View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

3.12 - वैश्वसृजचयनम् - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण काठ प्रश्नः पाठः - तुभ्यं ता

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे काठके तृतीयः प्रश्नः - वैश्वसृजचयनम्

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

चातुर्​होत्रचयनं-वैँश्वसृजचयन-ञ्च
अनुवाकं 1 - वैश्वसृजचयनाङ्गभूताः दिवश्श्येनय इष्टयः
तुभ्य॒-न्ता अ॑ङ्गिरस्तम॒ विश्वा᳚-स्सुक्षि॒तयः॒ पृथ॑क् । अग्ने॒ कामा॑य येमिरे ॥ अ॒श्याम॒ त-ङ्काम॑मग्ने॒ तवो॒ त्य॑श्याम॑ र॒यिग्ं र॑यिव-स्सु॒वीर᳚म् । अ॒श्याम॒ वाज॑म॒भि वा॒जय॑न्तो॒ ऽश्याम॑ द्यु॒म्नम॑जरा॒जर॑-न्ते ॥ ।
आशा॑ना-न्त्वा ऽऽशापा॒लेभ्यः॑ । च॒तुर्भ्यो॑ अ॒मृते᳚भ्यः । इ॒द-म्भू॒तस्याध्य॑क्षेभ्यः । वि॒धेम॑ ह॒विषा॑ व॒यम् ॥ विश्वा॒ आशा॒ मधु॑ना॒ सग्ंसृ॑जामि । अ॒न॒मी॒वा आप॒ ओष॑धयो भवन्तु । अ॒यं-यँज॑मानो॒ मृधो॒ व्य॑स्यतां अगृ॑भीताः प॒शव॑-स्सन्तु॒ सर्वे᳚ ॥ ।
अनु॑ नो॒-ऽद्या-ऽनु॑मतिर्य॒ज्ञ-न्दे॒वेषु॑ मन्यताम् । अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑ता-न्दा॒शुषे॒ मयः॑ ॥ अन्विद॑नुमते॒ त्व-म्मन्या॑सै॒ शञ्च॑नः कृधि । क्रत्वे॒ दक्षा॑य नो हिनु॒ प्रण॒ आयूग्ं॑षि तारिषः ॥ ।
कामो॑ भू॒तस्य॒ भव्य॑स्य । स॒म्राडेको॒ विरा॑जति । स इ॒द-म्प्रति॑ पप्रथे । ऋ॒तूनु-थ्सृ॑जते व॒शी ॥ काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॑ । मन॑सो॒ रेतः॑ प्रथ॒मं-यँदासी᳚त् । स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्न् । हृ॒दि प्र॒तीष्या॑ क॒वयो॑ मनी॒षा ॥ ।
ब्रह्म॑ जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता॒द्वि सी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः । स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठा-स्स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑ ॥ पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् । अ॒न्तरि॑क्षं-विँ॒श्वरू॑प॒ आवि॑वेश । तम॒र्कै-र॒भ्य॑र्चन्ति व॒थ्सम् । ब्रह्म॒ सन्त॒-म्ब्रह्म॑णा व॒र्धय॑न्तः ॥ ।
य॒ज्ञो रा॒यो य॒ज्ञ ई॑शे॒ वसू॑नाम् । य॒ज्ञ-स्स॒स्याना॑मु॒त सु॑क्षिती॒नाम् । य॒ज्ञ इ॒ष्टः पू॒र्वचि॑त्ति-न्दधातु । य॒ज्ञो ब्र॑ह्म॒ण्वाग्ं अप्ये॑तु दे॒वान् ॥ अ॒यं-यँ॒ज्ञो व॑र्धता॒-ङ्गोभि॒रश्वैः᳚ । इ॒यं-वेँदि॑-स्स्वप॒त्या सु॒वीरा᳚ । इ॒द-म्ब॒र्॒हिरति॑ ब॒र्॒हीग्​ष्य॒न्या । इ॒मं-यँ॒ज्ञं-विँश्वे॑ अवन्तु दे॒वाः ॥ । आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नी-षोमौ॑ बिभ्र॒त्याप॒ इ-त्ताः । ती॒व्रो रसो॑ मधु॒पृचा॑ मरङ्ग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ॥ आदि-त्प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वान्न॑ आसाम् । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्​हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं-यँ॒दा वः॑ ॥ ।
तुभ्य॑-म्भरन्ति क्षि॒तयो॑ यविष्ठ । ब॒लिम॑ग्ने॒ अन्ति॑ त॒ ओत दू॒रात् । आ भन्दि॑ष्ठस्य सुम॒ति-ञ्चि॑किद्धि । बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् ॥ यो दे॒ह्यो अन॑मयद्वध॒स्नैः । यो अर्य॑पत्नी-रु॒षस॑श्च॒कार॑ । स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निः । विश॑श्चक्रे बलि॒हृत॒-स्सहो॑भिः ॥ ।
पूर्व॑-न्देवा॒ अप॑रेणा-नु॒पश्य॒ञ्जन्म॑भिः । जन्मा॒न्यव॑रैः॒ परा॑णि । वेदा॑नि देवा अ॒यम॒स्मीति॒ माम् । अ॒हग्ं हि॒त्वा शरी॑र-ञ्ज॒रसः॑ प॒रस्ता᳚त् ॥ प्रा॒णा॒पा॒नौ चक्षु॒-श्श्रोत्र᳚म् । वाच॒-म्मन॑सि॒ सम्भृ॑ताम् । हि॒त्वा शरी॑र-ञ्ज॒रसः॑ प॒रस्ता᳚त् । आ भूति॒-म्भूतिं॑-वँ॒यम॑श्नवामहै ॥ ।
ह॒व्य॒वाह॑-मभिमाति॒षा-ऽह᳚म् । र॒क्षो॒हण॒-म्पृत॑नासु जि॒ष्णुम् । ज्योति॑ष्मन्त॒-न्दीद्य॑त॒-म्पुर॑न्धिम् । अ॒ग्निग्ग्​ स्वि॑ष्ट॒कृत॒मा हु॑वेम ॥ स्वि॑ष्टमग्ने अ॒भि त-त्पृ॑णाहि । विश्वा॑ देव॒ पृत॑ना अ॒भिष्य । उ॒रु-न्नः॒ पन्था᳚-म्प्रदि॒शन्वि भा॑हि । ज्योति॑ष्मद्धेह्य॒जर॑-न्न॒ आयुः॑ ॥ ॥ 1 ॥
तुभ्य॒-न्दश॑ (अ. 1)

अनुवाकं 2 - तासा-म्ब्राह्मणम्
दे॒वेभ्यो॒ वै स्व॒र्गो लो॒कस्ति॒रो॑-ऽभवत् ।
ते प्र॒जाप॑ति-मब्रुवन्न् ।
प्रजा॑पते स्व॒र्गो वै नो॑ लो॒कस्ति॒रो॑-ऽभूत् । तमन्वि॒च्छेति॑ । तं-यँ॑ज्ञक्र॒तुभि॒-रन्वै᳚च्छत् । तं-यँ॑ज्ञक्र॒तुभि॒-र्नान्व॑विन्दत् ।
तमिष्टि॑भि॒-रन्वै᳚च्छत् । तमिष्टि॑भि॒-रन्व॑विन्दत् ।
तदिष्टी॑ना-मिष्टि॒त्वम् । एष्ट॑यो ह॒वै नाम॑ ।
ता इष्ट॑य॒ इत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑ प्रिया इव॒ हि दे॒वाः ॥ 2 ॥

तमाशा᳚-ऽब्रवीत् । प्रजा॑पत आ॒शया॒ वै श्रा᳚म्यसि ।
अ॒हमु॒ वा आशा᳚-ऽस्मि । मा-न्नु य॑जस्व ।
अथ॑ ते स॒त्या-ऽऽशा॑ भविष्यति । अनु॑ स्व॒र्गं-लोँ॒कं-वेँ॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर॑वपत् ।
आ॒शायै॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्या-ऽऽशा॑ ऽभवत् । अनु॑ स्व॒र्गं-लोँ॒क-म॑विन्दत् । स॒त्या ह॒ वा अ॒स्याशा॑ भवति ।
अनु॑ स्व॒र्गं-लोँ॒कं-विँ॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं-वेँद॑ ॥ सो-ऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒-ऽऽशायै॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।
स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒-ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 3 ॥

त-ङ्कामो᳚-ऽब्रवीत् । प्रजा॑पते॒ कामे॑न॒ वै श्रा᳚म्यसि । अ॒हमु॒वै कामो᳚-ऽस्मि । मा-न्नु य॑जस्व । अथ॑ ते स॒त्यः कामो॑ भविष्यति । अनु॑ स्व॒र्गं-लोँ॒कं-वेँ॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर॑वपत् । कामा॑य च॒रुम् । अनु॑मत्यै च॒रुम् ।
ततो॒ वै तस्य॑ स॒त्यः कामो॑-ऽभवत् ।
अनु॑ स्व॒र्गं-लोँ॒कम॑विन्दत् ।
स॒त्यो ह॒ वा अ॑स्य॒ कामो॑ भवति ।
अनु॑ स्व॒र्गं-लोँ॒कं-विँ॑न्दति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ कामा॑य॒ स्वाहा᳚ ।
अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।
स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒-ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 4 ॥

त-म्ब्रह्मा᳚-ऽब्रवीत् । प्रजा॑पते॒ ब्रह्म॑णा॒ वैश्रा᳚म्यसि । अ॒हमु॒ वै ब्रह्मा᳚-ऽस्मि ।
मा-न्नु य॑जस्व । अथ॑ ते ब्रह्म॒ण्वान्. य॒ज्ञो भ॑विष्यति । अनु॑ स्व॒र्गं-लोँ॒कं-वेँ॒थ्स्यसीति॑ । स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर॑वपत् । ब्रह्म॑णे च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ ब्रह्म॒ण्वान्. य॒ज्ञो॑-ऽभवत् । अनु॑ स्व॒र्गं-लोँ॒कम॑विन्दत् । ब्र॒ह्म॒ण्वान्. ह॒ वा अ॑स्य य॒ज्ञो भ॑वति ।
अनु॑ स्व॒र्गं-लोँ॒कं-विँ॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति । अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ ब्रह्म॑णे॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ । स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 5 ॥

तं-यँ॒ज्ञो᳚-ऽब्रवीत् । प्रजा॑पते य॒ज्ञेन॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै य॒ज्ञो᳚-ऽस्मि ।
मा-न्नु य॑जस्व । अथ॑ ते स॒त्यो य॒ज्ञो भ॑वष्यति । अनु॑ स्व॒र्गं-लोँ॒कं-वेँ॒थ्स्यसीति॑ ।
स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर॑वपत् । य॒ज्ञाय॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्यो य॒ज्ञो॑-ऽभवत् । अनु॑ स्व॒र्गं-लोँ॒कम॑विन्दत् । स॒त्यो ह॒ वा अ॑स्य य॒ज्ञो भ॑वति ।
अनु॑ स्व॒र्गं-लोँ॒कं-विँ॑न्दति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
अ॒ग्नये॒ कामा॑य॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा᳚ ।
अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।
स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒-ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 6 ॥

तमापो᳚-ऽब्रुवन्न् । प्रजा॑पते॒-ऽफ्सु वै सर्वे॒ कामा᳚-श्श्रि॒ताः । व॒यमु॒ वा आप॑स्स्मः । अ॒स्मान्नु य॑जस्व । अथ॒ त्वयि॒ सर्वे॒ कामा᳚-श्श्रयिष्यन्ते । अनु॑ स्व॒र्गं-लोँ॒कं-वेँ॒थ्स्यसीति॑ ।
स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर॑वपत् । अ॒द्भ्यश्च॒रुम् ।
अनु॑मत्यै च॒रुम् । ततो॒ वै तस्मि॒न्-थ्सर्वे॒ कामा॑ अश्रयन्त । अनु॑ स्व॒र्गं-लोँ॒कम॑विन्दत् । सर्वे॑ ह॒ वा अ॑स्मि॒न् कामा᳚-श्श्रयन्ते । अनु॑ स्व॒र्गं-लोँ॒कं-विँ॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ ऽद्भ्य-स्स्वाहा᳚ ।
अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।
स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒-ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 7 ॥
तम॒ग्नि र्ब॑लि॒मान॑ब्रवीत् ।
प्रजा॑पते॒ ऽग्नये॒ वै ब॑लि॒मते॒ सर्वा॑णि भू॒तानि॑ ब॒लिग्ं ह॑रन्ति । अ॒हमु॒ वा अ॒ग्नि र्ब॑लि॒मान॑स्मि । मा-न्नु य॑जस्व ।
अथ॑ ते॒ सर्वा॑णि भू॒तानि॑ ब॒लिग्ं ह॑रिष्यन्ति ।
अनु॑ स्व॒र्गं-लोँ॒कं-वेँ॒थ्स्यसीति॑ ।
स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर॑वपत् । अ॒ग्नये॑ बलि॒मते॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्मै॒ सर्वा॑णि भू॒तानि॑ ब॒लि-म॑हरन्न् । अनु॑ स्व॒र्गं-लोँ॒कम॑विन्दत् । सर्वा॑णि ह॒ वा अ॑स्मै भू॒तानि॑ ब॒लिग्ं ह॑रन्ति । अनु॑ स्व॒र्गं-लोँ॒कं-विँ॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
अ॒ग्नये॒ कामा॑य॒ स्वाहा॒ ऽग्नये॑ बलि॒मते॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।
स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒-ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 8 ॥

तमनु॑वित्तिर-ब्रवीत् । प्रजा॑पते स्व॒र्गं-वैँ लो॒कमनु॑-विविथ्ससि । अ॒हमु॒ वा अनु॑वित्तिरस्मि । मा-न्नु य॑जस्व । अथ॑ ते स॒त्या ऽनु॑वित्ति-र्भविष्यति । अनु॑ स्व॒र्गं-लोँ॒कं-वेँ॒थ्स्यसीति॑ ।
स ए॒तम॒ग्नये॒ कामा॑य पुरो॒डाश॑-म॒ष्टाक॑पाल॒-न्निर॑वपत् ।
अनु॑वित्त्यै च॒रुम् । अनु॑मत्यै च॒रुम् ।
ततो॒ वै तस्य॑ स॒त्या ऽनु॑वित्तिरभवत् ।
अनु॑ स्व॒र्गं-लोँ॒क-म॑विन्दत् ।
स॒त्या ह॒ वा अ॒स्यानु॑वित्ति-र्भवति ।
अनु॑ स्व॒र्गं-लोँ॒कं-विँ॑न्दति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
अ॒ग्नये॒ कामा॑य॒ स्वाहा-ऽनु॑वित्त्यै॒ स्वाहा᳚ ।
अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।
स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒-ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 9 ॥

ता वा ए॒ता-स्स॒प्त स्व॒र्गस्य॑ लो॒कस्य॒ द्वारः॑ ।
दि॒व-श्श्ये॑न॒यो ऽनु॑वित्तयो॒ नाम॑ ।
आशा᳚ प्रथ॒माग्ं र॑क्षति ।
कामो᳚ द्वि॒तीया᳚म् । ब्रह्म॑ तृ॒तीया᳚म् । य॒ज्ञश्च॑तु॒र्थीम् । आपः॑ पञ्च॒मीम् ।
अ॒ग्नि र्ब॑लि॒मान्-थ्ष॒ष्ठीम् । अनु॑वित्ति-स्सप्त॒मीम् ।
अनु॑ ह॒ वै स्व॒र्गं-लोँ॒कं-विँ॑न्दति ।
का॒म॒चारो᳚-ऽस्य स्व॒र्गे लो॒के भ॑वति ।
य ए॒ताभि॒-रिष्टि॑भि॒-र्यज॑ते ।
य उ॑चैना ए॒वं-वेँद॑ । तास्व॑न्वि॒ष्टि । प॒ष्ठौ॒ही॒ व॒रा-न्द॑द्या-त्क॒ग्ं॒ सञ्च॑ ।
स्त्रियै॑ चाभा॒रग्ं समृ॑द्ध्यै ॥ 10 ॥

अनुवाकं 3 - उपाघा नामेष्टयः
तप॑सा दे॒वा दे॒वता॒-मग्र॑ आयन्न् । तप॒सर्​ष॑य॒-स्स्व॑रन्व॑विन्दन्न् ।
तप॑सा स॒पत्ना॒-न्प्रणु॑दा॒मारा॑तीः ।
येने॒दं-विँश्व॒-म्परि॑भूतं॒-यँदस्ति॑ ॥
प्र॒थ॒म॒ज-न्दे॒वग्ं ह॒विषा॑ विधेम । स्व॒य॒भु-म्ब्रह्म॑ पर॒म-न्तपो॒ यत् ।
स ए॒व पु॒त्र-स्स पि॒ता स मा॒ता ।
तपो॑ ह य॒क्ष-म्प्र॑थ॒मग्ं सम्ब॑भूव ॥
श्र॒द्धया दे॑वो देव॒त्व-म॑श्नुते ।
श्र॒द्धा प्र॑ति॒ष्ठा लो॒कस्य॑ दे॒वी ॥ 11 ॥

सा नो॑ जुषा॒णोप॑ य॒ज्ञ-मागा᳚त् ।
काम॑वथ्सा॒ ऽमृत॒-न्दुहा॑ना ॥
श्र॒द्धा दे॒वी प्र॑थम॒जा ऋ॒तस्य॑ ।
विश्व॑स्य भ॒र्त्री जग॑तः प्रति॒ष्ठा ।
ताग्​ श्र॒द्धाग्ं ह॒विषा॑ यजामहे ।
सा नो॑ लो॒क-म॒मृत॑-न्दधातु ।
ईशा॑ना दे॒वी भुव॑न॒स्याधि॑पत्नी ॥ आगा᳚थ्स॒त्यग्ं ह॒विरि॒द-ञ्जु॑षा॒णम् ।
यस्मा᳚द्दे॒वा ज॑ज्ञिरे॒ भुव॑नञ्च॒ विश्वे᳚ ।
तस्मै॑ विधेम ह॒विषा॑ घृ॒तेन॑ ॥ 12 ॥

यथा॑ दे॒वै-स्स॑ध॒माद॑-म्मदेम ॥
यस्य॑ प्रति॒ष्ठो-र्व॑न्तरि॑क्षम् ।
यस्मा᳚द्दे॒वा ज॑ज्ञिरे॒ भुव॑नञ्च॒ सर्वे᳚ ।
तथ्स॒त्य-मर्च॒दुप॑य॒ज्ञ-न्न॒ आगा᳚त् । ब्रह्माहु॑ती॒-रुप॒मोद॑मानम् ॥
मन॑सो॒ वशे॒ सर्व॑मि॒द-म्ब॑भूव ।
नान्यस्य॒ मनो॒ वश॒मन्वि॑याय ।
भी॒ष्मो हि दे॒व-स्सह॑स॒-स्सही॑यान् ।
स नो॑ जुषा॒ण उप॑ य॒ज्ञमागा᳚त् ॥
आकू॑तीना॒-मधि॑पति॒-ञ्चेत॑सा-ञ्च ॥ 13 ॥

स॒ङ्क॒ल्पजू॑ति-न्दे॒वं-विँ॑प॒श्चिम् ।
मनो॒ राजा॑नमि॒ह व॒र्धय॑न्तः ।
उ॒प॒ह॒वे᳚ ऽस्य सुम॒तौ स्या॑म ॥
चर॑ण-म्प॒वित्रं॒-विँत॑त-म्पुरा॒णम् ।
येन॑ पू॒तस्तर॑ति दुष्कृ॒तानि॑ ।
तेन॑ प॒वित्रे॑ण शु॒द्धेन॑ पू॒ताः ।
अति॑ पा॒प्मान॒-मरा॑ति-न्तरेम ॥
लो॒कस्य॒ द्वार॑-मर्चि॒म-त्प॒वित्र᳚म् ।
ज्योति॑ष्म॒-द्भ्राज॑मान॒-म्मह॑स्वत् । अ॒मृत॑स्य॒ धारा॑ बहु॒धा दोह॑मानम् ।
चर॑ण-न्नो लो॒के सुधि॑ता-न्दधातु ॥
अ॒ग्निर्मू॒र्धा दि॒वः क॒कु-त्पतिः॑ पृथि॒व्या अ॒यम् । अ॒पाग्ं रेताग्ं॑सि जिन्वति ॥ भुवो॑ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा॑ नि॒युद्भि॒-स्सच॑से शि॒वाभिः॑ । दि॒वि मू॒र्धान॑-न्दधिषे सुव॒र्॒षा-ञ्जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह᳚म् ॥ ॥
अनु॑ नो॒-ऽद्या-ऽनु॑मतिर्य॒ज्ञ-न्दे॒वेषु॑ मन्यताम् । अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑ता-न्दा॒शुषे॒ मयः॑ ॥ अन्विद॑नुमते॒ त्व-म्मन्या॑सै॒ शञ्च॑नः कृधि । क्रत्वे॒ दक्षा॑य नो हिनु॒ प्रण॒ आयूग्ं॑षि तारिषः ॥ ॥
ह॒व्य॒वाह॑-मभिमाति॒षा-ऽह᳚म् । र॒क्षो॒हण॒-म्पृत॑नासु जि॒ष्णुम् । ज्योति॑ष्मन्त॒-न्दीद्य॑त॒-म्पुर॑न्धिम् । अ॒ग्निग्ग्​ स्वि॑ष्ट॒कृत॒मा हु॑वेम ॥ स्वि॑ष्टमग्ने अ॒भि त-त्पृ॑णाहि । विश्वा॑ देव॒ पृत॑ना अ॒भिष्य । उ॒रु-न्नः॒ पन्था᳚-म्प्रदि॒शन्वि भा॑हि । ज्योति॑ष्मद्धेह्य॒जर॑-न्न॒ आयुः॑ ॥ ॥ 14 ॥
(दे॒वी - घृ॒तेन॒ - चेत॑सा-ञ्च॒ - दोह॑मान-ञ्च॒त्वारि॑ च) (अ. 3)

अनुवाकं 4 - तासा-म्ब्राह्मणम्
दे॒वेभ्यो॒ वै स्व॒र्गो लो॒कस्ति॒रो॑ ऽभवत् ।
ते प्र॒जाप॑ति-मब्रुवन्न् । प्रजा॑पते स्व॒र्गो
वै नो॑ लो॒कस्ति॒रो॑-ऽभूत् । तमन्वि॒च्छेति॑ ।
तं-यँ॑ज्ञक्र॒तुभि॒-रन्वै᳚च्छत् ।
तं-यँ॑ज्ञक्र॒तुभि॒ र्नान्व॑विन्दत् ।
तमिष्टि॑भि॒-रन्वै᳚च्छत् । तमिष्टि॑भि॒-रन्व॑विन्दत् । तदिष्टी॑ना-मिष्टि॒त्वम् । एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य॒ इत्या च॑क्षते प॒रोक्षे॑ण ।
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 15 ॥

त-न्तपो᳚-ऽ ब्रवीत् । प्रजा॑पते॒ तप॑सा॒ वै
श्रा᳚म्यसि । अ॒हमु॒ वै तपो᳚-ऽ स्मि ।
मा-न्नु य॑जस्व ।
अथ॑ ते स॒त्य-न्तपो॑ भविष्यति ।
अनु॑ स्व॒र्गं-लोँ॒कं-वेँ॒थ्स्यसीति॑ ।
स ए॒तमा᳚ग्ने॒य-म॒ष्टाक॑पाल॒-न्निर॑वपत् । तप॑से च॒रुम् । अनु॑मत्यै च॒रुम् ।
ततो॒ वै तस्य॑ स॒त्य-न्तपो॑ ऽभवत् ।
अनु॑ स्व॒र्गं-लोँ॒कम॑विन्दत् ।
स॒त्य ग्ं ह॒ वा अ॑स्य॒ तपो॑ भवति ।
अनु॑ स्व॒र्गं-लोँ॒कं-विँ॑न्दति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ तप॑से॒ स्वाहा᳚ ।
अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।
स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒-ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 16 ॥

तग्ग्​ श्र॒द्धा-ऽब्र॑वीत् । प्रजा॑पते श्र॒द्धया॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै श्र॒द्धा-ऽस्मि॑ । मा-न्नु य॑जस्व । अथ॑ ते स॒त्या श्र॒द्धा भ॑विष्यति । अनु॑ स्व॒र्गं-लोँ॒कं-वेँ॒थ्स्यसीति॑ ।
स ए॒तमा᳚-ऽग्ने॒य-म॒ष्टाक॑पाल॒-न्निर॑वपत् । श्र॒द्धायै॑ च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्या श्र॒द्धा-ऽभ॑वत् ।
अनु॑ स्व॒र्गं-लोँ॒कम॑विन्दत् ।
स॒त्या ह॒ वा अ॑स्य श्र॒द्धा भ॑वति ।
अनु॑ स्व॒र्गं-लोँ॒कं-विँ॑न्दति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑ चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा᳚ श्र॒द्धायै॒ स्वाहा᳚ ।
अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।
स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒-ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 17 ॥

तग्ं स॒त्य-म॑ब्रवीत् । प्रजा॑पते स॒त्येन॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै स॒त्यम॑स्मि । मा-न्नु य॑जस्व । अथ॑ ते स॒त्यग्ं स॒त्य-म्भ॑विष्यति । अनु॑ स्व॒र्गं-लोँ॒कं-वेँ॒थ्स्यसीति॑ ।
स ए॒तमा᳚-ऽग्ने॒य-म॒ष्टाक॑पाल॒-न्निर॑वपत् । स॒त्याय॑ च॒रुम् । अनु॑मत्यै च॒रुम् ।
ततो॒ वै तस्य॑ स॒त्यग्ं स॒त्यम॑भवत् ।
अनु॑ स्व॒र्गं-लोँ॒कम॑विन्दत् ।
स॒त्यग्ं ह॒ वा अ॑स्य स॒त्य-म्भ॑वति ।
अनु॑ स्व॒र्गं-लोँ॒कं-विँ॑न्दति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
अ॒ग्नये॒ स्वाहा॑ स॒त्याय॒ स्वाहा᳚ ।
अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।
स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒-ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 18 ॥

त-म्मनो᳚-ऽब्रवीत् । प्रजा॑पते॒ मन॑सा॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै मनो᳚-ऽस्मि ।
मा-न्नु य॑जस्व ।
अथ॑ ते स॒त्य-म्मनो॑ भविष्यति ।
अनु॑ स्व॒र्गं-लोँ॒कं-वेँ॒थ्स्यसीति॑ ।
स ए॒तमा᳚-ऽग्ने॒य-म॒ष्टाक॑पाल॒-न्निर॑वपत् । मन॑से च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्य-म्मनो॑-ऽभवत् ।
अनु॑ स्व॒र्गं-लोँ॒कम॑विन्दत् । स॒त्यग्ं ह॒ वा अ॑स्य॒ मनो॑ भवति । अनु॑ स्व॒र्गं-लोँ॒कं-विँ॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑चैन दे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
अ॒ग्नये॒ स्वाहा॒ मन॑से॒ स्वाहा᳚ ।
अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।
स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒-ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 19 ॥

त-ञ्चर॑ण-मब्रवीत् । प्रजा॑पते॒ चर॑णेन॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै चर॑णमस्मि । मा-न्नु य॑जस्व । अथ॑ ते स॒त्य-ञ्चर॑ण-म्भविष्यति । अनु॑ स्व॒र्गं-लोँ॒कं-वेँ॒थ्स्यसीति॑ ।
स ए॒तमा᳚-ऽग्ने॒य-म॒ष्टाक॑पाल॒-न्निर॑वपत् । चर॑णाय च॒रुम् । अनु॑मत्यै च॒रुम् । ततो॒ वै तस्य॑ स॒त्य-ञ्चर॑णमभवत् ।
अनु॑ स्व॒र्गं-लोँ॒कम॑विन्दत् ।
स॒त्यग्ं ह॒ वा अ॑स्य॒ चर॑ण-म्भवति ।
अनु॑स्व॒र्गं-लोँ॒कं-विँ॑न्दति ।
य ए॒तेन॑ ह॒विषा॒ यज॑ते ।
य उ॑चैनदे॒वं-वेँद॑ । सो-ऽत्र॑ जुहोति ।
अ॒ग्नये॒ स्वाहा॒ चर॑णाय॒ स्वाहा᳚ ।
अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।
स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒-ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ॥ 20 ॥

ता वा ए॒ताः पञ्च॑ स्व॒र्गस्य॑ लो॒कस्य॒ द्वारः॑ ।
अपा॑घा॒ अनु॑वित्तयो॒ नाम॑ । तपः॑ प्रथ॒माग्ं र॑क्षति । श्र॒द्धा द्वि॒तीया᳚म् । स॒त्य-न्तृ॒तीया᳚म् ।
मन॑श्चतु॒र्थीम् । चर॑ण-म्पञ्च॒मीम् ।
अनु॑ ह॒ वै स्व॒र्गं-लोँ॒कं-विँ॑न्दति ।
का॒म॒चारो᳚-ऽस्य स्व॒र्गे लो॒के भ॑वति ।
य ए॒ताभि॒-रिष्टि॑भि॒-र्यज॑ते ।
य उ॑चैना ए॒वं-वेँद॑ ।

अनुवाकं 5 - चातुर्​होत्रचयनम्
ब्रह्म॒ वै चतु॑र्​होतारः । चतु॑र्​होतृ॒भ्यो-ऽधि॑ य॒ज्ञो निर्मि॑तः । नैनग्ं॑ श॒प्तम् । नाभिच॑रित॒-माग॑च्छति । य ए॒वं-वेँद॑ ॥
यो ह॒ वै चतु॑र्​होतृणा-ञ्चतुर्​होतृ॒त्वं-वेँद॑ । अथो॒ पञ्च॑ होतृत्वम् ।
सर्वा॑ हास्मै॒ दिशः॑ कल्पन्ते ।
वा॒चस्पति॒र्॒ होता॒ दश॑होतॄणाम् ।
पृ॒थि॒वी होता॒ चतु॑र्​होतॄणाम् ॥ 22 ॥

अ॒ग्निर्-होता॒ पञ्च॑होतॄणाम् । वाघोता॒ षड्ढो॑तॄणाम् ।
म॒हाह॑वि॒र्॒ होता॑ स॒प्तहो॑तॄणाम् ।
ए॒तद्वै चतु॑र्​होतृणा-ञ्चतुर्​होतृ॒त्वम् ।
अथो॒ पञ्च॑होतृत्वम् । सर्वा॑ हास्मै॒ दिशः॑ कल्पन्ते । य ए॒वं-वेँद॑ ॥
ए॒षा वै स॑र्व वि॒द्या । ए॒त-द्भे॑ष॒जम् ।
ए॒षा प॒ङ्क्ति-स्स्व॒र्गस्य॑ लो॒कस्या᳚-ञ्ज॒साय॑नि-स्स्रु॒तिः ॥ 23 ॥

ए॒तान्. यो-ऽद्ध्यै-त्यछ॑दिर्द॒र्॒शे याव॑त्त॒रस᳚म् । स्व॑रेति । अ॒न॒प॒ब्र॒व-स्सर्व॒मायु॑रेति । वि॒न्दते᳚ प्र॒जाम् । रा॒यस्पोष॑-ङ्गौप॒त्यम् ।
ब्र॒ह्म॒व॒र्च॒सी भ॑वति ॥ ए॒तान्. यो-ऽद्ध्यैति॑ । स्पृ॒णोत्या॒त्मान᳚म् । प्र॒जा-म्पि॒तॄन् ॥
ए॒तान्. वा अ॑रु॒ण औ॑पवे॒शि र्वि॒दाञ्च॑कार ॥ 24 ॥

ए॒तैर॑धिवा॒दमपा॑जयत् । अथो॒ विश्व॑-म्पा॒प्मान᳚म् । स्व॑र्ययौ । ए॒तान्. यो-ऽद्ध्यैति॑ । अ॒धि॒वा॒द-ञ्ज॑यति । अथो॒ विश्व॑-म्पा॒प्मान᳚म् । स्व॑रेति ॥ ए॒तैर॒ग्नि-ञ्चि॑न्वीत स्व॒र्गका॑मः ।
ए॒तैरायु॑ष्कामः । प्र॒जा प॒शुका॑मो वा ॥ 25 ॥

पु॒रस्ता॒-द्दश॑होतार॒-मुद॑ञ्च॒-मुप॑दधाति यावत्प॒दम् । हृद॑यं॒-यँजु॑षी॒ पत्न्यौ॑ च । द॒क्षि॒ण॒तः प्राञ्च॒-ञ्चतु॑र्​होतारम् ।
प॒श्चादुद॑ञ्च॒-म्पञ्च॑ होतारम् । उ॒त्त॒र॒तः प्राञ्च॒ग्ं॒ षड्ढो॑तारम् ।
उ॒परि॑ष्टा॒-त्प्राञ्चग्ं॑ स॒प्तहो॑तारम् । हृद॑यं॒-यँजूग्ं॑षि॒ पत्न्य॑श्च ।
य॒था॒व॒का॒श-ङ्ग्रहान्॑ । य॒था॒व॒का॒श-म्प्र॑तिग्र॒हान् ँलो॑क-म्पृ॒णाश्च॑ ।
सर्वा॑ हास्यै॒ता दे॒वताः᳚ प्री॒ता अ॒भीष्टा॑ भवन्ति ॥ 26 ॥

सदे॑वम॒ग्नि-ञ्चि॑नुते ॥
र॒थस॑मिन्त-श्चेत॒व्यः॑ । वज्रो॒ वै रथः॑ ।
वज्रे॑णै॒व पा॒प्मान॒-म्भ्रातृ॑व्यग्ग्​ स्तृणुते । प॒क्ष-स्स॑मिन्त-श्चेत॒व्यः॑ ।
ए॒तावा॒न्॒. वै रथः॑ । याव॑त्प॒क्षः । र॒थस॑मिन्तमे॒व चि॑नुते ॥
इ॒ममे॒व लो॒क-म्प॑शुब॒न्धेना॒भिज॑यति ।
अथो॑ अग्निष्टो॒मेन॑ ॥ 27 ॥

अ॒न्तरि॑क्ष-मु॒क्थ्ये॑न । स्व॑रतिरा॒त्रेण॑ । सर्वा᳚न् ँलो॒कान॑ही॒नेन॑ । अथो॑ स॒त्रेण॑ ॥ वरो॒ दक्षि॑णा । वरे॑णै॒व वरग्ग्॑ स्पृणोति ।
आ॒त्मा हि वरः॑ ॥ एक॑विग्ंशति॒ र्दक्षि॑णा ददाति ।
ए॒क॒वि॒ग्ं॒शो वा इ॒त-स्स्व॒र्गो लो॒कः । प्रस्व॒र्गं-लोँ॒कमा᳚प्नोति ॥ 28 ॥

अ॒सावा॑दि॒त्य ए॑कवि॒ग्ं॒शः । अ॒मुमे॒वा-दि॒त्यमा᳚प्नोति ॥ श॒त-न्द॑दाति । श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ॥ स॒हस्र॑-न्ददाति ।
स॒हस्र॑ सम्मित-स्स्व॒र्गो लो॒कः ।
स्व॒र्गस्य॑ लो॒कस्या॒-भिजि॑त्यै ॥ अ॒न्वि॒ष्ट॒क-न्दक्षि॑णा ददाति । सर्वा॑णि॒ वयाग्ं॑सि ॥ 29 ॥

सर्व॒स्याप्त्यै᳚ । सर्व॒स्या-व॑रुद्ध्यै ॥ यदि॒ न वि॒न्देत॑ । म॒न्थाने॑ताव॒तो द॑द्यादोद॒नान्. वा᳚ । अ॒श्नु॒ते त-ङ्काम᳚म् । यस्मै॒ कामा॑या॒-ग्निश्ची॒यते᳚ ॥ प॒ष्ठौ॒ही-न्त्व॒न्तर्व॑ती-न्दद्यात् ।
सा हि सर्वा॑णि॒ वयाग्ं॑सि । सर्व॒स्याप्त्यै᳚ । सर्व॒स्या-व॑रुद्ध्यै ॥ 30 ॥
हिर॑ण्य-न्ददाति । हिर॑ण्य-ज्योतिरे॒व स्व॒र्गं-लोँ॒कमे॑ति ॥ वासो॑ ददाति । तेनायुः॒ प्रति॑रते ॥ वे॒दि॒तृ॒ती॒ये य॑जेत । त्रिष॑त्या॒ हि दे॒वाः ।
स स॑त्यम॒ग्नि-ञ्चि॑नुते ॥ तदे॒त-त्प॑शुब॒न्धे ब्राह्म॑ण-म्ब्रूयात् । नेत॑रेषु य॒ज्ञेषु॑ ॥
यो ह॒ वै चतु॑र्​होतॄ-ननुसव॒न-न्त॑र्पयित॒व्यान्॑. वेद॑ ॥ 31 ॥

तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ ।
उपै॑नग्ं सोमपी॒थो न॑मति ।
ए॒ते वै चतु॑र्​होतारो ऽनुसव॒न-न्त॑र्पयित॒व्याः᳚ । ये ब्रा᳚ह्म॒णा ब॑हु॒विदः॑ ।
तेभ्यो॒ यद्दक्षि॑णा॒ न नये᳚त् । दुरि॑ष्टग्ग्​ स्यात् । अ॒ग्निम॑स्य वृञ्जीरन्न् ।
तेभ्यो॑ यथा श्र॒द्ध-न्द॑द्यात् । स्वि॑ष्टमे॒वैतत्क्रि॑यते ।
नास्या॒ग्निं-वृँ॑ञ्जते ॥ 32 ॥

हि॒र॒ण्ये॒ष्ट॒को भ॑वति । याव॑दुत्त॒म-म॑ङ्गुलि-का॒ण्डं-यँ॑ज्ञ प॒रुषा॒ सम्मि॑तम् ।
तेजो॒ हिर॑ण्यम् ॥ यदि॒ हिर॑ण्य॒-न्न वि॒न्देत् । शर्क॑रा अ॒क्ता उप॑दद्ध्यात् । तेजो॑ घृ॒तम् । सते॑जसमे॒-वाग्नि-ञ्चि॑नुते ॥ अ॒ग्निञ्चि॒त्वा सौ᳚त्राम॒ण्या य॑जेत मैत्रावरु॒ण्या वा᳚ ।
वी॒र्ये॑ण॒ वा ए॒ष व्यृ॑द्ध्यते ।
यो᳚-ऽग्निञ्चि॑नु॒ते ॥ 33 ॥

याव॑दे॒व वी॒र्य᳚म् । तद॑स्मि-न्दधाति ॥
ब्रह्म॑ण॒-स्सायु॑ज्यग्ं सलो॒कता॑-माप्नोति ।
ए॒तासा॑मे॒व दे॒वता॑ना॒ग्ं॒ सायु॑ज्यम् ।
सा॒र्​ष्टिताग्ं॑ समान लो॒कता॑-माप्नोति । य ए॒तम॒ग्नि-ञ्चि॑नु॒ते । य उ॑चैनमे॒वं-वेँद॑ ॥ ए॒तदे॒व सा॑वि॒त्रे ब्राह्म॑णम् ।
अथो॑ नाचिके॒ते ॥ 34 ॥
(होता॒ चतु॑र्​होतॄणाग्​ - स्रु॒ति - श्च॑कार - वा - भवन्त्य - ग्निष्टो॒मेना᳚ - प्नोति॒ - वयाग्ं॑सि॒ - वयाग्ं॑सि॒ - सर्व॒स्याप्त्यै॒ सर्व॒स्याव॑रुद्ध्यै॒ - वेद॑ - वृञ्जते - चिनु॒ते - +नव॑ च) (अ. 5)

अनुवाकं 6 - वैश्वसृजचयनम्
यच्चा॒मृतं॒-यँच्च मर्त्य᳚म् । यच्च॒ प्राणि॑ति॒ यच्च॒ न । सर्वा॒स्ता इष्ट॑काः कृ॒त्वा ।
उप॑ काम॒दुघा॑ दधे । तेनर्​षि॑णा॒ तेन॒ ब्रह्म॑णा । तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ सर्वा॒-स्स्त्रिय॒-स्सर्वा᳚-न्पु॒ग्ं॒सः । सर्व॒-न्न स्त्री॑-पुमञ्च॒ यत् ।
सर्वा॒स्ताः ॥ याव॑न्तः पा॒ग्ं॒सवो॒ भूमेः᳚ ॥ 35 ॥

सङ्ख्या॑ता देवमा॒यया᳚ । सर्वा॒स्ताः ॥ याव॑न्त॒ ऊषाः᳚ पशू॒नाम् । पृ॒थि॒व्या-म्पुष्टि॑ र्​हि॒ताः । सर्वा॒स्ताः ॥ याव॑ती॒-स्सिक॑ता॒-स्सर्वाः᳚ ।
अ॒फ्स्व॑न्तश्च॒ या-श्श्रि॒ताः । सर्वा॒स्ताः ॥ याव॑ती॒-श्शर्क॑रा॒ धृत्यै᳚ । अ॒स्या-म्पृ॑थि॒व्यामधि॑ ॥ 36 ॥

सर्वा॒स्ताः ॥ याव॒न्तो-ऽश्मा॑नो॒-ऽस्या-म्पृ॑थि॒व्याम् । प्र॒ति॒ष्ठासु॒ प्रति॑ष्ठिताः । सर्वा॒स्ताः ॥ याव॑ती र्वी॒रुध॒-स्सर्वाः᳚ ।
विष्ठि॑ताः पृथि॒वीमनु॑ । सर्वा॒स्ताः ॥ याव॑ती॒रोष॑धी॒-स्सर्वाः᳚ ।
विष्ठि॑ताः पृथि॒वीमनु॑ । सर्वा॒स्ताः ॥ 37 ॥

याव॑न्तो॒ वन॒स्पत॑यः । अ॒स्या-म्पृ॑थि॒व्यामधि॑ । सर्वा॒स्ताः ॥
याव॑न्तो ग्रा॒म्याः प॒शव॒-स्सर्वे᳚ । आ॒र॒ण्याश्च॒ ये । सर्वा॒स्ताः ॥ ये द्वि॒पाद॒-श्चतु॑ष्पादः । अ॒पाद॑ उदरस॒र्पिणः॑ ।
सर्वा॒स्ताः ॥ याव॒दाञ्ज॑-नमु॒च्यते᳚ ॥ 38 ॥

दे॒व॒त्रा यच्च॑ मानु॒षम् । सर्वा॒स्ताः ॥ याव॑त्कृ॒ष्णाय॑स॒ग्ं॒ सर्व᳚म् ।
दे॒व॒त्रा यच्च॑ मानु॒षम् । सर्वा॒स्ताः ॥
याव॑ ल्लो॒हाय॑स॒ग्ं॒ सर्व᳚म् ।
दे॒व॒त्रा यच्च॑ मानु॒षम् । सर्वा॒स्ताः ॥ सर्व॒ग्ं॒ सीस॒ग्ं॒ सर्व॒-न्त्रपु॑ ।
दे॒व॒त्रा यच्च॑ मानु॒षम् ॥ 39 ॥

सर्वा॒स्ताः ॥ सर्व॒ग्ं॒ हिर॑ण्यग्ं रज॒तम् । दे॒व॒त्रा यच्च॑ मानु॒षम् ।
सर्वा॒स्ताः ॥ सर्व॒ग्ं॒ सुव॑र्ण॒ग्ं॒ हरि॑तम् । दे॒व॒त्रा यच्च॑ मानु॒षम् ।
सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑काम॒दुघा॑ दधे । तेनर्​षि॑णा॒ तेन॒ ब्रह्म॑णा ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 40 ॥
[भूमे॒ - रधि॒ - विष्ठि॑ताः पृथि॒वीमनु॒ सर्वा॒स्ता - उ॒च्यत॑ - मानु॒षग्ं - सी॑द ] (अ. 6)

(यच्च॒ स्त्रियः॑ पा॒ग्ं॒सव॒ ऊषा॒-स्सिक॑ता॒-श्शर्क॑रा॒ अश्मा॑नो वी॒रुध॒ ओष॑धी॒-र्वन॒स्पत॑यो ग्रा॒म्या ये द्वि॒पादो॒ याव॒दाञ्ज॑नं॒-याँव॑-त्कृ॒ष्णाय॑सं
ँलो॒हाय॑स॒ग्ं॒ सीस॒ग्ं॒ हिर॑ण्य॒ग्ं॒ सुव॑र्ण॒ग्ं॒ हरि॑तम॒ष्टाद॑श)

अनुवाकं 7 - वैश्वसृजचयनम्
सर्वा॒ दिशो॑ दि॒क्षु । यच्चा॒न्त र्भू॒त-म्प्रति॑ष्ठितम् । सर्वा॒स्ता इष्ट॑काः कृ॒त्वा ।
उप॑ काम॒दुघा॑ दधे ।
तेनर्​षि॑णा॒ तेन॒ ब्रह्म॑णा ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥
अ॒न्तरि॑क्षञ्च॒ केव॑लम् ।
यच्चा॒स्मि-न्न॑न्त॒राहि॑तम् ।
सर्वा॒स्ताः ॥ आ॒न्त॒रि॒क्ष्य॑श्च॒ याः प्र॒जाः ॥ 41 ॥

ग॒न्ध॒र्वा॒-फ्स॒रस॑श्च॒ ये । सर्वा॒स्ताः ॥ सर्वा॑-नुदा॒रान्-थ्स॒लिलान्॑ ।
अ॒न्तरि॑क्षे॒ प्रति॑ष्ठितान् । सर्वा॒स्ताः ॥
सर्वा॑-नुदा॒रान्-थ्स॑लि॒लान् ।
स्था॒व॒राः प्रो॒ष्या᳚श्च॒ ये । सर्वा॒स्ताः ॥ सर्वा॒-न्धुनि॒ग्ं॒ सर्वा᳚न्-ध्व॒ग्ं॒सान् ।
हि॒मो यच्च॑ शी॒यते᳚ ॥ 42 ॥

सर्वा॒स्ताः ॥ सर्वा॒-न्मरी॑ची॒न्॒. वित॑तान् । नी॒हा॒रो यच्च॑ शी॒यते᳚ । सर्वा॒स्ताः ॥ सर्वा॑ वि॒द्युत॒-स्सर्वा᳚न्-थ्स्तनयि॒त्नून् । ह्रा॒दुनी॒ र्यच्च॑ शी॒यते᳚ । सर्वा॒स्ताः ॥ सर्वा॒-स्स्रव॑न्ती-स्स॒रितः॑ ।
सर्व॑मफ्सु च॒रञ्च॒ यत् । सर्वा॒स्ताः ॥ 43 ॥

याश्च॒ कूप्या॒ याश्च॑ ना॒द्या᳚-स्समु॒द्रियाः᳚ । याश्च॑ वैश॒न्तीरु॒त प्रा॑स॒चीर्याः ।
सर्वा॒स्ताः ॥ ये चो॒त्तिष्ठ॑न्ति जी॒मूताः᳚ ।
याश्च॒ वर्​ष॑न्ति वृ॒ष्टयः॑ । सर्वा॒स्ताः ॥ तप॒स्तेज॑ आका॒शम् । यच्चा॑का॒शे प्रति॑ष्ठितम् ।
सर्वा॒स्ताः ॥ वा॒युं-वँयाग्ं॑सि॒ सर्वा॑णि ॥ 44 ॥

अ॒न्त॒रि॒क्ष॒च॒रञ्च॒ यत् । सर्वा॒स्ताः ॥ अ॒ग्निग्ं सूर्य॑-ञ्च॒न्द्रम् । मि॒त्रं-वँरु॑ण॒-म्भग᳚म् । सर्वा॒स्ताः ॥ स॒त्यग्ग्​ श्र॒द्धा-न्तपो॒ दम᳚म् ।
नाम॑ रू॒पञ्च॑ भू॒ताना᳚म् । सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्​षि॑णा॒ तेन॒ ब्रह्म॑णा ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 45 ॥
(प्र॒जा-हि॒मो यच्च॑ शी॒यते॒-सर्वा॒स्ताः-सर्वा॑णि॒-ब्रह्म॒णैक॑-ञ्च) (अ. 7)
(दिशो॒-ऽन्तरि॑क्षमान्तरि॒क्ष्य॑ उदा॒रानु॑दा॒रा-न्धुनि॒-म्मरी॑चीन्. वि॒द्युतः॒
स्रव॑न्ती॒र्याश्च॒ ये च॒ तपो॑ वा॒युम॒ग्निग्ं स॒त्य-म्पञ्च॑दश)

अनुवाकं 8 - वैश्वसृजचयनम्
सर्वा॒-न्दिव॒ग्ं॒ सर्वा᳚-न्दे॒वा-न्दि॒वि ।
यच्चा॒न्त र्भू॒त-म्प्रति॑ष्ठितम् ।
सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्​षि॑णा॒ तेन॒ ब्रह्म॑णा ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्वद-ध्रु॒वा सी॑द ॥ याव॑ती॒ स्तार॑का॒-स्सर्वाः᳚ ।
वित॑ता रोच॒ने दि॒वि । सर्वा॒स्ताः ॥ ऋचो॒ यजूग्ं॑षि॒ सामा॑नि ॥ 46 ॥

अ॒थ॒र्वा॒ङ्गि॒रस॑श्च॒ ये । सर्वा॒स्ताः ॥ इ॒ति॒हा॒स॒पु॒रा॒णञ्च॑ ।
स॒र्प॒दे॒व॒ज॒नाश्च॒ ये । सर्वा॒स्ताः ॥
ये च॑ लो॒का ये चा॑लो॒काः ।
अ॒न्त र्भू॒त-म्प्रति॑ष्ठितम् । सर्वा॒स्ताः ॥
यच्च॒ ब्रह्म॒ यच्चा᳚ब्र॒ह्म ।
अ॒न्त र्ब्र॒ह्म-न्प्रति॑ष्ठितम् ॥ 47 ॥

सर्वा॒स्ताः ॥ अ॒हो॒रा॒त्राणि॒ सर्वा॑णि । अ॒द्र्ध॒मा॒साग्​श्च॒ केव॑लान् ।
सर्वा॒स्ताः ॥ सर्वा॑नृ॒तून्-थ्सर्वा᳚-न्मा॒सान् । सं॒​वँ॒थ्स॒रञ्च॒ केव॑लम् ।
सर्वा॒स्ताः ॥ सर्व॒-म्भूत॒ग्ं॒ सर्व॒-म्भव्य᳚म् । यच्चा॒तो-ऽधि॑ भवि॒ष्यति॑ ।
सर्वा॒स्ता इष्ट॑काः कृ॒त्वा ।
उप॑ काम॒दुघा॑ दधे ।
तेनर्​षि॑णा॒ तेन॒ ब्रह्म॑णा ।
तया॑ दे॒वत॑या-ऽङ्गिर॒स्व-द्ध्रु॒वा सी॑द ॥ 48 ॥
(सामा॑नि - ब्र॒ह्म-न्प्रति॑ष्ठितं - कृ॒त्वा त्रीणि॑ च) (अ. 8)

(दिव॒-न्तार॑का॒ ऋच॑ इतिहासपुरा॒ण-ञ्च॒ ये च॒ यच्चा॑होरा॒त्राण्यृ॒तू-न्भूत॒-न्नव॑)

अनुवाकं 9 - ब्रह्मा सदस्यासीनो वौश्वसृजान् व्याचष्टे
ऋ॒चा-म्प्राची॑ मह॒ती दिगु॑च्यते ।
दक्षि॑णा-माहु॒ र्यजु॑षामपा॒राम् ।
अथ॑र्वणा॒-मग्ंइ॑रसा-म्प्र॒तीची᳚ ।
साम्ना॒-मुदी॑ची मह॒ती दिगु॑च्यते ॥
ऋ॒ग्भिः पू᳚र्वा॒ह्णे दि॒वि दे॒व ई॑यते ।
य॒जु॒र्वे॒दे ति॑ष्ठति॒ मद्ध्ये॒ अह्नः॑ ।
सा॒म॒वे॒दे-ना᳚स्तम॒ये मही॑यते ।
वेदै॒-रशू᳚न्य-स्त्रि॒भिरे॑ति॒ सूर्यः॑ ॥

ऋ॒ग्भ्यो जा॒ताग्ं स॑र्व॒शो मूर्ति॑-माहुः ।
सर्वा॒ गति॑ र्याजु॒षी है॒व शश्व॑त् ॥ 49 ॥

सर्व॒-न्तेज॑ स्सामरू॒प्यग्ं ह॑ शश्वत् । सर्वग्ं॑ हे॒द-म्ब्रह्म॑णा है॒व सृ॒ष्टम् ॥
ऋ॒ग्भ्यो जा॒तं-वैँश्यं॒-वँर्ण॑-माहुः । य॒जु॒र्वे॒द-ङ्क्ष॑त्रि॒यस्या॑-हु॒र्योनि᳚म् ।
सा॒म॒वे॒दो ब्रा᳚ह्म॒णाना॒-म्प्रसू॑तिः ।
पूर्वे॒ पूर्वे᳚भ्यो॒ वच॑ ए॒त-दू॑चुः ॥
आ॒द॒र्॒श-म॒ग्नि-ञ्चि॑न्वा॒नाः ।
पूर्वे॑ विश्व॒ सृजो॒-ऽमृताः᳚ ।
श॒तं-वँ॑र्​ष सह॒स्राणि॑ । दी॒क्षि॒ता-स्स॒त्र-मा॑सत ॥ 50 ॥

तप॑ आसी-द्गृ॒हप॑तिः । ब्रह्म॑ ब्र॒ह्माभ॑व-थ्स्व॒यम् । स॒त्यग्ं ह॒ हो तै॑षा॒मासी᳚त् ।
य-द्वि॑श्व॒सृज॒ आस॑त ॥
अ॒मृत॑-मेभ्य॒ उद॑गायत् ।
स॒हस्र॑-म्परिवथ्स॒रान् ।
भू॒तग्ं ह॑ प्रस्तो॒ तैषा॒मासी᳚त् ।
भ॒वि॒ष्य-त्प्रति॑ चाहरत् ॥
प्रा॒णो अ॑द्ध्व॒र्यु-र॑भवत् ।
इ॒दग्ं सर्व॒ग्ं॒ सिषा॑सताम् ॥ 51 ॥

अ॒पा॒नो वि॒द्वा-ना॒वृतः॑ । प्रति॒ प्राति॑ष्ठ-दद्ध्व॒रे ॥ आ॒र्त॒वा उ॑पगा॒तारः॑ । स॒द॒स्या॑ ऋ॒तवो॑-ऽभवन्न् । अ॒र्ध॒मा॒साश्च॒ मासा᳚श्च । च॒म॒सा॒-द्ध्व॒र्य॒वो-ऽभ॑वन्न् ॥
अशग्ं॑ स॒-द्ब्रह्म॑ण॒-स्तेजः॑ ।
अ॒च्छा॒वा॒को ऽभ॑व॒-द्यशः॑ ।
ऋ॒त-मे॑षा-म्प्रशा॒स्ता-ऽऽसी᳚त् ।
य-द्वि॑श्व॒ सृज॒ आस॑त ॥ 52 ॥

ऊर्ग्-राजा॑न॒-मुद॑वहत् । ध्रु॒व॒ गो॒प-स्सहो॑-ऽभवत् । ओजो॒-ऽभ्य॑ष्टौ॒-द्ग्राव्.ण्णः॑ ।
य-द्वि॑श्व॒ सृज॒ आस॑त ॥
अप॑चितिः पो॒त्रीया॑-मयजत् । ने॒ष्ट्रीया॑-मयज॒-त्त्विषिः॑ । आग्नी᳚द्ध्रा-द्वि॒दुषी॑ स॒त्यम् । श्र॒द्धा है॒वा य॑ज-थ्स्व॒यम् ॥ इरा॒ पत्नी॑ विश्व॒ सृजा᳚म् । आकू॑ति-रपिनड्ढ॒विः ॥ 53 ॥

इ॒द्ध्मग्ं ह॒ क्षुच् चै᳚भ्य उ॒ग्रे । तृ॒ष्णा चा व॑हतामु॒भे ॥ वागे॑षाग्ं सुब्रह्म॒ण्या-ऽऽसी᳚त् । छ॒न्दो॒ यो॒गान्. वि॑जान॒ती ।
क॒ल्प॒त॒न्त्राणि॑ तन्वा॒ना-ऽहः॑ । स॒ग्ग्॒स्थाश्च॑ सर्व॒शः ॥ अ॒हो॒रा॒त्रे प॑शुपा॒ल्यौ । मु॒हू॒र्ताः प्रे॒ष्या॑ अभवन्न् । मृ॒त्युस् तद॑-भव-द्धा॒ता । श॒मि॒तो ग्रो वि॒शा-म्पतिः॑ ॥ 54 ॥

वि॒श्व॒सृजः॑ प्रथ॒मा-स्स॒त्र-मा॑सत । स॒हस्र॑ सम॒-म्प्रसु॑तेन॒ यन्तः॑ ।
ततो॑ ह जज्ञे॒ भुव॑नस्य गो॒पाः । हि॒र॒ण्मय॑-श्श॒कुनि॒ र्ब्रह्म॒ नाम॑ ॥ येन॒ सूर्य॒-स्तप॑ति॒ तेज॑से॒-द्धः । पि॒ता पु॒त्रेण॑ पितृ॒मान्. योनि॑योनौ । नावे॑दवि-न्मनुते॒ त-म्बृ॒हन्त᳚म् । स॒र्वा॒नु॒भु-मा॒त्मानग्ं॑ सम्परा॒ये ॥
ए॒ष नि॒त्यो म॑हि॒मा ब्रा᳚ह्म॒णस्य॑ ।
न कर्म॑णा वर्धते॒ नो कनी॑यान् ॥ 55 ॥

तस्यै॒वात्मा प॑द॒वित्तं-विँ॑दित्वा ।
न कर्म॑णा लिप्यते॒ पाप॑केन ॥
पञ्च॑पञ्चा॒शत॑-स्त्रि॒वृत॑-स्सं​वँथ्स॒राः ।
पञ्च॑पञ्चा॒शतः॑ पञ्चद॒शाः । पञ्च॑पञ्चा॒शत॑-स्सप्तद॒शाः ।
पञ्च॑पञ्चा॒शत॑ एकवि॒ग्ं॒शाः ।
वि॒श्व॒सृजाग्ं॑ स॒हस्र॑ सं​वँथ्सरम् ॥
ए॒तेन॒ वै वि॑श्व॒सृज॑ इ॒दं-विँश्व॑-मसृजन्त । य-द्विश्व॒-मसृ॑जन्त । तस्मा᳚-द्विश्व॒सृजः॑ ॥
विश्व॑-मेना॒-ननु॒ प्रजा॑यते । ब्रह्म॑ण॒-स्सायु॑ज्यग्ं सलो॒कतां᳚-यँन्ति ।
ए॒तासा॑मे॒व दे॒वता॑ना॒ग्ं॒ सायु॑ज्यम् । सा॒र्​ष्टिताग्ं॑ समान लो॒कतां᳚-यँन्ति ।
य ए॒त-दु॑प॒यन्ति॑ । ये चै॑न॒-त्प्राहुः॑ ।
येभ्य॑-श्चैन॒-त्प्राहुः॑ ॥
ओम् ॥ 56 ॥
(शश्व॑ - दासत॒ - सिषा॑सता॒ - मास॑त - ह॒विष् - पतिः॒ - कनी॑या॒न् - तस्मा᳚-द्विश्व॒सृजो॒-ऽष्टौ च॑) (अ. 9)

(तुभ्यं॑ - दे॒वेभ्य॒ - स्तप॑सा - दे॒वेभ्यो॒ - ब्रह्म॒ वै चतु॑र्​होतारो॒ - यच्चा॒मृत॒ग्ं॒ - सर्वा॒ दिशो॑ दि॒क्षु - सर्वा॒-न्दिव॑ - मृ॒चा-म्प्राची॒ नव॑)

(तुभ्यं॒ - तप॑सा॒ - ता वा ए॒ताः पञ्च॒ - हिर॑ण्य-न्ददाति॒ - सर्वा॒ दिश॒ - स्तप॑ आसीद्गृ॒हप॑ति॒-ष्षट्प॑ञ्चा॒शत्)
(तुभ्य॒-मों)

॥ हरिः॑ ओम् ॥

॥ तैत्तिरीय यजुर्ब्राह्मणे काठके तृतीय प्रश्न-स्समाप्तः ॥

॥ इति तैत्तिरीय यजुर्ब्राह्मणे काठकं समाप्तम् ॥




Browse Related Categories: