View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

3.4 - पुरुषमेधः - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - ब्रह्मणे ब्राह्मणमालभते

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके चतुर्थः प्रपाठकः - पुरुषमेधः

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

3.4.1 तो 3.4.19 -पुरुषमेधः

ब्रह्म॑णे ब्राह्म॒णमाल॑भते । क्ष॒त्राय॑ राज॒न्य᳚म् । म॒रुद्भ्यो॒ वैश्य᳚म् । तप॑से शू॒द्रम् । तम॑से॒ तस्क॑रम् । नार॑काय वीर॒हण᳚म् । पा॒प्मने᳚ क्ली॒बम् । आ॒क्र॒याया॑यो॒गूम् । कामा॑य पुग्ग्​श्च॒लूम् ।
अति॑क्रुष्टाय माग॒धम् ॥ 1 ॥ (अ. 1)

गी॒ताय॑ सू॒तम् । नृ॒त्ताय॑ शैलू॒षम् । धर्मा॑य सभाच॒रम् । न॒र्माय॑ रे॒भम् । नरि॑ष्ठायै भीम॒लम् । हसा॑य॒ कारि᳚म् । आ॒न॒न्दाय॑ स्त्रीष॒खम् ।
प्र॒मुदे॑ कुमारीपु॒त्रम् । मे॒धायै॑ रथका॒रम् ।
धैर्या॑य॒ तक्षा॑णम् ॥ 2 ॥ (अ. 2)

श्रमा॑य कौला॒लम् । मा॒यायै॑ कार्मा॒रम् । रू॒पाय॑ मणिका॒रम् । शुभे॑ व॒पम् । श॒र॒व्या॑या इषुका॒रम् । हे॒त्यै ध॑न्वका॒रम् । कर्म॑णे ज्याका॒रम् । दि॒ष्टाय॑ रज्जुस॒र्गम् । मृ॒त्यवे॑ मृग॒युम् ।
अन्त॑काय श्व॒नित᳚म् ॥ 3 ॥ (अ. 3)

स॒न्धये॑ जा॒रम् । गे॒हायो॑पप॒तिम् । निर्-ऋ॑त्यै परिवि॒त्तम् । आर्त्यै॑ परिविविदा॒नम् । अरा᳚द्ध्यै दिधिषू॒पति᳚म् । प॒वित्रा॑य भि॒षज᳚म् ।
प्र॒ज्ञाना॑य नक्षत्रद॒र॒.शम् । निष्कृ॑त्यै पेशस्का॒रीम् । बला॑यो प॒दाम् ।
वर्णा॑यानू॒रुध᳚म् ॥ 4 ॥ (अ. 4)

न॒दीभ्यः॑ पौञ्जि॒ष्टम् । ऋ॒क्षीका᳚भ्यो॒ नैषा॑दम् ।
पु॒रु॒ष॒व्या॒घ्राय॑ दु॒र्मद᳚म् । प्र॒युद्भ्य॒ उन्म॑त्तम् । ग॒न्ध॒र्वा॒फ्स॒राभ्यो॒ व्रात्य᳚म् ।
स॒र्प॒दे॒व॒ज॒नेभ्यो ऽप्र॑तिपदम् । अवे᳚भ्यः कित॒वम् ।
इ॒र्यता॑या॒ अकि॑तवम् । पि॒शा॒चेभ्यो॑ बिदलका॒रम् ।
या॒तु॒धाने᳚भ्यः कण्टकका॒रम् ॥ 5 ॥ (अ. 5)

उ॒थ्सा॒देभ्यः॑ कु॒ब्जम् । प्र॒मुदे॑ वाम॒नम् । द्वा॒र्भ्य-स्स्रा॒मम् । स्वप्ना॑या॒न्धम् । अध॑र्माय बधि॒रम् । स॒ज्ञान्ना॑य स्मरका॒रीम् ।
प्र॒का॒मोद्या॑योप॒सद᳚म् । आ॒शि॒क्षायै᳚ प्र॒श्निन᳚म् ।
उ॒प॒शि॒क्षाया॑ अभिप्र॒श्निन᳚म् ।
म॒र्यादा॑यै प्रश्नविवा॒कम् ॥ 6 ॥ (अ. 6)

ऋत्यै᳚ स्ते॒नहृ॑दयम् । वैर॑हत्याय॒ पिशु॑नम् । विवि॑त्त्यै क्ष॒त्तार᳚म् । औप॑द्रष्टाय सङ्ग्रही॒तार᳚म् । बला॑यानुच॒रम् । भू॒म्ने प॑रिष्क॒न्दम् ।
प्रि॒याय॑ प्रियवा॒दिन᳚म् । अरि॑ष्ट्या अश्वसा॒दम् ।
मेधा॑य वासः पल्पू॒लीम् । प्र॒का॒माय॑ रजयि॒त्रीम् ॥ 7 ॥ (अ. 7)

भायै॑ दार्वाहा॒रम् । प्र॒भाया॑ आग्ने॒न्धम् । नाक॑स्य पृ॒ष्ठाया॑भिषे॒क्तार᳚म् । ब्र॒द्ध्नस्य॑ वि॒ष्टपा॑य पात्रनिर्णे॒गम् । दे॒व॒लो॒काय॑ पेशि॒तार᳚म् ।
म॒नु॒ष्य॒लो॒काय॑ प्रकरि॒तार᳚म् ।
सर्वे᳚भ्यो लो॒केभ्य॑ उपसे॒क्तार᳚म् ।
अव॑र्त्यै व॒धायो॑पमन्थि॒तार᳚म् ।
सुव॒र्गाय॑ लो॒काय॑ भाग॒दुघ᳚म् ।
वर्​षि॑ष्ठाय॒ नाका॑य परिवे॒ष्टार᳚म् ॥ 8 ॥ (अ. 8)

अर्मे᳚भ्यो हस्ति॒पम् । ज॒वाया᳚श्व॒पम् । पुष्ट्यै॑ गोपा॒लम् । तेज॑से-ऽजपा॒लम् । वी॒र्या॑याविपा॒लम् । इरा॑यै की॒नाश᳚म् । की॒लाला॑य सुराका॒रम् । भ॒द्राय॑ गृह॒पम् । श्रेय॑से वित्त॒धम् । अद्ध्य॑क्षायानुक्ष॒त्तार᳚म् ॥ 9 ॥ (अ. 9)

म॒न्यवे॑-ऽयस्ता॒पम् । क्रोधा॑य निस॒रम् । शोका॑याभिस॒रम् । उ॒त्कू॒ल॒वि॒कू॒लाभ्या᳚-न्त्रि॒स्थिन᳚म् । योगा॑य यो॒क्तार᳚म् । क्षेमा॑य विमो॒क्तार᳚म् ।
वपु॑षे मानस्कृ॒तम् । शीला॑याञ्जनीका॒रम् ।
निर्-ऋ॑त्यै कोशका॒रीम् । य॒माया॒सूम् ॥ 10 ॥ (अ. 10)

य॒म्यै॑ यम॒सूम् । अथ॑र्व॒भ्यो-ऽव॑तोकाम् । सं॒​वँ॒थ्स॒राय॑ पर्या॒रिणी᳚म् ।
प॒रि॒व॒थ्स॒रायावि॑जाताम् । इ॒दा॒व॒थ्स॒राया॑प॒स्कद्व॑रीम् ।
इ॒द्व॒थ्स॒राया॒तीत्व॑रीम् । व॒थ्स॒राय॒ विज॑र्जराम् ।
स॒र्व॒थ्सं॒राय॒ पलि॑क्नीम् । वना॑य वन॒पम् ।
अ॒न्यतो॑रण्याय दाव॒पम् ॥ 11 ॥ (अ. 11)

सरो᳚भ्यो धैव॒रम् । वेश॑न्ताभ्यो॒ दाश᳚म् । उ॒प॒स्थाव॑रीभ्यो॒ बैन्द᳚म् ।
न॒ड्व॒लाभ्य॑-श्शौष्क॒लम् । पा॒र्या॑य कैव॒र्तम् । अ॒वा॒र्या॑य मार्गा॒रम् । ती॒र्थेभ्य॑ आ॒न्दम् । विष॑मेभ्यो मैना॒लम् । स्वने᳚भ्यः॒ पर्ण॑कम् ।
गुहा᳚भ्यः॒ किरा॑तम् । सानु॑भ्यो॒ जम्भ॑कम् ।
पर्व॑तेभ्यः॒ कि-म्पू॑रुषम् ॥ 12 ॥ (अ. 12)

प्र॒ति॒श्रुत्का॑या ऋतु॒लम् । घोषा॑य भ॒षम् ।
अन्ता॑य बहुवा॒दिन᳚म् । अ॒न॒न्ताय॒ मूक᳚म् ।
मह॑से वीणावा॒दम् । क्रोशा॑य तूणव॒द्ध्मम् ।
आ॒क्र॒न्दाय॑ दुन्दुभ्याघा॒तम् । अ॒व॒र॒स्प॒राय॑ शङ्ख॒द्ध्मम् । ऋ॒भुभ्यो॑-ऽजिनसन्धा॒यम् । सा॒द्ध्येभ्य॑श्चर्म॒म्णम् ॥ 13 ॥ (अ. 13)

बी॒भ॒थ्सायै॑ पौल्क॒सम् । भूत्यै॑ जागर॒णम् । अभू᳚त्यै स्वप॒नम् । तु॒लायै॑ वाणि॒जम् । वर्णा॑य हिरण्यका॒रम् ।
विश्वे᳚भ्यो दे॒वेभ्य॑-स्सिद्ध्म॒लम् । प॒श्चा॒-द्दो॒षाय॑ ग्ला॒वम् । ऋत्यै॑ जनवा॒दिन᳚म् । व्यृ॑द्ध्या अपग॒ल्भम् ।
स॒ग्ं॒श॒राय॑ प्र॒च्छिद᳚म् ॥ 14 ॥ (अ. 14)

हसा॑य पुग्ग्​श्च॒लूमाल॑भते । वी॒णा॒वा॒द-ङ्गण॑क-ङ्गी॒ताय॑ । याद॑से शाबु॒ल्याम् । न॒र्माय॑ भद्रव॒तीम् ।
तू॒ण॒व॒द्ध्म-ङ्ग्रा॑म॒ण्य॑-म्पाणिसङ्घा॒त-न्नृ॒त्ताय॑ । मोदा॑यानु॒क्रोश॑कम् ।
आ॒न॒न्दाय॑ तल॒वम् ॥ 15 ॥ (अ. 15)

अ॒क्ष॒रा॒जाय॑ कित॒वम् । कृ॒ताय॑ सभा॒विन᳚म् । त्रेता॑या आदिनवद॒र्॒शम् । द्वा॒प॒राय॑ बहि॒-स्सद᳚म् । कल॑ये सभास्था॒णुम् । दु॒ष्कृ॒ताय॑ च॒रका॑चार्यम् ।
अद्ध्व॑ने ब्रह्मचा॒रिण᳚म् । पि॒शा॒चेभ्य॑-स्सैल॒गम् । पि॒पा॒सायै॑ गोव्य॒च्छम् । निर्-ऋ॑त्यै गोघा॒तम् । क्षु॒धे गो॑विक॒र्तम् । क्षु॒त्तृ॒ष्णाभ्या॒-न्तम् ।
यो गां-विँ॒कृन्त॑न्त-म्मा॒ग्ं॒स-म्भिक्ष॑माण उप॒तिष्ठ॑ते ॥ 16 ॥ (अ. 16)

भूम्यै॑ पीठस॒र्पिण॒माल॑भते । अ॒ग्नये-ऽग्ं॑स॒लम् ।
वा॒यवे॑ चाण्डा॒लम् । अ॒न्तरि॑क्षाय वग्ंशन॒र्तिन᳚म् । दि॒वे ख॑ल॒तिम् । सूर्या॑य हर्य॒क्षम् ।
च॒न्द्रम॑से मिर्मि॒रम् । नक्ष॑त्रेभ्यः कि॒लास᳚म् ।
अह्ने॑ शु॒क्ल-म्पि॑ङ्ग॒लम् । रात्रि॑यै कृ॒ष्ण-म्पि॑ङ्गा॒क्षम् ॥ 17 ॥ (अ. 17)

वा॒चे पुरु॑ष॒माल॑भते । प्रा॒णम॑पा॒नं-व्याँ॒नमु॑दा॒नग्ं स॑मा॒न-न्तान्. वा॒यवे᳚ ।
सूर्या॑य॒ चक्षु॒राल॑भते । मन॑श्च॒न्द्रम॑से । दि॒ग्म्य-श्श्रोत्र᳚म् । प्र॒जाप॑तये॒ पुरु॑षम् ॥ 18 ॥ (अ. 18)

अथै॒तानरू॑पेभ्य॒ आल॑भते । अति॑ह्रस्व॒-मति॑दीर्घम् ।
अति॑कृश॒मत्यग्ं॑सलम् । अति॑शुक्ल॒-मति॑कृष्णम् ।
अति॑श्लक्ष्ण॒-मति॑लोमशम् । अति॑किरिट॒-मति॑दन्तुरम् ।
अति॑मिर्मिर॒-मति॑मेमिषम् । आ॒शायै॑ जा॒मिम् ।
प्र॒ती॒क्षायै॑ कुमा॒रीम् ॥ 19 ॥ (अ. 19)

(ब्रह्म॑णे - गी॒ताय॒ - श्रमा॑य - स॒न्धये॑ - न॒दीभ्य॑ - उथ्सा॒देभ्य॒ -ऋत्यै॒ - भाया॒ - अर्मे᳚भ्यो - म॒न्यवे॑ - य॒म्यै॑ दश॑ दश॒ - सरो᳚भ्यो॒ द्वाद॑श - प्रति॒श्रुत्का॑यै - बीभ॒थ्सायै॒ दश॑ दश॒ - हसा॑य स॒प्ता-
क्ष॑रा॒जाय॒ त्रयो॑दश॒ - भूम्यै॒ दश॑ - वा॒चे षडथ॒ - नवैका॒न्न विग्ं॑शतिः )

(ब्रह्म॑णे - य॒म्यै॑ नव॑दश)

(ब्रह्म॑णे - कुमा॒रीम्)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके चतुर्थ प्रपाठक-स्समाप्तः ॥




Browse Related Categories: