View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

2.4 - उपहोमाः - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - जुष्टो दमूना

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके चतुर्थः प्रपाठकः - उपहोमाः

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अनुवाकं 1 - उपहोमाः
जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒णे । इ॒म-न्नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् । विश्वा॑ अग्ने-ऽभि॒ युजो॑ वि॒हत्य॑ । श॒त्रू॒य॒तामाभ॑रा॒ भोज॑नानि ॥ अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय । तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु । स-ञ्जा᳚स्प॒त्यग्ं सु॒यम॒मा कृ॑णुष्व । श॒त्रू॒य॒ताम॒भिति॑ष्ठा॒ महाग्ं॑सि ॥ अग्ने॒ यो नो॒-ऽभितो॒ जनः॑ । वृको॒ वारो॒ जिघाग्ं॑सति ॥ 1 ॥

ताग्​स्त्वं-वृँ॑त्रहञ्जहि । वस्व॒स्मभ्य॒-माभ॑र ॥ अग्ने॒ यो नो॑-ऽभि॒दास॑ति । स॒मा॒नो यश्च॒ निष्ट्यः॑ । इ॒द्ध्मस्ये॑व प्र॒क्षाय॑तः । मा तस्योच्छे॑षि॒ किञ्च॒न ॥ त्वमि॑न्द्राभि॒भूर॑सि । दे॒वो विज्ञा॑तवीर्यः । वृ॒त्र॒हा पु॑रु॒चेत॑नः ॥ अप॒ प्राच॑ इन्द्र॒ विश्वाग्ं॑ अ॒मित्रान्॑ ॥ 2 ॥

अपापा॑चो अभिभूते नुदस्व । अपोदी॑चो॒ अप॑ शूरध॒राच॑ ऊ॒रौ । यथा॒ तव॒ शर्म॒न्मदे॑म ॥ तमिन्द्रं॑-वाँजयामसि । म॒हे वृ॒त्राय॒ हन्त॑वे । स वृषा॑ वृष॒भो भु॑वत् ॥ यु॒जे रथ॑-ङ्ग॒वेष॑ण॒ग्ं॒ हरि॑भ्याम् । उप॒ ब्रह्मा॑णि जुजुषा॒ण-म॑स्थुः । विबा॑धिष्टा॒स्य रोद॑सी महि॒त्वा । इन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥ 3 ॥

ह॒व्य॒वाह॑-मभिमाति॒षा-ऽह᳚म् । र॒क्षो॒हण॒-म्पृत॑नासु जि॒ष्णुम् । ज्योति॑ष्मन्त॒-न्दीद्य॑त॒-म्पुर॑न्धिम् । अ॒ग्निग्ग्​ स्वि॑ष्ट॒कृत॒मा हु॑वेम ॥ स्वि॑ष्टमग्ने अ॒भि त-त्पृ॑णाहि । विश्वा॑ देव॒ पृत॑ना अ॒भिष्य । उ॒रु-न्नः॒ पन्था᳚-म्प्रदि॒शन्वि भा॑हि । ज्योति॑ष्मद्धेह्य॒जर॑-न्न॒ आयुः॑ ॥ त्वाम॑ग्ने ह॒विष्म॑न्तः । दे॒व-म्मर्ता॑स ईडते ॥ 4 ॥

मन्ये᳚ त्वा जा॒तवे॑दसम् । स ह॒व्या व॑क्ष्या-ऽनु॒षक् ॥ विश्वा॑नि नो दु॒र्गहा॑ जातवेदः । सिन्धु॒-न्न ना॒वा दु॑रि॒ता-ऽति॑पर्​षि । अग्ने॑ अत्रि॒व-न्मन॑सा गृणा॒नः । अ॒स्माक॑-म्बोद्ध्यवि॒ता त॒नूना᳚म् ॥ पू॒षा गा अन्वे॑तु नः । पू॒षा र॑क्ष॒त्वर्व॑तः । पू॒षा वाजग्ं॑ सनोतु नः ॥ पू॒षेमा आशा॒ अनु॑वेद॒ सर्वाः᳚ ॥ 5 ॥

सो अ॒स्माग्ं अभ॑यतमेन नेषत् । स्व॒स्ति॒दा अघृ॑णि॒-स्सर्व॑वीरः । अप्र॑युच्छ-न्पु॒र ए॑तु॒ प्रजा॒नन्न् ॥ त्वम॑ग्ने स॒प्रथा॑ असि । जुष्टो॒ होता॒ वरे᳚ण्यः । त्वया॑ य॒ज्ञं-विँत॑न्वते ॥ अ॒ग्नी रक्षाग्ं॑सि सेधति । शु॒क्रशो॑चि॒रम॑र्त्यः । शुचिः॑ पाव॒क ईड्यः॑ ॥ अग्ने॒ रक्षा॑णो॒ अग्ंह॑सः ॥ 6 ॥

प्रति॑ष्म देव॒ रीष॑तः । तपि॑ष्ठैर॒जरो॑ दह ॥ अग्ने॒ हग्ंसि॒ न्य॑त्रिण᳚म् । दीद्य॒-न्मर्त्ये॒ष्वा । स्वे क्षये॑ शुचिव्रत ॥ आ वा॑त वाहि भेष॒जम् । वि वा॑त वाहि॒ यद्रपः॑ । त्वग्ंहि वि॒श्व भे॑षजः । दे॒वाना᳚-न्दू॒त ईय॑से ॥ द्वावि॒मौ वाता॑ वातः ॥ 7 ॥

आ सिन्धो॒रा प॑रा॒वतः॑ । दक्ष॑-म्मे अ॒न्य आ॒वातु॑ । परा॒-ऽन्यो वा॑तु॒ यद्रपः॑ ॥ यद॒दो वा॑त ते गृ॒हे । अ॒मृत॑स्य नि॒धिर्​हि॒तः । ततो॑ नो देहि जी॒वसे᳚ । ततो॑ नो धेहि भेष॒जम् । ततो॑ नो॒ मह॒ आव॑ह ॥ वात॒ आवा॑तु भेष॒जम् । श॒म्भू-र्म॑यो॒ भूर्नो॑ हृ॒दे ॥ 8 ॥

प्रण॒ आयूग्ं॑षि तारिषत् ॥ त्वम॑ग्ने अ॒या-ऽसि॑ । अ॒या सन्मन॑सा हि॒तः । अ॒या सनःअ॒व्यमू॑हिषे । अ॒या नो॑ धेहि भेष॒जम् ॥ इ॒ष्टो अ॒ग्निराहु॑तः । स्वाहा॑कृतः पिपर्तु नः । स्व॒गा दे॒वेभ्य॑ इ॒द-न्नमः॑ ॥ कामो॑ भू॒तस्य॒ भव्य॑स्य । स॒म्राडेको॒ विरा॑जति ॥ 9 ॥

स इ॒द-म्प्रति॑ पप्रथे । ऋ॒तूनु-थ्सृ॑जते व॒शी ॥ काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेतः॑ प्रथ॒मं-यँदासी᳚त् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्न् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥ त्वया॑ मन्यो स॒रथ॑-मारु॒जन्तः॑ । हर्​ष॑माणासो धृष॒ता म॑रुत्वः । ति॒ग्मेष॑व॒ आयु॑धा स॒ग्ं॒शिशा॑नाः । उप॒प्रय॑न्ति॒ नरो॑ अ॒ग्निरू॑पाः ॥ 10 ॥

म॒न्युर्भगो॑ म॒न्युरे॒वास॑ दे॒वः । म॒न्युर्-होता॒ वरु॑णो वि॒श्ववे॑दाः । म॒न्युं-विँश॑ ईडते देव॒यन्तीः᳚ । पा॒हि नो॑ मन्यो॒ तप॑सा॒ श्रमे॑ण ॥ त्वम॑ग्ने व्रत॒भृच्छुचिः॑ । दे॒वाग्ं आसा॑दया इ॒ह । अग्ने॑ ह॒व्याय॒ वोढ॑वे ॥ व्र॒ता नु बिभ्र॑द्व्रत॒पा अदा᳚भ्यः । यजा॑ नो दे॒वाग्ं अ॒जर॑-स्सु॒वीरः॑ । दध॒-द्रत्ना॑नि सुविदा॒नो अ॑ग्ने । गो॒पा॒य नो॑ जी॒वसे॑ जातवेदः ॥ 11 ॥
(जिघाग्ं॑स - त्य॒मित्रा᳚ - ञ्जघ॒न्वा - नी॑डते॒ - सर्वा॒ - अग्ंह॑सो - वातो - हृ॒दे - रा॑ज - त्य॒ग्निरू॑पाः - सुविदा॒नो अ॑ग्न॒ एक॑-ञ्च ) (अ. 1)

अनुवाकं 2 - उपहोमाः
चक्षु॑षो हेते॒ मन॑सो हेते । वाचो॑ हेते॒ ब्रह्म॑णो हेते । यो मा॑-ऽघा॒यु-र॑भि॒दास॑ति । तम॑ग्ने मे॒न्या-ऽमे॒नि-ङ्कृ॑णु ॥ यो मा॒ चक्षु॑षा॒ यो मन॑सा । यो वा॒चा ब्रह्म॑णा ऽघा॒यु-र॑भि॒दास॑ति । तया᳚-ऽग्ने॒ त्व-म्मे॒न्या । अ॒मुम॑मे॒नि-ङ्कृ॑णु ॥ य-त्किञ्चा॒सौ मन॑सा॒ यच्च॑ वा॒चा । य॒ज्ञै-र्जु॒होति॒ यजु॑षा ह॒विर्भिः॑ ॥ 12 ॥

त-न्मृ॒त्यु-र्निर्-ऋ॑त्या सं​विँदा॒नः । पु॒रा-ऽऽदि॒ष्टादाहु॑तीरस्य हन्तु ॥ या॒तु॒धाना॒ निर्-ऋ॑ति॒रादु॒ रक्षः॑ । ते अ॑स्यघ्न॒-न्त्वनृ॑तेन स॒त्यम् । इन्द्रे॑षिता॒ आज्य॑मस्य मथ्नन्तु । मात-थ्समृ॑द्धि॒ यद॒सौ क॒रोति॑ ॥ हन्मि॑ ते॒-ऽह-ङ्कृ॒तग्ं ह॒विः । यो मे॑ घो॒रमची॑ कृतः । अपा᳚ञ्चौ त उ॒भौ बा॒हू । अप॑नह्याम्या॒स्य᳚म् ॥ 13 ॥

अप॑नह्यामि ते बा॒हू । अप॑नह्याम्या॒स्य᳚म् । अ॒ग्ने-र्दे॒वस्य॒ ब्रह्म॑णा । सर्व॑-न्ते-ऽवधिष-ङ्कृ॒तम् ॥ पु॒रा ऽमुष्य॑ वषट्का॒रात् । य॒ज्ञ-न्दे॒वेषु॑ नस्कृधि । स्वि॑ष्टम॒स्माक॑-म्भूयात् । मा-ऽस्मा-न्प्राप॒-न्नरा॑तयः ॥ अन्ति॑ दू॒रे स॒तो अ॑ग्ने । भ्रातृ॑व्यस्या ऽभि॒दास॑तः ॥ 14 ॥

व॒ष॒ट्का॒रेण॒ वज्रे॑ण । कृ॒त्याग्ं ह॑न्मि कृ॒ताम॒हम् ॥ यो मा॒ नक्त॒-न्दिवा॑ सा॒यम् । प्रा॒तश्चाह्नो॑ नि॒पीय॑ति । अ॒द्या तमि॑न्द्र॒ वज्रे॑ण । भ्रातृ॑व्य-म्पादयामसि ॥ इन्द्र॑स्य गृ॒हो॑-ऽसि॒ त-न्त्वा᳚ । प्रप॑द्ये॒ सगु॒-स्साश्वः॑ । स॒ह यन्मे॒ अस्ति॒ तेन॑ ॥ ईडे॑ अ॒ग्निं-विँ॑प॒श्चित᳚म् ॥ 15 ॥

गि॒रा य॒ज्ञस्य॒ साध॑नम् । श्रु॒ष्टी॒वान॑-न्धि॒तावा॑नम् ॥ अग्ने॑ श॒केम॑ ते व॒यम् । यम॑-न्दे॒वस्य॑ वा॒जिनः॑ । अति॒ द्वेषाग्ं॑सि तरेम ॥ अव॑त-म्मा॒ सम॑नसौ॒ समो॑कसौ । सचे॑तसौ॒ सरे॑तसौ । उ॒भौ माम॑वत-ञ्जातवेदसौ । शि॒वौ भ॑वतम॒द्य नः॑ ॥ स्व॒य-ङ्कृ॑ण्वा॒न-स्सु॒गमप्र॑यावम् ॥ 16 ॥

ति॒ग्मशृ॑ङ्गो वृष॒भ-श्शोशु॑चानः । प्र॒त्नग्ं स॒धस्थ॒-मनु॒पश्य॑मानः । आ तन्तु॑म॒ग्नि-र्दि॒व्य-न्त॑तान ॥ त्व-न्न॒स्तन्तु॑रु॒त सेतु॑रग्ने । त्व-म्पन्था॑ भवसि देव॒यानः॑ । त्वया᳚ ऽग्ने पृ॒ष्ठं-वँ॒यमारु॑हेम । अथा॑ दे॒वै-स्स॑ध॒माद॑-म्मदेम ॥ उदु॑त्त॒म-म्मु॑मुग्धि नः । वि पाश॑-म्मद्ध्य॒म-ञ्चृ॑त । अवा॑ध॒मानि॑ जी॒वसे᳚ ॥ 17 ॥

व॒यग्ं सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जा व॑न्तो अशीमहि ॥ इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी᳚ । उदग्ंशे॑न पति॒विद्ये॑ जिगाय । त्रि॒ग्ं॒शद॑स्या ज॒घनं॒-योँज॑नानि । उ॒पस्थ॒ इन्द्र॒ग्ग्॒ स्थवि॑र-म्बिभर्ति ॥ सेना॑ ह॒ नाम॑ पृथि॒वी ध॑नञ्ज॒या । वि॒श्वव्य॑चा॒ अदि॑ति॒-स्सूर्य॑त्वक् । इ॒न्द्रा॒णी दे॒वी प्रा॒सहा॒ ददा॑ना ॥ 18 ॥

सा नो॑ दे॒वी सु॒हवा॒ शर्म॑ यच्छतु ॥ आ त्वा॑ ऽहार्​षम॒न्तर॑भूः । ध्रु॒वस्ति॒ष्ठावि॑चाचलिः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु । मा त्व-द्रा॒ष्ट्र-मधि॑भ्रशत् ॥ ध्रु॒वा द्यौ-र्ध्रु॒वा पृ॑थि॒वी । ध्रु॒वं-विँश्व॑मि॒द-ञ्जग॑त् । ध्रु॒वा ह॒ पर्व॑ता इ॒मे । ध्रु॒वो राजा॑ वि॒शाम॒यम् ॥ इ॒हैवैधि॒ मा व्य॑थिष्ठाः ॥ 19 ॥

पर्व॑त इ॒वा वि॑चाचलिः । इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठ । इ॒ह रा॒ष्ट्र-मु॑धारय ॥ अ॒भिति॑ष्ठ पृतन्य॒तः । अध॑रे सन्तु॒ शत्र॑वः । इन्द्र॑ इव वृत्र॒हाति॑ष्ठ । अ॒पः, क्षेत्रा॑णि स॒जं​यँन्न्॑ ॥ इन्द्र॑ एणमदीधरत् । ध्रु॒व-न्ध्रु॒वेण॑ ह॒विषा᳚ । तस्मै॑ दे॒वा अधि॑ब्रवन्न् । अ॒य-ञ्च॒ ब्रह्म॑ण॒स्पतिः॑ ॥ 20 ॥
(ह॒विर्भि॑ - रा॒स्य॑ - मभि॒ दास॑तो - विप॒श्चित॒ - मप्र॑यावं - जी॒वसे॒ - ददा॑ना - व्यथिष्ठा - ब्रव॒न्नेक॑-ञ्च) (अ. 2)

अनुवाकं 3 - उपहोमाः
जुष्टी॑ नरो॒ ब्रह्म॑णा वः पितृ॒णाम् । अक्ष॑मव्यय॒-न्न किला॑ रिषाथ । यच्छक्व॑रीषु बृह॒ता रवे॑ण । इन्द्रे॒ शुष्म॒मद॑धाथा वसिष्ठाः ॥ पा॒व॒का न॒-स्सर॑स्वती । वाजे॑भि-र्वा॒जिनी॑वती । य॒ज्ञं-वँ॑ष्टु धि॒या व॑सुः ॥ सर॑स्वत्य॒भि नो॑ नेषि॒ वस्यः॑ । मा प॑स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् । जु॒षस्व॑ न-स्स॒ख्या॑ वे॒श्या॑ च ॥ 21 ॥

मा त्वत्क्षेत्रा॒-ण्यर॑णानि गन्म ॥ वृ॒ञ्जे ह॒विर्नम॑सा ब॒र्॒हिर॒ग्नौ । अया॑मि॒ स्रुग् घृ॒तव॑ती सुवृ॒क्तिः । अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्याः । अश्रा॑यि य॒ज्ञ-स्सूर्ये॒ न चक्षुः॑ ॥ इ॒हार्वाञ्च॒मति॑ह्वये । इन्द्र॒-ञ्जैत्रा॑य॒ जेत॑वे । अ॒स्माक॑मस्तु॒ केव॑लः ॥ अ॒र्वाञ्च॒मिन्द्र॑म॒मुतो॑ हवामहे । यो गो॒जि-द्ध॑न॒जि-द॑श्व॒जिद्यः ॥ 22 ॥

इ॒म-न्नो॑ य॒ज्ञं-विँ॑ह॒वे जु॑षस्व । अ॒स्य कु॑र्मो हरिवो मे॒दिन॑-न्त्वा ॥ अस॑मृंष्टो जायसे मातृ॒वो-श्शुचिः॑ । म॒न्द्रः क॒विरुद॑तिष्ठो॒ विव॑स्वतः । घृ॒तेन॑ त्वा ऽवर्धयन्नग्न आहुत । धू॒मस्ते॑ के॒तुर॑भव-द्दि॒वि श्रि॒तः ॥ अ॒ग्निरग्रे᳚ प्रथ॒मो दे॒वता॑नाम् । सं​याँ॑ताना-मुत्त॒मो विष्णु॑रासीत् । यज॑मानाय परि॒गृह्य॑ दे॒वान् । दी॒क्षये॒दग्ं ह॒विराग॑च्छत-न्नः ॥ 23 ॥

अ॒ग्निश्च॑ विष्णो॒ तप॑ उत्त॒म-म्म॒हः । दी॒क्षा॒पा॒लेभ्यो॒ वन॑त॒ग्ं॒ हि श॑क्रा । विश्वै᳚-र्दे॒वै-र्य॒ज्ञियै᳚-स्सं​विँदा॒नौ । दी॒क्षाम॒स्मै यज॑मानाय धत्तम् ॥ प्रत-द्विष्णु॑-स्स्तवते वी॒र्या॑य । मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः । यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु । अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ॥ नू मर्तो॑ दयते सनि॒ष्यन्. यः । विष्ण॑व उरुगा॒याय॒ दाश॑त् ॥ 24 ॥

प्र य-स्स॒त्राचा॒ मन॑सा॒ यजा॑ तै । ए॒ताव॑न्त॒-न्नर्य॑मा॒विवा॑सात् ॥ विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम् । क्षेत्रा॑य॒ विष्णु॒-र्मनु॑षे दश॒स्यन्न् । ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः । उ॒रु॒क्षि॒तिग्ं सु॒जनि॑मा चकार ॥ त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒ताम् । विच॑क्रमे श॒तर्च॑स-म्महि॒त्वा । प्र विष्णु॑-रस्तु त॒वस॒स्त वी॑यान् । त्वे॒षग्ग्​ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥ 25 ॥

होता॑र-ञ्चि॒त्रर॑थ-मद्ध्व॒रस्य॑ । य॒ज्ञस्य॑ यज्ञस्य के॒तुग्ं रुश॑न्तम् । प्रत्य॑र्धि-न्दे॒वस्य॑ देवस्य म॒ह्ना । श्रि॒या त्व॑-ऽग्निमति॑थि॒-ञ्जना॑नाम् ॥ आ नो॒ विश्वा॑भिरू॒तिभि॑-स्स॒जोषाः᳚ । ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि । वरी॑वृज॒-थ्स्थवि॑रेभि-स्सुशिप्र । अ॒स्मे दध॒-द्वृष॑ण॒ग्ं॒ शुष्म॑मिन्द्र ॥ इन्द्र॑-स्सुव॒र्॒षा ज॒नय॒न्नहा॑नि । जि॒गायो॒शिग्भिः॒ पृत॑ना अभि॒श्रीः ॥ 26 ॥

प्रारो॑चय॒न्मन॑वे के॒तुमह्ना᳚म् । अवि॑न्द॒ज्ज्योति॑-र्बृह॒ते रणा॑य ॥ अश्वि॑ना॒वव॑से॒ निह्व॑ये वाम् । आ नू॒नं-याँ॑तग्ं सुकृ॒ताय॑ विप्रा । प्रा॒त॒र्यु॒क्तेन॑ सु॒वृता॒ रथे॑न । उ॒पाग॑च्छत॒मव॒सा ऽऽग॑त-न्नः ॥ अ॒वि॒ष्ट-न्धी॒ष्वश्वि॑ना न आ॒सु । प्र॒जाव॒-द्रेतो॒ अह्र॑य-न्नो अस्तु । आवा᳚-न्तो॒के तन॑ये॒ तूतु॑जानाः । सु॒रत्ना॑सो दे॒ववी॑ति-ङ्गमेम ॥ 27 ॥

त्वग्ं सो॑म॒ क्रतु॑भि-स्सु॒क्रतु॑र्भूः । त्व-न्दक्षै᳚-स्सु॒दक्षो॑ वि॒श्ववे॑दाः । त्वं-वृँषा॑ वृष॒त्वेभि॑-र्महि॒त्वा । द्यु॒म्नेभि॑-र्द्यु॒म्न्य॑भवो नृ॒चक्षाः᳚ ॥ अषा॑ढं-युँ॒थ्सु पृत॑नासु॒ पप्रि᳚म् । सु॒व॒र॒.षाम॒फ्स्वां-वृँ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जाग्ं सु॑क्षि॒तिग्ं सु॒श्रव॑सम् । जय॑न्त॒-न्त्वामनु॑ मदेम सोम ॥ भवा॑ मि॒त्रो न शेव्यो॑ घृ॒तासु॑तिः । विभू॑तद्युम्न एव॒या उ॑ स॒प्रथाः᳚ ॥ 28 ॥

अधा॑ ते विष्णो वि॒दुषा॑चि॒दृध्यः॑ । स्तोमो॑ य॒ज्ञस्य॒ राद्ध्यो॑ ह॒विष्म॑तः ॥ यः पू॒र्व्याय॑ वे॒धसे॒ नवी॑यसे । सु॒मज्जा॑नये॒ विष्ण॑वे॒ ददा॑शति । यो जा॒तम॒स्य म॑ह॒तो म॒हि ब्रवा᳚त् । सेदु॒-श्श्रवो॑भि-र्यु॒ज्य॑-ञ्चिद॒भ्य॑सत् ॥ तमु॑ स्तोतारः पू॒र्व्यं-यँथा॑ वि॒द ऋ॒तस्य॑ । गर्भग्ं॑ ह॒विषा॑ पिपर्तन । आ-ऽस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन । बृ॒हत्ते॑ विष्णो सुम॒ति-म्भ॑जामहे ॥ 29 ॥

इ॒मा धा॒ना घृ॑त॒स्नुवः॑ । हरी॑ इ॒होप॑वक्षतः । इन्द्रग्ं॑ सु॒खत॑मे॒ रथे᳚ ॥ ए॒ष ब्र॒ह्मा य ऋ॒त्वियः॑ । इन्द्रो॒ नाम॑ श्रु॒तो ग॒णे ॥, प्र ते॑ म॒हे । वि॒दथे॑ श॒ग्ंसिष॒ग्ं॒ हरी᳚ । य ऋ॒त्वियः॒ प्र ते॑ वन्वे । व॒नुषो॑ हर्य॒त-म्मद᳚म् । इन्द्रो॒ नाम॑ घृ॒त-न्न यः । हरि॑भि॒श्चारु॒ सेच॑ते । श्रु॒तो ग॒ण आ त्वा॑ विशन्तु ॥ 30 ॥

हरि॑वर्पस॒-ङ्गिरः॑ ॥ आच॑र्​षणि॒प्रा वृ॑ष॒भो जना॑नाम् । राजा॑ कृष्टी॒ना-म्पु॑रुहू॒त इन्द्रः॑ । स्तु॒त-श्श्र॑व॒स्यन्नव॒सोप॑म॒द्रिक् । यु॒क्त्वा हरी॒ वृष॒णा ऽऽया᳚ह्य॒र्वाम् ॥ प्र य-थ्सिन्ध॑वः प्रस॒वं-यँदायन्न्॑ । आप॑-स्समु॒द्रग्ं र॒त्थ्ये॑व जग्मुः । अत॑श्चि॒दिन्द्र॒-स्सद॑सो॒ वरी॑यान् । यदी॒ग्ं॒ सोमः॑ पृ॒णाति॑ दु॒ग्धो अ॒ग्ं॒शुः ॥ ह्वया॑मसि॒ त्वेन्द्र॑ या॒ह्य॑र्वाम् ॥ 31 ॥

अर॑-न्ते॒ सोम॑स्त॒नुवे॑ भवाति । शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॑ । प्रास्माग्ं अ॑व॒ पृत॑नासु॒ प्र यु॒थ्सु ॥ इन्द्रा॑य॒ सोमाः᳚ प्र॒दिवो॒ विदा॑नाः । ऋ॒भु-र्येभि॒-र्वृष॑पर्वा॒-विहा॑याः । प्र॒य॒म्यमा॑णा॒-न्प्रति॒ षूगृ॑भाय । इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ॥ अहे॑डमान॒ उप॑याहि य॒ज्ञम् । तुभ्य॑-म्पवन्त॒ इन्द॑व-स्सु॒तासः॑ । गावो॒ न व॑ज्रिन्-थ्स्व॒मोको॒ अच्छ॑ ॥ 32 ॥

इन्द्राग॑हि प्रथ॒मो यज्ञिया॑नाम् ॥ या ते॑ का॒कु-थ्सुकृ॑ता॒ या वरि॑ष्ठा । यया॒ शश्व॒त्पिब॑सि॒ मद्ध्व॑ ऊ॒र्मिम् । तया॑ पाहि॒ प्र ते॑ अद्ध्व॒र्युर॑स्थात् । स-न्ते॒ वज्रो॑ वर्ततामिन्द्र ग॒व्युः ॥ प्रा॒त॒र्युजा॒ विबो॑धय । अश्वि॑ना॒वेह ग॑च्छतम् । अ॒स्य सोम॑स्य पी॒तये᳚ ॥ प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जद्ध्वम् । पु॒रा गृद्ध्रा॒दर॑रुषः पिबाथः । प्रा॒तर्​हि य॒ज्ञम॒श्विना॒ दधा॑ते । प्रशग्ं॑ सन्ति क॒वयः॑ पूर्व॒भाजः॑ ॥ प्रा॒तर्य॑जद्ध्वम॒श्विना॑ हिनोत । न सा॒यम॑स्ति देव॒या अजु॑ष्टम् । उ॒तान्यो अ॒स्म-द्य॑जते॒ विचा॑यः । पूर्वः॑ पूर्वो॒ यज॑मानो॒ वनी॑यान् ॥ 33 ॥
(चा॒ - श्व॒जिद्यो-ग॑च्छत-न्नो॒ - दाश॒न् - नामा॑ - भि॒श्री--र् ग॑मेम - स॒प्रथा॑ - भजामहे - विशन्तु - या॒ह्य॑र्वां - च्छ॑ - पिबाथ॒-ष्षट्च॑) (अ. 3)

अनुवाकं 4 - उपहोमाः
न॒क्त॒-ञ्जा॒ता-ऽस्यो॑षधे । रामे॒ कृष्णे॒ असि॑क्नि च । इ॒दग्ं र॑जनि रजय । कि॒लास॑-म्पलि॒त-ञ्च॒ यत् ॥ कि॒लास॑-ञ्च पलि॒त-ञ्च॑ । निरि॒तो ना॑शया॒ पृष॑त् । आ न॒-स्स्वो अ॑श्नुतां॒-वँर्णः॑ । परा᳚ श्वे॒तानि॑ पातय ॥ असि॑त-न्ते नि॒लय॑नम् । आ॒स्थान॒मसि॑त॒-न्तव॑ ॥ 34 ॥

असि॑क्नियस्योषधे । निरि॒तो ना॑शया॒ पृष॑त् ॥ अ॒स्थि॒जस्य॑ कि॒लास॑स्य । त॒नू॒जस्य॑ च॒ यत्त्व॒चि । कृ॒त्यया॑ कृ॒तस्य॒ ब्रह्म॑णा । लक्ष्म॑ श्वे॒तम॑नीनशम् ॥ सरू॑पा॒ नाम॑ ते मा॒ता । सरू॑पो॒ नाम॑ ते पि॒ता । सरू॑पा ऽस्योषधे॒ सा । सरू॑पमि॒द-ङ्कृ॑धि ॥ 35 ॥

शु॒नग्ं हु॑वेम म॒घवा॑न॒मिन्द्र᳚म् । अ॒स्मिन्भरे॒ नृत॑मं॒-वाँज॑सातौ । शृ॒ण्वन्त॑-मु॒ग्रमू॒तये॑ स॒मथ्सु॑ । घ्नन्तं॑-वृँ॒त्राणि॑ स॒जिन्त॒-न्धना॑नाम् ॥ धू॒नु॒थ द्या-म्पर्व॑तान्दा॒शुषे॒ वसु॑ । नि वो॒ वना॑ जिहते॒ याम॑नो भि॒या । को॒पय॑थ पृथि॒वी-म्पृ॑श्निमातरः । यु॒धे यदु॑ग्राः॒ पृष॑ती॒-रयु॑ग्ध्वम् ॥ प्रवे॑पयन्ति॒ पर्व॑तान् । विवि॑ञ्चन्ति॒ वन॒स्पतीन्॑ ॥ 36 ॥

प्रोवा॑रत मरुतो दु॒र्मदा॑ इव । देवा॑स॒-स्सर्व॑या वि॒शा ॥ पु॒रु॒त्रा हि स॒दृङ्ङसि॑ । विशो॒ विश्वा॒ अनु॑ प्र॒भु । स॒मथ्सु॑ त्वा हवामहे ॥ स॒मथ्स्व॒ग्नि-मव॑से । वा॒ज॒यन्तो॑ हवामहे । वाजे॑षु चि॒त्ररा॑धसम् ॥ सङ्ग॑च्छद्ध्व॒ग्ं॒ सं​वँ॑दद्ध्वम् । सं-वोँ॒ मनाग्ं॑सि जानताम् ॥ 37 ॥

दे॒वा भा॒गं-यँथा॒ पूर्वे᳚ । स॒जा॒न्ना॒ना उ॒पास॑त ॥ स॒मा॒नो मन्त्र॒-स्समि॑ति-स्समा॒नी । स॒मा॒न-म्मन॑-स्स॒ह चि॒त्तमे॑षाम् । स॒मा॒न-ङ्केतो॑ अ॒भि-सग्ंर॑भद्ध्वम् । स॒ज्ञान्ने॑न वो ह॒विषा॑ यजामः ॥ स॒मा॒नी व॒ आकू॑तिः । स॒मा॒ना हृद॑यानि वः । स॒मा॒नम॑स्तु वो॒ मनः॑ । यथा॑ व॒-स्सुस॒हा-ऽस॑ति ॥ 38 ॥

स॒ज्ञान्न॑-न्न॒-स्स्वैः । स॒ज्ञान्न॒मर॑णैः । स॒ज्ञान्न॑मश्विना यु॒वम् । इ॒हास्मासु॒ निय॑च्छतम् ॥ स॒ज्ञान्न॑-म्मे॒ बृह॒स्पतिः॑ । स॒ज्ञान्नग्ं॑ सवि॒ता क॑रत् । स॒ज्ञान्न॑मश्विना यु॒वम् । इ॒ह मह्य॒-न्निय॑च्छतम् ॥ उप॑च्छा॒यामि॑व॒ घृणेः᳚ । अग॑न्म॒ शर्म॑ ते व॒यम् ॥ 39 ॥

अग्ने॒ हिर॑ण्यसन्दृशः ॥ अद॑ब्धेभि-स्सवितः पा॒युभि॒ष्ट्वम् । शि॒वेभि॑र॒द्य परि॑पाहि नो॒ गय᳚म् । हिर॑ण्यजिह्व-स्सुवि॒ताय॒ नव्य॑से । रक्षा॒माकि॑र्नो अ॒घशग्ं॑स ईशत ॥ मदे॑मदे॒ हि नो॑ द॒दुः । यू॒था गवा॑मृजु॒क्रतुः॑ । सङ्गृ॑भाय पु॒रू श॒ता । उ॒भ॒या ह॒स्त्या वसु॑ । शि॒शी॒हि रा॒य आभ॑र ॥ 40 ॥

शिप्रि॑न् वाजाना-म्पते । शची॑व॒स्तव॑ द॒ग्ं॒सना᳚ । आ तू न॑ इन्द्र भाजय । गोष्वश्वे॑षु शु॒भ्रुषु॑ । स॒हस्रे॑षु तुवीमघ ॥ य-द्दे॑वा देव॒ हेड॑नम् । देवा॑सश्चकृ॒मा व॒यम् । आदि॑त्या॒स्तस्मा᳚न्मा यू॒यम् । ऋ॒तस्य॒र्तेन॑ मुञ्चत ॥ ऋ॒तस्य॒र्ते-ना॑दित्याः ॥ 41 ॥

यज॑त्रा मु॒ञ्चते॒ह मा᳚ । य॒ज्ञैर्वो॑ यज्ञवाहसः । आ॒शिक्ष॑न्तो॒ न शे॑किम ॥ मेद॑स्वता॒ यज॑मानाः । स्रु॒चा-ऽऽज्ये॑न॒ जुह्व॑तः । अ॒का॒मा वो॑ विश्वे देवाः । शिक्ष॑न्तो॒ नोप॑ शेकिम ॥ यदि॒ दिवा॒ यदि॒ नक्त᳚म् । एन॑ एन॒स्यो-ऽक॑रत् । भू॒त-म्मा॒ तस्मा॒द्भव्य॑-ञ्च ॥ 42 ॥

द्रु॒प॒दादि॑व मुञ्चतु ॥ द्रु॒प॒दादि॒वे-न्मु॑मुचा॒नः । स्वि॒न्न-स्स्ना॒त्वी मला॑दिव । पू॒त-म्प॒वित्रे॑णे॒ वाज्य᳚म् । विश्वे॑ मुञ्चन्तु॒ मैन॑सः ॥ उद्व॒य-न्तम॑स॒स्परि॑ । पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् । दे॒व-न्दे॑व॒त्रा सूर्य᳚म् । अग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ 43 ॥
(तव॑ - कृधि॒ - वन॒स्पती᳚ - ञ्जानता॒ - मस॑ति - व॒यं - भ॑रा - दित्या - श्च॒ - +नव॑ च) (अ. 4)

अनुवाकं 5 - उपहोमाः
वृषा॒ सो अ॒ग्ं॒शुः प॑वते ह॒विष्मा॒न्-थ्सोमः॑ । इन्द्र॑स्य भा॒ग ऋ॑त॒यु-श्श॒तायुः॑ । स मा॒ वृषा॑णं-वृँष॒भ-ङ्कृ॑णोतु । प्रि॒यं-विँ॒शाग्ं सर्व॑वीरग्ं सु॒वीर᳚म् ॥ कस्य॒ वृषा॑ सु॒ते सचा᳚ । नि॒युत्वा᳚न् वृष॒भो र॑णत् । वृ॒त्र॒हा सोम॑पीतये ॥ यस्ते॑ शृङ्ग वृषो नपात् । प्रण॑पा-त्कुण्ड॒पाय्यः॑ । न्य॑स्मिन्दद्ध्र॒ आ मनः॑ ॥ 44 ॥

तग्ं स॒द्ध्रीची॑रू॒तयो॒ वृष्णि॑यानि । पौग्ग्​स्या॑नि नि॒युत॑-स्सश्चु॒रिन्द्र᳚म् । स॒मु॒द्र-न्न सिन्ध॑व उ॒क्थशु॑ष्माः । उ॒रु॒व्यच॑स॒-ङ्गिर॒ आवि॑शन्ति ॥ इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गाः । अ॒पः प्रैर॑य॒न्-थ्सग॑रस्य बु॒द्दध्नात् । यो अक्षे॑णेव च॒क्रिया॒ शची॑भिः । विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ॥ अक्षो॑दय॒च्छव॑सा॒ क्षाम॑ बु॒द्ध्नम् । वार्णवा॑त॒स्तवि॑षीभि॒रिन्द्रः॑ ॥ 45 ॥

दृ॒ढान्यौ᳚घ्नादु॒शमा॑न॒ ओजः॑ । अवा॑भिनत्क॒कुभः॒ पर्व॑तानाम् ॥ आ नो॑ अग्ने सुके॒तुना᳚ । र॒यिं-विँ॒श्वायु॑पोषसम् । मा॒र्डी॒क-न्धे॑हि जी॒वसे᳚ ॥ त्वग्ं सो॑म म॒हे भग᳚म् । त्वं-यूँन॑ ऋताय॒ते । दक्ष॑-न्दधासि जी॒वसे᳚ ॥ रथं॑-युँञ्जते म॒रुत॑-श्शु॒भे स॒गम् । सूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु ॥ 46 ॥

रजाग्ं॑सि चि॒त्रा वि च॑रन्ति त॒न्यवः॑ । दि॒व-स्स॑म्राजा॒ पय॑सा न उक्षतम् ॥ वाच॒ग्ं॒ सु मि॑त्रावरुणा॒विरा॑वतीम् । प॒र्जन्य॑श्चि॒त्रां-वँ॑दति॒ त्विषी॑मतीम् । अ॒भ्रा व॑सत मरुत-स्सु मा॒यया᳚ । द्यां-वँ॑र्​षयत-मरु॒णाम॑रे॒पस᳚म् ॥ अयु॑क्त स॒प्त शु॒न्ध्युवः॑ । सूरो॒ रथ॑स्य न॒प्त्रियः॑ । ताभि॑र्याति॒ स्वयु॑क्तिभिः ॥ वहि॑ष्ठेभिर्वि॒हर॑न्. यासि॒ तन्तु᳚म् ॥ 47 ॥

अ॒व॒व्यय॒न्नसि॑त-न्देव॒ वस्वः॑ । दवि॑द्ध्वतो र॒श्मय॒-स्सूर्य॑स्य । चर्मे॒वावा॑धु॒स्तमो॑ अ॒फ्स्व॑न्तः ॥ प॒र्जन्या॑य॒ प्रगा॑यत । दि॒वस्पु॒त्राय॑ मी॒ढुषे᳚ । स नो॑ य॒वस॑मिच्छतु ॥ अच्छा॑ वद त॒वस॑-ङ्गी॒र्भिरा॒भिः । स्तु॒हि प॒र्जन्य॒-न्नम॒सा वि॑वास । कनि॑क्रद-द्वृष॒भो जी॒रदा॑नुः । रेतो॑ दधा॒त्वोष॑धीषु॒ गर्भ᳚म् ॥ 48 ॥

यो गर्भ॒मोष॑धीनाम् । गवा᳚-ङ्कृ॒णोत्यर्व॑ताम् । प॒र्जन्यः॑ पुरु॒षीणा᳚म् ॥ तस्मा॒ इदा॒स्ये॑ ह॒विः । जु॒होता॒ मधु॑मत्तमम् । इडा᳚-न्न-स्सं॒​यँत॑-ङ्करत् ॥ ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामित् । शुचि॑-ङ्घृ॒तेन॒ शुच॑य-स्सप॒र्यन्न् । नामा॑नि चिद्दधिरे य॒ज्ञिया॑नि । असू॑दयन्त त॒नुव॒-स्सुजा॑ताः ॥ 49 ॥

इन्द्र॑श्च न-श्शुनासीरौ । इ॒मं-यँ॒ज्ञ-म्मि॑मिक्षतम् । गर्भ॑-न्धत्तग्ग्​ स्व॒स्तये᳚ ॥ ययो॑रि॒दं-विँश्व॒-म्भुव॑न-मावि॒वेश॑ । ययो॑रान॒न्दो निहि॑तो॒ मह॑श्च । शुना॑सीरावृ॒तुभि॑-स्सं​विँदा॒नौ । इन्द्र॑वन्तौ ह॒विरि॒द-ञ्जु॑षेथाम् ॥ आ घा॒ ये अ॒ग्निमि॑न्ध॒ते । स्तृ॒णन्ति॑ ब॒र्॒हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा᳚ ॥ अग्न॒ इन्द्र॑श्च मे॒दिना᳚ । ह॒थो वृ॒त्राण्य॑प्र॒ति । यु॒वग्ं हि वृ॑त्र॒हन्त॑मा ॥ याभ्या॒ग्ं॒ सुव॒रज॑य॒न्नग्र॑ ए॒व । यावा॑तस्थ॒तु-र्भुव॑नस्य॒ मद्ध्ये᳚ । प्रच॑र्​ष॒णी वृ॑षणा॒ वज्र॑बाहू । अ॒ग्नी इन्द्रा॑ वृत्र॒हणा॑ हुवे वाम् ॥ 50 ॥
(मन॒ - इन्द्रो॒ - गावि॑ष्टिषु॒ - तन्तुं॒ - गर्भ॒ग्ं॒ - सुजा॑ताः॒ - सखा॑ स॒प्त च॑) (अ. 5)

अनुवाकं 6 - उपहोमाः
उ॒त नः॑ प्रि॒या प्रि॒यासु॑ । स॒प्तस्वसा॒ सुजु॑ष्टा । सर॑स्वती॒ स्तोम्या॑ ऽभूत् ॥ इ॒मा जुह्वा॑ना यु॒ष्मदा नमो॑भिः । प्रति॒ स्तोमग्ं॑ सरस्वति जुषस्व । तव॒ शर्म॑-न्प्रि॒यत॑मे॒ दधा॑नाः । उप॑स्थेयाम शर॒ण-न्न वृ॒क्षम् ॥ त्रीणि॑ प॒दा विच॑क्रमे । विष्णु॑र्गो॒पा अदा᳚भ्यः । ततो॒ धर्मा॑णि धा॒रयन्न्॑ ॥ 51 ॥

तद॑स्य प्रि॒यम॒भि पाथो॑ अश्याम् । नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति । उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था । विष्णोः᳚ प॒दे प॑र॒मे मद्ध्व॒ उथ्सः॑ ॥ क्र॒त्वा॒ दा अ॑स्थु॒ श्रेष्ठः॑ । अ॒द्य त्वा॑ व॒न्वन्-थ्सु॒रेक्णाः᳚ । मर्त॑ आनाश सुवृ॒क्तिम् ॥ इ॒मा ब्र॑ह्म ब्रह्मवाह । प्रि॒या त॒ आ ब॒र॒ःइ-स्सी॑द । वी॒हि सू॑र पुरो॒डाश᳚म् ॥ 52 ॥

उप॑ न-स्सू॒नवो॒ गिरः॑ । शृ॒ण्वन्त्व॒मृतस्य॒ ये । सु॒मृ॒डी॒का भ॑वन्तु नः ॥ अ॒द्या नो॑ देव सवितः । प्र॒जाव॑-थ्सावी॒-स्सौभ॑गम् । परा॑ दु॒स्ष्वप्नि॑यग्ं सुव ॥ विश्वा॑नि देव सवितः । दु॒रि॒तानि॒ परा॑सुव । य-द्भ॒द्र-न्तन्म॒ आसु॑व ॥ शुचि॑म॒र्कै-र्बृह॒स्पति᳚म् ॥ 53 ॥

अ॒द्ध्व॒रेषु॑ नमस्यत । अ॒ना॒म्योज॒ आच॑के ॥ या धा॒रय॑न्त दे॒वा सु॒दक्षा॒ दक्ष॑पितारा । अ॒सु॒र्या॑य॒ प्रम॑हसा ॥ स इत्क्षेति॒ सुधि॑त॒ ओक॑सि॒ स्वे । तस्मा॒ इडा॑ पिन्वते विश्व॒दानी᳚ । तस्मै॒ विश॑-स्स्व॒यमे॒वान॑मन्ति । यस्मि॑-न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ॥ सकू॑तिमिन्द्र॒ सच्यु॑तिम् । सच्यु॑ति-ञ्ज॒घन॑च्युतिम् ॥ 54 ॥

क॒नात्का॒भा-न्न॒ आभ॑र । प्र॒य॒फ्स्यन्नि॑व स॒क्थ्यौ᳚ ॥ विन॑ इन्द्र॒ मृधो॑ जहि । कनी॑खुनदिव सा॒पयन्न्॑ । अ॒भि न॒-स्सुष्टु॑ति-न्नय ॥ प्र॒जाप॑ति-स्स्त्रि॒यां-यँशः॑ । मु॒ष्कयो॑रदधा॒-थ्सप᳚म् । काम॑स्य॒ तृप्ति॑मान॒न्दम् । तस्या᳚ग्ने भाजये॒ह मा᳚ ॥ मोदः॑ प्रमो॒द आ॑न॒न्दः ॥ 55 ॥

मु॒ष्कयो॒र्निहि॑त॒-स्सपः॑ । सृ॒त्वेव॒ काम॑स्य तृप्याणि । दक्षि॑णाना-म्प्रतिग्र॒हे ॥ मन॑सश्चि॒त्त-माकू॑तिम् । वा॒च-स्स॒त्य-म॑शीमहि । प॒शू॒नाग्ं रू॒पमन्न॑स्य । यश॒-श्श्री-श्श्र॑यता॒-म्मयि॑ ॥ यथा॒ ऽहम॒स्या अतृ॑पग्ग्​ स्त्रि॒यै पुमान्॑ । यथा॒ स्त्री तृप्य॑ति पु॒ग्ं॒सि प्रि॒ये प्रि॒या । ए॒व-म्भग॑स्य तृप्याणि ॥ 56 ॥

य॒ज्ञस्य॒ काम्यः॑ प्रि॒यः ॥ ददा॒मीत्य॒ग्निर्व॑दति । तथेति॑ वा॒युरा॑ह॒ तत् । हन्तेति॑ स॒त्य-ञ्च॒न्द्रमाः᳚ । आ॒दि॒त्य-स्स॒त्यमोमिति॑ ॥ आप॒स्त-थ्स॒त्यमाभ॑रन्न् । यशो॑ य॒ज्ञस्य॒ दक्षि॑णाम् । अ॒सौ मे॒ काम॒-स्समृ॑द्ध्यताम् ॥ न हि स्पश॒मवि॑द-न्न॒न्यम॒स्मात् । वै॒श्वा॒न॒रा-त्पु॑र ए॒तार॑म॒ग्नेः ॥ 57 ॥

अथे॑ममन्थन्न॒मृत॒ममू॑राः । वै॒श्वा॒न॒र-ङ्क्षे᳚त्र॒जित्या॑य दे॒वाः ॥ येषा॑मि॒मे पूर्वे॒ अर्मा॑स॒ आसन्न्॑ । अ॒यू॒पा-स्सद्म॒ विभृ॑ता पु॒रूणि॑ । वैश्वा॑नर॒ त्वया॒ ते नु॒त्ताः । पृ॒थि॒वी-म॒न्याम॒भित॑स्थु॒-र्जना॑सः ॥ पृ॒थि॒वी-म्मा॒तर॑-म्म॒हीम् । अ॒न्तरि॑क्ष॒-मुप॑ब्रुवे । बृ॒ह॒तीमू॒तये॒ दिव᳚म् ॥ विश्व॑-म्बिभर्ति पृथि॒वी ॥ 58 ॥

अ॒न्तरि॑क्षं॒-विँप॑प्रथे । दु॒हे द्यौ-र्बृ॑ह॒ती पयः॑ ॥ न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रः । नैना॑ अमि॒त्रो व्यथि॒राद॑धर्​षति । दे॒वाग्​श्च॒ याभि॒-र्यज॑ते॒ ददा॑ति च । ज्योगित्ताभि॑-स्सचते॒ गोप॑ति-स्स॒ह ॥ न ता अर्वा॑ रे॒णुक॑काटो अश्नुते । न सग्ग्॑ स्कृत॒त्र-मुप॑यन्ति॒ ता अ॒भि । उ॒रु॒गा॒यमभ॑य॒-न्तस्य॒ ता अनु॑ । गावो॒ मर्त्य॑स्य॒ विच॑रन्ति॒ यज्व॑नः ॥ 59 ॥

रात्री॒ व्य॑ख्यदाय॒ती । पु॒रु॒त्रा दे॒व्य॑क्षभिः॑ । विश्वा॒ अधि॒ श्रियो॑-ऽधित ॥ उप॑ ते॒ गा इ॒वाक॑रम् । वृ॒णी॒ष्व दु॑हित-र्दिवः । रात्री॒ स्तोम॒-न्न जि॒ग्युषी᳚ ॥ दे॒वीं-वाँच॑मजनयन्त दे॒वाः । तां-विँ॒श्वरू॑पाः प॒शवो॑ वदन्ति । सा नो॑ म॒न्द्रेष॒मूर्ज॒-न्दुहा॑ना । धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥ 60 ॥

य-द्वाग्वद॑न्त्य-विचेत॒नानि॑ । राष्ट्री॑ दे॒वाना᳚-न्निष॒साद॑ म॒न्द्रा । चत॑स्र॒ ऊर्ज॑-न्दुदुहे॒ पयाग्ं॑सि । क्व॑ स्वि दस्याः पर॒म-ञ्ज॑गाम ॥ गौ॒री मि॑माय सलि॒लानि॒ तक्ष॑ती । एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी । अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚ । स॒हस्रा᳚क्षरा पर॒मे व्यो॑मन्न् ॥ तस्याग्ं॑ समु॒द्रा अधि॒ वि क्ष॑रन्ति । तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥ 61 ॥

ततः॑, क्षरत्य॒क्षर᳚म् । त-द्विश्व॒-मुप॑जीवति ॥ इन्द्रा॒ सूरा॑ ज॒नय॑न्-वि॒श्वक॑र्मा । म॒रुत्वाग्ं॑ अस्तु ग॒णवा᳚न्-थ्सजा॒तवान्॑ । अ॒स्य स्नु॒षा-श्वशु॑रस्य॒ प्रशि॑ष्टिम् । स॒पत्ना॒ वाच॒-म्मन॑सा॒ उपा॑सताम् ॥ इन्द्र॒-स्सूरो॑ अतर॒-द्रजाग्ं॑सि । स्नु॒षा स॒पत्ना॒-श्श्वशु॑रो॒-ऽयम॑स्तु । अ॒यग्ं शत्रू᳚ञ्जयतु॒ जर्​हृ॑षाणः । अ॒यं-वाँज॑-ञ्जयतु॒ वाज॑सातौ ॥ अ॒ग्निः, क्ष॑त्र॒भृदनि॑भृष्ट॒मोजः॑ । स॒ह॒स्रियो॑ दीप्यता॒-मप्र॑युच्छन्न् । वि॒भ्राज॑मान-स्समिधा॒न उ॒ग्रः । आ-ऽन्तरि॑क्षमरुह॒द-ग॒न्द्याम् ॥ 62 ॥
(धा॒रय॑न् - पुरो॒डाशं॒ - बृह॒स्पतिं॑ - ज॒घन॑च्युति - मान॒न्दो - भग॑स्य तृप्या - ण्य॒ग्नेः - पृ॑थि॒वी - यज्व॑न - एतु - प्र॒दिश॒श्चत॑स्रो॒ - वाज॑सातौ च॒त्वारि॑ च) (अ. 6)

अनुवाकं 7 - उपहोमाः
वृषा᳚ ऽस्य॒ग्ं॒शु-र्वृ॑ष॒भाय॑ गृह्यसे । वृषा॒-ऽयमु॒ग्रो नृ॒चक्ष॑से । दि॒व्यः क॑र्म॒ण्यो॑ हि॒तो बृ॒हन्नाम॑ । वृ॒ष॒भस्य॒ या क॒कुत् ॥ वि॒षू॒वान्. वि॑ष्णो भवतु । अ॒यं-योँ मा॑म॒को वृषा᳚ । अथो॒ इन्द्र॑ इव दे॒वेभ्यः॑ । विब्र॑वीतु॒ जने᳚भ्यः ॥ आयु॑ष्मन्तं॒-वँर्च॑स्वन्तम् । अथो॒ अधि॑पतिं-विँ॒शाम् ॥ 63 ॥

अ॒स्याः पृ॑थि॒व्या अद्ध्य॑क्षम् । इ॒ममि॑न्द्र वृष॒भ-ङ्कृ॑णु ॥ य-स्सु॒शृङ्ग॑-स्सुवृष॒भः । क॒ल्याणो॒ द्रोण॒ आहि॑तः । कार्​षी॑वलप्रगाणेन । वृ॒ष॒भेण॑ यजामहे ॥ वृ॒ष॒भेण॒ यज॑मानाः । अक्रू॑रेणेव स॒र्पिषा᳚ । मृध॑श्च॒ सर्वा॒ इन्द्रे॑ण । पृत॑नाश्च जयामसि ॥ 64 ॥

यस्या॒यमृ॑ष॒भो ह॒विः । इन्द्रा॑य परिणी॒यते᳚ । जया॑ति॒ शत्रु॑मा॒यन्त᳚म् । अथो॑ हन्ति पृतन्य॒तः ॥ नृ॒णामह॑ प्र॒णीरस॑त् । अग्र॑ उद्भिन्द॒ताम॑सत् ॥ इन्द्र॒ शुष्म॑-न्त॒नुवा॒ मेर॑यस्व । नी॒चा विश्वा॑ अ॒भिति॑ष्ठा॒भिमा॑तीः । नि शृ॑णीह्याबा॒धं-योँ नो॒ अस्ति॑ । उ॒रु-न्नो॑ लो॒क-ङ्कृ॑णुहि जीरदानो ॥ 65 ॥

प्रेह्य॒भिप्रेहि॒ प्रभ॑रा॒ सह॑स्व । मा विवे॑नो॒ वि शृ॑णुष्वा॒ जने॑षु । उदी॑डि॒तो वृ॑षभ॒ तिष्ठ॒ शुष्मैः᳚ । इन्द्र॒ शत्रू᳚-न्पु॒रो अ॒स्माक॑ युद्ध्य ॥ अग्ने॒ जेता॒ त्व-ञ्ज॑य । शत्रू᳚न्-थ्सहस॒ ओज॑सा । वि शत्रू॒न्॒. विमृधो॑ नुद ॥ ए॒त-न्ते॒ स्तोम॑-न्तुविजात॒ विप्रः॑ । रथ॒-न्न धीर॒-स्स्वपा॑ अतक्षम् । यदीद॑ग्ने॒ प्रति॒ त्व-न्दे॑व॒ हर्याः᳚ ॥ 66 ॥

सुव॑र्वतीर॒प ए॑ना जयेम ॥ यो घृ॒तेना॒भिमा॑नितः । इन्द्र॒ जैत्रा॑य जज्ञिषे । स न॒-स्सङ्का॑सु पारय । पृ॒त॒ना॒साह्ये॑षु च ॥ इन्द्रो॑ जिगाय पृथि॒वीम् । अ॒न्तरि॑क्ष॒ग्ं॒ सुव॑र्म॒हत् । वृ॒त्र॒हा पु॑रु॒चेत॑नः ॥ इन्द्रो॑ जिगाय॒ सह॑सा॒ सहाग्ं॑सि । इन्द्रो॑ जिगाय॒ पृत॑नानि॒ विश्वा᳚ ॥ 67 ॥

इन्द्रो॑ जा॒तो वि पुरो॑ रुरोज । स नः॑ पर॒स्पा वरि॑वः कृणोतु ॥ अ॒य-ङ्कृ॒त्नुरगृ॑भीतः । वि॒श्व॒जि-दु॒द्भिदि-थ्सोमः॑ । ऋषि॒-र्विप्रः॒ काव्ये॑न ॥ वा॒युर॑ग्रे॒गा य॑ज्ञ॒प्रीः । सा॒क-ङ्ग॒न्मन॑सा य॒ज्ञम् । शि॒वो नि॒युद्भि॑-श्शि॒वाभिः॑ ॥ वायो॑ शु॒क्रो अ॑यामि ते । मद्ध्वो॒ अग्र॒-न्दिवि॑ष्टिषु ॥ 68 ॥

आया॑ हि॒ सोम॑पीतये । स्वा॒रु॒हो दे॑व नि॒युत्व॑ता ॥ इ॒ममि॑न्द्र वर्धय क्ष॒त्रिया॑णाम् । अ॒यं-विँ॒शां-विँ॒श्पति॑रस्तु॒ राजा᳚ । अ॒स्मा इ॑न्द्र॒ महि॒ वर्चाग्ं॑सि धेहि । अ॒व॒र्चस॑-ङ्कृणुहि॒ शत्रु॑मस्य ॥ इ॒ममाभ॑ज॒ ग्रामे॒ अश्वे॑षु॒ गोषु॑ । निर॒मु-म्भ॑ज॒ यो॑-ऽमित्रो॑ अस्य । वर्​ष्म॑न् क्ष॒त्रस्य॑ क॒कुभि॑ श्रयस्व । ततो॑ न उ॒ग्रो विभ॑जा॒ वसू॑नि ॥ 69 ॥

अ॒स्मे द्या॑वापृथिवी॒ भूरि॑ वा॒मम् । स-न्दु॑हाथा-ङ्घर्म॒दुघे॑व धे॒नुः । अ॒यग्ं राजा᳚ प्रि॒य इन्द्र॑स्य भूयात् । प्रि॒यो गवा॒मोष॑धीना-मु॒तापाम् ॥ यु॒नज्मि॑ त उत्त॒राव॑न्त॒-मिन्द्र᳚म् । येन॒ जया॑सि॒ न परा॒जया॑सै । स त्वा॑ ऽकरेकवृष॒भग्ग्​ स्वाना᳚म् । अथो॑ राजन्नुत्त॒म-म्मा॑न॒वाना᳚म् ॥ उत्त॑र॒स्त्वमध॑रे ते स॒पत्नाः᳚ । एक॑वृषा॒ इन्द्र॑सखा जिगी॒वान् ॥ 70 ॥

विश्वा॒ आशाः॒ पृत॑ना-स्स॒जं​यँ॒ञ्जयन्न्॑ । अ॒भिति॑ष्ठ शत्रूय॒त-स्स॑हस्व ॥ तुभ्य॑-म्भरन्ति क्षि॒तयो॑ यविष्ठ । ब॒लिम॑ग्ने॒ अन्ति॑ त॒ ओत दू॒रात् । आ भन्दि॑ष्ठस्य सुम॒ति-ञ्चि॑किद्धि । बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् ॥ यो दे॒ह्यो अन॑मयद्वध॒स्नैः । यो अर्य॑पत्नी-रु॒षस॑श्च॒कार॑ । स नि॒रुद्ध्या॒ नहु॑षो य॒ह्वो अ॒ग्निः । विश॑श्चक्रे बलि॒हृत॒-स्सहो॑भिः ॥ 71 ॥

प्र स॒द्यो अ॑ग्ने॒ अत्य᳚ष्य॒न्यान् । आ॒विर्यस्मै॒ चारु॑तरो ब॒भूथ॑ । ई॒डेन्यो॑ वपु॒ष्यो॑ वि॒भावा᳚ । प्रि॒यो वि॒शामति॑थि॒-र्मानु॑षीणाम् ॥ ब्रह्म॑ ज्येष्ठा वी॒र्या॑ सम्भृ॑तानि । ब्रह्माग्रे॒ ज्येष्ठ॒-न्दिव॒मात॑तान । ऋ॒तस्य॒ ब्रह्म॑ प्रथ॒मोत ज॑ज्ञे । तेना॑र्​हति॒ ब्रह्म॑णा॒ स्पर्धि॑तु॒-ङ्कः ॥ ब्रह्म॒ स्रुचो॑ घृ॒तव॑तीः । ब्रह्म॑णा॒ स्वर॑वो मि॒ताः ॥ 72 ॥

ब्रह्म॑ य॒ज्ञस्य॒ तन्त॑वः । ऋ॒त्विजो॒ ये ह॑वि॒ष्कृतः॑ ॥ शृङ्गा॑णी॒वेच्छृ॒ङ्गिणा॒ग्ं॒ सन्द॑दृश्रिरे । च॒षाल॑वन्त॒-स्स्वर॑वः पृथि॒व्याम् । ते दे॒वास॒-स्स्वर॑वस्तस्थि॒वाग्ंसः॑ । नम॒-स्सखि॑भ्य-स्स॒न्नान्मा ऽव॑गात ॥ अ॒भि॒भूर॒ग्निर॑तर॒-द्रजाग्ं॑सि । स्पृधो॑ वि॒हत्य॒ पृत॑ना अभि॒श्रीः । जु॒षा॒णो म॒ आहु॑ति-म्मा महिष्ट । ह॒त्वा स॒पत्ना॒न्॒. वरि॑वस्करन्नः ॥ ईशा॑न-न्त्वा॒ भुव॑नाना-मभि॒श्रिय᳚म् । स्तौम्य॑ग्न उरु॒कृतग्ं॑ सु॒वीर᳚म् । ह॒वि-र्जु॑षा॒ण-स्स॒पत्नाग्ं॑ अभि॒भूर॑सि । ज॒हि शत्रू॒ग्ं॒रप॒ मृधो॑ नुदस्व ॥ 73 ॥
(वि॒शां - ज॑यामसि - जीरदानो॒ - हर्या॒ - विश्वा॒ - दिवि॑ष्टिषु॒ - वसू॑नि - जिगी॒वान्थ् - सहो॑भि--र् मि॒ता - न॑ श्च॒त्वारि॑ च) (अ. 7)

अनुवाकं 8 - उपहोमाः
स प्र॑त्न॒वन्नवी॑यसा । अग्ने᳚ द्यु॒म्नेन॑ सं॒​यँता᳚ । बृ॒ह-त्ततन्थ भा॒नुना᳚ ॥ नव॒-न्नु स्तोम॑म॒ग्नये᳚ । दि॒व-श्श्ये॒नाय॑ जीजनम् । वसोः᳚ कु॒विद्व॒नाति॑ नः ॥ स्वा॒रु॒हा यस्य॒ श्रियो॑ दृ॒शे । र॒यिर्वी॒रव॑तो यथा । अग्रे॑ य॒ज्ञस्य॒ चेत॑तः ॥ अदा᳚भ्यः पुर ए॒ता ॥ 74 ॥

अ॒ग्निर्वि॒शा-म्मानु॑षीणाम् । तूर्णी॒ रथ॒-स्सदा॒ नवः॑ ॥ नव॒ग्ं॒ सोमा॑य वा॒जिने᳚ । आज्य॒-म्पय॑सो-ऽजनि । जुष्ट॒ग्ं॒ शुचि॑तमं॒-वँसु॑ ॥ नवग्ं॑ सोम जुषस्व नः । पी॒यूष॑स्ये॒ह तृ॑प्णुहि । यस्ते॑ भा॒ग ऋ॒ताव॒यम् ॥ नव॑स्य सोम ते व॒यम् । आ सु॑म॒तिं-वृँ॑णीमहे ॥ 75 ॥

स नो॑ रास्व सह॒स्रिणः॑ ॥ नवग्ं॑ ह॒विर्जु॑षस्व नः । ऋ॒तुभि॑-स्सोम॒ भूत॑मम् । तद॒ङ्ग प्रति॑हर्य नः । राजन᳚-थ्सोम स्व॒स्तये᳚ ॥ नव॒ग्ग्॒ स्तोम॒-न्नवग्ं॑ ह॒विः । इ॒न्द्रा॒ग्निभ्या॒-न्निवे॑दय । तज्जु॑षेता॒ग्ं॒ सचे॑तसा ॥ शुचि॒-न्नु स्तोम॒-न्नव॑जातम॒द्य । इन्द्रा᳚ग्नी वृत्रहणा जु॒षेथा᳚म् ॥ 76 ॥

उ॒भा हि वाग्ं॑ सु॒हवा॒ जोह॑वीमि । ता वाजग्ं॑ स॒द्य उ॑श॒ते धेष्ठा᳚ ॥ अ॒ग्निरिन्द्रो॒ नव॑स्य नः । अ॒स्य ह॒व्यस्य॑ तृप्यताम् । इ॒ह दे॒वौ स॑ह॒स्रिणौ᳚ ॥ य॒ज्ञ-न्न॒ आ हि गच्छ॑ताम् । वसु॑मन्तग्ं सुव॒र्विद᳚म् । अ॒स्य ह॒व्यस्य॑ तृप्यताम् । अ॒ग्निरिन्द्रो॒ नव॑स्य नः ॥ विश्वा᳚-न्दे॒वाग्​ स्त॑र्पयत ॥ 77 ॥

ह॒विषो॒-ऽस्य नव॑स्य नः । सु॒व॒र्विदो॒ हि ज॑ज्ञि॒रे ॥ एद-म्ब॒र्॒हि-स्सु॒ष्टरी॑मा॒ नवे॑न । अ॒यं-यँ॒ज्ञो यज॑मानस्य भा॒गः । अ॒य-म्ब॑भूव॒ भुव॑नस्य॒ गर्भः॑ । विश्वे॑ दे॒वा इ॒दम॒द्याग॑मिष्ठाः ॥ इ॒मे नु द्यावा॑पृथि॒वी स॒मीची᳚ । त॒न्वा॒ने य॒ज्ञ-म्पु॑रु॒पेश॑स-न्धि॒या । आ-ऽस्मै॑ पृणीता॒-म्भुव॑नानि॒ विश्वा᳚ । प्र॒जा-म्पुष्टि॑म॒मृत॒-न्नवे॑न ॥ 78 ॥

इ॒मे धे॒नू अ॒मृतं॒-येँ दु॒हाते᳚ । पय॑स्व-त्युत्त॒रामे॑तु॒ पुष्टिः॑ । इ॒मं-यँ॒ज्ञ-ञ्जु॒षमा॑णे॒ नवे॑न । स॒मीची॒ द्यावा॑पृथि॒वी घृ॒ताची᳚ ॥ यवि॑ष्ठो हव्य॒वाह॑नः । चि॒त्रभा॑नु-र्घृ॒तासु॑तिः । नव॑जातो॒ विरो॑चसे । अग्ने॒ तत्ते॑ महित्व॒नम् ॥ त्वम॑ग्ने दे॒वता᳚भ्यः । भा॒गे दे॑व॒ न मी॑यसे ॥ 79 ॥

स ए॑ना वि॒द्वान्. य॑क्ष्यसि । नव॒ग्ग्॒ स्तोम॑-ञ्जुषस्व नः ॥ अ॒ग्निः प्र॑थ॒मः प्राश्ञा॑तु । स हि वेद॒ यथा॑ ह॒विः । शि॒वा अ॒स्मभ्य॒-मोष॑धीः । कृ॒णोतु॑ वि॒श्वच॑र्​षणिः ॥ भ॒द्रान्न॒-श्श्रेय॒-स्सम॑नैष्ट देवाः । त्वया॑-ऽव॒सेन॒ सम॑शीमहि त्वा । स नो॑ मयो॒भूः पि॑तो॒ आवि॑शस्व । श-न्तो॒काय॑ त॒नुवे᳚ स्यो॒नः ॥ ए॒तमु॒ त्य-म्मधु॑ना॒ सं​युँ॑तं॒-यँव᳚म् । सर॑स्वत्या॒ अधि॑म॒नाव॑चर्कृषुः । इन्द्र॑ आसी॒-थ्सीर॑पति-श्श॒तक्र॑तुः । की॒नाशा॑ आस-न्म॒रुत॑-स्सु॒दान॑वः ॥ 80 ॥
(पु॒र॒ ए॒ता - वृ॑णीमहे - जु॒षेथा᳚न्-तर्पय-ता॒मृत॒-न्नवे॑न-मीयसे-स्यो॒न श्च॒त्वारि॑ च) (अ. 8)

(जुष्ट॒ - श्चक्षु॑षो॒ - जुष्टी॑ नरो - नक्त-ञ्जा॒ता - वृषा॒ स - उ॒त नो॒ - वृषा᳚-ऽस्य॒ग्ं॒शुः - स प्र॑त्न॒वद॒ष्टौ)

(जुष्टो॑ - म॒न्यु-र्भगो॒ - जुष्टी॑ नरो॒ - हरि॑वर्पस॒-ङ्गिरः॒ - शिप्रि॑न् वाजाना - मु॒त नो॒ - य-द्वाग्वद॑न्ती॒ - विश्वा॒ आशा॒ अशी॑तिः )

(जुष्टः॑ - सु॒दान॑वः )

॥ हरिः॑ ओम् ।

॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके चतुर्थः प्रपाठक-स्समाप्तः ॥




Browse Related Categories: