| | English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| | Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
|
1.7 - राजसूयानुब्राह्मणं - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - एतद् ब्राह्मणान्येव कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके सप्तमः प्रपाठकः - राजसूयानुब्राह्मणं ओ-न्नमः परमात्मने, श्री महागणपतये नमः, अनुवाकं 1 - शुनासीरीयेन्द्रतुरीयपञ्चावत्तीयापामार्गहोमाः ए॒त-द्ब्रा᳚ह्मणान्ये॒व पञ्च॑ ह॒वीग्ंषि॑ । अथेन्द्रा॑य॒ शुना॒सीरा॑य पुरो॒डाश॒-न्द्वाद॑शकपाल॒-न्निर्व॑पति । सं॒वँ॒थ्स॒रो वा इन्द्रा॒ शुना॒सीरः॑ । सं॒वँ॒थ्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रुन्धे । वा॒य॒व्य॑-म्पयो॑ भवति । वा॒युर्वै वृष्ट्यै᳚ प्रदापयि॒ता । स ए॒वास्मै॒ वृष्टि॒-म्प्रदा॑पयति । सौ॒र्य॑ एक॑कपालो भवति । सूर्ये॑ण॒ वा अ॒मुष्मि॑ँल्लो॒के वृष्टि॑र्धृ॒ता । स ए॒वास्मै॒ वृष्टि॒-न्नि य॑च्छति ॥ 1 ॥ द्वा॒द॒श॒ग॒वग्ं सीर॒-न्दक्षि॑णा॒ समृ॑द्ध्यै । दे॒वा॒सु॒रा-स्संयँ॑त्ता आसन्न् । ते दे॒वा अ॒ग्निम॑ब्रुवन्न् । त्वया॑ वी॒रेणासु॑रान॒-भिभ॑वा॒मेति॑ । सो᳚-ऽब्रवीत् । त्रे॒धा-ऽहमा॒त्मानं॒-विँक॑रिष्य॒ इति॑ । स त्रे॒धा ऽऽत्मानं॒-व्यँ॑कुरुत । अ॒ग्नि-न्तृती॑यम् । रु॒द्र-न्तृती॑यम् । वरु॑ण॒-न्तृती॑यम् ॥ 2 ॥ सो᳚-ऽब्रवीत् । क इ॒द-न्तु॒रीय॒मिति॑ । अ॒हमितीन्द्रो᳚-ऽब्रवीत् । व॒हिनी॑ धे॒नु-र्दक्षि॑णा । य-द्व॒हिनी᳚ । तेना᳚ग्ने॒यी । तग्ं सृ॒ष्टग्ं रक्षाग्॑स्यजिघाग्ंसन्न् । स ए॒ताः प्र॒जाप॑ति-रा॒त्मनो॑ दे॒वता॒ निर॑मिमीत । ताभि॒र्वै स दि॒ग्भ्यो रक्षाग्ं॑सि॒ प्राणु॑दत । य-त्प॑ञ्चाव॒त्तीय॑-ञ्जु॒होति॑ । दि॒ग्भ्य ए॒व त-द्यज॑मानो॒ रक्षाग्ं॑सि॒ प्रणु॑दते । समू॑ढ॒ग्ं॒ रक्ष॒-स्सन्द॑ग्ध॒ग्ं॒ रक्ष॒ इत्या॑ह । रक्षाग्॑स्ये॒व सन्द॑हति । अ॒ग्नये॑ रक्षो॒घ्ने स्वाहेत्या॑ह । दे॒वता᳚भ्य ए॒व वि॑जिग्या॒नाभ्यो॑ भाग॒धेय॑-ङ्करोति । प्र॒ष्टि॒वा॒ही रथो॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥ 5 ॥ इन्द्रो॑ वृ॒त्रग्ं ह॒त्वा । असु॑रा-न्परा॒भाव्य॑ । नमु॑चिमासु॒र-न्नाल॑भत । तग्ं श॒च्या॑-ऽगृह्णात् । तौ सम॑लभेताम् । सो᳚-ऽस्मा-द॒भिशु॑नतरो-ऽभवत् । सो᳚-ऽब्रवीत् । स॒धांग्ं सन्द॑धावहै । अथ॒ त्वा-ऽव॑ स्रक्ष्यामि । न मा॒ शुष्के॑ण॒ नार्द्रेण॑ हनः ॥ 6 ॥ न दिवा॒ न नक्त॒मिति॑ । स ए॒तम॒पा-म्फेन॑मसिञ्चत् । न वा ए॒ष शुष्को॒ नार्द्रो व्यु॑ष्टा ऽऽसीत् । अनु॑दित॒-स्सूर्यः॑ । न वा ए॒त-द्दिवा॒ न नक्त᳚म् । तस्यै॒तस्मि॑न् ँलो॒के । अ॒पा-म्फेने॑न॒ शिर॒ उद॑वर्तयत् । तदे॑न॒मन्व॑वर्तत । मित्र॑द्रु॒गिति॑ ॥ 7 ॥ स ए॒तान॑पामा॒र्गान॑जनयत् । तान॑जुहोत् । तैर्वै स रक्षा॒ग्॒स्यपा॑हत । यद॑पामार्ग हो॒मो भव॑ति । रक्ष॑सा॒-मप॑हत्यै । ए॒को॒ल् मु॒केन॑ यन्ति । तद्धि रक्ष॑सा-म्भाग॒धेय᳚म् । इ॒मा-न्दिशं॑-यँन्ति । ए॒षा वै रक्ष॑सा॒-न्दिक् । स्वाया॑मे॒व दि॒शि रक्षाग्ं॑सि हन्ति ॥ 8 ॥ स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा᳚ । ए॒त-द्वै रक्ष॑सामा॒यत॑नम् । स्व ए॒वायत॑ने॒ रक्षाग्ं॑सि हन्ति । प॒र्ण॒मये॑न स्रु॒वेण॑ जुहोति । ब्रह्म॒ वै प॒र्णः । ब्रह्म॑णै॒व रक्षाग्ं॑सि हन्ति । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह । स॒वि॒तृप्र॑सूत ए॒व रक्षाग्ं॑सि हन्ति । ह॒तग्ं रक्षो ऽव॑धिष्म॒ रक्ष॒ इत्या॑ह । रक्ष॑सा॒ग्॒ स्तृत्यै᳚ । यद्वस्ते॒ त-द्दक्षि॑णा नि॒रव॑त्त्यै । अप्र॑तीक्ष॒मा य॑न्ति । रक्ष॑सा-म॒न्तर्हि॑त्यै ॥ 9 ॥ अनुवाकं 2 - देविकावहवींषि वै॒ष्ण॒व-न्त्रि॑कपा॒लम् । वी॒र्यं॑-वाँ अ॒ग्निः । वी॒र्य॑मिन्द्रः॑ । वी॒र्यं॑-विँष्णुः॑ । प्र॒जा ए॒व प्रजा॑ता वी॒र्ये᳚ प्रति॑ष्ठापयति । तस्मा᳚-त्प्र॒जा वी॒र्या॑वतीः । वा॒म॒न ऋ॑ष॒भो व॒ही दक्षि॑णा । यद्व॒ही । तेना᳚ग्ने॒यः । यदृ॑ष॒भः ॥ 11 ॥ तेनै॒न्द्रः । यद्वा॑म॒नः । तेन॑ वैष्ण॒व-स्समृ॑द्ध्यै । अ॒ग्नी॒षो॒मीय॒-मेका॑दशकपाल॒-न्निर्व॑पति । इ॒न्द्रा॒सो॒मीय॒-मेका॑दशकपालम् । सौ॒म्य-ञ्च॒रुम् । सोमो॒ वै रे॑तो॒धाः । अ॒ग्निः प्र॒जाना᳚-म्प्रजनयि॒ता । वृ॒द्धाना॒मिन्द्रः॑ प्रदापयि॒ता । सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ॥ 12 ॥ अ॒ग्निः प्र॒जा-म्प्रज॑नयति । वृ॒द्धामिन्द्रः॒ प्रय॑च्छति । ब॒भ्रु-र्दक्षि॑णा॒ समृ॑द्ध्यै । सो॒मा॒पौ॒ष्ण-ञ्च॒रु-न्निर्व॑पति । ऐ॒न्द्रा॒पौ॒ष्ण-ञ्च॒रुम् । सोमो॒ वै रे॑तो॒धाः । पू॒षा प॑शू॒ना-म्प्र॑जनयि॒ता । वृ॒द्धाना॒मिन्द्रः॑ प्रदापयि॒ता । सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति । पू॒षा प॒शू-न्प्रज॑नयति ॥ 13 ॥ वृ॒द्धानिन्द्रः॒ प्रय॑च्छति । पौ॒ष्णश्च॒रु-र्भ॑वति । इ॒यं-वैँ पू॒षा । अ॒स्यामे॒व प्रति॑ तिष्ठति । श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै । ब॒हु वै पुरु॑षो-ऽमे॒द्ध्य-मुप॑गच्छति । वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्निर्व॑पति । सं॒वँ॒थ्स॒रो वा अ॒ग्नि-र्वै᳚श्वान॒रः । सं॒वँ॒थ्स॒रेणै॒वैनग्ग्॑ स्वदयति । हिर॑ण्य॒-न्दक्षि॑णा ॥ 14 ॥ प॒वित्रं॒-वैँ हिर॑ण्यम् । पु॒नात्ये॒वैन᳚म् । ब॒हु वै रा॑ज॒न्यो ऽनृ॑त-ङ्करोति । उप॑ जा॒म्यै हर॑ते । जि॒नाति॑ ब्राह्म॒णम् । वद॒त्यनृ॑तम् । अनृ॑ते॒ खलु॒ वै क्रि॒यमा॑णे॒ वरु॑णो गृह्णाति । वा॒रु॒णं-यँ॑व॒मय॑-ञ्च॒रु-न्निर्व॑पति । व॒रु॒ण॒पा॒शादे॒वैन॑-म्मुञ्चति । अश्वो॒ दक्षि॑णा । वा॒रु॒णो हि दे॒वत॒या-ऽश्व॒-स्समृ॑द्ध्यै ॥ 15 ॥ अनुवाकं 3 - रत्निनां हवींषि य-थ्स॒द्यो नि॒र्वपे᳚त् । याव॑ती॒मेके॑न ह॒विषा॒-ऽऽशिष॑मव रु॒न्धे । ताव॑ती॒मव॑ रुन्धीत । अ॒न्व॒ह-न्निर्व॑पति । भूय॑सीमे॒वाशिष॒मव॑ रुन्धे । भूय॑सो यज्ञक्र॒तूनुपै॑ति । बा॒र्॒ह॒स्प॒त्य-ञ्च॒रु-न्निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे । मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सग्ग्श्य॑ति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्र-म॒न्वार॑म्भयति । शि॒ति॒पृ॒ष्ठो दक्षि॑णा॒ समृ॑द्ध्यै ॥ 17 ॥ ऐ॒न्द्र-मेका॑दशकपालग्ं राज॒न्य॑स्य गृ॒हे । इ॒न्द्रि॒यमे॒वाव॑ रुन्धे । ऋ॒ष॒भो दक्षि॑णा॒ समृ॑द्ध्यै । आ॒दि॒त्य-ञ्च॒रु-म्महि॑ष्यै गृ॒हे । इ॒यं-वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । धे॒नु-र्दक्षि॑णा॒ समृ॑द्ध्यै । भगा॑य च॒रुं-वाँ॒वाता॑यै गृ॒हे । भग॑मे॒वास्मि॑-न्दधाति । विचि॑त्तगर्भा पष्ठौ॒ही दक्षि॑णा॒ समृ॑द्ध्यै ॥ 18 ॥ नै॒र्॒ऋ॒त-ञ्च॒रु-म्प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानां᳚-व्रीँही॒णा-न्न॒खनि॑र्भिन्नम् । पा॒प्मान॑मे॒व निर्-ऋ॑ति-न्नि॒रव॑दयते । कृ॒ष्णा कू॒टा दक्षि॑णा॒ समृ॑द्ध्यै । आ॒ग्ने॒य-म॒ष्टाक॑पालग्ं सेना॒न्यो॑ गृ॒हे । सेना॑मे॒वास्य॒ सग्ग्श्य॑ति । हिर॑ण्य॒-न्दक्षि॑णा॒ समृ॑द्ध्यै । वा॒रु॒ण-न्दश॑कपालग्ं सू॒तस्य॑ गृ॒हे । व॒रु॒ण॒स॒वमे॒वाव॑-रुन्धे । म॒हानि॑रष्टो॒ दक्षि॑णा॒ समृ॑द्ध्यै । मा॒रु॒तग्ं स॒प्तक॑पाल-ङ्ग्राम॒ण्यो॑ गृ॒हे ॥ 19 ॥ अन्नं॒-वैँ म॒रुतः॑ । अन्न॑मे॒वाव॑-रुन्धे । पृश्ञि॒-र्दक्षि॑णा॒ समृ॑द्ध्यै । सा॒वि॒त्र-न्द्वाद॑शकपाल-ङ्क्ष॒त्तुर्गृ॒हे प्रसू᳚त्यै । उ॒प॒द्ध्व॒स्तो दक्षि॑णा॒ समृ॑द्ध्यै । आ॒श्वि॒न-न्द्वि॑कपा॒लग्ं स॑ग्रंही॒तुर्गृ॒हे । अ॒श्विनौ॒ वै दे॒वाना᳚-म्भि॒षजौ᳚ । ताभ्या॑मे॒वास्मै॑ भेष॒ज-ङ्क॑रोति । स॒वा॒त्यौ॑ दक्षि॑णा॒ समृ॑द्ध्यै । पौ॒ष्ण-ञ्च॒रु-म्भा॑गदु॒घस्य॑ गृ॒हे ॥ 20 ॥ अन्नं॒-वैँ पू॒षा । अन्न॑मे॒वाव॑ रुन्धे । श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै । रौ॒द्र-ङ्गा॑वीधु॒क-ञ्च॒रुम॑क्षावा॒पस्य॑ गृ॒हे । अ॒न्त॒त ए॒व रु॒द्र-न्नि॒रव॑दयते । श॒बल॒ उद्वा॑रो॒ दक्षि॑णा॒ समृ॑द्ध्यै । द्वाद॑शै॒तानि॑ ह॒वीग्ंषि॑ भवन्ति । द्वाद॑श॒ मासा᳚-स्संवँथ्स॒रः । सं॒वँ॒थ्स॒रेणै॒वास्मै॑ रा॒ष्ट्रमव॑-रुन्धे । रा॒ष्ट्रमे॒व भ॑वति ॥ 21 ॥ यन्न प्र॑ति नि॒र्वपे᳚त् । र॒त्निन॑ आ॒शिषो-ऽव॑रुन्धीरन्न् । प्रति॒ निर्व॑पति । इन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒-मेका॑दशकपालम् । इन्द्रा॑याग्ंहो॒मुचे᳚ । आ॒शिष॑ ए॒वाव॑रुन्धे । अ॒य-न्नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रं-वँ॑द्ध्या॒दित्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । मै॒त्रा॒-बा॒र्॒ह॒स्प॒त्य-म्भ॑वति । श्वे॒तायै᳚ श्वे॒तव॑थ्सायै दु॒ग्धे ॥ 22 ॥ बा॒र्॒ह॒स्प॒त्ये मै॒त्रमपि॑ दधाति । ब्रह्म॑ चै॒वास्मै᳚ क्ष॒त्र-ञ्च॑ स॒मीची॑ दधाति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्र-म्प्रति॑ष्ठापयति । बा॒र्॒ह॒स्प॒त्येन॒ पूर्वे॑ण॒ प्रच॑रति । मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सग्ग्श्य॑ति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्र-म॒न्वार॑म्भयति । स्व॒य॒-ङ्कृ॒ता वेदि॑र्भवति । स्व॒य॒दि॒न्न-म्ब॒र्॒हिः । स्व॒य॒कृ॒न्त इ॒द्ध्मः । अन॑भिजितस्या॒-भिजि॑त्यै । तस्मा॒-द्राज्ञा॒मर॑ण्य-म॒भिजि॑तम् । सैव श्वे॒ता श्वे॒तव॑थ्सा॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥ 23 ॥ अनुवाकं 4 - देवसुवां हवींषि वरु॑णो॒ धर्म॑पतीनाम् । ए॒तदे॒व सर्व॑-म्भवति । स॒वि॒ता त्वा᳚ प्रस॒वानाग्ं॑ सुवता॒मिति॒ हस्त॑-ङ्गृह्णाति॒ प्रसू᳚त्यै । ये दे॑वा देव॒सुव॒-स्स्थेत्या॑ह । य॒था॒ य॒जुरे॒वै तत् । म॒ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । ए॒ष वो॑ भरता॒ राजा॒ सोमो॒-ऽस्माक॑-म्ब्राह्म॒णाना॒ग्ं॒ राजेत्या॑ह । तस्मा॒-थ्सोम॑राजानो ब्राह्म॒णाः । प्रति॒ त्यन्नाम॑ रा॒ज्यम॑धा॒यीत्या॑ह ॥ 25 ॥ रा॒ज्यमे॒वास्मि॒-न्प्रति॑ दधाति । स्वा-न्त॒नुवं॒-वँरु॑णो अशिश्रे॒दित्या॑ह । व॒रु॒ण॒स॒वमे॒वा-व॑रुन्धे । शुचे᳚र्मि॒त्रस्य॒ व्रत्या॑ अभू॒मेत्या॑ह । शुचि॑मे॒वैनं॒-व्रँत्य॑-ङ्करोति । अम॑न्महि मह॒त ऋ॒तस्य॒ नामेत्या॑ह । म॒नु॒त ए॒वैन᳚म् । सर्वे॒ व्राता॒ वरु॑णस्या भूव॒न्नित्या॑ह । सर्व॑व्रातमे॒वैन॑-ङ्करोति । वि मि॒त्र एवै॒ररा॑ति-मतारी॒दित्या॑ह ॥ 26 ॥ अरा॑तिमे॒वैन॑-न्तारयति । असू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेनेत्या॑ह । स्व॒दय॑त्ये॒वैन᳚म् । व्यु॑ त्रि॒तो ज॑रि॒माण॑-न्न आन॒डित्या॑ह । आयु॑रे॒वास्मि॑-न्दधाति । द्वाभ्यां॒-विँमृ॑ष्टे । द्वि॒पा-द्यज॑मानः॒ प्रति॑ष्ठित्यै । अ॒ग्नी॒षो॒मीय॑स्य॒ चैका॑दशकपालस्य देवसु॒वा-ञ्च॑ ह॒विषा॑म॒ग्नये᳚ स्विष्ट॒कृते॑ स॒मव॑द्यति । दे॒वता॑भिरे॒वैन॑-मुभ॒यतः॒ परि॑गृह्णाति । वि॒ष्णु॒क्र॒मान् क्र॑मते( ) । विष्णु॑रे॒व भू॒त्वेमाँल्लो॒का-न॒भिज॑यति ॥ 27 ॥ अनुवाकं 5 - अभिषेकार्थमपाङ्ग्रहग्रहणम् ऊ॒र्मि॒मन्त॑मे॒वैन॑-ङ्करोति । वृ॒ष॒से॒नो॑-ऽसीत्या॑ह । सेना॑मे॒वास्य॒ सग्ग्श्य॑ति । व्र॒ज॒क्षित॒-स्स्थेत्या॑ह । ए॒ता वा अ॒पां-विँशः॑ । विश॑मे॒वास्मै॒ पर्यू॑हति । म॒रुता॒मोज॒-स्स्थेत्या॑ह । अन्नं॒-वैँ म॒रुतः॑ । अन्न॑मे॒वा व॑रुन्धे । सूर्य॑वर्चस॒-स्स्थेत्या॑ह ॥ 29 ॥ रा॒ष्ट्रमे॒व व॑र्च॒स्व्य॑कः । सूर्य॑त्वचस॒-स्स्थेत्या॑ह । स॒त्यं-वाँ ए॒तत् । य-द्वर्ष॑ति । अनृ॑तं॒-यँदा॒तप॑ति॒ वर्ष॑ति । स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे । नैनग्ं॑ सत्यानृ॒ते उ॑दि॒ते हिग्ग्॑स्तः । य ए॒वं-वेँद॑ । मान्दा॒-स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व ब्र॑ह्मवर्च॒स्य॑कः ॥ 30 ॥ वाशा॒-स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व व॒श्य॑कः । शक्व॑री॒-स्स्थेत्या॑ह । प॒शवो॒ वै शक्व॑रीः । प॒शूने॒वाव॑ रुन्धे । वि॒श्व॒भृत॒-स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व प॑य॒स्व्य॑कः । ज॒न॒भृत॒-स्स्थेत्या॑ह । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः । अ॒ग्नेस्ते॑ज॒स्या᳚-स्स्थेत्या॑ह ॥ 31 ॥ रा॒ष्ट्रमे॒व ते॑ज॒स्व्य॑कः । अ॒पामोष॑धीना॒ग्ं॒ रस॒-स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व म॑ध॒व्य॑मकः । सा॒र॒स्व॒त-ङ्ग्रह॑-ङ्गृह्णाति । ए॒षा वा अ॒पा-म्पृ॒ष्ठम् । यथ्सर॑स्वती । पृ॒ष्ठमे॒वैनग्ं॑ समा॒नाना᳚-ङ्करोति । षो॒ड॒शभि॑-र्गृह्णाति । षोड॑शकलो॒ वै पुरु॑षः । यावा॑ने॒व पुरु॑षः । तस्मि॑न् वी॒र्य॑-न्दधाति । षो॒ड॒शभि॑-र्जु॒होति॑ षोड॒शभि॑-र्गृह्णाति । द्वात्रिग्ं॑श॒-थ्सम्प॑द्यन्ते । द्वात्रिग्ं॑शदक्षरा ऽनु॒ष्टुक् । वाग॑नु॒ष्टु-फ्सर्वा॑णि॒ छन्दाग्ं॑सि । वा॒चैवैन॒ग्ं॒ सर्वे॑भि॒-श्छन्दो॑भि-र॒भिषि॑ञ्चति ॥ 32 ॥ अनुवाकं 6 - अभिषेकार्थजलसंस्कारः श॒तमा॑न-म्भवति । श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । अनि॑भृष्टम॒सीत्या॑ह । अनि॑भृष्ट॒ग्ग्॒ ह्ये॑तत् । वा॒चो बन्धु॒रित्या॑ह । वा॒चो ह्ये॑ष बन्धुः॑ । त॒पो॒जा इत्या॑ह । त॒पो॒जा ह्ये॑तत् । सोम॑स्य दा॒त्रम॒सीत्या॑ह ॥ 34 ॥ सोम॑स्य॒ ह्ये॑तद्दा॒त्रम् । शु॒क्रा व॑-श्शु॒क्रेणोत्पु॑ना॒मीत्या॑ह । शु॒क्रा ह्यापः॑ । शु॒क्रग्ं हिर॑ण्यम् । च॒न्द्राश्च॒न्द्रेणेत्या॑ह । च॒न्द्रा ह्यापः॑ । च॒न्द्रग्ं हिर॑ण्यम् । अ॒मृता॑ अ॒मृते॒नेत्या॑ह । अ॒मृता॒ ह्यापः॑ । अ॒मृत॒ग्ं॒ हिर॑ण्यम् ॥ 35 ॥ स्वाहा॑ राज॒सूया॒येत्या॑ह । रा॒ज॒सूया॑य॒ ह्ये॑ना उत्पु॒नाति॑ । स॒ध॒मादो᳚ द्यु॒म्निनी॒रूर्ज॑ ए॒ता इति॑ वारु॒ण्यर्चा गृ॑ह्णाति । व॒रु॒ण॒स॒वमे॒वा व॑रुन्धे । एक॑या गृह्णाति । ए॒क॒धैव यज॑माने वी॒र्य॑-न्दधाति । क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑र॒सीति॑ ता॒र्प्य-ञ्चो॒ष्णीष॑-ञ्च॒ प्रय॑च्छति सयोनि॒त्वाय॑ । एक॑शतेन दर्भपुञ्जी॒लैः प॑वयति । श॒तायु॒र्वै पुरु॑ष-श्श॒तवी᳚र्यः । आ॒त्मैक॑श॒तः ॥ 36 ॥ यावा॑ने॒व पुरु॑षः । तस्मि॑न् वी॒र्य॑-न्दधाति । दद्ध्या॑शयति । इ॒न्द्रि॒यमे॒वा-व॑रुन्धे । उ॒दु॒म्बर॑-माशयति । अ॒न्नाद्य॒स्याव॑ रुद्ध्यै । शष्पा᳚ण्याशयति । सुरा॑बलि-मे॒वैन॑-ङ्करोति । आ॒विद॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैन॑-ङ्गमयन्ति ॥ 37 ॥ अ॒ग्निरे॒वैन॒-ङ्गार्ह॑पत्येनावति । इन्द्र॑ इन्द्रि॒येण॑ । पू॒षा प॒शुभिः॑ । मि॒त्रावरु॑णौ प्राणापा॒नाभ्या᳚म् । इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । स दिव॑मलिखत् । सो᳚-ऽर्य॒म्णः पन्था॑ अभवत् । स आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ द्यावा॑पृथि॒वी उपा॑धावत् । स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्राय॒ वज्र॒-म्प्राह॑रत् । आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ यदाह॑ ॥ 38 ॥ आ॒भ्यामे॒व प्रसू॑तो॒ यज॑मानो॒ वज्र॒-म्भ्रातृ॑व्याय॒ प्रह॑रति । आवि॑न्ना दे॒व्यदि॑ति-र्विश्वरू॒पीत्या॑ह । इ॒यं-वैँ दे॒व्यदि॑ति-र्विश्वरू॒पी । अ॒स्यामे॒व प्रति॑ तिष्ठति । आवि॑न्नो॒-ऽयम॒सावा॑मुष्याय॒णो᳚-ऽस्यां-विँ॒श्य॑स्मि-न्रा॒ष्ट्र इत्या॑ह । वि॒शैवैनग्ं॑ रा॒ष्ट्रेण॒ सम॑र्धयति । म॒ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । ए॒ष वो॑ भरता॒ राजा॒ सोमो॒-ऽस्माक॑-म्ब्राह्म॒णाना॒ग्ं॒ राजेत्या॑ह । तस्मा॒-थ्सोम॑राजानो ब्राह्म॒णाः ॥ 39 ॥ इन्द्र॑स्य॒ वज्रो॑-ऽसि॒ वार्त्र॑घ्न॒ इति॒ धनुः॒ प्रय॑च्छति॒ विजि॑त्यै । श॒त्रु॒बाध॑ना॒-स्स्थेतीषून्॑ । शत्रू॑ने॒वास्य॑ बाधन्ते । पा॒त मा᳚ प्र॒त्यञ्च॑-म्पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्च॑-म्मा पा॒तेत्या॑ह । ति॒स्रो वै श॑र॒व्याः᳚ । प्र॒तीची॑ ति॒रश्च्य॒नूची᳚ । ताभ्य॑ ए॒वैन॑-म्पान्ति । दि॒ग्भ्यो मा॑ पा॒तेत्या॑ह । दि॒ग्भ्य ए॒वैन॑-म्पान्ति । विश्वा᳚भ्यो मा ना॒ष्ट्राभ्यः॑ पा॒तेत्या॑ह । अप॑रिमितादे॒वैन॑-म्पान्ति । हिर॑ण्यवर्णावु॒षसां᳚-विँरो॒क इति॑ त्रि॒ष्टुभा॑ बा॒हू उ-द्गृ॑ह्णाति । इ॒न्द्रि॒यं-वैँ वी॒र्य॑-न्त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व वी॒र्य॑-मु॒परि॑ष्टादा॒त्मन्-ध॑त्ते ॥ 40 ॥ अनुवाकं 7 - दिग्व्यास्थापनम् उ॒ग्रामा ति॒ष्ठेत्या॑ह । इ॒न्द्रि॒यमे॒वाव॑ रुन्धे । वि॒राज॒मा ति॒ष्ठेत्या॑ह । अ॒न्नाद्य॑मे॒वाव॑ रुन्धे । उदी॑ची॒मा ति॒ष्ठेत्या॑ह । प॒शूने॒वाव॑ रुन्धे । ऊ॒र्ध्वामा ति॒ष्ठेत्या॑ह । सु॒व॒र्गमे॒व लो॒क-म॒भिज॑यति । अनूज्जि॑हीते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 42 ॥ मा॒रु॒त ए॒ष भ॑वति । अन्नं॒-वैँ म॒रुतः॑ । अन्न॑मे॒वाव॑ रुन्धे । एक॑विग्ंशतिकपालो भवति॒ प्रति॑ष्ठित्यै । यो॑-ऽरण्ये ऽनुवा॒क्यो॑ ग॒णः । त-म्म॑द्ध्य॒त उप॑दधाति । ग्रा॒म्यैरे॒व प॒शुभि॑-रार॒ण्या-न्प॒शू-न्परि॑गृह्णाति । तस्मा᳚-द्ग्रा॒म्यैः प॒शुभि॑रार॒ण्याः प॒शवः॒ परि॑गृहीताः । पृथि॑र्वै॒न्यः । अ॒भ्य॑षिच्यत ॥ 43 ॥ स रा॒ष्ट्र-न्नाभ॑वत् । स ए॒तानि॑ पा॒र्थान्य॑पश्यत् । तान्य॑जुहोत् । तैर्वै स रा॒ष्ट्र-म॑भवत् । यत्पा॒र्थानि॑ जु॒होति॑ । रा॒ष्ट्रमे॒व भ॑वति । बा॒र्॒ह॒स्प॒त्य-म्पूर्वे॑षामुत्त॒म-म्भ॑वति । ऐ॒न्द्रमुत्त॑रेषा-म्प्रथ॒मम् । ब्रह्म॑ चै॒वास्मै᳚ क्ष॒त्र-ञ्च॑ स॒मीची॑ दधाति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्र-म्प्रति॑ष्ठापयति ॥ 44 ॥ षट्पु॒रस्ता॑-दभिषे॒कस्य॑ जुहोति । षडु॒परि॑ष्टात् । द्वाद॑श॒ स-म्प॑द्यन्ते । द्वाद॑श॒ मासा᳚-स्संवँथ्स॒रः । सं॒वँ॒थ्स॒रः खलु॒ वै दे॒वाना॒-म्पूः । दे॒वाना॑मे॒व पुर॑-म्मद्ध्य॒तो व्यव॑सर्पति । तस्य॒ न कुत॑श्च॒ नोपा᳚व्या॒धो भ॑वति । भू॒ताना॒-मवे᳚ष्टी-र्जुहोति । अत्रा᳚त्र॒ वै मृ॒त्यु-र्जा॑यते । यत्र॑ यत्रै॒व मृ॒त्यु-र्जाय॑ते । तत॑ ए॒वैन॒मव॑यजते । तस्मा᳚-द्राज॒सूये॑नेजा॒न-स्सर्व॒मायु॑रेति । सर्वे॒ ह्य॑स्य मृ॒त्यवो-ऽवे᳚ष्टाः । तस्मा᳚-द्राज॒सूये॑नेजा॒नो नाभिच॑रित॒वै । प्र॒त्यगे॑न-मभिचा॒र-स्स्तृ॑णुते ॥ 45 ॥ अनुवाकं 8 - अभिषेकः श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति । दि॒द्योन्मा॑ पा॒हीत्यु॒परि॑ष्टा॒दधि॒ निद॑धाति । उ॒भ॒यत॑ ए॒वास्मै॒ शर्म॑ दधाति । अवे᳚ष्टा दन्द॒शूका॒ इति॑ क्ली॒बग्ं सीसे॑न विद्ध्यति । द॒न्द॒शूका॑-ने॒वाव॑ यजते । तस्मा᳚-त्क्ली॒ब-न्द॑न्द॒शूका॒ दग्ंशु॑काः । निर॑स्त॒-न्नमु॑चे॒-श्शिर॒ इति॑ लोहिताय॒स-न्निर॑स्यति । पा॒प्मान॑मे॒व नमु॑चि-न्नि॒रव॑दयते । प्रा॒णा आ॒त्मनः॒ पूर्वे॑-ऽभि॒षिच्या॒ इत्या॑हुः ॥ 47 ॥ सोमो॒ राजा॒ वरु॑णः । दे॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाचग्ं॑ सुवन्ता॒-न्ते ते᳚ प्रा॒णग्ं सु॑वन्ता॒मित्या॑ह । प्रा॒णाने॒वात्मनः॒ पूर्वा॑-न॒भिषि॑ञ्चति । य-द्ब्रू॒यात् । अ॒ग्नेस्त्वा॒ तेज॑सा॒ ऽभिषि॑ञ्चा॒मीति॑ । ते॒ज॒स्व्ये॑व स्या᳚त् । दु॒श्चर्मा॒ तु भ॑वेत् । सोम॑स्य त्वा द्यु॒म्नेना॒-भिषि॑ञ्चा॒मीत्या॑ह । सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः ॥ 48 ॥ स्वयै॒वैन॑-न्दे॒वत॑या॒-ऽभिषि॑ञ्चति । अ॒ग्ने-स्तेज॒सेत्या॑ह । तेज॑ ए॒वास्मि॑-न्दधाति । सूर्य॑स्य॒ वर्च॒सेत्या॑ह । वर्च॑ ए॒वास्मि॑-न्दधाति । इन्द्र॑स्ये-न्द्रि॒येणेत्या॑ह । इ॒न्द्रि॒यमे॒वास्मि॑-न्दधाति । मि॒त्रावरु॑णयो-र्वी॒र्ये॑णेत्या॑ह । वी॒र्य॑मे॒वास्मि॑-न्दधाति । म॒रुता॒मोज॒सेत्या॑ह ॥ 49 ॥ ओज॑ ए॒वास्मि॑-न्दधाति । क्ष॒त्राणा᳚-ङ्क्ष॒त्रप॑तिर॒सीत्या॑ह । क्ष॒त्राणा॑मे॒वैन॑-ङ्क्ष॒त्रप॑ति-ङ्करोति । अति॑ दि॒वस्पा॒हीत्या॑ह । अत्य॒न्या-न्पा॒हीति॒ वावैतदा॑ह । स॒माव॑वृत्रन्न-ध॒रागुदी॑ची॒-रित्या॑ह । रा॒ष्ट्रमे॒वास्मि॑-न्ध्रु॒वम॑कः । उ॒च्छेष॑णेन जुहोति । उ॒च्छेष॑णभागो॒ वै रु॒द्रः । भा॒ग॒धेये॑नै॒व रु॒द्र-न्नि॒रव॑दयते ॥ 50 ॥ उद॑म्प॒रेत्याग्नी᳚द्ध्रे जुहोति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्र-न्नि॒रव॑दयते । रुद्र॒ यत्ते॒ क्रयी॒ पर॒-न्नामेत्या॑ह । यद्वा अ॑स्य॒ क्रयी॒ पर॒-न्नाम॑ । तेन॒ वा ए॒ष हि॑नस्ति । यग्ं हि॒नस्ति॑ । तेनै॒वैनग्ं॑ स॒ह श॑मयति । तस्मै॑ हु॒तम॑सि य॒मेष्ट॑म॒सीत्या॑ह । य॒मादे॒वास्य॑ मृ॒त्युमव॑यजते ॥ 51 ॥ प्रजा॑पते॒ न त्वदे॒तान्य॒न्य इति॒ तस्यै॑ गृ॒हे जु॑हुयात् । या-ङ्का॒मये॑त रा॒ष्ट्रम॑स्यै प्र॒जा स्या॒दिति॑ । रा॒ष्ट्रमे॒वास्यै᳚ प्र॒जा भ॑वति । प॒र्ण॒-मये॑ना-द्ध्व॒र्यु-र॒भिषि॑ञ्चति । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॒न्-त्विषि॑-न्दधाति । औदु॑म्बरेण राज॒न्यः॑ । ऊर्ज॑मे॒वास्मि॑-न्न॒न्नाद्य॑-न्दधाति । आश्व॑त्थेन॒ वैश्यः॑ । विश॑मे॒वास्मि॒-न्पुष्टि॑-न्दधाति । नैय॑ग्रोधेन॒ जन्यः॑( ) । मि॒त्राण्ये॒वास्मै॑ कल्पयति । अथो॒ प्रति॑ष्ठित्यै ॥ 52 ॥ अनुवाकं 9 - स्थारोहणम्. विजयः षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैनं॑-युँनक्ति । वि॒ष्णु॒क्र॒मान्-क्र॑मते । विष्णु॑रे॒व भू॒त्वेमान् ँलो॒कान॒भिज॑यति । यः, क्ष॒त्रियः॒ प्रति॑हितः । सो᳚-ऽन्वार॑भते । रा॒ष्ट्रमे॒व भ॑वति । त्रि॒ष्टुभा॒ ऽन्वार॑भते । इ॒न्द्रि॒यं-वैँ त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व यज॑माने दधाति ॥ 54 ॥ म॒रुता᳚-म्प्रस॒वे जे॑ष॒मित्या॑ह । म॒रुद्भि॑रे॒व प्रसू॑त॒ उज्ज॑यति । आ॒प्त-म्मन॒ इत्या॑ह । यदे॒व मन॒सैफ्सी᳚त् । तदा॑पत् । रा॒ज॒न्य॑-ञ्जिनाति । अना᳚क्रान्त ए॒वाक्र॑मते । वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते । यो रा॑ज॒न्य॑-ञ्जि॒नाति॑ । सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑णेत्या॑ह ॥ 55 ॥ इ॒न्द्रि॒यमे॒व वी॒र्य॑मा॒त्मन्-ध॑त्ते । प॒शू॒ना-म्म॒न्युर॑सि॒ तवे॑व मे म॒न्युर्भू॑या॒दिति॒ वारा॑ही उपा॒नहा॒वुप॑ मुञ्चते । प॒शू॒नां-वाँ ए॒ष म॒न्युः । य-द्व॑रा॒हः । तेनै॒व प॑शू॒ना-म्म॒न्युमा॒त्म-न्ध॑त्ते । अ॒भि वा इ॒यग्ं सु॑षुवा॒ण-ङ्का॑मयते । तस्ये᳚श्व॒रेन्द्रि॒यं-वीँ॒र्य॑मादा॑तोः । वारा॑ही उपा॒नहा॒वुप॑मुञ्चते । अ॒स्या ए॒वान्तर्ध॑त्ते । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याना᳚त्त्यै ॥ 56 ॥ नमो॑ मा॒त्रे पृ॑थि॒व्या इत्या॒हाहिग्ं॑ सायै । इय॑द॒स्या-यु॑र॒स्यायु॑र्मे धे॒हीत्या॑ह । आयुरे॒वात्मन्-ध॑त्ते । ऊर्ग॒स्यूर्ज॑-म्मे धे॒हीत्या॑ह । ऊर्ज॑म॒वात्म-न्ध॑त्ते । युङ्ङ॑सि॒ वर्चो॑-ऽसि॒ वर्चो॒ मयि॑ धे॒हीत्या॑ह । वर्च॑ ए॒वात्म-न्ध॑त्ते । ए॒क॒धा ब्र॒ह्मण॒ उप॑ हरति । ए॒क॒धैव यज॑मान॒ आयु॒रूर्जं॒-वँर्चो॑ दधाति । र॒थ॒वि॒मो॒च॒नीया॑ जुहोति॒ प्रति॑ष्ठित्यै ॥ 57 ॥ त्रयो-ऽश्वा॑ भवन्ति । रथ॑श्चतु॒र्थः । तस्मा᳚-च्च॒तुर्जु॑होति । यदु॒भौ स॒हाव॒तिष्ठे॑ताम् । स॒मा॒नं-लोँ॒कमि॑याताम् । स॒ह स॑ग्रंही॒त्रा र॑थ॒वाह॑ने॒ रथ॒माद॑धाति । सु॒व॒र्गादे॒वैनं॑-लोँ॒काद॒न्तर्द॑धाति । ह॒ग्ं॒स-श्शु॑चि॒षदित्या द॑धाति । ब्रह्म॑णै॒वैन॑-मुपाव॒हर॑ति । ब्रह्म॒णा ऽऽद॑धाति । अति॑च्छन्द॒सा ऽऽद॑धाति । अति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाग्ं॑सि । सर्वे॑भिरे॒वैन॒-ञ्छन्दो॑भि॒-राद॑धाति । वर्ष्म॒ वा ए॒षा छन्द॑साम् । यदति॑च्छन्दाः । यदति॑च्छन्दसा॒ दधा॑ति । वर्ष्मै॒वैनग्ं॑ समा॒नाना᳚-ङ्करोति ॥ 58 ॥ अनुवाकं 10 - आसने समुपवेश-स्सर्वैस्सेव्यत्व-ञ्च वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः । ता ए॒वाद्याः᳚ कुरुते । क्ष॒त्रस्य॒ नाभि॑रसि क्ष॒त्रस्य॒ योनि॑-र॒सीत्य॑धीवा॒समा-स्तृ॑णाति सयोनि॒त्वाय॑ । स्यो॒नामासी॑द सु॒षदा॒मासी॒देत्या॑ह । य॒था॒ य॒जुरे॒वै तत् । मा त्वा॑ हिग्ंसी॒-न्मा मा॑ हिग्ंसी॒दित्या॒हा-हिग्ं॑सायै । निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या᳚स्वा साम्रा᳚ज्याय सु॒क्रतु॒रित्या॑ह । साम्रा᳚ज्यमे॒वैनग्ं॑ सु॒क्रतु॑-ङ्करोति । ब्रह्मा(3)न्त्वग्ं रा॑जन्-ब्र॒ह्मा-ऽसि॑ सवि॒ता-ऽसि॑ स॒त्यस॑व॒ इत्या॑ह । स॒वि॒तार॑-मे॒वैनग्ं॑ स॒त्यस॑व-ङ्करोति ॥ 60 ॥ ब्रह्मा(3)न्त्वग्ं रा॑जन्-ब्र॒ह्मा-ऽसीन्द्रो॑-ऽसि स॒त्यौजा॒ इत्या॑ह । इन्द्र॑मे॒वैनग्ं॑ स॒त्यौज॑स-ङ्करोति । ब्रह्मा(3)न्त्वग्ं रा॑जन्-ब्र॒ह्मा-ऽसि॑ मि॒त्रो॑-ऽसि सु॒शेव॒ इत्या॑ह । मि॒त्रमे॒वैनग्ं॑ सु॒शेव॑-ङ्करोति । ब्रह्मा(3)न्त्वग्ं रा॑जन्-ब्र॒ह्मा-ऽसि॒ वरु॑णो-ऽसि स॒त्यध॒र्मेत्या॑ह । वरु॑णमे॒वैनग्ं॑ स॒त्यध॑र्माण-ङ्करोति । स॒वि॒ता-ऽसि॑ स॒त्यस॑व॒ इत्या॑ह । गा॒य॒त्री-मे॒वैतेना॑भि॒व्याह॑रति । इन्द्रो॑-ऽसि स॒त्यौजा॒ इत्या॑ह । त्रि॒ष्टुभ॑-मे॒वैतेना॑भि॒-व्याह॑रति ॥ 61 ॥ मि॒त्रो॑-ऽसि सु॒शेव॒ इत्या॑ह । जग॑ती-मे॒वैतेना॑भि॒व्याह॑रति । स॒त्यमे॒ता दे॒वताः᳚ । स॒त्यमे॒तानि॒ छन्दाग्ं॑सि । स॒त्यमे॒वाव॑ रुन्धे । वरु॑णो-ऽसि स॒त्यध॒र्मेत्या॑ह । अ॒नु॒ष्टुभ॑-मे॒वैतेना॑भि॒व्याह॑रति । स॒त्या॒नृ॒ते वा अ॑नु॒ष्टुप् । स॒त्या॒नृ॒ते वरु॑णः । स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे ॥ 62 ॥ नैनग्ं॑ सत्यानृ॒ते उ॑दि॒ते हिग्ग्॑स्तः । य ए॒वं-वेँद॑ । इन्द्र॑स्य॒ वज्रो॑-ऽसि॒ वार्त्र॑घ्न॒ इति॒ स्फ्य-म्प्रय॑च्छति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒वास्मा॑ अवरप॒रग्ं र॑न्धयति । ए॒वग्ं हि तच्छ्रेयः॑ । यद॑स्मा ए॒ते रद्ध्ये॑युः । दिशो॒-ऽभ्य॑यग्ं राजा॑ ऽभू॒दिति॒ पञ्चा॒क्षान्-प्रय॑च्छति । ए॒ते वै सर्वे-ऽयाः᳚ । अप॑राजायिन-मे॒वैन॑-ङ्करोति ॥ 63 ॥ ओ॒द॒नमुद्ब्रु॑वते । प॒र॒मे॒ष्ठी वा ए॒षः । यदो॑द॒नः । प॒र॒मामे॒वैन॒ग्ग्॒ श्रिय॑-ङ्गमयति । सुश्लो॒काँ(4) सुम॑ङ्ग॒लाँ(4) सत्य॑रा॒जा(3)नित्या॑ह । आ॒शिष॑मे॒वैतामा शा᳚स्ते । शौ॒न॒-श्शे॒पमाख्या॑पयते । व॒रु॒ण॒पा॒शा-दे॒वैन॑-म्मुञ्चति । प॒र॒-श्श॒त-म्भ॑वति । श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः( ) । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । मा॒रु॒तस्य॒ चैक॑विग्ंशतिकपालस्य वैश्वदे॒व्यै चा॒मिक्षा॑या अ॒ग्नये᳚ स्विष्ट॒कृते॑ स॒मव॑द्यति । दे॒वता॑भिरे॒वैन॑-मुभ॒यतः॒ परि॑गृह्णाति । अ॒पा-न्नप्त्रे॒ स्वाहो॒र्जो नप्त्रे॒ स्वाहा॒-ऽग्नये॑ गृ॒हप॑तये॒ स्वाहेति॑ ति॒स्र आहु॑ती-र्जुहोति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति ॥ 64 ॥ (ए॒त-द्ब्रा᳚ह्मणानि - धा॒त्रे - रा॒त्निनां᳚ - देवसु॒वा - म॒र्थेतो॒ - देवी॒--र् दिशः॒ - सोम॒स्ये - न्द्र॑स्य - मि॒त्रो दश॑) (ए॒त-द्ब्रा᳚ह्मणानि - वैष्ण॒व-न्त्रि॑कपा॒ल - मन्नं॒-वैँ पू॒षा - वाशा॒-स्स्थेत्या॑ह॒ - दिशो॒ व्यास्था॑पय॒ - त्युद॑म्प॒रेत्य॒ - ब्रह्मा(3)न्त्वग्ं रा॑ज॒-ञ्चतु॑ष्षष्टिः (ए॒त-द्ब्रा᳚ह्मणानि॒ - प्रति॑ तिष्ठति) ॥ हरिः॑ ओम् ॥ ॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके सप्तमः प्रपाठक-स्समाप्तः ॥
|