View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

3.11 - नाचिकेतचयनम् - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण काठ प्रश्नः पाठः - लोकोसि स्वर्गोसि

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे काठके द्वितीयः प्रश्नः - नाचिकेतचयनम्

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अनुवाकं 1 - इष्टकोपधानमन्त्राः
लो॒को॑-ऽसि स्व॒र्गो॑-ऽसि । अ॒न॒न्तो᳚-ऽस्य पा॒रो॑-ऽसि ।
अक्षि॑तो-ऽस्य क्ष॒य्यो॑-ऽसि । तप॑सः प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । तन्त्वोप॑दधे काम॒दुघ॒-मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 1 ॥

तपो॑-ऽसि लो॒के श्रि॒तम् । तेज॑सः प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्तृ विश्व॑स्य जनयि॒तृ ।
त-त्त्वोप॑दधे काम॒दुघ॒-मक्षि॑तम् ।
प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 2 ॥

तेजो॑-ऽसि॒ तप॑सि श्रि॒तम् । स॒मु॒द्रस्य॑ प्रति॒ष्ठा ।
त्वयी॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्तृविश्व॑स्य जनयि॒तृ ।
त-त्त्वोप॑दधे काम॒दुघ॒-मक्षि॑तम् ।
प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 3 ॥

स॒मु॒द्रो॑-ऽसि॒ तेज॑सि श्रि॒तः । अ॒पा-म्प्र॑ति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता ।
त-न्त्वोप॑दधे काम॒दुघ॒-मक्षि॑तम् ।
प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 4 ॥

आप॑-स्स्थ समु॒द्रे श्रि॒ताः । पृ॒थि॒व्याः प्र॑ति॒ष्ठा यु॒ष्मासु॑ । इ॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् । विश्व॑स्य भ॒र्त्र्यो॑ विश्व॑स्य जनयि॒त्र्यः॑ । ता व॒ उप॑दधे काम॒दुघा॒ अक्षि॑ताः । प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 5 ॥

पृ॒थि॒व्य॑-स्य॒फ्सु श्रि॒ता । अ॒ग्नेः प्र॑ति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् । विश्व॑स्य भ॒र्त्री विश्व॑स्य जनयि॒त्री । ता-न्त्वोप॑दधे काम॒दुघा॒-मक्षि॑ताम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 6 ॥

अ॒ग्निर॑सि पृथि॒व्याग्​ श्रि॒तः । अ॒न्तरि॑क्षस्य प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । त-न्त्वोप॑दधे काम॒दुघ॒-मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 7 ॥

अ॒न्तरि॑क्ष-मस्य॒ग्नौ श्रि॒तम् ।
वा॒योः प्र॑ति॒ष्ठा । त्वयी॒दम॒न्तः ।
विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्तृ विश्व॑स्य जनयि॒तृ ।
त-त्त्वोप॑दधे काम॒दुघ॒-मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 8 ॥

वा॒युर॑स्य॒न्तरि॑क्षे श्रि॒तः । दि॒वः प्र॑ति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता ।
त-न्त्वोप॑दधे काम॒दुघ॒-मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 9 ॥

द्यौर॑सि वा॒यौ श्रि॒ता । आ॒दि॒त्यस्य॑ प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्त्री विश्व॑स्य जनयि॒त्री ।
ता-न्त्वोप॑दधे काम॒दुघा॒-मक्षि॑ताम् । प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 10 ॥

आ॒दि॒त्यो॑-ऽसि दि॒वि श्रि॒तः । च॒न्द्रम॑सः प्रति॒ष्ठा । त्वयी॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता ।
त-न्त्वोप॑दधे काम॒दुघ॒-मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 11 ॥

च॒न्द्रमा॑ अस्यादि॒त्ये श्रि॒तः ।
नक्ष॑त्राणा-म्प्रति॒ष्ठा । त्वयी॒दम॒न्तः ।
विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । त-न्त्वोप॑दधे काम॒दुघ॒-मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 12 ॥

नक्ष॑त्राणि स्थ च॒न्द्रम॑सि श्रि॒तानि॑ । सं॒​वँ॒थ्स॒रस्य॑ प्रति॒ष्ठा यु॒ष्मासु॑ ।
इ॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्तॄणि॒ विश्व॑स्य जनयि॒तॄणि॑ ।
तानि॑ व॒ उप॑दधे काम॒दुघा॒-न्यक्षि॑तानि । प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 13 ॥

सं॒​वँ॒थ्स॒रो॑-ऽसि॒ नक्ष॑त्रेषु श्रि॒तः । ऋ॒तू॒ना-म्प्र॑ति॒ष्ठा । त्वयी॒दम॒न्तः ।
विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् । विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता । त-न्त्वोप॑दधे काम॒दुघ॒-मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 14 ॥
ऋ॒तव॑-स्स्थ सं​वँथ्स॒रे श्रि॒ताः ।
मासा॑ना-म्प्रति॒ष्ठा यु॒ष्मासु॑ ।
इ॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्तारो॒ विश्व॑स्य जनयि॒तारः॑ ।
तान्. व॒ उप॑दधे काम॒दुघा॒-नक्षि॑तान् । प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 15 ॥

मासा᳚-स्स्थ॒र्तुषु॑ श्रि॒ताः । अ॒द्र्ध॒मा॒साना᳚-म्प्रति॒ष्ठा यु॒ष्मासु॑ । इ॒दम॒न्तः ।
विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् । विश्व॑स्य भ॒र्तारो॒ विश्व॑स्य जनयि॒तारः॑ । तान्. व॒ उप॑दधे काम॒दुघा॒-नक्षि॑तान् । प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 16 ॥

अ॒द्र्ध॒मा॒सा-स्स्थ॑ मा॒सु श्रि॒ताः । अ॒हो॒रा॒त्रयोः᳚ प्रति॒ष्ठा यु॒ष्मासु॑ ।
इ॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्तारो॒ विश्व॑स्य जनयि॒तारः॑ ।
तान्. व॒ उप॑दधे काम॒दुघा॒-नक्षि॑तान् । प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 17 ॥

अ॒हो॒रा॒त्रे स्थो᳚-ऽद्र्धमा॒सेषु॑ श्रि॒ते । भू॒तस्य॑ प्रति॒ष्ठे भव्य॑स्य प्रति॒ष्ठे ।
यु॒वयो॑-रि॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्त्र्यौ॑ विश्व॑स्य जनयि॒त्र्यौ᳚ । ते वा॒मुप॑दधे काम॒दुघे॒ अक्षि॑ते ।
प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 18 ॥

पौ॒र्ण॒मा॒स्यष्ट॑का ऽमावा॒स्या᳚ । अ॒न्ना॒दा-स्स्था᳚न्न॒दुघो॑ यु॒ष्मासु॑ ।
इ॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्त्र्यो॑ विश्व॑स्य जनयि॒त्र्यः॑ ।
ता व॒ उप॑दधे काम॒दुघा॒-अक्षि॑ताः । प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 19 ॥

राड॑सि बृह॒ती श्रीर॒सीन्द्र॑पत्नी॒ धर्म॑पत्नी । विश्व॑-म्भू॒तमनु॒ प्रभू॑ता ।
त्वयी॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्त्री विश्व॑स्य जनयि॒त्री । ता-न्त्वोप॑दधे काम॒दुघा॒-मक्षि॑ताम् ।
प्र॒जाप॑तिस्त्वा सादयतु । तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 20 ॥

ओजो॑-ऽसि॒ सहो॑-ऽसि । बल॑मसि॒ भ्राजो॑-ऽसि ।
दे॒वाना॒-न्धामा॒मृत᳚म् । अम॑र्त्य-स्तपो॒जाः । त्वयी॒दम॒न्तः । विश्वं॑-यँ॒क्षं-विँश्व॑-म्भू॒तं-विँश्वग्ं॑ सुभू॒तम् ।
विश्व॑स्य भ॒र्ता विश्व॑स्य जनयि॒ता ।
त-न्त्वोप॑दधे काम॒दुघ॒-मक्षि॑तम् । प्र॒जाप॑तिस्त्वा सादयतु ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 21 ॥
लो॒क - स्तप॒ - स्तेजः॑ - समु॒द्र - आपः॑ - पृथि॒व्य॑ - ग्नि - र॒न्तरि॑क्षम् - वा॒यु--र् द्यौ - रा॑दि॒त्य - श्च॒न्द्रमा॒ - नक्ष॑त्राणि - सं​वँथ्स॒र - ऋ॒तवो॒ - मासा॑ - अद्र्धमा॒सा - अ॑होरा॒त्रे - पौ᳚र्णमा॒सी - राड॒ - स्योजो॒-ऽस्येक॑विग्ंशतिः (अ. 1)

लो॒को॑-ऽसि भ॒र्ता तम् । तप॒स्तेजो॑-ऽसि भ॒र्तृ तत् ।
स॒मु॒द्रो॑-ऽसि भ॒र्ता तम् । आप॑-स्स्थ भ॒र्त्र्य॑स्ता वः॑ । पृ॒थि॒वी भ॒र्त्री ताम् ।
अ॒ग्निर॑सि भ॒र्ता तम् । अ॒न्तरि॑क्ष-म्भ॒र्तृ तत् । वा॒युर॑सि भ॒र्ता तम् । द्यौर॑सि भ॒र्त्री ताम् ।
आ॒दि॒त्यश्च॒न्द्रमा॑ भ॒र्ता तम् । नक्ष॑त्राणि स्थ भ॒र्तॄणि॒ तानि॑ वः । सं॒​वँ॒थ्स॒रो॑-ऽसि भ॒र्ता तम् ।
ऋ॒तवो॒ मासा॑ अद्र्धमा॒सा भ॒र्तार॒स्तान्. वः॑ ।
अ॒हो॒रा॒त्रे भ॒र्त्र्यौ॑ ते वा᳚म् । पौ॒र्ण॒मा॒सी भ॒र्त्र्य॑स्ता वः॑ । राड॑सि भ॒र्त्री ताम् । ओजो॑-ऽसि भ॒र्ता तमेक॑विग्ंशतिः ।

अनुवाकं 2 - चतुर्भिरनुवाकै-श्चतस्र आहुतीर्जुहोति
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वः ।
त्वग्ं शर्धो॒ मारु॑त-म्पृ॒क्ष ई॑शिषे ।
त्वं-वाँतै॑ररु॒णैर्या॑सि शङ्ग॒यः ।
त्व-म्पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना᳚ ।
देवा॑ दे॒वेषु॑ श्रयद्ध्वम् । प्रथ॑मा द्वि॒तीये॑षु श्रयद्ध्वम् ।
द्विती॑या-स्तृ॒तीये॑षु श्रयद्ध्वम् ।
तृती॑या-श्चतु॒र्थेषु॑ श्रयद्ध्वम् ।
च॒तु॒र्थाः प॑ञ्च॒मेषु॑ श्रयद्ध्वम् । प॒ञ्च॒मा-ष्ष॒ष्ठेषु॑ श्रयद्ध्वम् ॥ 22 ॥

ष॒ष्ठा-स्स॑प्त॒मेषु॑ श्रयद्ध्वम् । स॒प्त॒मा अ॑ष्ट॒मेषु॑ श्रयद्ध्वम् ।
अ॒ष्ट॒मा न॑व॒मेषु॑ श्रयद्ध्वम् ।
न॒व॒मा द॑श॒मेषु॑ श्रयद्ध्वम् ।
द॒श॒मा ए॑काद॒शेषु॑ श्रयद्ध्वम् । ए॒क॒द॒शा द्वा॑द॒शेषु॑ श्रयद्ध्वम् ।
द्वा॒द॒शा-स्त्र॑योद॒शेषु॑ श्रयद्ध्वम् ।
त्र॒यो॒द॒शा-श्च॑तुर्द॒शेषु॑ श्रयद्ध्वम् । च॒तु॒र्द॒शाः प॑ञ्चद॒शेषु॑ श्रयद्ध्वम् ।
प॒ञ्च॒द॒शा-ष्षो॑ड॒शेषु॑ श्रयद्ध्वम् ॥ 23 ॥

षो॒ड॒शा-स्स॑प्तद॒शेषु॑ श्रयद्ध्वम् । स॒प्त॒द॒शा अ॑ष्टाद॒शेषु॑ श्रयद्ध्वम् ।
अ॒ष्टा॒द॒शा ए॑कान्नवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
ए॒का॒न्न॒वि॒ग्ं॒शा वि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
वि॒ग्ं॒शा ए॑कवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
ए॒क॒वि॒ग्ं॒शा द्वा॑वि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
द्वा॒वि॒ग्ं॒शा स्त्र॑योवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
त्र॒यो॒वि॒ग्ं॒शा श्च॑तुर्वि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
च॒तु॒र्वि॒ग्ं॒शाः प॑ञ्चवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
प॒ञ्च॒वि॒ग्ं॒शा-ष्ष॑ड्वि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ॥ 24 ॥

ष॒ड्वि॒ग्ं॒शा-स्स॑प्तवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
स॒प्त॒वि॒ग्ं॒शा अ॑ष्टावि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
अ॒ष्टा॒वि॒ग्ं॒शा ए॑कान्नत्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
ए॒का॒न्न॒त्रि॒ग्ं॒शा स्त्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
त्रि॒ग्ं॒शा ए॑कत्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
ए॒क॒त्रि॒ग्ं॒शा द्वा᳚त्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
द्वा॒त्रि॒ग्ं॒शा स्त्र॑यस्त्रि॒ग्ं॒शेषु॑
श्रयद्ध्वम् ।
देवा᳚स्त्रिरे-कादशा॒ स्त्रिस्त्र॑यस्त्रिग्ंशाः ।
उत्त॑रे भवत । उत्त॑र वर्त्मान॒ उत्त॑र सत्वानः ।
यत्का॑म इ॒द-ञ्जु॒होमि॑ । तन्मे॒ समृ॑द्ध्यताम् ।
व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुव॒स्व॑-स्स्वाहा᳚ ॥ 25 ॥
(ष॒ष्ठेषु॑ श्रयद्धवग्ं - षोड॒शेषु॑ श्रयद्धवग्ं - षड्वि॒ग्ं॒शेषु॑ श्रयद्ध्व॒ - मुत्त॑रसत्वानश्च॒त्वारि॑ च) (अ. 2)

अनुवाकं 3 - चतुर्भिरनुवाकै-श्चतस्र आहुतीर्जुहोति
अग्ना॑विष्णू स॒जोष॑सा । इ॒मा व॑र्धन्तु वा॒ङ्गिरः॑ । द्यु॒म्नै र्वाजे॑भि॒-राग॑तम् । राज्ञी॑ वि॒राज्ञी᳚ । स॒म्राज्ञी᳚ स्व॒राज्ञी᳚ । अ॒र्चि-श्शो॒चिः । तपो॒ हरो॒ भाः । अ॒ग्नि-स्सोमो॒ बृह॒स्पतिः॑ ।
विश्वे॑ दे॒वा भुव॑नस्य गो॒पाः । ते सर्वे॑ स॒ङ्गत्य॑ । इ॒द-म्मे॒ प्राव॑ता॒ वचः॑ । व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् ।
भू-र्भुव॒स्-स्व॑स् स्वाहा᳚ ॥ 26 ॥
(स॒ङ्गत्य॒ त्रीणि॑ च) (अ. 3)

अनुवाकं 4 - चतुर्भिरनुवाकै-श्चतस्र आहुतीर्जुहोति
अन्न॑प॒ते ऽन्न॑स्य नो देहि । अ॒न॒मी॒वस्य॑ शु॒ष्मिणः॑ । प्रप्र॑दा॒तार॑न्तारिषः । ऊर्ज॑-न्नो धेहि द्वि॒पदे॒ चतु॑ष्पदे । अग्ने॑ पृथिवीपते । सोम॑ वीरुधा-म्पते । त्वष्ट॑-स्समिधा-म्पते ।
विष्ण॑वाशाना-म्पते । मित्र॑ सत्याना-म्पते । वरु॑ण धर्मणा-म्पते ॥ 27 ॥

म॒रुतो॑ गणाना-म्पतयः । रुद्र॑ पशूना-म्पते । इन्द्रौ॑जसा-म्पते । बृह॑स्पते ब्रह्मणस्पते ।
आ रु॒चा रो॑चे॒-ऽहग्ग्​ स्व॒यम् ।
रु॒चा रु॑रुचे॒-रोच॑मानः । अ॒तीत्या॒द-स्स्व॑राभ॑रे॒ह । तस्मि॒न्॒. योनौ᳚ प्रज॒नौ प्रजा॑येय । व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् ।
भूर्भुव॒-स्स्व॑-स्स्वाहा᳚ ॥ 28 ॥
[वरु॑ण धर्मणा-म्पते॒ स्वः॑ - स्वाहा᳚ ] (अ. 4)

अनुवाकं 5 - चतुर्भिरनुवाकै-श्चतस्र आहुतीर्जुहोति
स॒प्त ते॑ अग्ने स॒मिध॑-स्स॒प्त जि॒ह्वाः ।
स॒प्तर्​ष॑य-स्स॒प्तधाम॑ प्रि॒याणि॑ ।
स॒प्त होत्रा॑ अनु वि॒द्वान् ।
स॒प्त योनी॒-रापृ॑णस्वा घृ॒तेन॑ । प्राची॒ दिक् । अ॒ग्नि र्दे॒वता᳚ । अ॒ग्निग्ं स दि॒शा-न्दे॒व-न्दे॒वता॑ना-मृच्छतु । यो मै॒तस्यै॑
दि॒शो॑ ऽभि॒दास॑ति । द॒क्षि॒णा दिक् । इन्द्रो॑ दे॒वता᳚ ॥ 29 ॥

इन्द्र॒ग्ं॒ स दि॒शा-न्दे॒व-न्दे॒वता॑ना-मृच्छतु ।
यो मै॒तस्यै॑ दि॒शो॑ ऽभि॒दास॑ति । प्र॒तीची॒ दिक् । सोमो॑ दे॒वता᳚ । सोम॒ग्ं॒ स दि॒शा-न्दे॒व-न्दे॒वता॑ना-मृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ ऽभि॒दास॑ति । उदी॑ची॒ दिक् । मि॒त्रावरु॑णौ दे॒वता᳚ ।
मि॒त्रावरु॑णौ॒ स दि॒शा-न्दे॒वौ दे॒वता॑ना-मृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ ऽभि॒दास॑ति ॥ 30 ॥

ऊ॒द्र्ध्वा दिक् । बृह॒स्पति॑ र्दे॒वता᳚ ।
बृह॒स्पति॒ग्ं॒ स दि॒शा-न्दे॒व-न्दे॒वता॑ना-मृच्छतु । यो मै॒तस्यै॑ दि॒शो॑ ऽभि॒दास॑ति ।
इ॒यन्दिक् । अदि॑ति र्दे॒वता᳚ । अदि॑ति॒ग्ं ॒ स दि॒शा-न्दे॒वी-न्दे॒वता॑ना-मृच्छतु ।
यो मै॒तस्यै॑ दि॒शो॑ ऽभि॒दास॑ति ।
पुरु॑षो॒ दिक् । पुरु॑षो मे॒ कामा॒-न्थ्सम॑र्धयतु ॥ 31 ॥

अ॒न्धो जागृ॑विः प्राण । असा॒वेहि॑ । ब॒धि॒र आ᳚क्रन्दयित-रपान । असा॒वेहि॑ । उ॒षस॑-मुषस-मशीय । अ॒हमसो॒ ज्योति॑रशीय ।
अ॒हमसो॒ ऽपो॑शीय । व॒यग्ग्​ स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुव॒-स्स्व॑-स्स्वाहा᳚ ॥ 32 ॥
(द॒क्षि॒णा दिगिन्द्रो॑ दे॒वता॑ - मि॒त्रावरु॑णौ॒ स दि॒शा-न्दे॒वौ दे॒वता॑नामृच्छतु॒
यो मै॒तस्यै॑ दि॒शो॑-ऽभि॒दा - स॑त्यद्र्धयतु॒ - +नव॑ च) (अ. 5)

अनुवाकं 6 - उपस्थानम्
यत्ते-ऽचि॑तं॒-यँदु॑ चि॒तन्ते॑ अग्ने । यत्त॑ ऊ॒नं-यँदु॒ ते-ऽति॑रिक्तम् । आ॒दि॒त्यास्त-दङ्गि॑रस-श्चिन्वन्तु । विश्वे॑ ते दे॒वाश्चिति॒-मापू॑रयन्तु ।
चि॒तश्चासि॒ सञ्चि॑तश्चा-स्यग्ने । ए॒तावा॒ग्॒श्चासि॒ भूयाग्॑श्चास्यग्ने ॥ लो॒क-म्पृ॑ण च्छि॒द्र-म्पृ॑ण । अथो॑ सीद शि॒वा त्वम् ।
इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पतिः॑ । अ॒स्मिन्. योना॑वसीषदन्न् ॥ 33 ॥

तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥
ता अ॑स्य॒ सूद॑दोहसः ।
सोमग्ग्॑ श्रीणन्ति॒ पृश्न॑यः ।
जन्म॑-न्दे॒वानां॒-विँशः॑ ।
त्रि॒ष्वा रो॑च॒ने दि॒वः ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥
अग्ने॑ दे॒वाग्ं इ॒हाव॑ह । ज॒ज्ञा॒नो वृ॒क्त ब॑र्​हिषे । असि॒ होता॑ न॒ ईड्यः॑ ॥
अग॑न्म म॒हा मन॑सा॒ यवि॑ष्ठम् ॥ 34 ॥

यो दी॒दाय॒ समि॑द्ध॒-स्स्वे दु॑रो॒णे । चि॒त्रभा॑नू॒ रोद॑सी अ॒न्तरु॒र्वी ।
स्वा॑हुतं-विँ॒श्वतः॑ प्र॒त्यञ्च᳚म् ॥ मे॒धा॒का॒रं-विँ॒दथ॑स्य प्र॒साध॑नम् ।
अ॒ग्निग्ं होता॑र-म्परि॒भूत॑म-म्म॒तिम् । त्वामर्भ॑स्य ह॒विष॑-स्समा॒नमित् ।
त्वा-म्म॒हो वृ॑णते॒ नरो॒ नान्यन्-त्वत् ॥ म॒नु॒ष्वत्त्वा॒ निधी॑महि ।
म॒नु॒ष्व-थ्समि॑धीमहि ।
अग्ने॑ मनु॒ष्व-द॑ङ्गिरः ॥ 35 ॥

दे॒वा-न्दे॑वाय॒ते य॑ज ॥ अ॒ग्निर्-हि वा॒जिनं॑-विँ॒शे । ददा॑ति वि॒श्वच॑र्​षणिः ।
अ॒ग्नी रा॒ये स्वा॒भुव᳚म् । स प्री॒तो या॑ति॒ वार्य᳚म् । इषग्ग्॑ स्तो॒तृभ्य॒ आभ॑र ॥
पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्याम् । पृ॒ष्टो विश्वा॒ ओष॑धी॒-रावि॑वेश ।
वै॒श्वा॒न॒र-स्सह॑सा पृ॒ष्टो अ॒ग्निः ।
स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त᳚म् ॥ 36 ॥
[अ॒सी॒ष॒द॒न्॒. - यवि॑ष्ठ - मङ्गिरो॒ - नक्तं᳚ ] (अ. 6)
अनुवाकं 7 - नाचिकेतब्राह्मण-न्तत्र आग्निदेवतोपासनम्
अ॒यं-वाँव यः पव॑ते । सो᳚-ऽग्नि ना॑र्चिके॒तः ।
स य-त्प्रा-म्पव॑ते । तद॑स्य॒ शिरः॑ । अथ॒ य-द्द॑क्षि॒णा । स दक्षि॑णः प॒क्षः ।
अथ॒ य-त्प्र॒त्यक् । त-त्पुच्छ᳚म् । य दुदङ्ङ्॑ ।
स उत्त॑रः प॒क्षः ॥ 37 ॥

अथ॒ य-थ्सं॒​वाँति॑ । तद॑स्य स॒मञ्च॑न-ञ्च प्र॒सार॑ण-ञ्च । अथो॑ स॒पन्दे॒वास्य॒ सा ॥ सग्ं ह॒ वा अ॑स्मै॒ स कामः॑ पद्यते ।
य-त्का॑मो॒ यज॑ते । यो᳚-ऽग्नि-न्ना॑चिके॒त-ञ्चि॑नु॒ते ।
य उ॑ चैन-मे॒वं-वेँद॑ ॥ यो ह॒ वा अ॒ग्ने र्ना॑चिके॒तस्या॒यत॑न-म्प्रति॒ष्ठां-वेँद॑ । आ॒यत॑नवा-न्भवति । गच्छ॑ति प्रति॒ष्ठाम् ॥ 38 ॥

हिर॑ण्यं॒-वाँ अ॒ग्ने र्ना॑चिके॒तस्या॒यत॑न-म्प्रति॒ष्ठा । य ए॒वं-वेँद॑ ।
आ॒यत॑नवा-न्भवति । गच्छ॑ति प्रति॒ष्ठाम् ॥
यो ह॒ वा अ॒ग्ने र्ना॑चिके॒तस्य॒ शरी॑रं॒-वेँद॑ ।
स श॑रीर ए॒व स्व॒र्गं-लोँ॒कमे॑ति ।
हिर॑ण्यं॒-वाँ अ॒ग्ने र्ना॑चिके॒तस्य॒ शरी॑रम् ।
य ए॒वं-वेँद॑ । स श॑रीर ए॒व स्व॒र्गं-लोँ॒कमे॑ति ॥ अथो॒ यथा॑ रु॒क्म उत्-त॑प्तो
भा॒य्यात् ॥ 39 ॥

ए॒वमे॒व स तेज॑सा॒ यश॑सा ।
अ॒स्मिग्ग्​श्च॑ लो॒के॑-ऽमुष्मिग्ग्॑श्च भाति ॥
उ॒रवो॑ ह॒ वै नामै॒ते लो॒काः ।
ये-ऽव॑रेणादि॒त्यम् । अथ॑ है॒ते वरी॑याग्ंसो लो॒काः । ये परे॑णादि॒त्यम् । अन्त॑वन्तग्ं ह॒ वा ए॒ष क्ष॒य्यं-लोँ॒क-ञ्ज॑यति ।
यो-ऽव॑रेणादि॒त्यम् ।
अथ॑ है॒षो॑-ऽन॒न्त-म॑पा॒र-म॑क्ष॒य्यं-लोँ॒क-ञ्ज॑यति । यः परे॑णादि॒त्यम् ॥ 40 ॥

अ॒न॒न्तग्ं ह॒ वा अ॑पा॒र-म॑क्ष॒य्यं-लोँ॒क-ञ्ज॑यति । यो᳚-ऽग्नि-न्ना॑चिके॒त-ञ्चि॑नु॒ते ।
य उ॑ चैन-मे॒वं-वेँद॑ ॥
अथो॒ यथा॒ रथे॒ तिष्ठ॒-न्पक्ष॑सी पर्या॒-वर्त॑माने प्र॒त्यपे᳚क्षते ।
ए॒व-म॑होरा॒त्रे प्र॒त्यपे᳚क्षते ।
नास्या॑-होरा॒त्रे लो॒कमा᳚प्नुतः ।
यो᳚-ऽग्नि-न्ना॑चि॒केत-ञ्चि॑नु॒ते ।
य उ॑ चैन-मे॒वं-वेँद॑ ॥ 41 ॥
(उत्त॑रः प॒क्षो - गच्छ॑ति प्रति॒ष्ठां - भा॒य्या--द्यः परे॑णादि॒त्य - +म॒ष्टौ च॑) (अ. 7)

अनुवाकं 8 - नाचिकेतोपाख्यानम्
उ॒शन्. ह॒ वै वा॑जश्रव॒स-स्स॑र्ववेद॒स-न्द॑दौ । तस्य॑ ह॒ नचि॑केता॒ नाम॑ पु॒त्र आ॑स । तग्ं ह॑ कुमा॒रग्ं सन्त᳚म् । दक्षि॑णासु नी॒यमा॑नासु श्र॒द्धा ऽऽवि॑वेश । स हो॑वाच ।
तत॒ कस्मै॒ मा-न्दा᳚स्य॒सीति॑ । द्वि॒तीय॑-न्तृ॒तीय᳚म् ॥ तग्ं ह॒ परी॑त उवाच ।
मृ॒त्यवे᳚ त्वा ददा॒मीति॑ ॥ तग्ं ह॒ स्मोत्थि॑तं॒-वाँग॒भिव॑दति ॥ 42 ॥

गौत॑म कुमा॒रमिति॑ । स हो॑वाच । परे॑हि मृ॒त्यो र्गृ॒हान् । मृ॒त्यवे॒ वै त्वा॑-ऽदा॒-मिति॑ ॥ तं-वैँ प्र॒वस॑न्त-ङ्ग॒न्तासीति॑ होवाच । तस्य॑ स्म ति॒स्रो रात्री॒-रना᳚श्वा-न्गृ॒हे व॑सतात् । स यदि॑ त्वा पृ॒च्छेत् । कुमा॑र॒ कति॒ रात्री॑-रवाथ्सी॒-रिति॑ । ति॒स्र इति॒ प्रति॑ ब्रूतात् । कि-म्प्र॑थ॒माग्ं रात्रि॑-माश्ञा॒ इति॑ ॥ 43 ॥

प्र॒जा-न्त॒ इति॑ । कि-न्द्वि॒तीया॒-मिति॑ । प॒शूग्​स्त॒ इति॑ ।
कि-न्तृ॒तीया॒-मिति॑ । सा॒धु॒कृ॒त्या-न्त॒ इति॑ ॥ तं-वैँ प्र॒वस॑न्त-ञ्जगाम । तस्य॑ ह ति॒स्रो रात्री॒-रना᳚श्वा-न्गृ॒ह उ॑वास । तमा॒गत्य॑ पप्रच्छ ।
कुमा॑र॒ कति॒ रात्री॑-रवाथ्सी॒-रिति॑ । ति॒स्र इति॒ प्रत्यु॑वाच ॥ 44 ॥

कि-म्प्र॑थ॒माग्ं रात्रि॑-माश्ञा॒ इति॑ । प्र॒जा-न्त॒ इति॑ । कि-न्द्वि॒तीया॒-मिति॑ । प॒शूग्​स्त॒ इति॑ । कि-न्तृ॒तीया॒-मिति॑ । सा॒धु॒कृ॒त्या-न्त॒ इति॑ ॥ नम॑स्ते अस्तु भगव॒ इति॑ होवाच । वरं॑-वृँणी॒ष्वेति॑ ॥ पि॒तर॑मे॒व जीव॑न्नया॒नीति॑ ॥
द्वि॒तीयं॑-वृँणी॒ष्वेति॑ ॥ 45 ॥

इ॒ष्टा॒पू॒र्तयो॒ र्मे ऽक्षि॑ति-म्ब्रू॒हीति॑ होवाच ।
तस्मै॑ है॒तम॒ग्नि-न्ना॑चिके॒त-मु॑वाच ।
ततो॒ वै तस्ये᳚-ष्टापू॒र्ते ना क्षी॑येते ॥
नास्ये᳚ष्टा-पू॒र्ते क्षी॑येते । यो-ऽ᳚ग्नि-न्ना॑चिके॒त-ञ्चि॑नु॒ते । य उ॑ चैन-मे॒वं-वेँद॑ ॥ तृ॒तीयं॑-वृँणी॒ष्वेति॑ । पु॒न॒ मृ॒र्त्यो र्मे ऽप॑जिति-म्ब्रू॒हीति॑ होवाच । तस्मै॑ है॒तम॒ग्नि-न्ना॑चिके॒त-मु॑वाच । ततो॒ वै सो-ऽप॑ पुन र्मृ॒त्यु-म॑जयत् ॥ 46 ॥

अप॑ पुन र्मृ॒त्यु-ञ्ज॑यति । यो-ऽ᳚ग्नि-न्ना॑चिके॒त-ञ्चि॑नु॒ते ॥ य उ॑ चैन-मे॒वं-वेँद॑ ॥ प्र॒जाप॑ति॒ र्वै प्र॒जाका॑म॒-स्तपो॑-ऽतप्यत ।
स हिर॑ण्य॒-मुदा᳚स्यत् । त-द॒ग्नौ प्रास्य॑त् ।
त-द॑स्मै॒ नाच्छ॑दयत् । त-द्द्वि॒तीय॒-म्प्रास्य॑त् । त-द॑स्मै॒ नै वाच्छ॑दयत् । त-त्तृ॒तीय॒-म्प्रास्य॑त् ॥ 47 ॥

त-द॑स्मै॒ नै वाच्छ॑दयत् । त-दा॒त्म-न्ने॒व हृ॑द॒य्ये᳚-ऽग्नौ वै᳚श्वान॒रे प्रास्य॑त् ।
त-द॑स्मा अच्छदयत् । तस्मा॒द्धिर॑ण्य॒-ङ्कनि॑ष्ठ॒-न्धना॑नाम् । भु॒ञ्ज-त्प्रि॒यत॑मम् । हृ॒द॒य॒जग्ं हि । स वै तमे॒व नावि॑न्दत् ।
यस्मै॒ ता-न्दक्षि॑णा॒-मने᳚ष्यत् ।
ताग्​ स्वायै॒व हस्ता॑य॒ दक्षि॑णायानयत् ।
ता-म्प्रत्य॑गृह्णात् ॥ 48 ॥

दक्षा॑य त्वा॒ दक्षि॑णा॒-म्प्रति॑गृह्णा॒मीति॑ ।
सो॑ ऽदक्षत॒ दक्षि॑णा-म्प्रति॒गृह्य॑ ।
दक्ष॑ते ह॒ वै दक्षि॑णा-म्प्रति॒गृह्य॑ ।
य ए॒वं-वेँद॑ ॥ ए॒तद्ध॑ स्म॒ वै त-द्वि॒द्वाग्ंसो॑ वाजश्रव॒सा गोत॑माः ।
अप्य॑नूदे॒श्या᳚-न्दक्षि॑णा॒-म्प्रति॑गृह्णन्ति ।
उ॒भये॑न व॒य-न्द॑क्षिष्यामह ए॒व दक्षि॑णा-म्प्रति॒गृह्येति॑ ।
ते॑ ऽदक्षन्त॒ दक्षि॑णा-म्प्रति॒गृह्य॑ ।
दक्ष॑ते ह॒ वै दक्षि॑णा-म्प्रति॒गृह्य॑ ।
य ए॒वं-वेँद॑ ।
प्र हा॒न्यं-व्लीँ॑नाति ॥ 49 ॥
(व॒द॒ - त्या॒श्ना॒ इत् - यु॑वाच - द्वि॒तीयं॑-वृँणी॒ष्वे - त्य॑जयत् - तृ॒तीय॒-म्प्रास्य॑ - दगृह्णा॒--द्य ए॒वं-वेँदैक॑-ञ्च) (अ. 8)

अनुवाकं 9 - चयनप्रयोगः
तग्ं है॒त-मेके॑ पशुब॒न्ध ए॒वोत्त॑रवे॒द्या-ञ्चि॑न्वते । उ॒त्त॒र॒वे॒दिस॑म्मित ए॒षो᳚-ऽग्निरिति॒ वद॑न्तः । तन्न तथा॑ कु॒र्यात् । ए॒त-म॒ग्नि-ङ्कामे॑न॒ व्य॑र्धयेत् । स ए॑न॒-ङ्कामे॑न॒ व्यृ॑द्धः । कामे॑न॒ व्य॑र्धयेत् ।
सौ॒म्ये वावै न॑मध्व॒रे चि॑न्वी॒त ।
यत्र॑ वा॒ भूयि॑ष्ठा॒ आहु॑तयो हू॒येरन्न्॑ ।
ए॒त-म॒ग्नि-ङ्कामे॑न॒ सम॑र्धयति । स ए॑न॒-ङ्कामे॑न॒ समृ॑द्धः ॥ 50 ॥

कामे॑न॒ सम॑र्धयति ॥ अथ॑ हैन-म्पु॒रर्​ष॑यः । उ॒त्त॒र॒वे॒द्या-मे॒व स॒त्रिय॑-मचिन्वत । ततो॒ वै ते-ऽवि॑न्दन्त प्र॒जाम् ।
अ॒भि स्व॒र्गं-लोँ॒क-म॑जयन्न् ।
वि॒न्दत॑ ए॒व प॒जाम् । अ॒भि स्व॒र्गं-लोँ॒क-ञ्ज॑यति । यो᳚-ऽग्नि-न्ना॑चिके॒त-ञ्चि॑नु॒ते ।
य उ॑ चैन-मे॒वं-वेँद॑ ॥ अथ॑ हैनं-वाँ॒युर्-ऋद्धि॑कामः ॥ 51 ॥

य॒था॒न्यु॒प्त-मे॒वोप॑दधे ।
ततो॒ वै स ए॒ता-मृद्धि॑-माद्र्ध्नोत् ।
यामि॒दं-वाँ॒युर्-ऋ॒द्धः ।
ए॒ता-मृद्धि॑-मृद्ध्नोति ।
यामि॒दं-वाँ॒युर्-ऋ॒द्धः ।
यो᳚-ऽग्नि-न्ना॑चिके॒त-ञ्चि॑नु॒ते ।
य उ॑ चैन-मे॒वं-वेँद॑ ॥ अथ॑ हैन-ङ्गोब॒लो वार्​ष्णः॑ प॒शुका॑मः । पाङ्क्त॑मे॒व चि॑क्ये । पञ्च॑ पु॒रस्ता᳚त् ॥ 52 ॥

पञ्च॑ दक्षिण॒तः । पञ्च॑ प॒श्चात् । पञ्चो᳚त्तर॒तः । एका॒-म्मद्ध्ये᳚ ।
ततो॒ वै स स॒हस्र॑-म्प॒शू-न्प्राप्नो᳚त् ।
प्र स॒हस्र॑-म्प॒शू-ना᳚प्नोति ।
यो᳚-ऽग्नि-न्ना॑चिके॒त-ञ्चि॑नु॒ते । य उ॑ चैन-मे॒वं-वेँद॑ ॥ अथ॑ हैन-म्प्र॒जाप॑ति॒ र्ज्यैष्ठ्य॑कामो॒ यश॑स्कामः प्र॒जन॑नकामः ।
त्रि॒वृत॑मे॒व चि॑क्ये ॥ 53 ॥

स॒प्त पु॒रस्ता᳚त् । ति॒स्रो द॑क्षिण॒तः । स॒प्त प॒श्चात् । ति॒स्र उ॑त्तर॒तः । एका॒-म्मद्ध्ये᳚ । ततो॒ वै स प्र यशो॒ ज्यैष्ठ्य॑-माप्नोत् ।
ए॒ता-म्प्रजा॑ति॒-म्प्राजा॑यत । यामि॒द-म्प्र॒जाः प्र॒जाय॑न्ते । त्रि॒वृ-द्वै ज्यैष्ठ्य᳚म् । मा॒ता पि॒ता पु॒त्रः ॥ 54 ॥

त्रि॒वृ-त्प्र॒जन॑नम् । उ॒पस्थो॒ योनि॑ र्मद्ध्य॒मा । प्रयशो॒ ज्यैष्ठ्य॑-माप्नोति । ए॒ता-म्प्र॑जाति॒-म्प्रजा॑यते । यामि॒द-म्प्र॒जाः प्र॒जाय॑न्ते । यो᳚-ऽग्नि-न्ना॑चिके॒त-ञ्चि॑नु॒ते । य उ॑ चैनमे॒वं-वेँद॑ ॥ अथ॑ हैन॒-मिन्द्रो॒ ज्यैष्ठ्य॑कामः ।
ऊ॒द्र्ध्वा ए॒वोप॑दधे । ततो॒ वै स ज्यैष्ठ्य॑-मगच्छत् ॥ 55 ॥

ज्यैष्ठ्य॑-ङ्गच्छति । यो᳚-ऽग्नि-न्ना॑चिके॒त-ञ्चि॑नु॒ते । य उ॑ चैन-मे॒वं-वेँद॑ ॥ अथ॑ हैन-म॒सावा॑दि॒त्य-स्स्व॒र्गका॑मः ।
प्राची॑रे॒वोप॑दधे । ततो॒ वै सो॑-ऽभि स्व॒र्गं-लोँ॒क-म॑जयत् । अ॒भि स्व॒र्गं-लोँ॒क-ञ्ज॑यति । यो᳚-ऽग्नि-न्ना॑चिके॒त-ञ्चि॑नु॒ते ।
य उ॑ चैन-मे॒वं-वेँद॑ ॥ स यदी॒च्छेत् ॥ 56 ॥

ते॒ज॒स्वी य॑श॒स्वी ब्र॑ह्मवर्च॒सी स्या॒मिति॑ । प्रांआ होतु॒र्धिष्ण्या॒-दुथ्स॑र्पेत् ।
येय-म्प्रागा॒-द्यश॑स्वती । सा मा॒ प्रोर्णो॑तु ।
तेज॑सा॒ यश॑सा ब्रह्मवर्च॒सेनेति॑ ।
ते॒ज॒स्व्ये॑व य॑श॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति ॥ अथ॒ यदी॒च्छेत् । भूयि॑ष्ठ-म्मे॒ श्रद्द॑धीरन्न् । भूयि॑ष्ठा॒ दक्षि॑णा नयेयु॒रिति॑ ।
दक्षि॑णासु नी॒यमा॑नासु॒ प्राच्येहि॒ प्राच्ये॒हीति॒ प्राची॑ जुषा॒णा वेत्वाज्य॑स्य॒ स्वाहेति॑ स्रु॒वेणो॑-प॒हत्या॑ हव॒नीये॑ जुहुयात् ॥ 57 ॥

भूयि॑ष्ठ-मे॒वास्मै॒ श्रद्द॑धते । भूयि॑ष्ठा॒ दक्षि॑णा नयन्ति ॥ पुरी॑ष-मुप॒धाय॑ । चि॒ति॒-क्लृ॒प्तिभि॑-रभि॒मृश्य॑ । अ॒ग्नि-म्प्र॒णीयो॑पसमा॒धाय॑ । चत॑स्र ए॒ता आहु॑ती र्जुहोति । त्वम॑ग्ने रु॒द्र इति॑ शतरु॒द्रीय॑स्य रू॒पम् ।
अग्ना॑-विष्णू॒ इति॑ वसो॒द्र्धारा॑याः । अन्न॑पत॒ इत्य॑न्न हो॒मः । स॒प्त ते॑ अग्ने स॒मिध॑-स्स॒प्त जि॒ह्वा इति॑ विश्व॒प्रीः ॥ 58 ॥
[समृ॑द्ध॒ - ऋद्धि॑कामः - प॒रस्ता᳚च् - चिक्ये - पु॒त्रो॑ - ऽगच्छ - दि॒च्छे - ज्जु॑हुया-द्- विश्व॒प्रिः ] (अ. 9)

(पुरर्​ष॑यो वा॒यु-र्गो॑ब॒ल-स्स॒हस्र॑-म्प्र॒जाप॑ति स्त्रि॒वृदिन्द्रो॒ ऽसावा॑दि॒त्य-स्स यदी॒च्छेत् )

अनुवाकं 10 - तत्प्रशंसा
या-म्प्र॑थ॒मा-मिष्ट॑का-मुप॒दधा॑ति । इ॒म-न्तया॑ लो॒क-म॒भि ज॑यति ।
अथो॒ या अ॒स्मिन् ँलो॒के दे॒वताः᳚ ।
तासा॒ग्ं॒ सायु॑ज्यग्ं सलो॒कता॑-माप्नोति । या-न्द्वि॒तीया॑-मुप॒दधा॑ति ।
अ॒न्त॒रि॒क्ष॒लो॒क-न्तया॒-ऽभि जय॑ति । अथो॒ या अ॑न्तरिक्ष लो॒के दे॒वताः᳚ ।
तासा॒ग्ं॒ सायु॑ज्यग्ं सलो॒कता॑-माप्नोति ।
या-न्तृ॒तीया॑-मुप॒दधा॑ति ।
अ॒मु-न्तया॑ लो॒क-म॒भिज॑यति ॥ 59 ॥

अथो॒ या अ॒मुष्मि॑न् ँलो॒के दे॒वताः᳚ ।
तासा॒ग्ं॒ सायु॑ज्यग्ं सलो॒कता॑-माप्नोति ।
अथो॒ या अ॒मूरित॑रा अ॒ष्टाद॑श ।
य ए॒वामी उ॒रव॑श्च॒ वरी॑याग्ंसश्च लो॒काः ।
ताने॒व ताभि॑-र॒भिज॑यति ॥ का॒म॒चारो॑ ह॒ वा अ॑स्यो॒रुषु॑ च॒ वरी॑यस्सु च लो॒केषु॑ भवति ।
यो᳚-ऽग्नि-न्ना॑चिके॒त-ञ्चि॑नु॒ते । य उ॑ चैन-मे॒वं-वेँद॑ ॥ सं॒​वँ॒थ्स॒रो वा अ॒ग्नि ना॑र्चिके॒तः । तस्य॑ वस॒न्त-श्शिरः॑ ॥ 60 ॥

ग्री॒ष्मो दक्षि॑णः प॒क्षः । व॒र्॒षा उत्त॑रः । श॒र-त्पुच्छ᳚म् । मासाः᳚ कर्मका॒राः । अ॒हो॒रा॒त्रे श॑तरु॒द्रीय᳚म् । प॒र्जन्यो॒ वसो॒द्र्धारा᳚ ।
यथा॒ वै प॒र्जन्य॒-स्सुवृ॑ष्टं-वृँ॒ष्ट्वा ।
प्र॒जाभ्य॒-स्सर्वा॒न् कामा᳚न्-थ्सम्पू॒रय॑ति ।
ए॒व-मे॒व स तस्य॒ सर्वा॒न् कामा॒न्-थ्सम्पू॑रयति । यो᳚-ऽग्नि-न्ना॑चिके॒त-ञ्चि॑नु॒ते ॥ 61 ॥

य उ॑ चैन-मे॒वं-वेँद॑ ॥ सं॒​वँ॒थ्स॒रो वा अ॒ग्नि र्ना॑चिके॒तः । तस्य॑ वस॒न्त-श्शिरः॑ । ग्री॒ष्मो दक्षि॑णः प॒क्षः ।
व॒र्॒षाः पुच्छ᳚म् । श॒रदुत्त॑रः प॒क्षः । हे॒म॒न्तो मद्ध्य᳚म् ।
पू॒र्व॒प॒क्षाश्चित॑यः । अ॒प॒र॒प॒क्षाः पुरी॑षम् । अ॒हो॒रा॒त्राणीष्ट॑काः ।
ए॒ष वाव सो᳚-ऽग्नि-र॑ग्नि॒मयः॑ पुनर्ण॒वः ।
अ॒ग्नि॒मयो॑ ह॒ वै पु॑नर्ण॒वो भू॒त्वा । स्व॒र्गं-लोँ॒क-मे॑ति । आ॒दि॒त्यस्य॒ सायु॑ज्यम् । यो᳚-ऽग्नि-न्ना॑चिके॒त-ञ्चि॑नु॒ते । य उ॑ चैन-मे॒वं-वेँद॑ ॥ 62 ॥
अ॒मु-न्तया॑ लो॒कम॒भिज॑यति॒ - शिर॑ - श्चिनु॒त - इष्ट॑का॒-ष्षट्च॑) (अ. 10)

(लो॒क - स्त्वम॒ग्ने - ऽग्ना॑विष्णू॒ - अन्न॑पते - स॒प्त ते॑ अग्ने॒ - यत्ते ऽचि॑तम॒ - यं-वाँ - वोशन्. ह॒ वै - तग्ं है॒तं - ँया-म्प्र॑थ॒मामिष्ट॑का॒-न्दश॑)

(लो॒क - आ॑दि॒त्य - ओजो᳚ - ऽस्यू॒द्र्ध्वा दिग॑ - न॒न्तग्ं ह॒ वै - कामे॑न - ग्री॒ष्मो द्विष॑ष्टिः)

(लो॒को - वेद॑)

॥ हरिः॑ ओम् ॥

॥ तैत्तरीय यजुब्राह्मणे काठके द्वितीयः प्रश्न-स्समाप्तः ॥
+++++++++++++++++++++++++++++++++




Browse Related Categories: