति॑गृह्णामि ।
कामै॒तत्ते᳚ । ए॒षा ते॑ काम॒ दक्षि॑णा । उ॒त्ता॒नस्त्वा᳚-ऽऽङ्गीर॒सः प्रति॑गृह्णातु ।
सोमा॑य॒ वासः॑ । रु॒द्राय॒ गाम् । वरु॑णा॒याश्व᳚म् ।
प्र॒जाप॑तये॒ पुरु॑षम् ॥ 16 ॥

मन॑वे॒ तल्प᳚म् । त्वष्ट्रे॒-ऽजाम् । पू॒ष्णे-ऽवि᳚म् । निर्-ऋ॑त्या अश्वतरगर्द॒भौ । हि॒मव॑तो ह॒स्तिन᳚म् । ग॒न्ध॒र्वा॒-फ्स॒राभ्यः॑-स्रगलङ्कर॒णे ।
विश्वे᳚भ्यो दे॒वेभ्यो॑ धा॒न्यम् । वा॒चे-ऽन्न᳚म् । ब्रह्म॑ण ओद॒नम् । स॒मु॒द्रायापः॑ ॥ 17 ॥

उ॒त्ता॒नाया᳚ङ्गीर॒सायानः॑ । वै॒श्वा॒न॒राय॒ रथ᳚म् ॥
वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हत् ।
दि॒वः पृ॒ष्ठ-म्भन्द॑मान-स्सु॒मन्म॑भिः ।
स पू᳚र्व॒वज्ज॒नय॑ज्ज॒न्तवे॒ धन᳚म् । स॒मा॒नम॑ज्मा॒ परि॑याति॒ जागृ॑विः ॥
राजा᳚ त्वा॒ वरु॑णो नयतु देवि दक्षिणे वैश्वान॒राय॒ रथ᳚म् । तेना॑मृत॒त्वम॑श्याम् । वयो॑ दा॒त्रे ।
मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे ॥ 18 ॥

क इ॒द-ङ्कस्मा॑ अदात् । कामः॒ कामा॑य । कामो॑ दा॒ता ।
कामः॑ प्रतिग्रही॒ता । कामग्ं॑ समु॒द्रमावि॑श । कामे॑न त्वा॒ प्रति॑गृह्णामि । कामै॒तत्ते᳚ । ए॒षा ते॑ काम॒ दक्षि॑णा । उ॒त्ता॒नस्त्वा᳚-ऽऽङ्गीर॒सः प्रति॑गृह्णातु ॥ 19 ॥
(दा॒ता - पुरु॑ष॒ - मापः॑ - प्रतिग्रही॒त्रे - +नव॑ च) (अ. 10)

अनुवाकं 11
सु॒वर्ण॑-ङ्घ॒र्म-म्परि॑वेद वे॒नम् । इन्द्र॑स्या॒त्मान॑-न्दश॒धा चर॑न्तम् ।
अ॒न्त-स्स॑मु॒द्रे मन॑सा॒ चर॑न्तम् । ब्रह्मा-ऽन्व॑विन्द॒-द्दश॑होतार॒मर्णे᳚ ।
अ॒न्तः प्रवि॑ष्ट-श्शा॒स्ता जना॑नाम् । एक॒-स्सन्ब॑हु॒धा वि॑चारः । श॒तग्ं शु॒क्राणि॒ यत्रैक॒-म्भव॑न्ति । सर्वे॒ वेदा॒ यत्रैक॒-म्भव॑न्ति । सर्वे॒ होता॑रो॒ यत्रैक॒-म्भव॑न्ति । स॒ मान॑सीन आ॒त्मा जना॑नाम् ॥ 20 ॥

अ॒न्तः प्रवि॑ष्ट-श्शा॒स्ता जना॑ना॒ग्ं॒ सर्वा᳚त्मा ।
सर्वाः᳚ प्र॒जा यत्रैक॒-म्भव॑न्ति । चतु॑र्​होतारो॒ यत्र॑ स॒म्पद॒-ङ्गच्छ॑न्ति दे॒वैः । स॒ मान॑सीन आ॒त्मा जना॑नाम् ॥ ब्रह्मेन्द्र॑म॒ग्नि-ञ्जग॑तः प्रति॒ष्ठाम् ।
दि॒व आ॒त्मानग्ं॑ सवि॒तार॒-म्बृह॒स्पति᳚म् ।
चतु॑र्​होतार-म्प्र॒दिशो-ऽनु॑ क्ल॒प्तम् । वा॒चो वी॒र्य॑-न्तप॒सा-ऽन्व॑विन्दत् ॥ अ॒न्तः प्रवि॑ष्ट-ङ्क॒र्तार॑मे॒तम् ।
त्वष्टा॑रग्ं रू॒पाणि॑ विकु॒र्वन्तं॑-विँप॒श्चिम् ॥ 21 ॥

अ॒मृत॑स्य प्रा॒णं-यँ॒ज्ञमे॒तम् ।
चतु॑र्​होतृणामा॒त्मान॑-ङ्क॒वयो॒ निचि॑क्युः ॥
अ॒न्तः प्रवि॑ष्ट-ङ्क॒र्तार॑मे॒तम् ।
दे॒वाना॒-म्बन्धु॒ निहि॑त॒-ङ्गुहा॑सु ।
अ॒मृते॑न क्ल॒प्तं-यँ॒ज्ञमे॒तम् ।
चतु॑र्​होतृणामा॒त्मान॑-ङ्क॒वयो॒ निचि॑क्युः ॥
श॒त-न्नि॒युतः॒ परि॑वेद॒ विश्वा॑ वि॒श्ववा॑रः । विश्व॑मि॒दं-वृँ॑णाति ।
इन्द्र॑स्या॒त्मा निहि॑तः॒ पञ्च॑होता ।
अ॒मृत॑-न्दे॒वाना॒मायुः॑ प्र॒जाना᳚म् ॥ 22 ॥

इन्द्र॒ग्ं॒ राजा॑नग्ं सवि॒तार॑मे॒तम् । वा॒योरा॒त्मान॑-ङ्क॒वयो॒ निचि॑क्युः ।
र॒श्मिग्ं र॑श्मी॒ना-म्मद्ध्ये॒ तप॑न्तम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा᳚न्ति ॥ य आ᳚ण्डको॒शे भुव॑न-म्बि॒भर्ति॑ । अनि॑र्भिण्ण॒-स्सन्नथ॑ लो॒कान्. वि॒चष्टे᳚ ।
यस्या᳚ण्डको॒शग्ं शुष्म॑मा॒हुः प्रा॒णमुल्ब᳚म् ।
तेन॑ क्लृ॒प्तो॑-ऽमृते॑ना॒हम॑स्मि ॥ सु॒वर्ण॒-ङ्कोश॒ग्ं॒ रज॑सा॒ परी॑वृतम् ।
दे॒वानां᳚-वँसु॒धानीं᳚-विँ॒राज᳚म् ॥ 23 ॥

अ॒मृत॑स्य पू॒र्णान्तामु॑ क॒लां-विँच॑क्षते ।
पाद॒ग्ं॒ षड्ढो॑तु॒र्न किला॑वि विथ्से ॥ येन॒र्तवः॑ पञ्च॒धोत क्ल॒प्ताः । उ॒त वा॑ ष॒ड्धा मन॒सोत क्लृ॒प्ताः । तग्ं षड्ढो॑तारमृ॒तुभिः॒ कल्प॑मानम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा᳚न्ति ॥ अ॒न्तः प्रवि॑ष्ट-ङ्क॒र्तार॑मे॒तम् । अ॒न्तश्च॒न्द्रम॑सि॒ मन॑सा॒ चर॑न्तम् । स॒हैव सन्त॒-न्न विजा॑नन्ति दे॒वाः ।
इन्द्र॑स्या॒त्मानग्ं॑ शत॒धा चर॑न्तम् ॥ 24 ॥

इन्द्रो॒ राजा॒ जग॑तो॒ य ईशे᳚ । स॒प्तहो॑ता सप्त॒धा विक्लृ॑प्तः ॥ परे॑ण॒ तन्तु॑-म्परिषि॒च्यमा॑नम् । अ॒न्तरा॑दि॒त्ये मन॑सा॒ चर॑न्तम् । दे॒वाना॒ग्ं॒ हृद॑य॒-म्ब्रह्मा-ऽन्व॑विन्दत् ॥ ब्रह्मै॒तद्ब्रह्म॑ण॒ उज्ज॑भार । अ॒र्कग्ग्​ श्चोत॑न्तग्ं सरि॒रस्य॒ मद्ध्ये᳚ ॥ आ यस्मिन्᳚-थ्स॒प्त पेर॑वः । मेह॑न्ति बहु॒लाग्​ श्रिय᳚म् । ब॒ह्व॒श्वामि॑न्द्र॒ गोम॑तीम् ॥ 25 ॥

अच्यु॑ता-म्बहु॒लाग्​ श्रिय᳚म् । स हरि॑र्वसु॒वित्त॑मः ।
पे॒रुरिन्द्रा॑य पिन्वते ॥ ब॒ह्व॒श्वामि॑न्द्र॒ गोम॑तीम् । अच्यु॑ता-म्बहु॒लाग्​ श्रिय᳚म् । मह्य॒मिन्द्रो॒ निय॑च्छतु ॥ श॒तग्ं श॒ता अ॑स्य यु॒क्ता हरी॑णाम् ।
अ॒र्वांआ या॑तु॒ वसु॑भी र॒श्मिरिन्द्रः॑ । प्रमग्ंह॑माणो बहु॒लाग्​ श्रिय᳚म् ।
र॒श्मिरिन्द्र॑-स्सवि॒ता मे॒ निय॑च्छतु ॥ 26 ॥

घृ॒त-न्तेजो॒ मधु॑मदिन्द्रि॒यम् । मय्य॒यम॒ग्निर्द॑धातु ॥ हरिः॑ पत॒ङ्गः प॑ट॒री सु॑प॒र्णः । दि॒वि॒क्षयो॒ नभ॑सा॒ य एति॑ ।
स न॒ इन्द्रः॑ कामव॒र-न्द॑दातु ॥ पञ्चा॑र-ञ्च॒क्र-म्परि॑वर्तते पृ॒थु । हिर॑ण्यज्योति-स्सरि॒रस्य॒ मद्ध्ये᳚ । अज॑स्र॒-ञ्ज्योति॒र्नभ॑सा॒ सर्प॑देति ।
स न॒ इन्द्रः॑ कामव॒र-न्द॑दातु ॥
स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्रम् ॥ 27 ॥

एको॒ अश्वो॑ वहति सप्तना॒मा । त्रि॒नाभि॑ च॒क्रम॒जर॒मन॑र्वम् । येने॒मा विश्वा॒ भुव॑नानि तस्थुः ॥ भ॒द्र-म्पश्य॑न्त॒ उप॑सेदु॒रग्रे᳚ ।
तपो॑ दी॒क्षामृष॑य-स्सुव॒र्विदः॑ । ततः॑, क्ष॒त्र-म्बल॒मोज॑श्च जा॒तम् । तद॒स्मै दे॒वा अ॒भि स-न्न॑मन्तु ॥ श्वे॒तग्ं र॒श्मि-म्बो॑भु॒ज्यमा॑नम् ।
अ॒पा-न्ने॒तार॒-म्भुव॑नस्य गो॒पाम् ।
इन्द्र॒-न्निचि॑क्युः पर॒मे व्यो॑मन्न् ॥ 28 ॥

रोहि॑णीः पिङ्ग॒ला एक॑रूपाः । क्षर॑न्तीः पिङ्ग॒ला एक॑रूपाः । श॒तग्ं स॒हस्रा॑णि प्र॒युता॑नि॒ नाव्या॑नाम् ॥ अ॒यं-यँश्श्वे॒तो र॒श्मिः । परि॒ सर्व॑मि॒द-ञ्जग॑त् । प्र॒जा-म्प॒शू-न्धना॑नि । अ॒स्माक॑-न्ददातु ॥
श्वे॒तो र॒श्मिः परि॒ सर्व॑-म्बभूव । सुव॒न्मह्य॑-म्प॒शून्. वि॒श्वरू॑पान् ॥ प॒त॒ङ्गम॒क्तमसु॑रस्य मा॒यया᳚ ॥ 29 ॥

हृ॒दा प॑श्यन्ति॒ मन॑सा मनी॒षिणः॑ । स॒मु॒द्रे अ॒न्तः क॒वयो॒ विच॑क्षते । मरी॑चीना-म्प॒दमि॑च्छन्ति वे॒धसः॑ ॥ प॒त॒ङ्गो वाच॒-म्मन॑सा बिभर्ति ।
ता-ङ्ग॑न्ध॒र्वो॑-ऽवद॒-द्गर्भे॑ अ॒न्तः । ता-न्द्योत॑मानाग्​ स्व॒र्य॑-म्मनी॒षाम् ।
ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा᳚न्ति ॥ ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒-स्सन्तो॑ बहु॒धैक॑रूपाः । अ॒ग्निस्ताग्ं अग्रे॒ प्रमु॑मोक्तु दे॒वः ॥ 30 ॥

प्र॒जाप॑तिः प्र॒जया॑ सं​विँदा॒नः ॥ वी॒तग्ग्​ स्तु॑केस्तुके । यु॒वम॒स्मासु॒ निय॑च्छतम् । प्रप्र॑ य॒ज्ञप॑ति-न्तिर ॥ ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒-स्सन्तो॑ बहु॒धैक॑रूपाः ।
तेषाग्ं॑ सप्ता॒नामि॒ह रन्ति॑रस्तु ।
रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥
य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः ।
विरू॑पा॒-स्सन्तो॑ बहु॒धैक॑रूपाः ॥ 31 ॥

वा॒युस्ताग्ं अग्रे॒ प्रमु॑मोक्तु दे॒वः । प्र॒जाप॑तिः प्र॒जया॑ सं​विँदा॒नः ॥ इडा॑यै सृ॒प्त-ङ्घृ॒तव॑च्चराच॒रम् । दे॒वा अन्व॑विन्द॒न्गुहा॑ हि॒तम् ॥
य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒-स्सन्तो॑ बहु॒धैक॑रूपाः । तेषाग्ं॑ सप्ता॒नामि॒ह रन्ति॑रस्तु ।
रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥ 32 ॥
(आ॒त्मा जना॑नां - ँविकु॒र्वन्तं॑-विँप॒श्विं - प्र॒जानां᳚ - ँवसु॒धानीं᳚
ँवि॒राजं॒ - चर॑न्तं॒ - गोम॑तीं - मे॒ निय॑च्छ॒ - त्वेक॑चक्रं॒ - ँव्यो॑मन् - मा॒यया॑ - दे॒व - एक॑रूपा - +अ॒ष्टौ च॑) (अ. 11)

अनुवाकं 12
स॒हस्र॑शीर्​षा॒ पुरु॑षः । स॒ह॒स्रा॒क्ष-स्स॒हस्र॑पात् । स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठ-द्दशाङ्गु॒लम् ॥ पुरु॑ष ए॒वेदग्ं सर्व᳚म् । य-द्भू॒तं-यँच्च॒ भव्य᳚म् ।
उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑नाति॒रोह॑ति ॥ ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ॥ 33 ॥

पादो᳚-ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृत॑-न्दि॒वि ॥
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚-ऽस्ये॒हाभ॑वा॒-त्पुनः॑ । ततो॒ विष्वं॒-व्यँ॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ॥ तस्मा᳚-द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत । प॒श्चा-द्भूमि॒मथो॑ पु॒रः ॥ 34 ॥

यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्य᳚म् । ग्री॒ष्म इ॒द्ध्म-श्श॒रद्ध॒विः ॥ स॒प्तास्या॑स-न्परि॒धयः॑ ।
त्रि-स्स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वा य-द्य॒ज्ञ-न्त॑न्वा॒नाः । अब॑द्ध्न॒-न्पुरु॑ष-म्प॒शुम् ॥ तं-यँ॒ज्ञ-म्ब॒र्॒हिषि॒ प्रौक्षन्न्॑ ।
पुरु॑ष-ञ्जा॒तम॑ग्र॒तः ॥ 35 ॥

तेन॑ दे॒वा अय॑जन्त । सा॒द्ध्या ऋष॑यश्च॒ ये ॥
तस्मा᳚-द्य॒ज्ञा-थ्स॑र्व॒हुतः॑ । सम्भृ॑त-म्पृषदा॒ज्यम् । प॒शूग्​स्ताग्​श्च॑क्रे वाय॒व्यान्॑ ।
आ॒र॒ण्या-न्ग्रा॒म्याश्च॒ ये ॥ तस्मा᳚-द्य॒ज्ञा-थ्स॑र्व॒हुतः॑ । ऋच॒-स्सामा॑नि जज्ञिरे । छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒-स्तस्मा॑दजायत ॥ 36 ॥

तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः । गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ ज्जा॒ता अ॑जा॒वयः॑ ॥ य-त्पुरु॑षं॒-व्यँ॑दधुः । क॒ति॒धा व्य॑कल्पयन्न् । मुख॒-ङ्किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते ॥
ब्रा॒ह्म॒णो᳚-ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ॥ 37 ॥

ऊ॒रू तद॑स्य॒ य-द्वैश्यः॑ । प॒द्भ्याग्ं शू॒द्रो अ॑जायत ॥ च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒-स्सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णा-द्वा॒युर॑जायत ॥ नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्​ष्णो द्यौ-स्सम॑वर्तत । प॒द्भ्या-म्भूमि॒-र्दिश॒-श्श्रोत्रा᳚त् ।
तथा॑ लो॒काग्ं अ॑कल्पयन्न् ॥ 38 ॥

वेदा॒हमे॒त-म्पुरु॑ष-म्म॒हान्त᳚म् । आ॒दि॒त्यव॑र्ण॒-न्तम॑स॒स्तु पा॒रे । सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वा-ऽभि॒वद॒न्॒. यदास्ते᳚ ॥
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वा-न्प्र॒दिश॒श्चत॑स्रः । तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ॥
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् । ते ह॒ नाक॑-म्महि॒मान॑-स्सचन्ते । यत्र॒ पूर्वे॑ सा॒द्ध्या-स्सन्ति॑ दे॒वाः ॥ 39 ॥
(पुरु॑षः - पु॒रो᳚ - ऽग्र॒तो॑ - ऽजायत - कृ॒तो॑ - ऽकल्पयन् - नास॒-न्द्वे च॑) (अ. 12)

(ज्याया॒नधि॒ पूरु॑षः) (अ॒न्यत्र॒ पुरु॑षः )

अनुवाकं 13
अ॒द्भ्य-स्सम्भू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मण॒-स्सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑-द्रू॒पमे॑ति । त-त्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ ॥ वेदा॒हमे॒त-म्पुरु॑ष-म्म॒हान्त᳚म् । आ॒दि॒त्यव॑र्ण॒-न्तम॑सः॒ पर॑स्तात् ।
तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒ते-ऽय॑नाय ॥ प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ॥ 40 ॥

तस्य॒ धीराः॒ परि॑जानन्ति॒ योनि᳚म् । मरी॑चीना-म्प॒दमि॑च्छन्ति वे॒धसः॑ ॥ यो दे॒वेभ्य॒ आत॑पति । यो दे॒वाना᳚-म्पु॒रोहि॑तः । पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये ॥ रुच॑-म्ब्रा॒ह्म-ञ्ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन्न् ।
यस्त्वै॒व-म्ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न्वशे᳚ ॥ ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्​श्वे । नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्त᳚म् । इ॒ष्ट-म्म॑निषाण । अ॒मु-म्म॑निषाण । सर्व॑-म्मनिषाण ॥ 41 ॥
(जा॒य॒ते॒ - वशे॑ स॒प्त च॑) (अ. 13)

अनुवाकं 14
भ॒र्ता स-न्भ्रि॒यमा॑णो बिभर्ति । एको॑ दे॒वो ब॑हु॒धा निवि॑ष्टः । य॒दा भा॒र-न्त॒न्द्रय॑ते॒ स भर्तु᳚म् । नि॒धाय॑ भा॒र-म्पुन॒रस्त॑मेति ॥
तमे॒व मृ॒त्युम॒मृत॒-न्तमा॑हुः । त-म्भ॒र्तार॒-न्तमु॑ गो॒प्तार॑माहुः । स भृ॒तो भ्रि॒यमा॑णो बिभर्ति । य ए॑नं॒-वेँद॑ स॒त्येन॒ भर्तु᳚म् ॥ स॒द्यो जा॒तमु॒त ज॑हात्ये॒षः । उ॒तो जर॑न्त॒-न्न ज॑हा॒त्येक᳚म् ॥ 42 ॥

उ॒तो ब॒हूनेक॒मह॑र्जहार । अत॑न्द्रो दे॒व-स्सद॑मे॒व प्रार्थः॑ ॥ यस्तद्वेद॒ यत॑ आब॒भूव॑ । स॒न्धा-ञ्च॒ याग्ं स॑न्द॒धे ब्रह्म॑णै॒षः ।
रम॑ते॒ तस्मि॑न्नु॒त जी॒र्णे शया॑ने । नैन॑-ञ्जहा॒त्यह॑स्सु पू॒र्व्येषु॑ ॥ त्वामापो॒ अनु॒ सर्वा᳚श्चरन्ति जान॒तीः । व॒थ्स-म्पय॑सा पुना॒नाः ।
त्वम॒ग्निग्ं ह॑व्य॒वाह॒ग्ं॒ समि᳚न्​थ्से ।
त्व-म्भ॒र्ता मा॑त॒रिश्वा᳚ प्र॒जाना᳚म् ॥ 43 ॥

त्वं-यँ॒ज्ञस्त्वमु॑ वे॒वासि॒ सोमः॑ । तव॑ दे॒वा हव॒माय॑न्ति॒ सर्वे᳚ । त्वमेको॑-ऽसि ब॒हूननु॒प्रवि॑ष्टः । नम॑स्ते अस्तु सु॒हवो॑ म एधि ॥
नमो॑ वामस्तु शृणु॒तग्ं हव॑-म्मे । प्राणा॑पानावजि॒रग्ं स॒चंर॑न्तौ ।
ह्वया॑मि वा॒-म्ब्रह्म॑णा तू॒र्तमेत᳚म् । यो मा-न्द्वेष्टि॒ त-ञ्ज॑हि तं-युँवाना ॥
प्राणा॑पानौ सं​विँदा॒नौ ज॑हितम् ।
अ॒मुष्यासु॑ना॒ मा सङ्ग॑साथाम् ॥ 44 ॥

त-म्मे॑ देवा॒ ब्रह्म॑णा सं​विँदा॒नौ ।
व॒धाय॑ दत्त॒-न्तम॒हग्ं ह॑नामि ॥ अस॑ज्जजान स॒त आब॑भूव । यं-यँ॑-ञ्ज॒जान॒ स उ॑ गो॒पो अ॑स्य ।
य॒दा भा॒र-न्त॒न्द्रय॑ते॒ स भर्तु᳚म् । प॒रास्य॑ भा॒र-म्पुन॒रस्त॑मेति ॥
तद्वै त्व-म्प्रा॒णो अ॑भवः । म॒हान्भोगः॑ प्र॒जाप॑तेः । भुजः॑ करि॒ष्यमा॑णः । यद्दे॒वान्प्राण॑यो॒ नव॑ ॥ 45 ॥
(एकं॑ - प्र॒जानां᳚ - गसाथां॒ - नव॑ ) (अ. 14)

अनुवाकं 15
हरि॒ग्ं॒ हर॑न्त॒मनु॑यन्ति दे॒वाः । विश्व॒स्येशा॑नं-वृँष॒भ-म्म॑ती॒नाम् । ब्रह्म॒ सरू॑प॒मनु॑ मे॒दमागा᳚त् । अय॑न॒-म्मा विव॑धी॒-र्विक्र॑मस्व ॥
माच्छि॑दो मृत्यो॒ मा व॑धीः । मा मे॒ बलं॒-विँवृ॑हो॒ मा प्रमो॑षीः । प्र॒जा-म्मा मे॑ रीरिष॒ आयु॑रुग्र । नृ॒चक्ष॑स-न्त्वा ह॒विषा॑ विधेम ॥
स॒द्यश्च॑कमा॒नाय॑ । प्र॒वे॒पा॒नाय॑ मृ॒त्यवे᳚ ॥ 46 ॥

प्रास्मा॒ आशा॑ अशृण्वन्न् । कामे॑नाजनय॒-न्पुनः॑ ॥
कामे॑न मे॒ काम॒ आगा᳚त् । हृद॑या॒द्द्धृद॑य-म्मृ॒त्योः । यद॒मीषा॑म॒दः प्रि॒यम् । तदैतूप॒ माम॒भि ॥ पर॑-म्मृत्यो॒ अनु॒ परे॑हि॒ पन्था᳚म् । यस्ते॒ स्व इत॑रो देव॒याना᳚त् । चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि । मा नः॑ प्र॒जाग्ं री॑रिषो॒ मोत वी॒रान् ॥
प्र पू॒र्व्य-म्मन॑सा॒ वन्द॑मानः । नाध॑मानो वृष॒भ-ञ्च॑र्​षणी॒नाम् । यः प्र॒जाना॑मेक॒राण्मानु॑षीणाम् ।
मृ॒त्युं-यँ॑जे प्रथम॒जामृ॒तस्य॑ ॥ 47 ॥
(मृ॒त्यवे॑ - वी॒राग्​श्च॒त्वारि॑ च) (अ. 15)

अनुवाकं 16
त॒रणि॑-र्वि॒श्वद॑र्​शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒माभा॑सि रोच॒नम् ।
उ॒प॒या॒मगृ॑हीतो-ऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनि॒-स्सूर्या॑य त्वा॒ भ्राज॑स्वते ॥ 48 ॥

अनुवाकं 17
आ प्या॑यस्व मदिन्तम॒ सोम॒ विश्वा॑भिरू॒तिभिः॑ ।
भवा॑ न-स्स॒प्रथ॑स्तमः ॥ 49 ॥

अनुवाकं 18
ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन् व्यु॒च्छन्ती॑मु॒षस॒-म्मर्त्या॑सः ।
अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑-ऽभू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्यान्॑ ॥ 50 ॥

अनुवाकं 19
ज्योति॑ष्मती-न्त्वा सादयामि ज्योति॒ष्कृत॑-न्त्वा सादयामि ज्योति॒र्विद॑-न्त्वा सादयामि॒ भास्व॑ती-न्त्वा सादयामि॒ ज्वल॑न्ती-न्त्वा सादयामि मल्मला॒भव॑न्ती-न्त्वा सादयामि॒ दीप्य॑माना-न्त्वा सादयामि॒ रोच॑मानां
त्वा सादया॒म्यज॑स्रा-न्त्वा सादयामि बृ॒हज्ज्यो॑तिष-न्त्वा सादयामि बो॒धय॑न्ती-न्त्वा सादयामि॒ जाग्र॑ती-न्त्वा सादयामि ॥ 51 ॥

अनुवाकं 20
प्र॒या॒साय॒ स्वाहा॑-ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ सं​याँ॒साय॒ स्वाहो᳚द्या॒साय॒ स्वाहा॑-ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप्य॒त्वै स्वाहा॒ तप॑ते॒ स्वाहा᳚ ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ 52 ॥

अनुवाकं 21
चि॒त्तग्ं स॑न्ता॒नेन॑ भवं-यँ॒क्ना रु॒द्र-न्तनि॑म्ना पशु॒पतिग्ग्॑ स्थूलहृद॒येना॒ग्निग्ं हृद॑येन रु॒द्रं-लोँहि॑तेन श॒र्व-म्मत॑स्नाभ्यां
महादे॒वम॒न्तः पा᳚र्​श्वेनौषिष्ठ॒हनग्ं॑ शिङ्गीनिको॒श्या᳚भ्याम् ॥ 53 ॥

(चित्तिः॑ - पृथि॒ - व्य॑ग्निः॒ - सूर्य॑-न्ते॒ चक्षु॑--र् म॒हाह॑वि॒र्॒ होता॒ - वाघोता᳚ - ब्राह्म॒ण एक॑होता॒ - ऽग्निर्यजु॑र्भिः॒ - सेनेन्द्र॑स्य - दे॒वस्य॑ - सु॒वर्ण॑-ङ्घ॒र्मग्ं - स॒हस्र॑शीर्​षा॒- ऽद्भ्यो - भ॒र्ता -
हरिं॑ - त॒रणि॒ - राप्या॑य - स्वे॒युष्टे ये - ज्योति॑ष्मतीं - प्रया॒साय॑ - चि॒त्त मेक॑विग्ंशतिः)

(चित्ति॑ - र॒ग्निर्यजु॑र्भि - र॒न्तः प्रवि॑ष्टः - प्र॒जाप॑ति॒ - स्तस्य॒ धीरा॒ - ज्योति॑ष्मती॒-न्त्रिप॑ञ्चा॒शत् )

( चित्तिः॑ - शिङ्गीनिको॒श्या᳚भ्यां )

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके तृतीयः प्रपाठक-स्समाप्तः ॥




Browse Related Categories: