View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

2.7 - सवा एकाहविशेषाः - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - त्रिवृत् स्तोमः

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके सप्तमः प्रपाठकः - सवा एकाहविशेषाः

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

2.7.1 अनुवाकं - बृहस्पतिसवः

त्रि॒वृ-थ्स्तोमो॑ भवति । ब्र॒ह्म॒व॒र्च॒सं-वैँ त्रि॒वृत् । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ॥ अ॒ग्नि॒ष्टो॒म-स्सोमो॑ भवति । ब्र॒ह्म॒व॒र्च॒सं-वाँ अ॑ग्निष्टो॒मः । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ॥ र॒थ॒तंर॒ग्ं साम॑ भवति । ब्र॒ह्म॒व॒र्च॒सं-वैँ र॑थन्त॒रम् । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ॥ प॒रि॒स्र॒जी होता॑ भवति ॥ 1 ॥

अ॒रु॒णो मि॑र्मि॒रस्त्रिशु॑क्रः । ए॒त-द्वै ब्र॑ह्मवर्च॒सस्य॑ रू॒पम् । रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑रुन्धे ॥ बृह॒स्पति॑-रकामयत दे॒वाना᳚-म्पुरो॒धा-ङ्ग॑च्छेय॒मिति॑ । स ए॒त-म्बृ॑हस्पतिस॒वम॑पश्यत् । तमा-ऽह॑रत् । तेना॑यजत । ततो॒ वै स दे॒वाना᳚-म्पुरो॒धा-म॑गच्छत् । यः पु॑रो॒धाका॑म॒-स्स्यात् । स बृ॑हस्पतिस॒वेन॑ यजेत ॥ 2 ॥

पु॒रो॒धामे॒व ग॑च्छति ॥ तस्य॑ प्रातस्सव॒ने स॒न्नेषु॑ नाराश॒ग्ं॒सेषु॑ । एका॑दश॒ दक्षि॑णा नीयन्ते । एका॑दश॒ माद्ध्य॑दिन्ने॒ सव॑ने स॒न्नेषु॑ नाराश॒ग्ं॒सेषु॑ । एका॑दश तृतीयसव॒ने स॒न्नेषु॑ नाराश॒ग्ं॒सेषु॑ । त्रय॑स्त्रिग्ंश॒-थ्सम्प॑द्यन्ते । त्रय॑स्त्रिग्ंश॒-द्वै दे॒वताः᳚ । दे॒वता॑ ए॒वाव॑रुन्धे ॥ अश्व॑श्चतुस्त्रि॒ग्ं॒शः । प्रा॒जा॒प॒त्यो वा अश्वः॑ ॥ 3 ॥

प्र॒जाप॑ति-श्चतुस्त्रि॒ग्ं॒शो दे॒वता॑नाम् । याव॑तीरे॒व दे॒वताः᳚ । ता ए॒वाव॑रुन्धे ॥ कृ॒ष्णा॒जि॒ने॑ ऽभिषि॑ञ्चति । ब्रह्म॑णो॒ वा ए॒त-द्रू॒पम् । य-त्कृ॑ष्णाजि॒नम् । ब्र॒ह्म॒व॒र्च॒सेनै॒वैन॒ग्ं॒ सम॑र्धयति ॥ आज्ये॑ना॒भिषि॑ञ्चति । तेजो॒ वा आज्य᳚म् । तेज॑ ए॒वास्मि॑-न्दधाति ॥ 4 ॥
(होता॑ भवति - यजेत॒ - वा अश्वो॑ - दधाति) (अ. 1)

2.7.2 अनुवाकं - वैश्यसवः
यदा᳚ग्ने॒यो भव॑ति । अ॒ग्निमु॑खा॒ ह्यृद्धिः॑ ॥ अथ॒ य-त्पौ॒ष्णः । पुष्टि॒र्वै पू॒षा । पुष्टि॒-र्वैश्य॑स्य । पुष्टि॑मे॒वाव॑रुन्धे ॥ प्र॒स॒वाय॑ सावि॒त्रः ॥ अथ॒ य-त्त्वा॒ष्ट्रः । त्वष्टा॒ हि रू॒पाणि॑ विक॒रोति॑ ॥ नि॒र्व॒रु॒ण॒त्वाय॑ वारु॒णः ॥ 5 ॥

अथो॒ य ए॒व कश्च॒ सन्​थ्सू॒यते᳚ । स हि वा॑रु॒णः ॥ अथ॒ य-द्वै᳚श्वदे॒वः । वै॒श्व॒दे॒वो हि वैश्यः॑ ॥ अथ॒ य-न्मा॑रु॒तः । मा॒रु॒तो हि वैश्यः॑ ॥ स॒प्तैतानि॑ ह॒वीग्ंषि॑ भवन्ति । स॒प्तग॑णा॒ वै म॒रुतः॑ ॥ पृश्निः॑ पष्ठौ॒ही मा॑रु॒त्याल॑भ्यते । विड्वै म॒रुतः॑ ॥ विश॑ ए॒वैत-न्म॑द्ध्य॒तो॑-ऽभिषि॑च्यते । तस्मा॒-द्वा ए॒ष वि॒शः प्रि॒यः । वि॒शो हि म॑द्ध्य॒तो॑-ऽभिषि॒च्यते᳚ ॥ ऋ॒ष॒भ॒च॒र्मे-ऽद्ध्य॒भिषि॑ञ्चति । स हि प्र॑जनयि॒ता ॥ द॒द्ध्ना-ऽभिषि॑ञ्चति । ऊर्ग्वा अ॒न्नाद्य॒-न्दधि॑ । ऊ॒र्जैवैन॑-म॒न्नाद्ये॑न॒ सम॑र्धयति ॥ 6 ॥
(वा॒रु॒णो - विड्वै म॒रुतो॒-ऽष्टौ च॑) (अ. 2)

अनुवाकं 3 - ब्राह्मणसवः
यदा᳚ग्ने॒यो भव॑ति । आ॒ग्ने॒यो वै ब्रा᳚ह्म॒णः ॥ अथ॒ य-थ्सौ॒म्यः । सौ॒म्यो हि ब्रा᳚ह्म॒णः ॥ प्र॒स॒वायै॒व सा॑वि॒त्रः ॥ अथ॒ य-द्बा॑र्​हस्प॒त्यः । ए॒तद्वै ब्रा᳚ह्म॒णस्य॑ वाक्प॒तीय᳚म् ॥ अथ॒ यद॑ग्नीषो॒मीयः॑ । आ॒ग्ने॒यो वै ब्रा᳚ह्म॒णः । तौ य॒दा स॒गञ्च्छे॑ते ॥ 7 ॥

अथ॑ वी॒र्या॑वत्तरो भवति ॥ अथ॒ य-थ्सा॑रस्व॒तः । ए॒तद्धि प्र॒त्यक्ष॑-म्ब्राह्म॒णस्य॑ वाक्प॒तीय᳚म् ॥ नि॒र्व॒रु॒ण॒त्वायै॒व वा॑रु॒णः । अथो॒ य ए॒व कश्च॒ सन्​थ्सू॒यते᳚ । स हि वा॑रु॒णः ॥ अथ॒ य-द्द्या॑वापृथि॒व्यः॑ । इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । त-न्द्यावा॑पृथि॒वी नान्व॑मन्येताम् । तमे॒तेनै॒व भा॑ग॒धेये॒ना-न्व॑मन्येताम् ॥ 8 ॥

वज्र॑स्य॒ वा ए॒षो॑-ऽनुमा॒नाय॑ । अनु॑मतवज्र-स्सूयाता॒ इति॑ ॥ अ॒ष्टावे॒तानि॑ ह॒वीग्ंषि॑ भवन्ति । अ॒ष्टाक्ष॑रा गाय॒त्री । गा॒य॒त्री ब्र॑ह्मवर्च॒सम् । गा॒य॒त्रि॒यैव ब्र॑ह्मवर्च॒समव॑रुन्धे ॥ हिर॑ण्येन घृ॒तमु-त्पु॑नाति । तेज॑स ए॒व रु॒चे ॥ कृ॒ष्णा॒जि॒ने॑-ऽभिषि॑ञ्चति । ब्रह्म॑णो॒ वा ए॒तदृ॑ख्सा॒मयो॑ रू॒पम् । य-त्कृ॑ष्णाजि॒नम् । ब्रह्म॑न्ने॒वैन॑-मृख्सा॒मयो॒-रद्ध्य॒भिषि॑ञ्चति ॥ घृ॒तेना॒-भिषि॑ञ्चति । तथा॑ वी॒र्या॑वत्तरो भवति ॥ 9 ॥
(स॒गञ्च्छे॑ते - भाग॒धेये॒नान्व॑मन्येताग्ं - रू॒प-ञ्च॒त्वारि॑ च) (अ. 3)

अनुवाकं 4 - सोमसवः
न वै सोमे॑न॒ सोम॑स्य स॒वो᳚-ऽस्ति । ह॒तो ह्ये॑षः । अ॒भिषु॑तो॒ ह्ये॑षः । न हि ह॒त-स्सू॒यते᳚ । सौ॒मीग्ं सू॒तव॑शा॒माल॑भते । सोमो॒ वै रे॑तो॒धाः । रेत॑ ए॒व त-द्द॑धाति ॥ सौ॒म्यर्चा ऽभिषि॑ञ्चति । रे॒तो॒धा ह्य॑षा । रेत॒-स्सोमः॑ । रेत॑ ए॒वास्मि॑-न्दधाति ॥ य-त्किञ्च राज॒सूय॑मृ॒ते सोम᳚म् । त-थ्सर्व॑-म्भवति ॥ अषा॑ढं-युँ॒थ्सु पृत॑नासु॒ पप्रि᳚म् । सु॒व॒र॒.षाम॒फ्स्वां-वृँ॒जन॑स्य गो॒पाम् । भ॒रे॒षु॒जाग्ं सु॑क्षि॒तिग्ं सु॒श्रव॑सम् । जय॑न्त॒-न्त्वामनु॑ मदेम सोम ॥ 10 ॥
(रेत॒-स्सोम॑-स्स॒प्त च॑ ) (अ. 4)

अनुवाकं 5 - पृथिसवः
यो वै सोमे॑न सू॒यते᳚ । स दे॑वस॒वः । यः प॒शुना॑ सू॒यते᳚ । स दे॑वस॒वः । य इष्ट्या॑ सू॒यते᳚ । स म॑नुष्यस॒वः । ए॒तं-वैँ पृथ॑ये दे॒वाः प्राय॑च्छन्न् । ततो॒ वै सो-ऽप्या॑र॒ण्याना᳚-म्पशू॒नाम॑सूयत । याव॑तीः॒ किय॑तीश्च प्र॒जा वाचं॒-वँद॑न्ति । तासा॒ग्ं॒ सर्वा॑साग्ं सूयते ॥ 11 ॥

य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं-वेँद॑ ॥ ना॒रा॒श॒ग्ग्॒स्यर्चा ऽभिषि॑ञ्चति । म॒नु॒ष्या॑ वै नरा॒शग्ंसः॑ । नि॒ह्नुत्य॒ वावैतत् । अथा॒भिषि॑ञ्चति ॥ य-त्किञ्च॑ राज॒सूय॑-मनुत्तरवे॒दीक᳚म् । त-थ्सर्व॑-म्भवति ॥ ये मे॑ पञ्चा॒शत॑-न्द॒दुः । अश्वा॑नाग्ं स॒धस्तु॑तिः । द्यु॒मद॑ग्ने॒ महि॒ श्रवः॑ । बृ॒ह-त्कृ॑धि म॒घोना᳚म् । नृ॒वद॑मृत नृ॒णाम् ॥ 12 ॥
(सू॒य॒ते॒ - स॒धस्तु॑ति॒स्त्रीणि॑ च) (अ. 5)

अनुवाकं 6 - गोसवः
ए॒ष गो॑स॒वः । ष॒ट्त्रि॒ग्ं॒श उ॒क्थ्यो॑ बृ॒ह-थ्सा॑मा । पव॑माने कण्वरथन्त॒र-म्भ॑वति ॥ यो वै वा॑ज॒पेयः॑ । स स॑म्राट्थ्स॒वः । यो रा॑ज॒सूयः॑ । स व॑रुणस॒वः । प्र॒जाप॑ति॒-स्स्वारा᳚ज्य-म्परमे॒ष्ठी । स्वारा᳚ज्य॒-ङ्गौरे॒व ॥ गौरि॑व भवति ॥ 13 ॥

य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं-वेँद॑ ॥ उ॒भे बृ॑ह-द्रथन्त॒रे भ॑वतः । तद्धि स्वारा᳚ज्यम् ॥ अ॒युत॒-न्दक्षि॑णाः । तद्धि स्वारा᳚ज्यम् ॥ प्र॒ति॒धुषा॒ ऽभिषि॑ञ्चति । तद्धि स्वारा᳚ज्यम् ॥ अनु॑द्धते॒ वेद्यै॑ दक्षिण॒त आ॑हव॒नीय॑स्य बृह॒त-स्स्तो॒त्र-म्प्रत्य॒भिषि॑ञ्चति । इ॒यं-वाँव र॑थन्त॒रम् ॥ 14 ॥

अ॒सौ बृ॒हत् । अ॒नयो॑रे॒वैन॒-मन॑न्तर्​हित-म॒भिषि॑ञ्चति ॥ प॒शु॒स्तो॒मो वा ए॒षः । तेन॑ गोस॒वः । ष॒ट्त्रि॒ग्ं॒श-स्सर्वः॑ ॥ रे॒वज्जा॒त-स्सह॑सा वृ॒द्धः । क्ष॒त्राणा᳚-ङ्क्षत्र॒भृत्त॑मो वयो॒धाः । म॒हा-न्म॑हि॒त्वे त॑स्तभा॒नः । क्ष॒त्रे रा॒ष्ट्रे च॑ जागृहि । प्र॒जाप॑तेस्त्वा परमे॒ष्ठिन॒-स्स्वारा᳚ज्येना॒भिषि॑ञ्चा॒-मीत्या॑ह ॥ स्वारा᳚ज्य-मे॒वैन॑-ङ्गमयति ॥ 15 ॥
(इ॒व॒ भ॒व॒ति॒ - र॒थ॒न्त॒र - मा॒हैक॑-ञ्च) (अ. 6)

अनुवाकं 7 - ओदनसवमन्त्राः
सि॒ग्ं॒हे व्या॒घ्र उ॒त या पृदा॑कौ । त्विषि॑र॒ग्नौ ब्रा᳚ह्म॒णे सूर्ये॒ या । इन्द्रं॒-याँ दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न् वर्च॑सा सं​विँदा॒ना ॥ या रा॑ज॒न्ये॑ दुन्दु॒भावाय॑तायाम् । अश्व॑स्य॒ क्रन्द्ये॒ पुरु॑षस्य मा॒यौ । इन्द्रं॒-याँ दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न् वर्च॑सा सं​विँदा॒ना ॥ या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये । त्विषि॒-रश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑ ॥ 16 ॥

इन्द्रं॒-याँ दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न् वर्च॑सा सं​विँदा॒ना ॥ रथे॑ अ॒क्षेषु॑ वृष॒भस्य॒ वाजे᳚ । वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚ । इन्द्रं॒-याँ दे॒वी सु॒भगा॑ ज॒जान॑ । सा न॒ आग॒न् वर्च॑सा सं​विँदा॒ना ॥ राड॑सि वि॒राड॑सि । स॒म्राड॑सि स्व॒राड॑सि ॥ इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्तग्ग्​ श्रीणामि । इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑सवन्तग्ग्​ श्रीणामि ॥ 17 ॥

इन्द्रा॑य त्वा॒ पय॑स्वते॒ पय॑स्वन्तग्ग्​ श्रीणामि । इन्द्रा॑य॒ त्वा-ऽऽयु॑ष्मत॒ आयु॑ष्मन्तग्ग्​ श्रीणामि ॥ तेजो॑-ऽसि । त-त्ते॒ प्रय॑च्छामि । तेज॑स्वदस्तु मे॒ मुख᳚म् । तेज॑स्व॒च्छिरो॑ अस्तु मे । तेज॑स्वान्. वि॒श्वतः॑ प्र॒त्यम् । तेज॑सा॒ सम्पि॑पृग्धि मा ॥ ओजो॑-ऽसि । त-त्ते॒ प्रय॑च्छामि ॥ 18 ॥

ओज॑स्वदस्तु मे॒ मुख᳚म् । ओज॑स्व॒च्छिरो॑ अस्तु मे । ओज॑स्वान्. वि॒श्वतः॑ प्र॒त्यम् । ओज॑सा॒ सम्पि॑पृग्धि मा ॥ पयो॑-ऽसि । तत्ते॒ प्रय॑च्छामि । पय॑स्वदस्तु मे॒ मुख᳚म् । पय॑स्व॒च्छिरो॑ अस्तु मे । पय॑स्वान्. वि॒श्वतः॑ प्र॒त्यम् । पय॑सा॒ सम्पि॑पृग्धि मा ॥ 19 ॥

आयु॑रसि । त-त्ते॒ प्रय॑च्छामि । आयु॑ष्मदस्तु मे॒ मुख᳚म् । आयु॑ष्म॒च्छिरो॑ अस्तु मे । आयु॑ष्मान्. वि॒श्वतः॑ प्र॒त्यम् । आयु॑षा॒ सम्पि॑पृग्धि मा ॥ इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि । प्रि॒यग्ं रेतो॑ वरुण सोम राजन्न् । मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ । विश्वे॑ देवा॒ जर॑दष्टि॒र्यथा ऽस॑त् ॥ 20 ॥

आयु॑रसि वि॒श्वायु॑रसि । स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि ॥ यतो॒ वातो॒ मनो॑ जवाः । यतः॒, क्षर॑न्ति॒ सिन्ध॑वः । तासा᳚-न्त्वा॒ सर्वा॑साग्ं रु॒चा । अ॒भिषि॑ञ्चामि॒ वर्च॑सा ॥ स॒मु॒द्र इ॑वासि ग॒ह्मना᳚ । सोम॑ इवा॒स्यदा᳚भ्यः । अ॒ग्निरि॑व वि॒श्वतः॑ प्र॒त्यम् । सूर्य॑ इव॒ ज्योति॑षा वि॒भूः ॥ 21 ॥

अ॒पां-योँ द्रव॑णे॒ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि । अ॒पां-यँ ऊ॒र्मौ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । ओज॑से वी॒र्या॑य गृह्णामि । अ॒पां-योँ म॑द्ध्य॒तो रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । पुष्ट्यै᳚ प्र॒जन॑नाय गृह्णामि । अ॒पां-योँ य॒ज्ञियो॒ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । आयु॑षे दीर्घायु॒त्वाय॑ गृह्णामि ॥ 22 ॥
(गोष् - वोज॑स्वन्तग्ग्​ श्रीणा॒ - म्योजो॑-ऽसि॒ तत्ते॒ प्रय॑च्छामि॒ - पय॑सा॒ सम्पि॑पृग्धि॒ मा-स॑-द्- वि॒भू--र् य॒ज्ञियो॒ रसो॒ द्वे च॑) (अ. 7)

अनुवाकं 8 - ओदनसवगता स्थारोहणमन्त्राः
अ॒भिप्रेहि॑ वी॒रय॑स्व । उ॒ग्रश्चेत्ता॑ सपत्न॒हा ॥ आति॑ष्ठ मित्र॒वर्ध॑नः । तुभ्य॑-न्दे॒वा अधि॑ब्रवन्न् ॥ अ॒ङ्कौन्य॒ङ्का व॒भितो॒ रथं॒-यौँ ध्वा॒न्तं-वाँ॑ता॒ग्रमनु॑ स॒चंर॑न्तौ दू॒रे हे॑तिरिन्द्रि॒यावा᳚-न्पत॒त्री ते नो॒-ऽग्नयः॒ पप्र॑यः पारयन्तु ॥ शमे अस् इते-न्नो. ॥ आ॒तिष्ठ॑न्त॒-म्परि॒ विश्वे॑ अभूषन्न् । श्रियं॒-वँसा॑नश्चरति॒ स्वरो॑चाः । म॒हत्-तद॒स्यासु॑रस्य॒ नाम॑ । आ वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥ अनु॒ त्वेन्द्रो॑ मद॒त्वनु॒ बृह॒स्पतिः॑ ॥ 23 ॥

अनु॒ सोमो॒ अन्व॒ग्निरा॑वीत् । अनु॑ त्वा॒ विश्वे॑ दे॒वा अ॑वन्तु । अनु॑ स॒प्त राजा॑नो॒ य उ॒ताभिषि॑क्ताः ॥ अनु॑ त्वा मि॒त्रावरु॑णावि॒हाव॑तम् । अनु॒ द्यावा॑पृथि॒वी वि॒श्वश॑भूम् । सूर्यो॒ अहो॑भि॒रनु॑ त्वा-ऽवतु । च॒न्द्रमा॒ नक्ष॑त्रै॒रनु॑ त्वा-ऽवतु ॥ द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा । शु॒क्रो बृ॒ह-द्दक्षि॑णा त्वा पिपर्तु । अनु॑ स्व॒धा चि॑किता॒ग्ं॒ सोमो॑ अ॒ग्निः । आ-ऽय-म्पृ॑णक्तु॒ रज॑सी उ॒पस्थ᳚म् ॥ 24 ॥
(बृह॒स्पतिः॒ - सोमो॑ अ॒ग्निरेक॑-ञ्च) (अ. 8)

अनुवाकं 9 - ओदनसवः
प्र॒जाप॑तिः प्र॒जा अ॑सृजत । ता अ॑स्मा-थ्सृ॒ष्टाः परा॑चीरायन्न् । स ए॒त-म्प्र॒जाप॑तिरोद॒न-म॑पश्यत् । सो-ऽन्न॑-म्भू॒तो॑-ऽतिष्ठत् । ता अ॒न्यत्रा॒न्नाद्य॒मवि॑त्त्वा । प्र॒जाप॑ति-म्प्र॒जा उ॒पाव॑र्तन्त । अन्न॑मे॒वैन॑-म्भू॒त-म्पश्य॑न्तीः प्र॒जा उ॒पाव॑र्तन्ते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं-वेँद॑ ॥ सर्वा॒ण्यन्ना॑नि भवन्ति ॥ 25 ॥

सर्वे॒ पुरु॑षाः । सर्वा᳚ण्ये॒वान्ना॒न्यव॑रुन्धे । सर्वा॒-न्पुरु॑षान् ॥ राड॑सि वि॒राड॒सीत्या॑ह । स्वारा᳚ज्यमे॒वैन॑-ङ्गमयति ॥ यद्धिर॑ण्य॒-न्ददा॑ति । तेज॒स्तेनाव॑रुन्धे । यत्ति॑सृध॒न्वम् । वी॒र्य॑-न्तेन॑ । यदष्ट्रा᳚म् ॥ 26 ॥

पुष्टि॒-न्तेन॑ । यत्-क॑म॒ण्डलु᳚म् । आयु॒ष्टेन॑ ॥ यद्धिर॑ण्यमाब॒द्ध्नाति॑ । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒वास्मि॑न्-दधाति । अथो॒ तेजो॒ वै हिर॑ण्यम् । तेज॑ ए॒वात्म-न्ध॑त्ते ॥ यदो॑द॒न-म्प्रा॒श्नाति॑ । ए॒तदे॒व सर्व॑मव॒रुद्ध्य॑ ॥ 27 ॥

तद॑स्मि-न्नेक॒धा-ऽधा᳚त् ॥ रो॒हि॒ण्या-ङ्का॒र्यः॑ । यद्ब्रा᳚ह्म॒ण ए॒व रो॑हि॒णी । तस्मा॑दे॒व । अथो॒ वर्​ष्मै॒वैनग्ं॑ समा॒नाना᳚-ङ्करोति ॥ उ॒द्य॒ता सूर्ये॑ण का॒र्यः॑ । उ॒द्यन्तं॒-वाँ ए॒तग्ं सर्वाः᳚ प्र॒जाः प्रति॑नन्दन्ति ॥ दि॒दृ॒क्षेण्यो॑ दर्​श॒नीयो॑ भवति । य ए॒वं-वेँद॑ ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ॥ 28 ॥

अ॒वेत्यो॑-ऽवभृ॒था(3) ना(3) इति॑ । य-द्द॑र्भपुञ्जी॒लैः प॒वय॑ति । त-थ्स्वि॑दे॒वावै॑ति । तन्नावै॑ति ॥ त्रि॒भिः प॑वयति । त्रय॑ इ॒मे लो॒काः । ए॒भिरे॒वैनं॑-लोँ॒कैः प॑वयति । अथो॑ अ॒पां-वाँ ए॒त-त्तेजो॒ वर्चः॑ । य-द्द॒र्भाः । य-द्द॑र्भपुञ्जी॒लैः प॒वय॑ति । अ॒पामे॒वैन॒-न्तेज॑सा॒ वर्च॑सा॒-ऽभिषि॑ञ्चति ॥ 29 ॥
(भ॒व॒ - न्त्यष्ट्रा॑ - मव॒रुद्ध्य॑ - वदन्ति - द॒र्भा य-द्द॑र्भपुञ्जी॒लैः प॒वय॒त्येक॑-ञ्च ) (अ. 9)

अनुवाकं 10 - पञ्चशारदीयविधिः
प्र॒जाप॑तिरकामयत ब॒होर्भूया᳚न्-थ्स्या॒मिति॑ । स ए॒त-म्प॑ञ्चशार॒दीय॑-मपश्यत् । तमा-ऽह॑रत् । तेना॑यजत । ततो॒ वै स ब॒होर्भूया॑-नभवत् । यः का॒मये॑त ब॒होर्भूया᳚न्-थ्स्या॒मिति॑ । स प॑ञ्चशार॒दीये॑न यजेत । ब॒होरे॒व भूया᳚-न्भवति ॥ म॒रु॒-थ्स्तो॒मो वा ए॒षः । म॒रुतो॒ हि दे॒वाना॒-म्भूयि॑ष्ठाः ॥ 30 ॥

ब॒हुर्भ॑वति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं-वेँद॑ ॥ प॒ञ्च॒शा॒र॒दीयो॑ भवति । पञ्च॒ वा ऋ॒तव॑-स्सं​वँथ्स॒रः । ऋ॒तुष्वे॒व सं॑​वँथ्स॒रे प्रति॑तिष्ठति । अथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः । पाङ्क्तो॑ य॒ज्ञः । य॒ज्ञमे॒वाव॑रुन्धे ॥ स॒प्त॒द॒शग्ग्​ स्तोमा॒ नाति॑यन्ति । स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ ॥ 31 ॥
(भूयि॑ष्ठा - यन्ति॒ द्वे च॑) (अ. 10)

अनुवाकं 11 - पञ्चशारदीयगतपशुविधिः
अ॒गस्यो॑ म॒रुद्भ्य॑ उ॒क्ष्णः प्रौक्ष॑त् । तानिन्द्र॒ आद॑त्त । त ए॑नं॒-वँज्र॑मु॒द्यत्या॒भ्या॑यन्त । तान॒गस्त्य॑श्चै॒वेन्द्र॑श्च कयाशु॒भीये॑नाशमयताम् । ताञ्छा॒-न्तानुपा᳚ह्वयत । य-त्क॑याशु॒भीय॒-म्भव॑ति॒ शान्त्यै᳚ ॥ तस्मा॑दे॒त ऐ᳚न्द्रा मारु॒ता उ॒क्षाण॑-स्सव॒नीया॑ भवन्ति । त्रयः॑ प्रथ॒मे-ऽह॒न्नाल॑भ्यन्ते । ए॒व-न्द्वि॒तीये᳚ । ए॒व-न्तृ॒तीये᳚ ॥ 32 ॥

ए॒व-ञ्च॑तु॒र्थे । पञ्चो᳚त्त॒मे-ऽह॒न्नाल॑भ्यन्ते । वर्​षि॑ष्ठमिव॒ ह्ये॑तदहः॑ ॥ वर्​षि॑ष्ठ-स्समा॒नाना᳚-म्भवति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं-वेँद॑ ॥ स्वारा᳚ज्यं॒-वाँ ए॒ष य॒ज्ञः । ए॒तेन॒ वा एक॒यावा॑ कान्द॒म-स्स्वारा᳚ज्य-मगच्छत् ॥ स्वारा᳚ज्य-ङ्गच्छति । य ए॒तेन॒ यज॑ते ॥ 33 ॥

य उ॑ चैनमे॒वं-वेँद॑ ॥ मा॒रु॒तो वा ए॒ष स्तोमः॑ । ए॒तेन॒ वै म॒रुतो॑ दे॒वाना॒-म्भूयि॑ष्ठा अभवन्न् । भूयि॑ष्ठ-स्समा॒नाना᳚-म्भवति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं-वेँद॑ ॥ प॒ञ्च॒शा॒र॒दीयो॒ वा ए॒ष य॒ज्ञः । आ प॑ञ्च॒मात्-पुरु॑षा॒दन्न॑मत्ति । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं-वेँद॑ ॥ स॒प्त॒द॒शग्ग्​ स्तोमा॒ नाति॑यन्ति । स॒प्त॒द॒शः प्र॒जाप॑तिः । प्र॒जाप॑तेरे॒व नैति॑ ॥ 34 ॥
(तृ॒तीये॑ - गच्छति॒ य ए॒तेन॒ यज॑ते - ऽत्ति॒ य ए॒तेन॒ यज॑ते॒ य उ॑ चैनमे॒वं-वेँद॒ त्रीणि॑ च) (अ. 11)

(अ॒गस्त्य॒-स्स्वारा᳚ज्य-म्मारु॒तः प॑ञ्चशार॒दीयो॒ वा ए॒ष य॒ज्ञ-स्स॑प्तद॒शं
प्र॒जाप॑तेरे॒व नैति॑)

अनुवाकं 12 - अग्निष्टुद्यागे ग्रहाणा-म्पुरोरुचः
अ॒स्याजरा॑सो द॒मा म॒रित्राः᳚ । अ॒र्चद्धू॑मासो अ॒ग्नयः॑ पाव॒काः । श्वि॒ची॒चय॑-श्श्वा॒त्रासो॑ भुर॒ण्यवः॑ । व॒न॒र॒.षदो॑ वा॒यवो॒ न सोमाः᳚ ॥ यजा॑ नो मि॒त्रावरु॑णा । यजा॑ दे॒वाग्ं ऋ॒त-म्बृ॒हत् । अग्ने॒ यक्षि॒ स्व-न्दम᳚म् ॥ अश्वि॑ना॒ पिब॑तग्ं सु॒तम् । दीद्य॑ग्नी शुचि व्रता । ऋ॒तुना॑ यज्ञवाहसा ॥ 35 ॥

द्वे विरू॑पे चरत॒-स्स्वर्थे᳚ । अ॒न्या-ऽन्या॑ व॒थ्समुप॑धापयेते । हरि॑र॒न्यस्या॒-म्भव॑ति स्व॒धावान्॑ । शु॒क्रो अ॒न्यस्या᳚-न्ददृशे सु॒वर्चाः᳚ ॥ पू॒र्वा॒प॒र-ञ्च॑रतो मा॒ययै॒तौ । शिशू॒ क्रीड॑न्तौ॒ परि॑यातो अद्ध्व॒रम् । विश्वा᳚न्य॒न्यो भुव॑ना-ऽभि॒चष्टे᳚ । ऋ॒तून॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ॥ त्रीणि॑ श॒ता त्रीष॒हस्रा᳚ण्य॒ग्निम् । त्रि॒ग्ं॒शच्च॑ दे॒वा नव॑ चासपर्यन्न् ॥ 36 ॥

औक्ष॑न्-घृ॒तैरास्तृ॑णन्-ब॒र्॒हिर॑स्मै । आदिद्धोता॑र॒-न्न्य॑षादयन्त ॥ अ॒ग्निना॒-ऽग्नि-स्समि॑द्ध्यते । क॒वि-र्गृ॒हप॑ति॒र्युवा᳚ । ह॒व्य॒वाड्-जु॒ह्वा᳚स्यः ॥ अ॒ग्नि-र्दे॒वाना᳚-ञ्ज॒ठर᳚म् । पू॒तद॑क्षः क॒विक्र॑तुः । दे॒वो दे॒वेभि॒राग॑मत् ॥ अ॒ग्नि॒श्रियो॑ म॒रुतो॑ वि॒श्वकृ॑ष्टयः । आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् ॥ 37 ॥

ते स्वा॒निनो॑ रु॒द्रिया॑ व॒र॒.षनि॑र्णिजः । सि॒ग्ं॒हा न हे॒षक्र॑तव-स्सु॒दान॑वः ॥ यदु॑त्त॒मे म॑रुतो मद्ध्य॒मे वा᳚ । यद्वा॑-ऽव॒मे सु॑भगासो दि॒विष्ठ । ततो॑ नो रुद्रा उ॒त वा॒-ऽन्वस्य॑ । अग्ने॑ वि॒त्ताद्ध॒विषो॒ यद्यजा॑मः ॥ ईडे॑ अ॒ग्निग्ग्​ स्वव॑स॒-न्नमो॑भिः । इ॒ह प्र॑स॒प्तो विच॑यत्कृ॒त-न्नः॑ । रथै॑रिव॒ प्रभ॑रे वाज॒यद्भिः॑ । प्र॒द॒क्षि॒णि-न्म॒रुता॒ग्॒ स्तोम॑मृद्ध्याम् ॥ 38 ॥

श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिः । दे॒वैर॑ग्ने स॒याव॑भिः । आसी॑दन्तु ब॒र॒ःइषि॑ । मि॒त्रो वरु॑णो अर्य॒मा । प्रा॒त॒र्यावा॑णो अद्ध्व॒रम् ॥ विश्वे॑षा॒-मदि॑ति-र्य॒ज्ञिया॑नाम् । विश्व॑षा॒-मति॑थि॒-र्मानु॑षाणाम् । अ॒ग्नि-र्दे॒वाना॒मव॑ आवृणा॒नः । सु॒मृ॒डी॒को भ॑वतु वि॒श्ववे॑दाः ॥ त्वे अ॑ग्ने सुम॒ति-म्भिक्ष॑माणाः ॥ 39 ॥

दि॒वि श्रवो॑ दधिरे य॒ज्ञिया॑सः । नक्ता॑ च च॒क्रुरु॒षसा॒ विरू॑पे । कृ॒ष्ण-ञ्च॒ वर्ण॑मरु॒ण-ञ्च॒ सन्धुः॑ ॥ त्वाम॑ग्न आदि॒त्यास॑ आ॒स्य᳚म् । त्वा-ञ्जि॒ह्वाग्ं शुच॑यश्चक्रिरे कवे । त्वाग्ं रा॑ति॒षाचो॑ अद्ध्व॒रेषु॑ सश्चिरे । त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ॥ नि त्वा॑ य॒ज्ञस्य॒ साध॑नम् । अग्ने॒ होता॑र-मृ॒त्विज᳚म् । व॒नु॒ष्व-द्दे॑व धीमहि॒ प्रचे॑तसम् । जी॒र-न्दू॒तमम॑र्त्यम् ॥ 40 ॥
(य॒ज्ञ॒वा॒ह॒सा॒ - ऽस॒प॒र्य॒न् - व॒य - मृ॑द्ध्यां॒ - भिक्ष॑माणाः॒ - प्रचे॑तस॒मेक॑-ञ्च) (अ. 12)

अनुवाकं 13 - इन्द्रस्तुद्यागे ग्रहाणा-म्पुरोरुचः
तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि । वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ । पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे । इन्द्र॒ स्वाहा॑ ररि॒मा ते॒ मदा॑य ॥ कस्य॒ वृषा॑ सु॒ते सचा᳚ । नि॒युत्वा᳚न् वृष॒भो र॑णत् । वृ॒त्र॒हा सोम॑पीतये ॥ इन्द्रं॑-वँ॒य-म्म॑हाध॒ने । इन्द्र॒मर्भे॑ हवामहे । युजं॑-वृँ॒त्रेषु॑ व॒ज्रिण᳚म् ॥ 41 ॥

द्वि॒तायो वृ॑त्र॒हन्त॑मः । वि॒द इन्द्र॑-श्श॒तक्र॑तुः । उप॑ नो॒ हरि॑भि-स्सु॒तम् ॥ स सूर॒ आज॒नय॒ञ्ज्योति॒रिन्द्र᳚म् । अ॒या धि॒या त॒रणि॒रद्रि॑बर्​हाः । ऋ॒तेन॑ शु॒ष्मीनव॑मानो अ॒र्कैः । व्यु॑स्रिधो॑ अ॒स्रो अद्रि॑र्बिभेद ॥ उ॒त त्यदा॒श्वश्वि॑यम् । यदि॑न्द्र॒ नाहु॑षी॒ष्वा । अग्रे॑ वि॒क्षु प्रतीद॑यत् ॥ 42 ॥

भरे॒ष्विन्द्रग्ं॑ सु॒हवग्ं॑ हवामहे । अ॒ग्ं॒हो॒मुचग्ं॑ सु॒कृत॒-न्दैव्य॒ञ्जन᳚म् । अ॒ग्नि-म्मि॒त्रं-वँरु॑णग्ं सा॒तये॒ भग᳚म् । द्यावा॑पृथि॒वी म॒रुत॑-स्स्व॒स्तये᳚ ॥ म॒हि क्षेत्र॑-म्पु॒रुश्च॒न्द्रं-विँवि॒द्वान् । आदि-थ्सखि॑भ्यश्च॒ रथ॒ग्ं॒ समै॑रत् । इन्द्रो॒ नृभि॑रजन॒-द्दीद्या॑न-स्सा॒कम् । सूर्य॑मु॒षस॑-ङ्गा॒तुम॒ग्निम् ॥ उ॒रु-न्नो॑ लो॒कमनु॑नेषि वि॒द्वान् । सुव॑र्व॒-ज्ज्योति॒रभ॑यग्ग्​ स्व॒स्ति ॥ 43 ॥

ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू । उप॑स्थेयाम शर॒णा बृ॒हन्ता᳚ ॥ आ नो॒ विश्वा॑भिरू॒तिभि॑-स्स॒जोषाः᳚ । ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि । वरी॑वृज॒-थ्स्थवि॑रेभि-स्सुशिप्र । अ॒स्मे दध॒-द्वृष॑ण॒ग्ं॒ शुष्म॑मिन्द्र ॥ इन्द्रा॑य॒ गाव॑ आ॒शिर᳚म् । दु॒दु॒ह्रे व॒ज्रिणे॒ मधु॑ । य-थ्सी॑मुपह्व॒रे-ऽवि॒दत् ॥ तास्ते॑ वज्रि-न्धे॒नवो॑ जोजयुर्नः ॥ 44 ॥

गभ॑स्तयो नि॒युतो॑ वि॒श्ववा॑राः । अह॑रह॒र्भूय॒ इज्जोगु॑वानाः । पू॒र्णा इ॑न्द्र क्षु॒मतो॒ भोज॑नस्य ॥ इ॒मा-न्ते॒ धिय॒-म्प्रभ॑रे म॒हो म॒हीम् । अ॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे । तमु॑थ्स॒वे च॑ प्रस॒वे च॑ सास॒हिम् । इन्द्र॑-न्दे॒वास॒-श्शव॑सा मद॒न्ननु॑ ॥ 45 ॥
(व॒ज्रिण॑ - मयथ् - स्व॒स्ति - जो॑जयुर्नः - +स॒प्त च॑) (अ. 13)

अनुवाकं 14 - अप्तोर्यामाविधिः
प्र॒जाप॑तिः प॒शून॑सृजत । ते᳚-ऽस्मा-थ्सृ॒ष्टाः परा᳚ञ्च आयन्न् । तान॑ग्निष्टो॒मेन॒ नाप्नो᳚त् । तानु॒क्थ्ये॑न॒ नाप्नो᳚त् । तान्-थ्षो॑ड॒शिना॒ नाप्नो᳚त् । तान्रात्रि॑या॒ नाप्नो᳚त् । तान्-थ्स॒न्धिना॒ नाप्नो᳚त् । सो᳚-ऽग्निम॑ब्रवीत् । इ॒मान्म॑ ई॒फ्सेति॑ । तान॒ग्निस्त्रि॒वृता॒ स्तोमे॑न॒ नाप्नो᳚त् ॥ 46 ॥

स इन्द्र॑मब्रवीत् । इ॒मान्म॑ ई॒फ्सेति॑ । तानिन्द्रः॑ पञ्चद॒शेन॒ स्तोमे॑न॒ नाप्नो᳚त् । स विश्वा᳚-न्दे॒वा-न॑ब्रवीत् । इ॒मान्म॑ ईफ्स॒तेति॑ । तान्. विश्वे॑ दे॒वा-स्स॑प्तद॒शेन॒ स्तोमे॑न॒ नाप्नु॑वन्न् । स विष्णु॑मब्रवीत् । इ॒मान्म॑ ई॒फ्सेति॑ । तान्. विष्णु॑रेकवि॒ग्ं॒शेन॒ स्तोमे॑नाप्नोत् । वा॒र॒व॒न्तीये॑नावारयत ॥ 47 ॥

इ॒दं-विँष्णु॒-र्विच॑क्रम॒ इति॒ व्य॑क्रमत ॥ यस्मा᳚-त्प॒शवः॒ प्र प्रेव॒ भ्रग्ंशे॑रन्न् । स ए॒तेन॑ यजेत ॥ यदाप्नो᳚त् । तद॒प्तोर्याम॑स्याप्तोर्याम॒त्वम् ॥ ए॒तेन॒ वै दे॒वा जैत्वा॑नि जि॒त्वा । य-ङ्काम॒-मका॑मयन्त॒ तमा᳚प्नुवन्न् । य-ङ्काम॑-ङ्का॒मय॑ते । तमे॒तेना᳚प्नोति ॥ 48 ॥
(स्तोमे॑न॒ नाप्नो॑ - दवारयत॒ - +नव॑ च) (अ. 14)

अनुवाकं 15 - राजाभिषेकः
व्या॒घ्रो॑-ऽयम॒ग्नौ च॑रति॒ प्रवि॑ष्टः । ऋषी॑णा-म्पु॒त्रो अ॑भिशस्ति॒पा अ॒यम् । न॒म॒स्का॒रेण॒ नम॑सा ते जुहोमि । मा दे॒वाना᳚-म्मिथु॒या क॑र्म भा॒गम् ॥ सावी॒र॒ःइ दे॑व प्रस॒वाय॑ पित्रे । व॒र्​ष्माण॑मस्मै वरि॒माण॑मस्मै । अथा॒स्मभ्यग्ं॑ सवित-स्स॒र्वता॑ता । दि॒वे दि॑व॒ आसु॑वा॒ भूरि॑प॒श्वः ॥ भू॒तो भू॒तेषु॑ चरति॒ प्रवि॑ष्टः । स भू॒ताना॒-मधि॑पति-र्बभूव ॥ 49 ॥

तस्य॑ मृ॒त्यौ च॑रति राज॒सूय᳚म् । स राजा॑ रा॒ज्य-मनु॑मन्यतामि॒दम् ॥ येभि॒-श्शिल्पैः᳚ पप्रथा॒नामदृग्ं॑हत् । येभि॒द्र्याम॒भ्यपिग्ं॑शत्-प्र॒जाप॑तिः । येभि॒र्वाचं॑-विँ॒श्वरू॑पाग्ं स॒मव्य॑यत् । तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि ॥ येभि॑रादि॒त्यस्तप॑ति॒ प्रके॒तुभिः॑ । येभि॒-स्सूर्यो॑ ददृ॒शे चि॒त्रभा॑नुः । येभि॒र्वाच॑-म्पुष्क॒लेभि॒रव्य॑यत् । तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि ॥ 50 ॥

आ-ऽय-म्भा॑तु॒ शव॑सा॒ पञ्च॑ कृ॒ष्टीः । इन्द्र॑ इव ज्ये॒ष्ठो भ॑वतु प्र॒जावान्॑ । अ॒स्मा अ॑स्तु पुष्क॒ल-ञ्चि॒त्रभा॑नु । आ-ऽय-म्पृ॑णक्तु॒ रज॑सी उ॒पस्थ᳚म् ॥ यत्ते॒ शिल्प॑-ङ्कश्यप रोच॒नाव॑त् । इ॒न्द्रि॒याव॑त्-पुष्क॒ल-ञ्चि॒त्रभा॑नु । यस्मि॒न्-थ्सूर्या॒ अर्पि॑ता-स्स॒प्त सा॒कम् । तस्मि॒न्-राजा॑न॒-मधि॒विश्र॑ये॒मम् ॥ द्यौर॑सि पृथि॒व्य॑सि ॥ व्या॒घ्रो वैया॒घ्रे-ऽधि॑ ॥ 51 ॥

विश्र॑यस्व॒ दिशो॑ म॒हीः । विश॑स्त्वा॒ सर्वा॑ वाञ्छन्तु । मा त्व-द्रा॒ष्ट्रमधि॑भ्रशत् ॥ या दि॒व्या आपः॒ पय॑सा सम्बभू॒वुः । या अ॒न्तरि॑क्ष उ॒त पार्थि॑वी॒र्याः । ता सा᳚-न्त्वा॒ सर्वा॑साग्ं रु॒चा । अ॒भिषि॑ञ्चामि॒ वर्च॑सा । अ॒भि त्वा॒ वर्च॑सा सिच-न्दि॒व्येन॑ । पय॑सा स॒ह । यथा-ऽऽसा॑ राष्ट्र॒वर्ध॑नः ॥ 52 ॥

तथा᳚ त्वा सवि॒ता क॑रत् । इन्द्रं॒-विँश्वा॑ अवीवृधन्न् । स॒मु॒द्र व्य॑चस॒-ङ्गिरः॑ । र॒थीत॑मग्ं रथी॒नाम् । वाजा॑ना॒ग्ं॒ स-त्प॑ति॒-म्पति᳚म् । वस॑वस्त्वा पु॒रस्ता॑द॒भिषि॑ञ्चन्तु गाय॒त्रेण॒ छन्द॑सा । रु॒द्रास्त्वा॑ दक्षिण॒तो॑-ऽभिषि॑ञ्चन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा । आ॒दि॒त्यास्त्वा॑ प॒श्चाद॒भिषि॑ञ्चन्तु॒ जाग॑तेन॒ छन्द॑सा । विश्वे᳚ त्वा दे॒वा उ॑त्तर॒तो॑-ऽभिषि॑ञ्च॒न्-त्वानु॑ष्टुभेन॒ छन्द॑सा । बृह॒स्पति॑-स्त्वो॒परि॑ष्टा-द॒भिषि॑ञ्चतु॒ पाङ्क्ते॑न॒ छन्द॑सा ॥ 53 ॥

अ॒रु॒ण-न्त्वा॒ वृक॑मु॒ग्र-ङ्ख॑ज-ङ्क॒रम् । रोच॑मान-म्म॒रुता॒मग्रे॑ अ॒र्चिषः॑ । सूर्य॑वन्त-म्म॒घवा॑नं-विँषास॒हिम् । इन्द्र॑मु॒क्थ्येषु॑ नाम॒हूत॑मग्ं हुवेम ॥ प्र बा॒हवा॑ सिसृत-ञ्जी॒वसे॑ नः । आ नो॒ गव्यू॑तिमुक्षत-ङ्घृ॒तेन॑ । आ नो॒ जने᳚ श्रवयतं-युँवाना । श्रु॒त-म्मे॑ मित्रावरुणा॒ हवे॒मा ॥ इन्द्र॑स्य ते वीर्य॒कृतः॑ । बा॒हू उ॒पाव॑हरामि ॥ 54 ॥
(ब॒भू॒ - वाव्य॑य॒-त्तेने॒मम॑ग्न इ॒ह वर्च॑सा॒ सम॑ङ्ग्धि॒ - वैया॒घ्रे-ऽधि॑ - राष्ट्र॒वर्ध॑नः॒ - पाङ्क्ते॑न॒ छन्द॑सो॒ - पाव॑हरामि) (अ. 15)

अनुवाकं 16 - राजाभिषेकाङ्गं रथारोहणम्
अ॒भि प्रेहि॑ वी॒रय॑स्व । उ॒ग्रश्चेत्ता॑ सपत्न॒हा ॥ आति॑ष्ठ वृत्र॒हन्त॑मः । तुभ्य॑-न्दे॒वा अधि॑ब्रवन्न् ॥ अ॒ङ्कौ न्य॒ङ्काव॒भितो॒ रथं॒-यौँ । ध्वा॒न्तं-वाँ॑ता॒ग्रमनु॑स॒-ञ्चर॑न्तौ । दू॒रे हे॑ति-रिन्द्रि॒यावा᳚-न्पत॒त्री । ते नो॒-ऽग्नयः॒ पप्र॑यः पारयन्तु ॥ नम॑स्त ऋषे गद । अव्य॑थायै (अव्य॑धायै) त्वा स्व॒धायै᳚ त्वा ॥ 55 ॥

मा न॑ इन्द्रा॒भित॒स्त्व-दृ॒ष्वारि॑ष्टासः । ए॒वा ब्र॑ह्म॒न्तवेद॑स्तु ॥ तिष्ठा॒ रथे॒ अधि॒ य-द्वज्र॑हस्तः ॥ आ र॒श्मीन्दे॑व युवसे॒ स्वश्वः॑ ॥ अबोवे, आ॒तिष्ठ॑न्त॒-म्परि॒ विश्वे॑ अभूषन्न् । श्रियं॒-वँसा॑नश्चरति॒ स्वरो॑चाः । म॒हत्-तद॒स्यासु॑रस्य॒ नाम॑ । आ वि॒श्वरू॑पो अ॒मृता॑नि तस्थौ ॥ । अनु॒ त्वेन्द्रो॑ मद॒त्वनु॒ बृह॒स्पतिः॑ । अनु॒ सोमो॒ अन्व॒ग्निरा॑वीत् । अनु॑ त्वा॒ विश्वे॑ दे॒वा अ॑वन्तु । अनु॑ स॒प्त राजा॑नो॒ य उ॒ताभिषि॑क्ताः ॥. अनु॑त्वा मि॒त्रावरु॑णावि॒हाव॑तम् । अनु॒ द्यावा॑पृथि॒वी वि॒श्वश॑भूम् । सूर्यो॒ अहो॑भि॒रनु॑ त्वा-ऽवतु । च॒न्द्रमा॒ नक्ष॑त्रै॒रनु॑ त्वा ऽवतु ॥ ॥ द्यौश्च॑ त्वा पृथि॒वी च॒ प्रचे॑तसा । शु॒क्रो बृ॒ह-द्दक्षि॑णा त्वा पिपर्तु । अनु॑ स्व॒धा चिकिता॒ग्ं॒ सोमो॑ अ॒ग्निः । अनु॑ त्वा-ऽवतु सवि॒ता स॒वेन॑ ॥ 56 ॥

इन्द्रं॒-विँश्वा॑ अवीवृधन्न् । स॒मु॒द्र व्य॑चस॒-ङ्गिरः॑ । र॒थीत॑मग्ं रथी॒नाम् । वाजा॑ना॒ग्ं॒ स-त्प॑ति॒-म्पति᳚म् ॥ परि॑ मा से॒न्या घोषाः᳚ । ज्यानां᳚-वृँञ्जन्तु गृ॒द्ध्नवः॑ । मे॒थि॒ष्ठाः पिन्व॑माना इ॒ह । मा-ङ्गोप॑तिम॒भि सं​विँ॑शन्तु ॥ तन्मे-ऽनु॑मति॒-रनु॑मन्यताम् । तन्मा॒ता पृ॑थि॒वी त-त्पि॒ता द्यौः ॥ 57 ॥

तद्ग्रावा॑ण-स्सोम॒सुतो॑ मयो॒भुवः॑ । तद॑श्विना शृणुतग्ं सौभगा यु॒वम् ॥ अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ । क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेनाग्ं॑सि शिश्रथः कृ॒तानि॑ ॥, उदु॑त्त॒मं-वँ॑रुण॒ पाश॑म॒स्मदवा॑-ऽध॒मं-विँम॑ध्य॒मग्ग्​ श्र॑थाय । अथा॑ व॒यमा॑दित्य व्र॒ते तवा-ऽना॑गसो॒ अदि॑तये स्याम ॥ ॥ ए॒ना व्या॒घ्र-म्प॑रिषस्वजा॒नाः । सि॒ग्ं॒हग्ं हि॑न्वन्ति मह॒ते सौभ॑गाय । स॒मु॒द्र-न्न सु॒हव॑-न्तस्थि॒वाग्ंस᳚म् । म॒र्मृ॒ज्यन्ते᳚ द्वी॒पिन॑म॒फ्स्व॑न्तः ॥ उद॒सावे॑तु॒ सूर्यः॑ । उदि॒द-म्मा॑म॒कं-वँचः॑ । उदि॑हि देव सूर्य । स॒ह व॒ग्नुना॒ मम॑ । अ॒हं-वाँ॒चो वि॒वाच॑नम् । मयि॒ वाग॑स्तु धर्ण॒सिः । यन्तु॑ न॒दयो॒ वर्​ष॑न्तु प॒र्जन्याः᳚ । सु॒पि॒प्प॒ला ओष॑धयो भवन्तु ॥ अन्न॑वतामोद॒नव॑तामा॒मिक्ष॑वताम् । ए॒षाग्ं राजा॑ भूयासम् ॥ 58 ॥
(स्व॒धायै᳚ त्वा - स॒वेन॒ - द्यौः - सु᳚र्य स॒प्त च॑) (अ. 16)

अनुवाकं 17 - राजाभिषेकाङ्गं-वँपनम्
ये के॒शिनः॑ प्रथ॒मा-स्स॒त्रमास॑त । येभि॒राभृ॑तं॒-यँदि॒दं-विँ॒रोच॑ते । तेभ्यो॑ जुहोमि बहु॒धा घृ॒तेन॑ । रा॒यस्पोषे॑णे॒मं-वँर्च॑सा॒ सग्ंसृ॑जाथ ॥ नर्ते ब्रह्म॑ण॒स्तप॑सो विमो॒कः । द्वि॒नाम्नी॑ दी॒क्षा व॒शिनी॒ ह्यु॑ग्रा । प्रकेशा᳚-स्सु॒वते॑ का॒ण्डिनो॑ भवन्ति । तेषा᳚-म्ब्र॒ह्मेदीशे॒ वप॑नस्य॒ नान्यः ॥ आरो॑ह॒ प्रोष्ठं॒-विँष॑हस्व॒ शत्रून्॑ । अवा᳚स्राग्दी॒क्षा व॒शिनी॒ ह्यु॑ग्रा ॥ 59 ॥

दे॒हि दक्षि॑णा॒-म्प्रति॑र॒स्वायुः॑ । अथा॑ मुच्यस्व॒ वरु॑णस्य॒ पाशा᳚त् ॥ येनाव॑प-थ्सवि॒ता क्षु॒रेण॑ । सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान् । तेन॑ ब्रह्माणो वपते॒दम॒स्योर्जेमम् । र॒य्या वर्च॑सा॒ सग्ंसृ॑जाथ ॥ मा ते॒ केशा॒ननु॑ गा॒द्वर्च॑ ए॒तत् । तथा॑ धा॒ता क॑रोतु ते । तुभ्य॒मिन्द्रो॒ बृह॒स्पतिः॑ । स॒वि॒ता वर्च॒ आद॑धात् ॥ 60 ॥

तेभ्यो॑ नि॒धान॑-म्बहु॒धा व्यैच्छन्न्॑ । अ॒न्त॒रा द्यावा॑पृथि॒वी अ॒प-स्सुवः॑ । द॒र्भ॒स्त॒म्बे वी॒र्य॑कृते नि॒धाय॑ । पौग्ग्​स्ये॑ने॒मं-वँर्च॑सा॒ सग्ंसृ॑जाथ ॥ बल॑-न्ते बाहु॒वो-स्स॑वि॒ता द॑धातु । सोम॑स्त्वा-ऽनक्तु॒ पय॑सा घृ॒तेन॑ । स्त्री॒षु रू॒पम॑श्विनै॒त-न्निध॑त्तम् । पौग्ग्​स्ये॑ने॒मं-वँर्च॑सा॒ सग्ंसृ॑जाथ ॥ य-थ्सी॒मन्त॒-ङ्कङ्क॑तस्ते लि॒लेख॑ । यद्वा᳚ क्षु॒रः प॑रिव॒वर्ज॒ वपग्ग्॑स्ते । स्त्री॒षु रू॒पम॑श्विनै॒त-न्निध॑त्तम् । पौग्ग्​स्ये॑ने॒मग्ं सग्ंसृ॑जाथो वी॒र्ये॑ण ॥ 61 ॥
(अवा᳚स्राग्दी॒क्षा वा॒शिनी॒ ह्यु॑ग्रा-ऽऽद॑धा-द्व॒वर्ज॒ वपग्ग्॑स्ते॒ द्वे च॑ ) (अ. 17)

(ये के॒शिनो॒ नर्ते मा ते॒ बलं॒-यँ-थ्सी॒मन्त॒-म्पञ्च॑)

अनुवाकं 18 - विद्यनाख्य एकाहविशेषः
इन्द्रं॒-वैँ स्वा विशो॑ म॒रुतो॒ नापा॑चायन्न् । सो-ऽन॑पचाय्यमान ए॒तं-विँ॑घ॒नम॑पश्यत् । तमा-ऽह॑रत् । तेना॑यजत । तेनै॒वासा॒-न्तग्ं सग्ग्॑स्त॒म्भं-व्यँ॑हन्न् । य-द्व्यहन्न्॑ । त-द्वि॑घ॒नस्य॑ विघन॒त्वम् ॥ वि पा॒प्मान॒-म्भ्रातृ॑व्यग्ं हते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं-वेँद॑ ॥ 62 ॥

यग्ं राजा॑नं॒-विँशो॒ नाप॒चाये॑युः । यो वा᳚ ब्राह्म॒णस्तम॑सा पा॒प्मना॒ प्रावृ॑त॒-स्स्यात् । स ए॒तेन॑ यजेत । वि॒घ॒नेनै॒वैन॑-द्वि॒हत्य॑ । वि॒शामाधि॑पत्य-ङ्गच्छति ॥ तस्य॒ द्वे द्वा॑द॒शे स्तो॒त्रे भव॑तः । द्वे च॑तुर्वि॒ग्ं॒शे । औद्भि॑द्यमे॒व तत् । ए॒तद्वै क्ष॒त्रस्यौद्भि॑द्यम् । यद॑स्मै॒ स्वा विशो॑ ब॒लिग्ं हर॑न्ति ॥ 63 ॥

हर॑न्त्यस्मै॒ विशो॑ ब॒लिम् । ऐन॒मप्र॑तिख्यात-ङ्गच्छति । य ए॒वं-वेँद॑ ॥ प्र॒बाहु॒ग्वा अग्रे᳚ क्ष॒त्राण्याते॑पुः । तेषा॒मिन्द्रः॑, क्ष॒त्राण्याद॑त्त । न वा इ॒मानि॑ क्ष॒त्राण्य॑ भूव॒न्निति॑ । तन्नक्ष॑त्राणा-न्नक्षत्र॒त्वम् । आ श्रेय॑सो॒ भ्रातृ॑व्यस्य॒ तेज॑ इन्द्रि॒य-न्द॑त्ते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं-वेँद॑ ॥ 64 ॥

त-द्यथा॑ ह॒ वै स॑चा॒क्रिणौ॒ कप्ल॑कावु॒पा-व॑हितौ॒ स्याता᳚म् । ए॒वमे॒तौ यु॒ग्मन्तौ॒ स्तोमौ᳚ । अ॒युक्षु॒ स्तोमे॑षु क्रियेते । पा॒प्मनो-ऽप॑हत्यै ॥ अप॑ पा॒प्मान॒-म्भ्रातृ॑व्यग्ं हते । य ए॒तेन॒ यज॑ते । य उ॑ चैनमे॒वं-वेँद॑ ॥ त-द्यथा॑ ह॒ वै सू॑तग्राम॒ण्यः॑ । ए॒व-ञ्छन्दाग्ं॑सि । तेष्व॒सावा॑दि॒त्यो बृ॑ह॒तीर॒भ्यू॑ढः ॥ 65 ॥

स॒तोबृ॑हतीषु स्तुवते स॒तो बृ॑हन्न् । प्र॒जया॑ प॒शुभि॑-रसा॒नीत्ये॒व ॥ व्यति॑षक्ताभि-स्स्तुवते । व्यति॑षक्तं॒-वैँ क्ष॒त्रं-विँ॒शा । वि॒शैवैन॑-ङ्क्ष॒त्रेण॒ व्यति॑षजति ॥ व्यति॑षक्ताभि-स्स्तुवते । व्यति॑षक्तो॒ वै ग्रा॑म॒णी-स्स॑जा॒तैः । स॒जा॒तैरे॒वैनं॒-व्यँति॑षजति ॥ व्यति॑षक्ताभि-स्स्तुवते । व्यति॑षक्तो॒ वै पुरु॑षः पा॒प्मभिः॑ । व्यति॑षक्ता-भिरे॒वास्य॑ पा॒प्मनो॑ नुदते ॥ 66 ॥
(वेद॒ - हर॑न् - त्येनमे॒वं-वेँदा॒ - भ्यू॑ढः - पा॒प्मभि॒रेक॑-ञ्च) (अ. 18)

(त्रि॒वृ--द्यदा᳚ग्ने॒यो᳚-ऽग्निमु॑खा॒ ह्यृद्धि॒--र् यदा᳚ग्ने॒य आ᳚ग्ने॒यो - न वै सोमे॑न॒ - यो वै सोमे॑ - नै॒ष गो॑स॒वः - सि॒ग्ं॒हे॑ - ऽभिप्रेहि॑ मित्र॒वर्ध॑नः - प्र॒जाप॑ति॒स्ता ओ॑द॒नं - प्र॒जाप॑तिरकामयत ब॒हो-र्भूया॑ - न॒गस्त्यो॒ - ऽस्याजरा॑स॒ - स्तिष्ठा॒ हरी᳚ - प्र॒जाप॑तिः प॒शून् - व्या॒घ्रो॑-ऽयम॒ - भिप्रेहि॑ वृत्र॒हन्त॑मो॒ - ये के॒शिन॒ - इन्द्रं॒-वाँ अ॒ष्टाद॑श )

(त्रि॒वृ--द्यो वै सोमे॒ - नायु॑रसि वि॒श्वायु॑--र् ब॒हु-र्भ॑वति॒ - तिष्ठा॒ हरी॒ रथ॒ - आ-ऽय-म्भा॑तु॒ - तेभ्यो॑ नि॒धान॒ग्ं॒ षट्थ्ष॑ष्टिः)

(त्रि॒वृत् - पा॒प्मनो॑ नुदते)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके सप्तमः प्रपाठक-स्समाप्तः ॥




Browse Related Categories: